2026-01-23 15:48:22 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore lang="sa">१२६
</ignore>
<ignore lang="sa">स्तोत्रग्रन्थमाला - तृतीयो भागः
</ignore>
<verse lang="sa">दृश्ये विश्वतनुं पारे निर्वपुषम् ।
गायामः परमं भञक्तज्ञानपुषम् ॥९॥
</verse>
<verse lang="sa">अष्टौ ते तनवः त्रातर्विश्वमिदम्
<fix> ।</fix>
वक्त्येतद्भवते माहात्म्यं विशदम् ॥ १० ॥
</verse>
<verse lang="sa">सर्वेषां जगतां माता देवनुता ।
ईशान त्रिगुणा माया ते दयिता ॥ ११ ॥
</verse>
<verse lang="sa">शक्त्यासौ भुवनं सृष्ट्वा पातुमिदम् ।
हैमं दिव्यवपुर्जग्राहाभयदम् ॥१२॥
</verse>
<verse lang="sa">सूक्ष्मं स्यादगुणं हैमं स्यात्सगुणम् ।
देवस्यादिविभोरेवं द्वे वपुषी ॥ १३ ॥
</verse>
<verse lang="sa">भाषामात्रवपुः पूर्वं स्यादवपुः ।
अन्यद्बुद्धिमतां ध्यानग्राह्यवपुः ॥१४॥
</verse>
<verse lang="sa">बिभ्रद्भाति जगत्साम्राज्यं गगने ।
हैमोऽसौ पुरुषः सिद्धानां भुवने ॥१५॥
</verse>
<verse lang="sa">इन्द्रो वेदविदां भाषायां सपरः ।
नाथस्तन्त्रविदां व्याहारेषु हरः ॥ १६ ॥
</verse>
<verse lang="sa">प्रत्युष्णांशुतया तन्वा बिम्बितया ।
प्रत्यण्डं प्रभुतां धत्ते सोऽद्भुतया ॥ १७ ॥
</verse>
</page>