2026-01-24 05:40:44 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore lang="sa">स्तोत्रग्रन्थमाला - तृतीयो भागः
</ignore>
<verse lang="sa">यतिनामधिपेन कुशाग्रलसन्मतिना धृतिना शितचित्तभुवा ।
लहरींप्रमदस्य सदावहता निहतान्तरशात्रवसंहतिना ॥ ९ ॥
२
</verse>
<verse lang="sa">भगवत्पदमन्यजनासुलभं स्वगुणैरधिगत्य परं जयता ।
ममतारहितेन हितेन सतां निहितेन गणप्रभुणा हृदये ॥ १० ॥
</verse>
<verse lang="sa">धरणीधरजाङ्कमपि त्यजता धरणीतलवासितमोधुतये ।
नरवेषभृता नगरन्ध्रकृता रमणेन सनाथमिदं भुवनम् ॥ ११ ॥
</verse>
<verse lang="sa">परदेशिनेव धवलेन वाससः शकलेन वेष्टितकटीविशोभिना ।
वरदेशिकेन नरवेषधारिणा शिखिवाहनेन गुरुमज्जगद्भवेत् ॥ १२ ॥
</verse>
<verse lang="sa">अतीतगुणजालाय नैष्ठिकब्रह्मचारिणे ।
नमो मायामनुष्याय गुरवे तारकारये ॥ १३ ॥
</verse>
<verse lang="sa">यानायात्र न केकिनां कुलपतिः स्नानाय न स्वर्णदी
पानाय क्षितिभृन्महेन्द्रदुहितुर्नस्तन्यदुग्धामृतम् ।
गानाय प्रमथेश्वरास्सवयसो नैवात्र वीणाभृतो
वासं शोणगिरौ करोषि भगवन् क्रौञ्चाद्रिभेत्तः कुतः ॥ १४ ॥
</verse>
<verse lang="sa">एकं वक्त्रमुमाङ्कवासविरहः पाणौ न शक्त्यायुधं
मर्त्यत्वं न पताकिनी च पृतना पार्श्वद्वये नाकिनाम् ।
वेषोऽलं पुनरेष मुग्धनयनप्रच्छादने भूजुषा-
मन्तर्धानमुपैषि तारकरिपो क्व स्तन्यदायादतः ॥१५॥
</verse>
<verse lang="sa" merge-next="true">केचिद्योगविदां पुरःसर इति प्रज्ञानिबुद्धध्या परे
साधुः कश्चिदितीतरे गुरुधिया केऽप्यङङ्घ्रिपद्मं तव ।
</verse>
</page>
<ignore lang="sa">स्तोत्रग्रन्थमाला - तृतीयो भागः
<verse lang="sa">यतिनामधिपेन कुशाग्रलसन्मतिना धृतिना शितचित्तभुवा ।
लहरींप्रमदस्य सदावहता निहतान्तरशात्रवसंहतिना ॥ ९ ॥
२
<verse lang="sa">भगवत्पदमन्यजनासुलभं स्वगुणैरधिगत्य परं जयता ।
ममतारहितेन हितेन सतां निहितेन गणप्रभुणा हृदये ॥ १० ॥
<verse lang="sa">धरणीधरजाङ्कमपि त्यजता धरणीतलवासितमोधुतये ।
नरवेषभृता नगरन्ध्रकृता रमणेन सनाथमिदं भुवनम् ॥ ११ ॥
<verse lang="sa">परदेशिनेव धवलेन वाससः शकलेन वेष्टितकटीविशोभिना ।
वरदेशिकेन नरवेषधारिणा शिखिवाहनेन गुरुमज्जगद्भवेत् ॥ १२ ॥
<verse lang="sa">अतीतगुणजालाय नैष्ठिकब्रह्मचारिणे ।
नमो मायामनुष्याय गुरवे तारकारये ॥ १३ ॥
<verse lang="sa">यानायात्र न केकिनां कुलपतिः स्नानाय न स्वर्णदी
पानाय क्षितिभृन्महेन्द्रदुहितुर्नस्तन्यदुग्धामृतम् ।
गानाय प्रमथेश्वरास्सवयसो नैवात्र वीणाभृतो
वासं शोणगिरौ करोषि भगवन् क्रौञ्चाद्रिभेत्तः कुतः ॥ १४ ॥
<verse lang="sa">एकं वक्त्रमुमाङ्कवासविरहः पाणौ न शक्त्यायुधं
मर्त्यत्वं न पताकिनी च पृतना पार्श्वद्वये नाकिनाम् ।
वेषोऽलं पुनरेष मुग्धनयनप्रच्छादने भूजुषा-
मन्तर्धानमुपैषि तारकरिपो क्व स्तन्यदायादतः ॥१५॥
<verse lang="sa" merge-next="true">केचिद्योगविदां पुरःसर इति प्रज्ञानिबुद्
साधुः कश्चिदितीतरे गुरुधिया केऽप्य
</page>