2026-01-24 05:49:26 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore lang="sa">श्रीरमणचत्वारिंशत्
</ignore>
<verse lang="sa">तव तनुर्ज्वलत्यनघ विद्युता ।
तव दृगातता लसति भास्वता ॥ ३० ॥
</verse>
<verse lang="sa">कबलितं मनस्तव विभो हृदा ।
त्वमसि सन्ततं विलसितो मुदा ॥ ३१ ॥
</verse>
<verse lang="sa">भुवनभूपतेर्भगवतः कृते ।
भवसि पाचको यमवतां पते ॥ ३२ ॥
</verse>
<verse lang="sa">नरपशूनिमानहमि ताडयन् ।
परशिवौदनं वितनुषे पचन् ॥ ३३ ॥
</verse>
<verse lang="sa">तिमिराणि न केवलं वचोभिः
करुणापाङ्गविलोकितैश्च नृणाम् ।
हृदये प्रसरन्ति मर्दयन्तं
भगवन्तं रमणं गुरुं नमामि ॥ ३४॥
</verse>
<verse lang="sa">भवजलनिधिं गाहं गाहं चिरादलसालसान्
पदजलरुहद्वन्द्वद्वीपं श्रितांस्तव सम्प्रति ।
रमणभगवन् कल्याणानां निकेतन पाहि नः
सदय दयया सिक्तैर्भक्तानपाङ्गविलोकितैः ॥ ३५ ॥
</verse>
<verse lang="sa">यदि न जननी स्तन्यं दद्याच्छिशोर्बत का गतिः
यदि पशुपतिः क्रोधं कुर्यात्पशोरवनं कुतः ।
यदि पदजुषामाचार्य त्वं निहंसि न संशयं
भ्रमशतपराभूता एते तरन्तु भवं कथम् ॥ ३६॥
</verse>
<ignore lang="sa">५
</ignore>
</page>