2026-01-24 05:52:15 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore lang="sa">६
</ignore>
<ignore lang="sa">स्तोत्रग्रन्थमाला - तृतीयो भागः
</ignore>
<verse lang="sa">विशदहसिते पूर्णा शान्तिः सुधाकरसोदरे
स्थिरपृथुलयोः पूर्णा शक्तिर्दृशोरतुलार्चिषोः ।
हृदयकमले नित्या निष्ठा बहिश्च सरत्प्रभे
रमणभगवन् को वा मौनी समस्तव भूतले ॥ ३७ ॥
</verse>
<verse lang="sa">देवी शक्तिरियं दृशोः श्रितजनध्वान्तक्षयाधायिनी
देवी श्रीरियमम्बुजाक्षमहिषी वक्त्रे सहस्रच्छदे ।
देवी ब्रह्मवधूरियं विजयते व्याहारगूढा परा
विश्वाचार्य महानुभाव रमण त्वां स्तौतु कः प्राकृतः ॥ ३८ ॥
</verse>
<verse lang="sa">सोऽहं जातो रमणभगवन् पादयोस्ते दविष्ठो
यद्यप्यस्मिन्महति समये शक्तिलास्ये प्रवृत्ते ।
सूर्यस्येव ज्वलितमहसो दूरगां नाथ शक्तिं
विश्वस्याग्य्रां तव मम मनो वीतदुःखं तथापि ॥ ३९॥
</verse>
<verse lang="sa">तद्भागधेयमसमानमनेकमौनि-
वासार्जितं क्षितिभृतः खलु लोहितस्य ।
अङ्गीचकार भगवान् रमणो महर्षि-
रन्येषु सत्सु यदिमं बहुषु स्थलेषु ॥ ४० ॥
</verse>
<verse lang="sa">शान्तिर्नितान्तमधिका परमास्य शक्ति-
र्वैराग्यमद्भुततमं करुणा तु सान्द्रा ।
ज्ञानं निरस्तकुहनं मधुरं च वृत्तं
नृ
नॄणां निदर्शनमयं रमणो महर्षिः ॥ ४१ ॥
</verse>
<verse lang="sa">नारसिंहिर्गणपतिर्वासिष्ठो रमणं गुरुम् ।
चत्वारिंशन्मितैः पद्यैः स्कन्दांशं स्तुतवानृषिम् ॥ ४२ ॥
</verse>
</page>