This page has been fully proofread once and needs a second look.

<page>
<title lang="sa">रामगीता</title>
<verse n="1" lang="sa">निर्गुण निष्कल नित्य <error>निरुन</error><fix>निरञ्जन</fix> निर्गतमत्सर गम्य दयालो ।
संसारेऽस्मिन्निर्गतसारे पाहि विपारे दशवदनारे ॥ १ ॥</verse>
<verse lang="sa">कोऽयं पुत्रः केयं जाया माया सेयं मर्दय रागम् ।
सर्वसमत्वं सर्वहितत्वं सत्सङ्गित्वं देहि विभो मे ॥ २ ॥</verse>
<verse lang="sa">विश्वारम्भं विष्णोर्नाम्नामस्तु सहस्रं सकलस्तुत्यम् ।
नाम तु &quot;रामे&quot; त्यमलमिदं ते तारकमृषयः परिभाषन्ते ॥३॥</verse>
<verse lang="sa">सीताकामिन्निह भीतानां चरणं शरणं तव यातानाम् ।
जननक्लेशं मरणक्लेशं नाशय गमनागमनक्लेशम् ॥ ४॥</verse>
<verse lang="sa">चतुरास्यस्त्वञ्चक्रधरस्त्वं प्रमथेशस्त्वं परमात्मा त्वम् ।
सनकप्रभृतिस्तुतगुणमेतद् व्यूहचतुष्कं बहुकीर्ते ते ॥५॥</verse>
<verse lang="sa">नास्ति वपुस्ते नास्ति तवाख्या नास्ति च कर्म स्वस्तिद विष्णो ।
मायाकल्पितमिदमखिलं ते रूपं कर्म च नाम च विविधम् ॥ ६॥</verse>
<verse lang="sa">तत्त्वसमूहादुपरि लसन्तं पुरुषं साङख्याः प्रवदन्ति त्वाम् ।
दशशतपत्रे दशमुखशत्रो योगविदस्त्वामालोकन्ते ॥७॥</verse>
<verse lang="sa">जैमिनिमुख्याः कर्मश्रौतं देवपते ते वैभवमाहुः ।
वेदान्ते ये निष्ठितमतयः ते प्राहुस्त्वामेकमभेदम् ॥ ८ ॥</verse>
</page>