2026-01-24 07:06:33 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<title lang="sa">श्रीयोगाञ्जनेयपञ्चरत्नम्
</title>
<verse lang="sa">नरसिंहपदाम्भोजभ्रमरायितमानसम् ।
योगयुक्तं हनूमन्तं घटिकाद्रिगतं भजे ॥१॥
</verse>
<verse lang="sa">एष हत्वा निशाटानां कोटीर्वीरवरः पुरा ।
अधुना दृश्यते योगी नरसिंहपदान्तिके ॥ २ ॥
</verse>
<verse lang="sa">सत्यं वद महावीर कुत्र ते रमते मनः ।
नृवेषे वा हरौ किंस्विन्नृसिंहतनुधारिणि ॥ ३ ॥
</verse>
<verse lang="sa">विचिन्तयन्निवाभेदं श्रीरामनरसिंहयोः ।
योगयुक्तो मरुत्सूनुः घटिकाद्रौ प्रदृश्यते ॥४॥
</verse>
<verse lang="sa">यस्मिन्मनः पथं याते न जनस्य विपत्पुनः ।
तं भजे मरुतः पुत्रं योगिनं वीरकुञ्जरम् ॥ ५॥
</verse>
<trailer lang="sa">॥ श्रीयोगाञ्जनेयपञ्चरत्नं समाप्तम् ॥
</trailer>
</page>