2026-01-24 06:58:31 by akprasad
This page has not been fully proofread.
<page>
<title lang="sa">इन्द्रसप्तकम्
</title>
<verse lang="sa">यदि निर्विबन्धपदवी महागुहा
यदि तत्र मूलशुचिशक्तिनिर्झरी ।
यदि देवराजकरुणोन्मुखं मनो
न किमप्यसाध्यमिह देहधारिणाम् ॥ १॥
</verse>
<verse lang="sa">नरलोकदुर्विदबलस्थलाकृते-
र्मरुतां नृपस्य कथमुच्यतां कथा ।
बहुवारमार्यसमितिष्वितः
<error>__</error>
करुणैव केवलममुष्य याच्यते ॥ २ ॥
</verse>
<verse lang="sa">त्वयि हेलयेतरमतानुयायिभि
-
र्दुरितं यदिन्द्र मम पूर्वजैश्चितम् ।
पतयालु मे शिरसि पादसेविनो
विनिवारयस्व फलमस्य दारुणम् ॥३॥
</verse>
<verse lang="sa">कविता निरङकुशतया प्रवर्तते
मम लोकवृत्तपरिकीर्तनेषु या ।
गुणवर्णनाय तव सा समुद्यता
मघवन् प्रपश्यति दिशं न कामपि ॥ ४ ॥
</verse>
</page>
<title lang="sa">इन्द्रसप्तकम्
<verse lang="sa">यदि निर्विबन्धपदवी महागुहा
यदि तत्र मूलशुचिशक्तिनिर्झरी ।
यदि देवराजकरुणोन्मुखं मनो
न किमप्यसाध्यमिह देहधारिणाम् ॥ १॥
<verse lang="sa">नरलोकदुर्विदबलस्थलाकृते-
र्मरुतां नृपस्य कथमुच्यतां कथा ।
बहुवारमार्यसमितिष्वितः
करुणैव केवलममुष्य याच्यते ॥ २ ॥
<verse lang="sa">त्वयि हेलयेतरमतानुयायिभि
र्दुरितं यदिन्द्र मम पूर्वजैश्चितम् ।
पतयालु मे शिरसि पादसेविनो
विनिवारयस्व फलमस्य दारुणम् ॥३॥
<verse lang="sa">कविता निरङकुशतया प्रवर्तते
मम लोकवृत्तपरिकीर्तनेषु या ।
गुणवर्णनाय तव सा समुद्यता
मघवन् प्रपश्यति दिशं न कामपि ॥ ४ ॥
</page>