2026-01-24 05:44:42 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore lang="sa">श्रीरमणचत्वारिंशत्
जातक्षितौ
</ignore>
<verse lang="sa">सेवन्ते रमणाभिधानमनुजक्षेमाय
जातक्षितौ
द्वित्रास्त्वां गिरिजाङ्गकपीठनिलयं जानन्ति देवं गुहम् ॥ १६ ॥
</verse>
<verse lang="sa">ओङ्कारार्थमुपादिशो भगवते वाणीमनोहारिणे
तातायाप्युपदेष्टुमुद्यतमभूत् किञ्चित्त्वदीयं मुखम् ।
ज्येष्ठस्याद्य सहोदरस्य गुरुतां प्राप्तोऽसि धीगौरवात्
सुब्रह्मण्य कनिष्ठतामपि गतः सर्वाधिकस्त्वं गुणैः ॥१७॥
</verse>
<verse lang="sa">यत्पूर्वं श्रुतिपारदर्शिधिषणो द्वैपायनोऽध्यारुहत्
पश्चाद्बोधकलाविधूततिमिरः शङ्कापहश्शङ्करः ।
तत्सम्प्रत्यखिलावनीतलजुषामाचार्यसिंहासनं
देव त्वां प्रतिवीक्षते नरतनो गीर्वाणसेनापते ॥ १८ ॥
</verse>
<verse lang="sa">धर्मे नाशमुपागते त्रिभुवने पर्याकुले पापतः
प्रज्ञाने परितो गिरां पथि मुधा सञ्चार्यमाणे जनैः ।
सद्भावे परमेश्वरस्य च पितुः सन्देहडोलां गते
द्वीपः कैतवमर्त्यकेकितुरग त्वामन्तरा कस्सताम् ॥ १९ ॥
</verse>
<verse lang="sa">वैराग्यं तव वित्तमस्तु करुणां शक्नोषि हातुं कथं
दूष्यस्तेऽस्तु समुद्यमः पितृपदध्यानं च किं तादृशम् ।
कामस्तेऽस्तु विगर्हितो विनमतां रक्षा च किं गर्हिता
स्कन्दच्छद्ममनुष्य किं नु समयं कञ्चित्समुद्वी क्षसे ॥ २० ॥
</verse>
<verse lang="sa">दूरं याहि कुवाद धर्मवृष ते नेतः परं पङ्गुता
दुर्भ्रान्ते भुवनं जहीहि परितो वर्धस्व संसत्सताम् ।
सोदर्येण समन्वितो भुवमिमां प्राप्तो गुरुग्रामणीः
शूरान्तःपुरनेत्रविभ्रमहरो देवो भवानीसुतः ॥२१॥
</verse>
</page>
<ignore lang="sa">श्रीरमणचत्वारिंशत्
जातक्षितौ
<verse lang="sa">सेवन्ते रमणाभिधानमनुजक्षेमाय
द्वित्रास्त्वां गिरिजाङ्
<verse lang="sa">ओङ्कारार्थमुपादिशो भगवते वाणीमनोहारिणे
तातायाप्युपदेष्टुमुद्यतमभूत् किञ्चित्त्वदीयं मुखम् ।
ज्येष्ठस्याद्य सहोदरस्य गुरुतां प्राप्तोऽसि धीगौरवात्
सुब्रह्मण्य कनिष्ठतामपि गतः सर्वाधिकस्त्वं गुणैः ॥१७॥
<verse lang="sa">यत्पूर्वं श्रुतिपारदर्शिधिषणो द्वैपायनोऽध्यारुहत्
पश्चाद्बोधकलाविधूततिमिरः शङ्कापहश्शङ्करः ।
तत्सम्प्रत्यखिलावनीतलजुषामाचार्यसिंहासनं
देव त्वां प्रतिवीक्षते नरतनो गीर्वाणसेनापते ॥ १८ ॥
<verse lang="sa">धर्मे नाशमुपागते त्रिभुवने पर्याकुले पापतः
प्रज्ञाने परितो गिरां पथि मुधा सञ्चार्यमाणे जनैः ।
सद्भावे परमेश्वरस्य च पितुः सन्देहडोलां गते
द्वीपः कैतवमर्त्यकेकितुरग त्वामन्तरा कस्सताम् ॥ १९ ॥
<verse lang="sa">वैराग्यं तव वित्तमस्तु करुणां शक्नोषि हातुं कथं
दूष्यस्तेऽस्तु समुद्यमः पितृपदध्यानं च किं तादृशम् ।
कामस्तेऽस्तु विगर्हितो विनमतां रक्षा च किं गर्हिता
स्कन्दच्छद्ममनुष्य किं नु समयं कञ्चित्समुद्वी