2026-01-24 05:47:20 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore lang="sa">स्तोत्रग्रन्थमाला - तृतीयो भागः
</ignore>
<verse lang="sa">जन्मस्थानमवाप्य गुप्तमहमो यो भेदमाधूतवान्
भूतानां चरतां पृथग्विधधियामात्मैव यो भासते ।
देहं सर्वमिदं जगच्च विभवादाक्रम्य यः प्रोल्लस-
त्येकस्तं गुरुमूर्तिमानमत रे लम्बोदरभ्रातरम् ॥ २२॥
</verse>
<ignore lang="sa">४
</ignore>
<verse lang="sa">अन्तर्यश्च बहिर्विधूततिमिरं ज्योतिर्मयं शाश्वतं
स्थानं प्राप्य विराजते विनमतामज्ञानमुन्मूलयन् ।
पश्यन्विश्वमपीदमुल्लसति यो विश्वस्य पारे पर-
स्तस्मै श्रीरमणाय लोकगुरवे शोकस्य हन्त्रे नमः ॥ २३ ॥
</verse>
<verse lang="sa">प्रसरतादितः शुभविलोकितम् ।
रमण ते सकृत्फलतु मे कृतम् ॥ २४ ॥
</verse>
<verse lang="sa">रमण जन्मिनामयि भवान् गुरुः ।
अभिद आशयस्तव महानुरुः ॥ २५ ॥
</verse>
<verse lang="sa">जगदहं परः स्फुरति मे त्रयम् ।
सदभिदं गिरा तव विसंशयम् ॥ २६॥
</verse>
<verse lang="sa">त्वदुपदेशतो गलति संविदा ।
मयि निरन्यया सदहमोभिंर्भिदा ॥ २७ ॥
</verse>
<verse lang="sa">अहमि योऽन्तरस्तममलं हृदि ।
अनुभवेम भोस्तव कृपा यदि ॥ २८ ॥
</verse>
<verse lang="sa">न करुणा गुणस्तव विदां पते ।
हृदयतेजसः सहजभैवते ॥ २९ ॥
</verse>
</page>
<ignore lang="sa">स्तोत्रग्रन्थमाला - तृतीयो भागः
<verse lang="sa">जन्मस्थानमवाप्य गुप्तमहमो यो भेदमाधूतवान्
भूतानां चरतां पृथग्विधधियामात्मैव यो भासते ।
देहं सर्वमिदं जगच्च विभवादाक्रम्य यः प्रोल्लस-
त्येकस्तं गुरुमूर्तिमानमत रे लम्बोदरभ्रातरम् ॥ २२॥
<ignore lang="sa">४
<verse lang="sa">अन्तर्यश्च बहिर्विधूततिमिरं ज्योतिर्मयं शाश्वतं
स्थानं प्राप्य विराजते विनमतामज्ञानमुन्मूलयन् ।
पश्यन्विश्वमपीदमुल्लसति यो विश्वस्य पारे पर-
स्तस्मै श्रीरमणाय लोकगुरवे शोकस्य हन्त्रे नमः ॥ २३ ॥
<verse lang="sa">प्रसरतादितः शुभविलोकितम् ।
रमण ते सकृत्फलतु मे कृतम् ॥ २४ ॥
<verse lang="sa">रमण जन्मिनामयि भवान् गुरुः ।
अभिद आशयस्तव महानुरुः ॥ २५ ॥
<verse lang="sa">जगदहं परः स्फुरति मे त्रयम् ।
सदभिदं गिरा तव विसंशयम् ॥ २६॥
<verse lang="sa">त्वदुपदेशतो गलति संविदा ।
मयि निरन्यया सदहमो