This page has been fully proofread once and needs a second look.

<page>
<ignore lang="sa">
श्विगीतम्
 
</ignore>
<verse lang="sa">
अभ्रे राजति यो बिभ्राणो भुवनम् ।

शुभ्रागे च विभुः सभ्राजिष्णुयशाः ॥ १८ ॥
 
</verse>
<verse lang="sa">
गौरोऽयं गगने शुक्लः शुभ्रनगे ।

एकेयं तु भिदा मायारूपकृता ॥१९॥
 
</verse>
<verse lang="sa">
रुद्रः शुक्लगिरावग्निर्वा स पुमान् ।

ईशो व्योम्नि लसन्निन्द्रो वा सुमहान् ॥ २० ॥
 
</verse>
<verse lang="sa">
हैमं भूतपते शुक्लं वा शिव ते ।

रूपं यः स्मरति प्राज्ञोऽयं जयति ॥ २१ ॥
 
</verse>
<verse lang="sa">
अभ्रे ये मरुतः शुभ्रे भूभृति ते ।

क्लेशानां दमना ईशान प्रमथाः ॥ २२ ॥
 
</verse>
<verse lang="sa">
दासोऽहं मरुतः पातारो जगतः ।

भूता वा भवतां स्तोता पापहृताम् ॥ २३ ॥
 
</verse>
<verse lang="sa">
पायान्मामभितस्तिष्ठन्तं तपसि ।

बिभ्राणः स शिवः कारुण्यं मनसि ॥ २४ ॥
 
</verse>
<verse lang="sa">
गातारं गणपं गायत्रैर्मुकुलैः ।
 

ईशो यो जयतात्सर्वैश्चापि बलैः ॥ २५ ॥
 
</verse>
<ignore lang="sa">
१२७
 
</ignore>
<trailer lang="sa">
॥ इति श्रीभगवन्महर्षिरमणान्तेवासिनो वासिष्ठस्य नरसिंहसूनो-

र्गणपतेः कृतिः शिवगीतं समाप्तम् ॥
 
</trailer>
</page>