2026-01-24 06:01:14 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore lang="sa">स्तोत्रग्रन्थमाला - तृतीयो भागः
</ignore>
<verse lang="sa">किं यागैरतिदारुणेन तपसा किं वा किमभ्यर्चनैः
एका लोकहितङ्करी विजयते मुक्तेरुपायः परः ।
कामारे करुणानिधे पशुपते भूतेश गौरीपते
शम्भो शङ्कर चन्द्रचूड जगतां नाथेति नामावली ॥ १०० ॥
</verse>
<ignore lang="sa">२०
</ignore>
<trailer lang="sa">॥ इति श्रीभगवन्महर्षिरमणान्तेवासिनो वासिष्ठस्य नरसिंहसूनोः
गणपतेः कृतिः शिवशतकं समाप्तम् ॥
</trailer>
</page>