This page has been fully proofread once and needs a second look.

<page>
<title lang="sa">
शिवगीतम्
 
</title>
<verse n="1" lang="sa">
उद्दीप्यत् किरणं चित्रं श्रीशरणम् ।

कामारेश्चरणं भूयाञन्नः शरणम् ॥ १ ॥
 
</verse>
<verse lang="sa">
सत्यः कोऽपि शिवो नित्यः पालयिता ।

मध्ये यो जगतां स ध्येयः सततम् ॥ २॥
 
</verse>
<verse lang="sa">
नास्त्येतस्य वपुर्वस्त्ये क्वापि न सः ।

मत्याऽभाणि बुधैः सत्याधारपदम् ॥३॥
 
</verse>
<verse lang="sa">
उक्तं सूक्ष्मतमं द्वेधैकं परमम् ।
 

रूपं रूपतया किं च स्थानतया ॥ ४॥
 
</verse>
<verse lang="sa">
सोऽणुः स्यादणुतो धातैषां जगताम् ।

तच्छक्तिर्महतो विज्ञेया महती ॥५॥
 
</verse>
<verse lang="sa">
गत्वा तिष्ठति ना यत्स्वं हार्दपदम् ।

अग्राह्यस्य विभोस्तस्य ध्यानमिदम् ॥ ६ ॥
 
</verse>
<verse lang="sa">
आत्मानं जगतां राजानं पितरम् ।

आचार्यं च मुहुः सङ्गायामि हरम् ॥ ७ ॥
 
</verse>
<verse lang="sa">
दीप्यन्तं दिवि तं लोके सर्वभुजम् ।

भूतेशं प्रणुमो मायाकान्तमजम् ॥ ८॥
 
</verse>
</page>