This page has been fully proofread once and needs a second look.

<page>
<title lang="sa">श्रीयोगाञ्जनेयपञ्चरत्नम्</title>
<verse n="1" lang="sa">नरसिंहपदाम्भोजभ्रमरायितमानसम् ।
योगयुक्तं हनूमन्तं घटिकाद्रिगतं भजे ॥१॥</verse>
<verse lang="sa">एष हत्वा निशाटानां कोटीर्वीरवरः पुरा ।
अधुना दृश्यते योगी नरसिंहपदान्तिके ॥ २ ॥</verse>
<verse lang="sa">सत्यं वद महावीर कुत्र ते रमते मनः ।
नृवेषे वा हरौ किंस्विन्नृसिंहतनुधारिणि ॥ ३ ॥</verse>
<verse lang="sa">विचिन्तयन्निवाभेदं श्रीरामनरसिंहयोः ।
योगयुक्तो मरुत्सूनुः घटिकाद्रौ प्रदृश्यते ॥४॥</verse>
<verse lang="sa">यस्मिन्मनः पथं याते न जनस्य विपत्पुनः ।
तं भजे मरुतः पुत्रं योगिनं वीरकुञ्जरम् ॥ ५॥</verse>
<trailer lang="sa">॥ श्रीयोगाञ्जनेयपञ्चरत्नं समाप्तम् ॥</trailer>
</page>