This page has been fully proofread once and needs a second look.

<page>
<title lang="sa">
श्रीपवनाष्टकम्
 
</title>
<heading lang="sa">
पूर्वचतुष्कम्
 
</heading>
<verse n="1" lang="sa">
प्राणं प्रपञ्चस्य समीरमीडे

नभः समन्तादपि गाहमानम् ।

स एष मे स स्तुतिमस्तु वाचं

पितेव कन्यां परिरभ्य हृष्टः ॥ १ ॥
 
</verse>
<verse lang="sa">
विश्वोपकाराय विभोर्निदेशा-

दहर्निशं गन्धवह प्रयासि ।

श्रान्तोऽसि मन्ये पिब मे वचांसि

सुधां जनस्तक्रमिवाध्वखिन्नः ॥ २ ॥
 
</verse>
<verse lang="sa">
कन्यामिवास्मभ्यमुदारशीलां

मनोरमां सम्प्रददौ गिरं यः ।

तां वायवे सम्प्रति दर्शयामो

विवर्धितां साधु विभूषितां च ॥ ३ ॥
 
</verse>
<verse lang="sa">
सत्यं दुकूलं परिदेहि वाणि

विधाय दूरे वितथं कुचेलम् ।

मात्वज्जुगुप्सां गगनस्य नाथः

कार्षीन्निजं पार्श्वमुपागतायाः ॥४॥
 
</verse>
</page>