2026-01-19 23:41:42 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore lang="sa">इन्द्रसहस्रे कटाक्षस्तबकः
</ignore>
<verse lang="sa">यं तव बलारे पावयति दृष्टिः ।
तत्र नरवर्ये सर्वशुभवृष्टिः ॥ ९ ॥
</verse>
<verse lang="sa">यत्र तव पूर्णा दृष्टिरतिभद्रा ।
भेदशतबुद्धिस्तस्य न दरिद्रा ॥ १० ॥
</verse>
<verse lang="sa">किं नु सुकृतादी किं दुरितखादी ।
शक्र तव रक्षःसूदनकटाक्षः ॥ ११ ॥
</verse>
<verse lang="sa">भक्तिरसिकानां पापततिखादी ।
सोऽयमितरेषां पक्वसुकृतादी ॥१२॥
</verse>
<verse lang="sa">पापततिखादी यत्र स कृपावान् ।
तस्य हृदि बोधः सर्वसमतावान् ॥१३॥
</verse>
<verse lang="sa">तस्य जगदर्थे सर्वमपि कार्यम् ।
अद्भुतमपारं दिव्यमपि वीर्यम् ॥ १४॥
</verse>
<verse lang="sa">पक्वसुकृतादी यत्र सविचित्रः ।
तस्य खलु भोगः काममतिमात्रः ॥१५॥
</verse>
<verse lang="sa">ये गिरिशनाम्रा ये च हरिनाम्ना ।
ये गणपनाम्ना ये च रविनाम्ना ॥ १६ ॥
</verse>
<verse lang="sa">शक्तिरिति नाम्ना ये बहुलधाम्ना ।
ये च मतिमन्तो यह्न इति नाम्ना ॥ १७ ॥
७५
</verse>
</page>