2026-01-19 23:43:04 by akprasad
This page has been fully proofread once and needs a second look.
स्तोत्रग्रन्थमाला - तृतीयो भागः
<verse lang="sa">त्वामयि भजन्ते भक्त्यतिशयेन ।
सर्वसुररूपं भूरि विभवेन ॥ १८ ॥
<verse lang="sa">तेष्वपि दिवो भूनाथ तव दक्षाः ।
भक्तजनरक्षा दीक्षितकटाक्षाः ॥ १९ ॥
<verse lang="sa">त्वत्पदमजानन्नप्यज पवित्रम् ।
मङ्गलगुणस्ते दृक्पतनपात्रम् ॥ २० ॥
<verse lang="sa">दृष्टिवशतस्ते प्रेष्ठफलधारा ।
संश्रितकुलेष्वप्यप्रतिमसारा ॥ २१ ॥
<verse lang="sa">पावनकटाक्षैः संशमय पापम् ।
शीतलकटाक्षैः शक्र मम तापम् । २२ ॥
<verse lang="sa">मङ्गलकटाक्षैः साधय ममेष्टम् ।
किं च विबुधानां नाथ हर कष्टम् ॥ २३ ॥
<verse lang="sa">भासुरकटाक्षैर्भासयतु मह्यम् ।
नाकनरनाथो ज्योतिरतिगुह्यम् ॥ २४ ॥
<trailer lang="sa">॥ इति इन्द्रसहस्रे कटाक्षस्तबकः समाप्तः ॥
</page>