This page has been fully proofread once and needs a second look.

<page>
<ignore lang="sa">
श्रीरमणचत्वारिंशत्
 
जातक्षितौ
 
</ignore>
<verse lang="sa">
सेवन्ते रमणाभिधानमनुजक्षेमाय
जातक्षितौ
द्वित्रास्त्वां गिरिजाङ्पीठनिलयं जानन्ति देवं गुहम् ॥ १६ ॥
 
</verse>
<verse lang="sa">
ओङ्कारार्थमुपादिशो भगवते वाणीमनोहारिणे

तातायाप्युपदेष्टुमुद्यतमभूत् किञ्चित्त्वदीयं मुखम् ।

ज्येष्ठस्याद्य सहोदरस्य गुरुतां प्राप्तोऽसि धीगौरवात्

सुब्रह्मण्य कनिष्ठतामपि गतः सर्वाधिकस्त्वं गुणैः ॥१७॥
 
</verse>
<verse lang="sa">
यत्पूर्वं श्रुतिपारदर्शिधिषणो द्वैपायनोऽध्यारुहत्

पश्चाद्बोधकलाविधूततिमिरः शङ्कापहश्शङ्करः ।

तत्सम्प्रत्यखिलावनीतलजुषामाचार्यसिंहासनं

देव त्वां प्रतिवीक्षते नरतनो गीर्वाणसेनापते ॥ १८ ॥
 
</verse>
<verse lang="sa">
धर्मे नाशमुपागते त्रिभुवने पर्याकुले पापतः

प्रज्ञाने परितो गिरां पथि मुधा सञ्चार्यमाणे जनैः ।

सद्भावे परमेश्वरस्य च पितुः सन्देहडोलां गते

द्वीपः कैतवमर्त्यकेकितुरग त्वामन्तरा कस्सताम् ॥ १९ ॥
 
</verse>
<verse lang="sa">
वैराग्यं तव वित्तमस्तु करुणां शक्नोषि हातुं कथं

दूष्यस्तेऽस्तु समुद्यमः पितृपदध्यानं च किं तादृशम् ।

कामस्तेऽस्तु विगर्हितो विनमतां रक्षा च किं गर्हिता

स्कन्दच्छद्ममनुष्य किं नु समयं कञ्चित्समुद्वी क्षसे ॥ २० ॥
 
</verse>
<verse lang="sa">
दूरं याहि कुवाद धर्मवृष ते नेतः परं पङ्गुता

दुर्भ्रान्ते भुवनं जहीहि परितो वर्धस्व संसत्सताम् ।

सोदर्येण समन्वितो भुवमिमां प्राप्तो गुरुग्रामणीः

शूरान्तःपुरनेत्रविभ्रमहरो देवो भवानीसुतः ॥२१॥
 
</verse>
</page>