2025-12-16 05:09:00 by akprasad
This page has been fully proofread once and needs a second look.
शिवस्तवराजः
प्रथमः शशिवदनावर्गः
अमृतमयूखं मुकुटमनर्घम् ।
जयति दधानो जगदधिराजः ॥१॥
सकलबुधौघे विफलविधाने ।
असति शरण्ये मतिमतिगण्ये ॥२॥
दुरितविसारप्रतमसि लोके ।
ऋषिकुलजानां सदसि सशोके ॥ ३ ॥
अतिदुरदृष्टान्नरनियुतेषु ।
अपि मितमत्तुं धनरहितेषु ॥ ४ ॥
उदितविरोधास्वयुतभिदासु ।
चतसृषु जातिष्वबलतमासु ॥५॥
मुहुरपि लोले क्षितिसुरशीले ।
अजगणकल्पे भुजभवसङ्गेघे ॥ ६॥
चतुरविरोधिव्रजहृतसाराम् ।
अविरतनेत्रस्रुतजलधाराम् ॥ ७ ॥
प्रथमः शशिवदनावर्गः
अमृतमयूखं मुकुटमनर्घम् ।
जयति दधानो जगदधिराजः ॥१॥
सकलबुधौघे विफलविधाने ।
असति शरण्ये मतिमतिगण्ये ॥२॥
दुरितविसारप्रतमसि लोके ।
ऋषिकुलजानां सदसि सशोके ॥ ३ ॥
अतिदुरदृष्टान्नरनियुतेषु ।
अपि मितमत्तुं धनरहितेषु ॥ ४ ॥
उदितविरोधास्वयुतभिदासु ।
चतसृषु जातिष्वबलतमासु ॥५॥
मुहुरपि लोले क्षितिसुरशीले ।
अजगणकल्पे भुजभवसङ्
चतुरविरोधिव्रजहृतसाराम् ।
अविरतनेत्रस्रुतजलधाराम् ॥ ७ ॥