B. TEXT I. INTRODUCTORY STANZAS प्रणम्य शिरसा विष्णुं त्रैलोक्याधिपतिं प्रभुम् । नानाशास्त्रोद्धृतं वक्ष्ये राजनीतिसमुच्चयम् ॥ १ ॥ तदहं संप्रवक्ष्यामि लोकानां हितकाम्यया । यस्य विज्ञानमात्रेण सर्वज्ञत्वं प्रपद्यते ॥ २ ॥ नीतिसारं प्रवक्ष्यामि अर्थशास्त्रादिसंश्रितम् । राजादिभ्यो हितं पुण्यमायुःस्वर्गादिदायकम् ॥ ३ ॥ CĀŅAKYA-RĀJA-NĪTI पार्थिवस्य प्रवक्ष्यामि भृत्यानां चैव लक्षणम् । यथाभिज्ञो महीपालः सम्यग् भृत्यान् प्रपालयेत्॥ ४ ॥ II. KING'S DUTIES AND QUALITIES Main Duties and Qualities of the King लिङ्गपूजनधर्मात्मा गोब्राह्मणहिते रतः । प्रजाः पालयितुं शक्तः स राजा यो जितेन्द्रियः ॥ ५ ॥ स्वं राष्ट्रं पालयेन्नित्यं सत्यधर्मपरायणः । निर्जित्य परसैन्यानि क्षितिं धर्मेण पालयेत् ॥ ६ ॥ ॐकारशब्दो विप्राणां यस्य राष्ट्रे प्रवर्तते । स राजा हि भवेद् योगी व्याधिभिश्च न पीड्यते ॥ ७ ॥ 76 CĀŅAKYA-RĀJA-NĪTI अनाथानां नाथो गतिरगतिकानां व्यसनिनां विनेता भीतानामभयमधृतीनां भरवशः । सुहृद् बन्धुः स्वामी शरणमुपकारी वरगुरुः पिता माता भ्राता जगति पुरुषो यः स नृपतिः ॥ ८ ॥ दुष्टस्य दण्ड: सुजनस्य पूजा न्यायेन कोशस्य विवर्धनं च । अपक्षपातोऽर्थिषु राज्यरक्षा पञ्चैव यज्ञाः कथिता नृपाणाम् ॥ ९ ॥ पात्रे त्यागी गुणे रागी भोगी परिजनैः सह । शास्त्रे बोद्धा रणे योद्धा नृपतेः पञ्चलक्षणम् ॥ १० ॥ II. KING's DUTIES AND QUALITIES सिंहादेकं बकादेकं शिक्षेचत्वारि कुक्कुटात् । वायसात् पञ्च शिक्षेच षद् शुनस्त्रीणि गर्दभात् ॥ ११ ॥ प्रभूतं कार्यमल्पं वा यो नरः कर्तुमिच्छति । सर्वारम्भेण तत् कुर्यात् सिंहादेकं प्रचक्षते ॥ १२ ॥ CĀŅAKYA-RĀJA-NĪTI इन्द्रियाणि च संयम्य बकवत् पण्डितो नरः । देशकालब​लं ज्ञात्वा सर्वकार्याणि साधयेत् ॥ १३ ॥ प्रत्युत्थानं च युद्धं च संविभागं च बन्धुषु । स्वयमाक्रम्य भुञ्जीत शिक्षेच्चत्वारि कुक्कुटात् ॥ १४ ॥ II. KING'S DUTIES AND QUALITIES गूढमैथुनघाष्टयै च काले काले च संग्रहम् । अप्रमादमविश्वासं पञ्च शिक्षेच्च वायसात् ॥ १५ ॥ बह्वाशी स्वल्पसंतुष्टः सुनिद्रो लघुचेतनः । स्वामिभक्तश्च शूरश्च षडेते श्वानतो गुणाः ॥ १६ ॥ CAŅAKYA-RĀJA-NĪTI सुश्रान्तोऽपि वहेद् भारं शीतोष्णं न च पश्यति । संतुष्टश्चरते नित्यं त्रीणि शिक्षेच्च गर्दभात् ॥१७ ॥ विंशदेते गुणाः प्रोक्ता यस्तु कुर्याद् विचक्षणः । स जेष्यति रिपून् सर्वान् जेयश्च न भविष्यति ॥ १८ ॥ II. KING'S DUTIES AND QUALITIES Good and Bad King उत्खातान् प्रतिरोपयन् कुसुमितांश्चिन्वन् लघून् वर्धयन् अत्युच्चान् नमयन् पृथून विदलयन् विश्लेषयन् संहतान् । तीक्ष्णान् कण्टकिनो बहिर्नियमयन् स्वारोपितान् पालयन् मालाकार इव प्रयोगकुशलो राज्ये चिरं तिष्ठति ॥ १९ ॥ परेण चिन्तितो मन्त्रो दैवेन च निवारितः । साधुपथस्थितो राजा भगवान् दैवकिर्यथा ॥ २० ॥ CĀŅAKYA-RĀJA-NĪTI पार्थिवस्य च भृत्यस्य वदामि गुणलक्षणम् । येन संवर्धते राजा भाण्डागारस्तथैव च ॥ २१ ॥ अनायव्ययकर्ता च अनाथः कलहप्रियः । आतुरः सर्वभक्षी च नरः शीघ्रं विनश्यति ॥ २२ ॥ वरं न राज्यं न कुराजराज्यं वरं न मित्रं न कुमित्रमित्रम् । वरं न शिष्यो न कुशिष्यशिष्यो वरं न दारा न कुदारदाराः ॥ २३ ॥ II. KING'S DUTIES AND QUALITIES कुराजराज्येन कुतः प्रजासुखं कुमित्रमित्रेण कुतोऽस्ति निर्वृतिः । कुदारदारैश्च​ कुतो गृहे रतिः कुशिष्यमध्यापयतः कुतो यशः ॥ २४ ॥ भोगिनः कञ्चुकासक्ताः क्रूराः कुटिलगामिनः । फणिनो मन्त्रसाध्याश्च​ राजानो भुजगा इव ॥ २५ ॥ Governing in accordance with Dharma कुमित्रे नास्ति विश्वासः कुभार्यायां कुतो रतिः । कुराज्ये नास्ति निर्वृत्तिः कुदेशे नास्ति जीवितम् ॥ २६ ॥ CĀŅAKYA-RĀJA-NĪTI धर्मस्य मूलं राजानस्तपोमूलं च ब्राह्मणाः । ब्राह्मणा यत्र पूज्यन्ते तत्र धर्मः सनातनः ॥ २७ ॥ आत्मवर्गं प​रित्यज्य परवर्गं समाश्रयेत् । स्वयमेव लयं याति यथा राजान्यधर्मतः ॥ २८ ॥ राज्यं च संपदो भोगाः कुले जन्म पवित्रता । पाण्डित्यमायुरारोग्यं धर्मस्यैतत् फलं विदुः ॥ २९ ॥ II. KING's DUTIES AND QUALITIES राष्ट्रं पालयते नित्यं सत्यधर्मपरायणः । निर्जित्य परसैन्यानि पतिधर्मेण पालयेत् ॥ ३० ॥ कारणेन विना भृत्ये यस्तु कुप्यति पार्थिवः । स गृह्णाति विषोन्मादं कृष्णसर्पप्रदंशितः ॥ ३१ ॥ किं चित्रं यदि शब्दशास्त्रकुशलो विप्रो भवेत् पण्डितः किं चित्रं यदि दण्डनीतिनिपुणो राजा भवेद् धार्मिकः । तच्चित्रं यदि रूपयौवनवती साध्वी भवेदङ्गना तच्चित्रं यदि निर्धनोऽपि पुरुषः पापं न कुर्यात् क्व​चित् ॥ दृढा सद्भिः सभाकीर्णा दृढो राजा सुधार्मिकः । दृढा पतिव्रता नारी स्थलं तृणमयं दृढम् ॥ ३३ ॥ CĀŅAKYA-RĀJA-NĪTI Protection of His Subjects समुद्रावरणा भूमि: प्राकारावरणं गृहम् । नरेन्द्रावरणो देशश्चारित्रावरणाः स्त्रियः ॥ ३४ ॥ पत्यौ भक्तिर्व्रतं स्त्रीणामद्रोहो मन्त्रिणां व्रतम् । प्रजानां पालनं राज्ञां व्रतं शीलं महात्मनाम् ॥ ३५ ॥ अहेतु भूकुटिं नैव सदा कुर्वीत पार्थिवः । विना दोषेण यो भृत्यान् राजा धर्मेण पालयेत् ॥ ३६ ॥ II. KING'S DUTIES AND QUALITIES शुचि भूमिगतं तोयं शुचिर्नारी पतिव्रता । शुचिः क्षेमकरो राजा संतोषी ब्राह्मणः शुचिः ॥ ३७॥ अनाथानां दरिद्राणां बालवृद्धतपस्विनाम् । अन्यायपरिभूतानां सर्वेषां पार्थिवो गतिः ॥ ३८ ॥ दुर्बलानामनाथानां बालवृद्धतपस्विनाम् । अन्यायपरिभूतानां सर्वेषां पार्थिवो गतिः ॥ ३९ ॥ दुर्बलस्य बलं राजा बालानां रोदनं बलम् । बलं मूर्खस्य मौनित्वं चोराणामनृतं बलम् ॥ ४० ॥ CĀŅAKYA-RĀJA-NĪTI राजपत्नी गुरोः पत्नी मित्रपत्नी तथैव च । पत्नीमाता स्वमाता च पञ्चैता मातरः स्मृताः ॥ ४१ ॥ निर्धनं पुरुषं वेश्या प्र​जा भग्नं नृपं त्यजेत् । खगा वीतफलं वृक्षं भुक्त्वा चाभ्यागता गृहम् ॥ ४२ ॥ II. KING's DUTIES AND QUALITIES Collection of the King's Treasury राजा धर्मेण कुर्वीत धनसंचयमेकतः । अन्यतस्तेन सततं वर्धयेदुत्तमान् द्विजान् ॥ ४३ ॥ असमर्था: प्र​कुर्वन्ति मुनयोऽप्यर्थसंचयम् । किं न कुर्वन्ति भूपाला येषां कोशवशाः प्रजाः ॥ ४४ ॥ क्षणसंपदिय सुदुर्लभा प्रतिलब्धा पुरुषार्थसाधनी । यदि नात्र विचिन्वते हितं पुनरप्येष समागमः कुतः ॥ ४५ ॥ सत्यं मनोरमाः कामाः सत्यं रम्या विभूतयः । किं तु मत्ताङ्गनापाङ्गभङ्गलोलं हि जीवितम् ॥ ४६ ॥ CĀŅAKYA-RĀJA-NĪTI ऐश्वर्यमध्रुवं प्राप्य ध्रुवधर्मे मतिं कुरु । क्षणादेव विनाशिन्यः सम्पदोऽप्यात्मना सह ॥ ४७ ॥ सन्धौ विरोधे दाने च यशःस्वात्मसुखोदये । अपि मोक्षपरिप्राप्तावर्थो बन्धुर्महीभुजः ॥ ४८ ॥ यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः । यस्यार्थाः स पुमान् लोके यस्यार्थाः स हि पण्डितः ॥४९ ॥ II. KING's DUTIES AND QUALITIES यस्यास्ति वित्तं स नरः कुलीनः स पण्डितः स श्रुतवान् गुणज्ञः । स एव वक्ता स च दर्शनीयः सर्वे गुणाः काञ्चनमाश्रयन्ति ॥ ५० ॥ धनं जातिर्धनं रूपं धनं विद्या धनं यशः । कि धनेन विहीनानां याञ्चानिर्जीवितैर्गुणैः ॥ ५१ ॥ CĀNAKYA-RĀJA-NITI रूपं वश्यैर्बलं भृत्यैरुत्तमं मानमर्थिभिः । महाकुलविवाहैश्च कुलं क्रीणाति वित्तवान् ॥ ५२ ॥ वित्तायत्ता: सदा धर्मा वित्तं कामनिबन्धनम् । वित्तायत्तानि सर्वाणि वित्तं जीवितवर्धनम् ॥ ५३ ॥ धनं रूपमवैक्लव्यं धनं कुलं सुमङ्गलम् । धनं यौवनमम्लानं धनमायुर्निरामयम् ॥ ५४ ॥ गुणा धनेन लभ्यन्ते न धनं लभ्यते गुणैः । धनी गुणवतां सेव्यो न गुणी धनिनां क्वचित् ॥ ५५ ॥ वृद्धः प्रसिद्धो विबुधो विदग्धः शूरः श्रुतिज्ञः कवयः कुलीनाः । विलोकयन्तः सधनस्य वक्त्रं जयेति जीवेति सदा वदन्ति ॥ ५६ ॥ स्वगृहेऽपि दरिद्राणां विचक्रुः कचकर्कशम् । धनिनां परलोकेऽपि प्रेम्णः स्रिग्धजना भुवः ॥ ५७ ॥ II. KING's DUTIES AND QUALITIES कुत आरभ्य घटते विघट्य क्वापि गच्छति । गतिर्न शक्यते ज्ञातुं धनस्य च घनस्य च ॥ ५८ ॥ धनिनः सुखिनो नित्यं निर्धना दुःखभागिनः । धनिनां निर्धनानां च विभागः सुखदुःखयोः ॥ ५९ ॥ अर्थेन हि विहीनस्य पुरुषस्याल्पमेधसः । विच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा ॥ ६० ॥ CĀŅAKYA-RĀJA-NĪTI त्यजन्ति मित्राणि धनैर्विहीनं पुत्राश्च दाराश्च सुहृज्जनाश्च। तमर्थवन्तं पुनराश्रयन्ते- ऽप्यर्थो हि लोके पुरुषस्य बन्धुः ॥ ६१ ॥ यत्रोदकं तत्र चरन्ति हंसा- स्तदेव शुष्कं परिवर्जयन्ति । प्राप्ते जले तत् पुनराश्रयन्ते न हंसमित्रेण नरेण भाव्यम् ॥ ६२ ॥ II. KING's DUTIES AND QUALITIES एको हि दोषो गुणसन्निपाते निमज्जतीन्दोः किरणेष्विवाङ्कः । केनापि नूनं कविना न दृष्टं दारिद्र्यमेकं गुणराशिनाशि ॥ ६३ ॥ चण्डालश्च दरिद्रश्च द्वाविमौ तुलया धृतौ । एक: स्वबन्धुभिः स्पृष्टस्तैरपि त्यज्यतेऽपरः ॥ ६४ ॥ पुष्पं पुष्पं विचिन्वीत मूलच्छेदं न कारयेत् । मालाकार इवारामे न यथाङ्गारकारकः ॥ ६५ ॥ CĀNAKYA-RĀJA-NITI दुग्ध्वा हि भुज्यते क्षीरं गां विक्रीय न भुज्यते । तद्वद् दुग्धप्रयोगेण भोग्यं राष्ट्रं महीभुजा ॥ ६६ ॥ ऊर्ध्वं न क्षीरविच्छेदात् पयो धेनोरवाप्यते । एवं राष्ट्रादयोगेन पीडितान्नाप्यते बलिः ॥ ६७ ॥ यथा क्रमेण गृह्णाति पुष्पेभ्यो मधु षट्पदः । तथा वित्तमुपादाय राजा कुर्वीत संचयम् ॥ ६८ ॥ II. KING's DUTIES AND QUALITIES मधुवत् कथितं राष्ट्रं न हन्तव्याश्च मधुपाः । वत्सापेक्षी दुहेच्चैव राजा भूमिं च पालयेत् ॥ ६९ ॥ वल्मीकं मधुजालं च शुक्लपक्षे च चन्द्रमाः । राजद्रव्यं च भैक्षं च स्तोकं स्तोकेन वर्धते ॥ ७० ॥ मक्षिका व्रणमिच्छन्ति धनमिच्छन्ति पार्थिवाः । नीचा: कलहमिच्छन्ति शान्तिमिच्छन्ति साधवः ॥ ७९ ॥ तृप्येन्न राजा धनसंचयेन न सागरो भूरिजलागमेन । CĀŅAKYA-RĀJA-NĪTI न पण्डितः साधुसुभाषितेन तृप्येन्न चक्षुः प्रियदर्शनेन ॥ ७२ ॥ ब्रह्मस्वेन च पुष्टाङ्गा हस्त्यश्वरथपत्तयः । संग्रामकाले सीदन्ति राज्ञो ब्रह्मस्वभक्षणात् ॥ ७३ ॥ मणिः शाणोल्लीढः समरविजयी हेतिदलितो मदक्षीणो नागः शरदि सरिदाश्यानपुलिना । कलाशेषश्चन्द्रः सुरतमृदिता बालवनिता तनिम्ना शोभन्ते गलितविभवाश्चा​र्थिषु नृपाः ॥ ७४ ॥ II. KING'S DUTIES AND QUALITIES Respect for Knowledge and Learning विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं विद्या भोगकरी यशः सुखकरी विद्या गुरूणां गुरुः । विद्या बन्धुजनो विदेशगमने विद्यालयं सम्बलं विद्या राजसु पूज्यते न हि धनं विद्याविहीनः पशुः ॥७५ ॥ पठ पुत्र किमालस्यमपाठो भारवाहकः । पठंस्तु पूजितो राज्ञा पठ पुत्र दिने दिने ॥ ७६ ॥ CĀŅAKYA-RĀJA-NĪTI पठ पुत्र सदा नित्यमक्षरं हृदये कुरु । स्वदेशे पूज्यते राजा विद्या सर्वत्र पूज्यते ॥ ७७ ॥ विद्वत्वं च नृपत्वं च नैव तुल्यं कदाचन । स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते ॥ ७८ ॥ जात्यन्धोऽपि वरं राजा न तु शास्त्रविवर्जितः । अन्धः पश्यति चारेण शास्त्रहीनो न पश्यति ॥ ७९ ॥ II. KING'S DUTIES AND QUALITIES एकं हन्यावान्न​ हन्यादिषुर्मुक्तो धनुष्मता । बुद्धिर्बुद्धिमतोत्सृष्टा हन्याद् राष्ट्रं सराजकम् ॥ ८० ॥ Other Duties गान्धर्वं नृत्तमालेख्यं वाद्यं च गणितं कलाः । अर्थशास्त्रं धनुर्वेदं यत्नाद् रक्षोन्महीपतिः ॥ ८१ ॥ मनस्तापं न कुर्वीत विपदं प्राप्य पार्थिवः । आत्मनश्चोदयं शंसेन्न स्याद् दुःखी न वा सुखी ॥ ८२ ॥ CĀŅAKYA-RĀJA-NĪTI धीराः कृच्छ्रमपि प्राप्ता न भवन्ति विषादिनः । प्रविश्य वदनं राहोः किं नोदेति पुनः शशी ॥ ८३ ॥ प्राज्ञः स्निग्धो महीपालश्छिद्रकर्मविवर्जितः । विदूरे च परित्यागी समं दुःखं समं सुखम् ॥ ८४ ॥ चापलाद् वारयेद् दृष्टिं मिथ्यावाक्यं च वारयेत् । मानवे श्रोत्रिये चैव भृत्यवर्गे सदैव हि ॥ ८५ ॥ वित्तेन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते । मृदुना रक्ष्यते भूपः सत्स्त्रिया रक्ष्यते गृहम् ॥ ८६ ॥ II. KING'S DUTIES AND QUALITIES विषं चङ्क्रमणं रात्रौ विषं राज्ञोऽनुकूलता । विषं स्त्रियोऽप्यन्यहृदो विषं व्याधिरवीक्षितः ॥ ८७ ॥ सद्भिरासीत सततं सद्भिः कुर्वीत संगतिम् । सद्भिर्विवादं मैत्रीं च नासद्भिः किंचिदाचरेत् ॥ ८८ ॥ पण्डितैश्च विनीतैश्च धर्मज्ञैः सत्यवादिभिः । बन्धनेऽपि वसेत् सार्धे न तु राज्ये खलैः सह ॥ ८९ ॥ एकं चक्षुर्विवेको हि द्वितीयं सत्समागमः । तौ न स्तो यस्य स क्षिप्रं मोहकूपे पतेद् ध्रुवम् ॥ ९० ॥ CĀŅAKYA-RĀJA-NĪTI अरिं मित्रमुदासीनं मध्यस्थं स्थविरं गुरुम् । यो न बुध्यति मन्दात्मा स च सर्वत्र नश्यति ॥ ९१ ॥ भ्रमन् संपूज्यते राजा भ्रमन् संपूज्यते द्विजः । भ्रमन् संपूज्यते योगी स्त्री भ्रमन्ती विनश्यति ॥ ९२ ॥ अविनीतो भृत्यजनो नृपतिरदाता शठानि मित्राणि । अविनयवती च भार्या मस्तकशूलानि चत्वारि ॥ ९३ ॥ II. KING's DUTIES AND QUALITIES लीलासुखानि भोग्यानि त्यजेदिह महीपतिः । सुखप्रवृत्ता: साध्यन्ते शात्रवैर्विग्रहे स्थितैः ॥ ९४ ॥ अक्षेषु मृगयायां च स्त्रीषु पाने वृथाटने । निद्रायां च निबन्धेन क्षिप्रं नश्यति भूपतिः ॥ ९५ ॥ लङ्घयेच्छास्त्रमर्यादां हेतुवादेन यो नरः । स नश्यति पुनः क्षिप्रमिह लोके परत्र च ॥ ९६ ॥ लीलां करोति यो राजा भृत्यवित्तैश्च गर्वितः । संवादे विग्रहे क्षिप्रं रिपुभिः परिभूयते ॥ ९७ ॥ असंतुष्टा द्विजा नष्टा: संतुष्टाश्च महीभृतः । सलज्जा गणिका नष्टा निर्लज्जाश्च कुलाङ्गनाः ॥ ९८ ॥ CĀŅAKYA-RĀJA-NĪTI Governing the Kingdom अग्निर्दहति तापेन सूर्यो दहति रश्मिभिः । राजा दहति दण्डेन तपसा ब्राह्मणो दहेत् ॥ ९९. ॥ सर्वो दण्डजितो लोको दुर्लभो हि शुचिर्नरः । दण्डस्य हि भयात् सर्वं जगद् भोगाय कल्पते ॥ १०० ॥ II. KING's DUTIES AND QUALITIES अविद्यः पुरुषः शोच्यः शोच्यं मैथुनमप्रजम् । निराहाराः प्रजाः शोच्याः शोच्यं राज्यमराजकम् ॥ १०१॥ धन्यास्ते ये न पश्यन्ति देशभङ्गं कुलक्षयम् । परचित्तगतां नारीं पुत्रं च व्यसने स्थितम् ॥ १०२ ॥ पुनर्वित्तं पुनर्मित्रं पुनर्भार्या पुनर्मही । एतत् सर्वे पुनर्लभ्यं न शरीरं पुनः पुनः ॥ १०३ ॥ CĀŅAKYA-RĀJA-NĪTI पुनर्दारा: पुनर्वित्तं पुनर्मित्रं पुनः सुताः । पुनरत्र प्रधानत्वं न शरीरं पुनः पुनः ॥ १०४ ॥ अन्नहीनो दहेदू राष्ट्रं मन्त्रहीनश्च ऋत्विजः । यजमानं दानहीनो नास्ति यज्ञसमो रिपुः ॥ १०५ ॥ नास्ति भार्या कुतः शाला धनं नास्ति कुतः सुखम् । नास्ति भूमिः कुतः सस्यं नास्ति ग्रामः कुतः सीमा ॥ १०६ ॥ Essential Living Conditions in a Kingdom धनिकः श्रोत्रियो राजा नदी वैद्यस्तु पञ्चमः । पञ्च यत्र न विद्यन्ते न तत्र दिवसं वसेत् ॥ १०७ ॥ II. KING'S DUTIES AND QUALITIES पञ्च यत्र न विद्यन्ते न कुर्यात् तत्र संस्थितिम् । लोकयात्रा भयं लज्जा दाक्षिण्यं धर्मशीलता ॥ १०८ ॥ यस्मिन् देशे न संमानो न वृत्तिर्न च बान्धवाः । न च विद्यागमः कश्चित् तं देशं परिवर्जयेत् ॥ १०९ ॥ CĀŅAKYA-RĀJA-NĪTI अनायका विनश्यन्ति नश्यन्ति बहुनायकाः । स्त्रीनायका विनश्यन्ति नश्यन्ति शिशुनायकाः ॥ ११० ॥ अनायके न वस्तव्यं न वसेद् बहुनायके । स्त्रीनायके न वस्तव्यं न वसेद् बालनायके ॥ १११ ॥ II. KING's DUTIES AND QUALITIES वसेन्मानाधिके स्थाने मानहीनं विवर्जयेत् । मानहीनं सुरैः सार्धं विमानमपि वर्जयेत् ॥ ११२ ॥ कुदेशं च कुवृत्तिं च कुभार्यां कुनदीं तथा । कुद्रव्यं च कुभोज्यं च वर्जयेच्च विचक्षणः ॥ ११३ ॥ कुदेशश्च कुवृत्तिश्च कुभार्या कुनदी तथा । कुमित्रं च कुभोज्यं च वर्जितं पण्डितैः सदा ॥ ११४ ॥ कुभार्यां च कुदेशं च कुराजानं कुसौहृदम् । कुबन्धुं च कुमित्रं च दूरतः परिवर्जयेत् ॥ ११५ ॥ CĀŅAKYA-RĀJA-NĪTI कुदेशमासाद्य कुतोऽर्थसंचयः कुपुत्रमासाद्य कुतो जलाञ्जलिः । कुरोहिनीं प्राप्य कुतो गृहे सुखं कुशिष्यमध्यापयतः कुतो यशः ॥ ११६ ॥ III. KING'S FRIENDS, ENEMIES, WAR, PEACE, ALLIANCES, STRATAGEM Friends and Enemies आतुरे व्यसने प्राप्ते दुर्भिक्षे शत्रुसंकटे । राजद्वारे श्मशाने च यस्तिष्टति स बान्धवः11 2 8 0 ॥ CĀŅAKYA-RĀJA-NĪTI परोक्षे कार्यहन्तारं प्रत्यक्षे प्रियवादिनम् । वर्जयेत् तादृशं मित्रं विषकुम्भं पयोमुखम् ॥ ११८ ॥ संगतिः श्रेयसो मूलं सुजनेषु विशेषतः । तुषमात्रे पृथग्भिन्ने तण्डुलं न प्ररोहति ॥ ११९ ॥ शत्रोरपि गुणा वाच्या दोषा वाच्या गुरोरपि । युक्तियुक्तं वचो ग्राह्यं न वचो गुरुगौरवात् ॥ १२० ॥ III. KING's FRIENDS, ENEMIES, ETC. वैरिणा सह विश्वासं यो नरः कर्तुमिच्छति । स वृक्षाग्रेषु संसप्तः पतितः प्रतिबुध्यते ॥ १२१ ॥ न विश्वसेत् पूर्वपराजितस्य शत्रोश्च मित्रत्वमुपागतस्य । दग्धां गुहां पश्यत घूकपूर्णां काकप्रणीतेन हुताशनेन । १२२ ॥ CĀŅAKYA-RĀJA-NĪTI न विश्वसेत् कुमित्रे च मित्रे चापि न विश्वसेत् । कदाचित् कुपितं मित्रं सर्वं गुह्यं प्रकाशयेत् ॥ १२३ ॥ न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् । विश्वासाद् भयमुत्पन्नं मूलान्यपि निकृन्तति ॥ १२४ ॥ III. KING's FRIENDS, ENEMIES, ETC. व्याधिशेषोऽग्निशेषश्च शत्रोः शेष ऋणस्य च । पुनः पुनः प्रवर्तेत तस्मान्निःशेषमाचरेत् ॥ १२५ ॥ CĀNAKYA-RĀJA-NITI नोपेक्षितव्यो विद्वद्भिः शत्रुरल्पबलोऽपि सन् । वह्निरल्पोऽपि संवृद्धो भस्मसात् कुरुते वनम् ॥ १२६ ॥ क्षुद्रशत्रुरिति ज्ञात्वा नोपेक्षेत कदाचन । काले दुर्जनतां याति तृणस्थं वह्निबीजवत् ॥ १२७ ॥ शत्रोरपत्यानि वशं गतानि नोपेक्षणीयानि बुधैर्मनुष्यैः । तान्येव कालेन विपत्कराणि बतासिपत्रादपि दारुणानि ॥ १२८ ॥ III. KING'S FRIENDS, ENEMIES, ETC. Use of Stratagem उपायेन हि यच्छक्यं न तच्छक्यं पराक्रमैः । काकीकनकसूत्रेण कालसर्पो निपातितः ॥ १२९ ॥ नात्यन्तसरलैर्भाव्यं गत्वा पश्य वनस्थलीम् । छिद्यन्ते सरलास्तत्र कुब्जास्तिष्ठन्ति पादपाः ॥ १३० ॥ CĀŅAKYA-RĀJA-NĪTI जिह्वाग्रे वसते लक्ष्मीर्जिह्वाग्रे मित्रबान्धवाः । जिह्वाग्रे बन्धनं चापि जिह्वाग्रे मरणं ध्रुवम् ॥ १३१ ॥ हे जिह्वे कटुकस्त्रेहे मधुरं किं न भाषसे । मधुरं वद कल्याणि लोकोऽयं मधुरप्रियः ॥ १३२ ॥ प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः । तस्मात् तदेव वक्तव्यं वचने किं दरिद्रता ॥ १३३ ॥ साम्ना दानेन भेदेन क्रमेण च बलेन च । सर्वथा तु सदा शत्रुर्घातनीयो नराधिपैः ॥ १३४ ॥ III. KING's FRIENDS, ENEMIES, ETC. उपकारगृहीतेन शत्रुणा शत्रुमुद्धरेत् । पादलग्नं करस्थेन कण्टकेनेव कण्टकम् ॥ १३५ ॥ सुकुले योजयेत् कन्यां पुत्रं विद्यासु योजयेत् । व्यसने योजयेच्छत्रुमिष्टं धर्मेण योजयेत् ॥ १३६ ॥ CĀŅAKYA-RĀJA-NĪTI मृदुनैव मृदुं हन्ति मृदुना हन्ति दारुणम् । नासाध्यं मृदुना किंचित् तस्मात् तीक्ष्णतरो मृदुः ॥ १३७॥ बहूनां चैव सत्त्वानां समवायो रिपुंजयः । वर्षधाराघरो मेघस्तृणैरपि निवार्यते ॥ १३८ ॥ बहूनामप्यसाराणां समवायो हि दुःसहः । तृणैरावेष्ट्यते रज्जुस्तया हस्त्यपि बध्यते ॥ १३९ ॥ III. KING's FRIENDS, ENEMIES, ETC. सर्वस्वनाशे संजाते प्राणानामपि संशये । अपि शत्रुं प्रणम्योच्चै रक्षेत् प्राणान् धनानि च ॥ १४० ॥ कालेन रिपुणा सन्धिः काले मित्रेण विग्रहः । कार्यकारणमाश्रित्य कालं क्षिपति पण्डितः ॥ १४१ ॥ वहेदमित्रं स्कन्धेन यावत् कालविपर्ययः । तथैवमागते काले भिन्द्याद् घटमिवाश्मनि ॥ १४२ ॥ CĀṆAKYA-RĀJA-NĪTI नात्मच्छिद्रं परो विद्याद् विद्याच्छिद्रं परस्य तु । गृहेत् कूर्म इवाङ्गानि परभावं च लक्षयेत् ॥ १४३ ॥ मनसा चिन्तितं कार्यं वचसा न प्रकाशयेत् । मन्त्रेण रक्षयेद् गूढं कार्ये चापि नियोजयेत् ॥ १४४ ॥ III. KING's FRIENDS, ENEMIES, ETC. गोपयेत् स्वानि रन्ध्राणि पररन्ध्राणि चिन्तयेत् । कुसीदेन निवर्तेत राज्यमिच्छन् नृपः स्थिरम् ॥ १४५ ॥ षण्मासमथवा वर्षं संधिं कुर्यान्नराधिपः । आत्मनो बलमालोक्य पश्चाच्छत्रुं निपातयेत् ॥ १४६ ॥ व्यसने सति कुर्वीत येन केनापि संगतिम् । ऋक्षवानरगोपुच्छे: पुरा दाशरथिर्यथा ॥ १४७ ॥ दुस्तरः सागरस्तीर्ण: समूढं वानरं बलम् । अभूतपूर्वं रामेण सेतुर्बद्द्श्च​ सागरे ॥ १४८ ॥ CĀNAKYA-RĀJA-NITI कार्यार्थी संगतिं याति कृतार्थे नास्ति संगतिः । तस्मात् सर्वाणि कार्याणि सावशेषाणि कारयेत् ॥ १४९ ॥ ऐश्वर्यात् सह संबन्धं न कुर्याच्च कदाचन । गते च गौरवं नास्ति आगते च धनक्षयः ॥ १५० ॥ लुब्धमर्थेन गृह्णीयात् स्तब्धमञ्जलिकर्मणा । मूर्खं छन्दोऽनुवृत्तेन याथार्थ्येन च पण्डितम् ॥ १५१ ॥ III. KING's FRIENDS, ENEMIES, ETC. उत्तमं प्रणिपातेन शूरं भेदेन योजयेत् । नीचमल्पप्रदानेन समशक्तिं पराक्रमैः ॥ १५२ ॥ त्यजेद् धर्मं दयाहीनं विद्याहीनं गुरुं त्यजेत् । त्यजेत् क्रोधमुखीं भार्यां निःस्त्रेहान् बान्धवांस्त्यजेत् ॥ १५३॥ CĀŅAKYA-RĀJA-NĪTI त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥ १५४ ॥ III. KING's FRIENDS, ENEMIES, ETC. बलं विद्या च विप्राणां राज्ञां सैन्यं बलं तथा । बलं वित्तं च वैश्यानां शूद्राणां चैकनिष्ठता ॥ १५५ ॥ बाहुवीर्यं बलं राज्ञो ब्राह्मणो ब्रह्मविद् बली । रूपयौवनमाधुर्यं स्त्रीणां बलमनुत्तमम् ॥ १५६ ॥ इतं ज्ञानं क्रियाहीनं हताश्चाज्ञानिनः क्रियाः । हृतं निर्नायकं सैन्यं स्त्रियो नष्टा ह्यभर्तृकाः ॥ १५७ ॥ CĀŅAKYA-RĀJA-NĪTI हतमश्रोत्रियं श्राद्धं हतो यज्ञस्त्वदक्षिणः । हता रूपवती वन्ध्या हतं सैन्यमनायकम् ॥ १५८ ॥ आलस्योपहता विद्या परहस्तगताः स्त्रियः । अल्पबीजं हतं क्षेत्रं हतं सैन्यमनायकम् ॥ १५९ ॥ महानदीप्रतरणं महापुरुषविग्रहम् । महाजनविरोधं च दूरतः परिवर्जयेत् ॥ १६० ॥ घासमिन्धनमन्नाद्यं शस्त्राणि विविधानि च । दुर्गे प्रवेशनीयानि सततं शत्रुशङ्कया ॥ १६१ ॥ III. KING's FRIENDS, ENEMIES, ETC. दाक्षिण्यं स्वजने दया परिजने शाठ्यं सदा दुर्जने प्रीतिः साधुजने स्मयः खलजने विद्वज्जने चार्जवम् । शौर्यं शत्रुजने क्षमा गुरुजने नारीजने धृष्टता इत्यं ये पुरुषाः कलासु कुशलास्तेष्वेव लोकस्थितिः॥ १६२॥ उपसर्गेऽन्यचक्रे च दुर्भिक्षे च भयावहे । असाधुजनसंपर्के यः पलायेत् स जीवति ॥ १६३ ॥ CĀṆAKYA-RĀJA-NĪTI जीर्णमन्नं प्रशंसन्ति भार्यो च गतयौवनाम् । रणात् प्रत्यागतं शूरं शस्यं च गृहमागतम् ॥ १६४ ॥ शीतभीताश्च ये विप्रा रणभीताश्च क्षत्रियाः । अग्निमीता च या नारी त्रयः स्वर्गं न यान्ति हि ॥ १६५ ॥ IV. KING'S OFFICIALS Service in the King's Court from the point of view of the Officials विप्रयोर्विप्रव​ह्न​योश्च दंपत्योः स्वामिभृत्ययोः । अन्तरेण न गन्तव्यं हरस्य वृषभस्य च ॥ १६६ ॥ व्रजेद् धनार्थी वाणिज्यं विद्यार्थी च बहुश्रुतम् । ऋतुकालमपत्यार्थी मानार्थी नृपतिं व्रजेत् ॥ १६७ ॥ समाने शोभते प्रीती राज्ञि सेवा च शोभते । वाणिज्यं व्यवहारेषु स्त्री दिव्या शोभते गृहे ॥ १६८ ॥ CĀŅAKYA-RĀJA-NĪTI अप्रधानः प्रधानः स्याद् यदि सेवेत पार्थिवम् । प्रधानोऽप्यप्रधानः स्याद् यदि सेवाविवर्जितः ॥ १६९ ॥ वाणिज्ये वसते लक्ष्मीस्तदर्धं कृषिकर्मणि । तदर्धं राजसेवायां भिक्षायां नैव नैव च ॥ १७० ॥ ' प्रथमे कृषिवाणिज्यं द्वितीये चाश्वपोषणम् । तृतीये क्रयविक्रयौ चतुर्थे राजसेवनम् ॥ १७१ ॥ देवताः पूजयेद् भक्त्या भृत्यान् दानेन पूजयेत् । उपकारेण शूद्रं च विप्रं प्रणतिवन्दनात् ॥ १७२ ॥ मन्त्रिवर्गस्य सारोऽयं दृशि नित्यं प्रसन्नता । मुखे वहति माधुर्यं हृदये कार्यनिश्च​यम् ॥ १७३ ॥ IV. KING's OFFICIALS परकार्येषु युक्तात्मा स्वकार्ये क्षिप्रसाधनम् । सुहृत्कार्येषु निर्वृत्ती राजकार्येषु विक्रमः ॥ १७४ ॥ कान्तावियोगः स्वजनापमान ऋणस्य शेषं कुनृपस्य सेवा । दरिद्रभावाद् विमुखं च मित्रं विनाग्निना पञ्च दहन्ति कायम् ॥ १७५ ॥ CĀŅAKYA-RĀJA-NĪTI कुग्रामवासः कुलहीनसेवा कुभोजनं क्रोधमुखी च भार्या । पुत्रश्च मूर्खो विधवा च कन्या विनाग्निना षट् प्रदहन्ति कायम् ॥ १७६ ॥ लता पार्श्वे स्थितं वृक्षं भृत्याः पार्श्वे स्थितं नृपम् । पार्श्वस्थं पुरुषं योषिद् वेष्टयन्ति न संशयः ॥ १७७ ॥ स्त्री विनश्यति रूपेण ब्राह्मणो राजसेवया । गावो दूरप्रचारेण हिरण्यं लाभलिप्सया ॥ १७८ ॥ IV. KING's OFFICIALS नवं वस्त्रं नवं छत्रं वनानां च नवं फलम् । सर्वं नवं प्रशंसीयात् सेवकं च पुरातनम् ॥ १७९ ॥ त्यजेत् स्वामिनमत्युग्रमत्युग्रात् कृपणं त्यजेत् । कृपणादविशेषज्ञं तस्माच्च कृतनाशनम् ॥१८० ॥ वृक्षं क्षीणफलं त्यजन्ति विहगाः शुष्कं सरः सारसा: निद्रव्यं पुरुषं त्यजन्ति ललना भ्रष्टं नृपं मन्त्रिणः । पुष्पं पर्युषितं त्यजन्ति मधुपा दग्धं वनान्तं मृगाः सर्वः कार्यवशाज्जनोऽभिरमते कः कस्य को वल्लभः ॥ CĀŅAKYA-RĀJA-NĪTI Service in the King's Court from the point of View of the King धीराणां भूषणं विद्या मन्त्रिणो राजभूषणम् । भूषणं च पतिः स्त्रीणां शीलं सर्वस्य भूषणम् ॥ १८२ ॥ असहायस्य कार्याणि सिद्धिं नायान्ति कानिचित् । तस्मात् समस्तकार्येषु सहायो भूपतेर्गतिः ॥ १८३ ॥ नदीतीरे च ये वृक्षाः परगेहेषु कामिनी । मन्त्रिहीनाश्च राजानः शीघ्रं नश्यन्त्यसंशयम् ॥ १८४ ॥ नदीतीरेषु ये वृक्षा या च नारी निरङ्कुशा । मन्त्रिहीनो भवेद् राजा तस्य राज्यं विनश्यति ॥ १८५ ॥ IV. KING's OFFICIALS नदीतीरे च ये वृक्षा या च नारी निराश्रया । मन्त्रिणा रहितो राजा अचिरं तस्य जीवनम् ॥ १८६ ॥ नदीतीरेषु ये वृक्षा या च नारी निराश्रया । सामन्तरहितो राजा न भवन्ति चिरायुषः ॥ १८७ ॥ यत् किंचित् कुरुते भृत्यः शुभं वा यदि वाशुभम् । सुकृतं वर्धते तेन राज्ञो दुष्कृतमेव च ॥ १८८ ॥ यत् किंचित् कुरुते भृत्यः शुभं वा यदि वाशुभम् । तेन संवर्धते राजा सुकृतैर्दुष्कृतैरपि ॥ १८९ ॥ CĀŅAKYA-RĀJA-NĪTI दौर्मन्त्र्यान्नृपतिर्विनश्यति यतिः सङ्गात् सुतो लालनाद् विप्रोऽनध्ययनात् कुलं कुतनयाच्छीलं खलोपासनात् । स्त्री मद्यादनवेक्षणादपि कृषि: स्नेह : प्रवासाश्रयात् मैत्री चाप्रणयात् समृद्धिरनयात् त्यागात् प्रमादाद् धनम् ॥ कुस्त्री हन्ति कुटुम्बानि कुपुत्रो हन्ति वै कुलम् । कुमन्त्री हन्ति राजानं राष्ट्रं चौरेण हन्यते ॥ १९१ ॥ वैद्यं पानरतं नटं कुपठितं स्वाध्यायहीनं द्विजं शूरं कापुरुषं विभुं च विरसं मूर्खं परिव्राजकम् । IV. KING's OFFICIALS राजानं च कुमन्त्रिभिः परिवृतं देशं च सोपद्रवं भार्यां यौवनगर्वितां पररतां मुञ्चन्ति शीघ्रं बुधाः ॥ १९२॥ अनभ्यासैर्हता विद्या नित्यहासैर्हताः स्त्रियः । कुबीजेन हतं क्षेत्रं भृत्यदोषैर्हता नृपाः ॥ १९३ ॥ वामा भार्या सुतो मूर्ख: प्रेषकोऽवाग्विचारकः । निःस्नेहो बन्धुवर्गश्च त्यजेदस्य महत्सुखम् ॥ १९४ ॥ कुनयं मन्त्रिराजानं विप्रं च वृषलीपतिम् । प्रव्राजिनं व्रतभ्रष्टं न सेवन्ति सदा बुधाः ॥ १९५ ॥ CĀŅAKYA-RĀJA-NĪTI ★Choice of King's Officials भृत्या बहुविधा ज्ञेया उत्तमाघममध्यमाः । ते नियोज्या यथायोग्यं त्रिविधेष्वेव कर्मसु ॥ १९६ ॥ परीक्ष्य प्रथमं भृत्यानुत्तमाधममध्यमान् । योजयेत् तादृशेष्वेव नृपतिः स्वेषु कर्मसु ॥ १९७ ॥ निरालस्या: सुसंतुष्टा: सुस्वप्नाः सुप्रबोधिनः । सुखदुःखसमा धीरा भृत्या जगति दुर्लभाः ॥ १९८ ॥ यथा चतुर्भिः कनकं परीक्ष्यते निघर्षणच्छेदनतापताडनैः । तथा चतुर्भिः पुरुषः परीक्ष्यते कुलेन शीलेन गुणेन कर्मणा ॥ १९९ ॥ IV. KING's OFFICIALS यथा हेम परीक्षेत तापताडनच्छेदनैः । तथा पुरुषमप्येवं कुलशीलेन कर्मणा ॥ २०० ॥ जानीयात् प्रेषणे भृत्यान् बान्धवान् व्यसनागमे । मित्रं चापत्तिकालेषु भार्यां च विभवक्षये ॥ २०१ ॥ CĀŅAKYA-RĀJA-NĪTI दुर्जनस्य च सर्पस्य वरं सर्पो न दुर्जनः । सर्पो दशति कालेन दुर्जनस्तु पदे पदे ॥ २०२ ॥ एतदर्थं कुलीनानां नृपाः कुर्वन्ति संग्रहम् । आदिमध्यावसानेषु न त्यजन्ति च ते नृपम् ॥ २०३ ॥ प्र​लये भिन्नमर्यादा भवन्ति किल सागराः । सागरा भेदमिच्छन्ति प्रलयेऽपि न साधवः ॥ २०४ ॥ IV. KING'S OFFICIALS पण्डितेषु गुणाः सर्वे मूर्खे दोषाश्च केवलम् । तस्मान्मूर्खसहस्रेषु प्राज्ञ एको विशिष्यते ॥ २०५ ॥ गुणवन्तं नियुञ्जीत गुणहीनं विवर्जयेत् । पण्डिते च गुणाः सर्वे मूर्खे दोषाश्च केवला: ॥ २०६ ॥ गाम्भीर्ययुक्ता मृदुमन्दवाक्या जितेन्द्रियाः सत्यपरा: सुयोग्याः । CĀNAKYA-RĀJA-NITI भाव्यर्थतज्ज्ञा विदितार्थतत्त्वाः प्रायेण भृत्याः कृतिनां भवन्ति ॥ २०७ ॥ प्राज्ञे नियोज्यमाने तु सन्ति राज्ञस्त्रयो गुणाः । यशः स्वर्गनिवासश्च विपुलश्च धनागमः ॥ २०८ ॥ मूर्खे नियोज्यमाने तु त्रयो दोषा महीपतेः । अयशश्चार्थनाशश्च​ नरके गमनं तथा ॥ २०९ ॥ IV. KING's OFFICIALS तस्माद् भूमीश्वरो नित्यं धर्मकामार्थवृद्धये । गुणवन्तं नियुञ्जीत गुणहीनं विवर्जयेत् ॥ २१० ॥ दम्भाश्रितान् कपटिनो हिंस्रानुत्साहवर्जितान् । अशक्तान् भयभीतांश्च राजा भृत्यान् विवर्जयेत् ॥ २११ ॥ क्षान्तिभक्तिविहीनश्च विपक्षो धनलोलुपः । अशक्तो भयभीतश्च राज्ञा त्यक्तव्य एव सः ॥ २१२ ॥ क्रूरं व्यसनिनं लुब्धमप्रगल्भं सदार्जवम् । अनायं व्ययकार्तारं नाधिपत्ये नियोजयेत् ॥ २१३ ॥ CĀŅAKYA-RĀJA-NĪTI मूर्खस्तु परिहर्तव्यः प्रत्यक्षो द्विपदः पशुः । भिनत्ति वाक्यशल्येन अदृष्टः कण्टको यथा ॥ २१४ ॥ बहुभिर्मूर्खसंघातैरन्योन्यपशुवृत्तिभिः । प्रच्छाद्यन्ते गुणाः सर्वे मेघैरिव दिवाकरः ॥ २१५ ॥ Discharge of King's Officials तुल्यार्थं तुल्यसाम​र्थ्यं मन्त्रज्ञं व्यवसायिनम् । IV. KING'S OFFICIALS अर्धराज्यहरं भृत्यं यो न हन्यात् स हन्यते ॥ २१६ ॥ कण्टकस्य विमनस्य दन्तस्य चलितस्य च । अमात्यस्य च दुष्टस्य मूलादुद्धरणं सुखम् ॥ २१७ ॥ अलसं मुखरं स्तब्धं क्रूरं व्यसनिनं शठम् । असंतुष्टमभक्तं च त्यजेद् भृत्यं नराधिपः ॥ २१८ ॥ CĀŅAKYA-RĀJA-NĪTI Ministers and High Officials कुलशीलगुणोपेतः सर्वधर्मपरायणः । प्रवीण: प्रेषणाध्यक्षो धर्माध्यक्षो विधीयते ॥ २१९ ॥ मूलवृत्तिहितो धीरः सर्वरत्नपरीक्षकः । शुचिश्च​ व्यवसायी च भाण्डाध्यक्षो महीपतेः ॥ २२० ॥ प्रवीणः स्वामिनो भक्तः सत्यवादी जितेन्द्रियः । अलुब्धः स्वधनैस्तृप्तो गञ्जाध्यक्षो महीपतेः ॥ २२१ ॥ IV. KING's OFFICIALS समस्तकृतशास्त्रज्ञः पण्डितश्च​ जितश्रमः । धैर्यशौर्यगुणोपेतः सेनाध्यक्षो विधीयते ॥ २२२ ॥ समस्तहयशास्त्रज्ञो वाहनेषु जितश्रमः । शौर्यवीर्यगुणोपेतः अश्वाध्यक्षो विधीयते ॥ २२३ ॥ ( CĀŅAKYA-RĀJA-NĪTI इङ्गिताकारतत्त्वज्ञो बलवान प्रियदर्शनः । अप्रमादी सदा दक्षः प्रतीहारः स उच्यते ॥ २२४ ॥ अदीर्घमूत्रः स्मृतिमान् कृतज्ञो नीतिशास्त्रवित् । धीमानायतिदर्शी च मन्त्री राज्ञः सुसन्निधिः ॥ २२५ ॥ सकृदुक्तगृहीतार्थो लघुहस्तो जिताक्षरः । सर्वशास्त्रसमालोकी प्रकृष्टो नाम लेखकः ॥ २२६ ॥ मेधावी वाक्पटुः प्राज्ञः सत्यवादी जितेन्द्रियः । IV. KING'S OFFICIALS सर्वशास्त्रसमालोकी एष साधुः स लेखकः ॥ २२७ ॥ आयुर्वेदकृताभ्यासः सर्वेषां प्रियदर्शनः । आर्यशीलगुणोपेत एष वैद्यो विधीयते ॥ २२८ ॥ वेदवेदाङ्गतत्त्वज्ञो जपहोमपरायणः । आशीर्वादपरो नित्यमेष राज्ञः पुरोहितः ॥ २२९ ॥ CĀŅAKYA-RĀJA-NĪTI ज्ञानविज्ञानसंपन्नः प्रियवादी जितेन्द्रियः । सम्यग् विद्योपदेशी च शुचिराचार्य उच्यते ॥ २३० ॥ लेखक: पाठकश्चैव गणकः प्रतिबोधकः । ग्रहमन्त्रमयोक्ता च कालज्ञो राज्ञ उच्यते ॥ २३१ ॥ गणितज्ञो लिपेर्वक्ता श्रुतिस्मृतिपरायणः । ब्राह्मणो ग्रहमन्त्रज्ञो देववत् सोऽपि राध्यकः ॥ २३२ ॥ खञ्जः कुब्जो मन्दबुद्धिर्वृद्धोऽशक्तो जितेन्द्रियः । निस्पृहश्च प्रयोक्तव्यो राज्ञोऽन्तःपुररक्षकः ॥ २३३ ॥ पितृपैतामहो दक्षः शास्त्रज्ञो मिष्टपाचकः । सत्यशौचसमायुक्तः सूपकारः स उच्यते ॥ २३४ ॥ ( IV. KING's OFFICIALS मेधावी वाक्पटुः प्राज्ञः परचित्तोपलक्षकः । धीरो यथोक्तवादी च एष दूतो विधीयते ॥ २३५ ॥ प्रगल्भो बुद्धिमान् वक्ता परचित्तोपलक्षकः । धीरो यथोक्तवादी च दूत इत्यभिधीयते ॥ २३६ ॥ V. KING'S SUBJECTS आज्ञाभङ्गो नरेन्द्राणां विप्राणां मानखण्डना । पृथक् शय्या च नारीणामशस्त्रविहितो वधः ॥ २३७ ॥ सकृज्जल्पन्ति राजानः सकुज्जल्पन्ति पण्डिताः । सकृत् कन्या: प्रदीयन्ते त्रीण्येतानि सकृत् सकृत् ॥ २३८ ॥ V. KING's SUBJECTS लोको यथा किल तथा न हि भूपति: स्यात् सद्भूपतिः खलु यथैव तथैव लोकाः । धर्मप्रवृत्तिरथ तद्विपरीतवृत्तिः कृत्स्ने जने नरपतिः प्रभवत्यशेषम् ॥ २३९ ॥ माता यदि विषं दद्यात् पित्रा विक्रीयते सुतः । राजा हरति सर्वस्वं को मे त्राता भविष्यति ॥ २४० ॥ यत्र राजा स्वयं चौरः समन्त्री सपुरोहितः । तत्राहं किं करिष्यामि यतो रक्षा ततो भयम् ॥ २४१ ॥ राज्ञि धर्मिणि धर्मिष्ठाः पापे पापा: समे समाः । CĀṆAKYA-RĀJA-NĪTI राजानमनुवर्तन्ते यथा राजा तथा प्रजाः ॥ २४२ ॥ राजा राष्ट्रकृतं पापं राज्ञः पापं पुरोहितः । भर्ता च स्त्रीकृतं पापं शिष्यपापं गुरुस्तथा ॥ २४३ ॥ सिंहरूपेण राजानो व्याघ्ररूपेण मन्त्रिणः । भृत्यश्च गृध्ररूपेण क्षयं यास्यन्ति वै प्रजाः ॥ २४४ ॥ VI. VARIA नक्षत्रभूषणं चन्द्रो नारीणां भूषणं पतिः । पृथिवीभूषणं राजा विद्या सर्वस्य भूषणम् ॥ २४५ ॥ बालोऽपि नावमन्तव्यो मनुष्य इति भूमिपः । महती देवता ह्येषा नररूपेण तिष्ठति ॥ २४६ ॥ CĀŅAKYA-RĀJA-NĪTI एतदर्थं हि सौमित्रे राज्यमिच्छन्ति भूभृतः । यदेषां सर्वकार्येषु वचो न प्रतिहन्यते ॥ २४७ ॥ यच्छक्तावप्युपेक्षन्ते कदाचित् तत्र कारणम् । समूलकाषं कषितुमुपायोऽसौ न मूढता ॥ २४८ ॥ आज्ञामात्रफलं राज्यं ब्रह्मचर्यफलं तपः । ज्ञानमात्रफला विद्या दत्तभुक्तफलं धनम् ॥ २४९ ॥ अवंशपतितो राजा मूर्खपुत्रश्च पण्डितः । अधनेन धनं प्राप्य तृणवन्मन्यते जगत् ॥ २५० ॥ VI. VARIA शास्त्रार्थचक्षुषा विद्वान् नरेन्द्रा नीतिचक्षुषा । वेदार्थचक्षुषा विप्रा इतरे चर्मचक्षुषा ॥ २५१ ॥ गन्धेन गावः पश्यन्ति वेदैः पश्यन्ति ब्राह्मणाः । चारैः पश्यन्ति राजानश्चक्षुर्भ्यामितरे जनाः ॥ २५२ ॥ गन्धः सुवर्णे फलमिक्षुदण्डे नाकारि पुष्पं खलु चन्दनस्य । विद्वान् धनाढ्यो नृपतिश्चिरायु- र्धातुः पुरा कोऽपि न बुद्धिदोऽभूत् ॥ २५३ ॥ CĀŅAKYA-RĀJA-NĪTI रङ्कं करोति राजानं राजानं रङ्कमेव च । धनिनं निर्धनं चैव निर्धनं धनिनं विधिः ॥ २५४ ॥ अहिं नृपं च शार्दूलं किटिं च बालकं तथा । परश्वानं च मूर्खं च सप्त सुप्तान् न बोधयेत् ॥ २५५ ॥ विद्यार्थी सेवकः पान्थः क्षुधार्तो भयकातरः । भाण्डारी प्रतिहारी च सप्त सुप्तान् प्रंबोधयेत् ॥ २५६ ॥ आत्मद्वेषाद् भवेन्मृत्युः परद्वेषाद् धनक्षयः । राजद्वेषाद् भवेन्नाशो ब्रह्मद्वेषात् कुलक्षयः ॥ २५७ ॥ VI. VARIA वसन्ति नगरे देवास्तथा ग्रामेऽधमा जनाः । ग्रामान्तरे पिशाचाश्च​ ग्राममध्ये तु राक्षसाः ॥ २५८ ॥ विनयं राजपुत्रेभ्यः पण्डितेभ्य: सुभाषितम् । अनृतं द्यूतकारेभ्यः स्त्रीभ्यः शिक्षेत कैतवम् ॥ २५९ ॥ राजा वेश्या यमो ह्यग्निस्तस्करो बालयाचकौ । परदुःखं न जानन्ति ह्यष्टमो ग्रामकूटकः ॥ २६० ॥ कोऽर्थान् प्राप्य न गर्वितो विषयिणः कस्यापदोऽस्तं गताः स्त्रीभिः कस्य न खण्डितं भुवि मनः को नाम राज्ञां प्रियः । कः कालस्य न गोचरत्वमगमत् कोऽर्थी गतो गौरवं को वा दुर्जनवागुरासु पतितः क्षेमेण यातः पथि ॥ २६१ ॥ CĀŅAKYA-RĀJA-NĪTI काके शौचं द्यूतकारेषु सत्यं सर्प क्षान्तिः स्त्रीषु कामोपशान्तिः । क्लिबे धैर्यं मद्यपे तत्त्वचिन्ता राजा मित्रं केन दृष्टं श्रुतं वा ॥ २६२ ॥ VI. VARIA न राज्ञा सह मित्रत्वं न सर्पो निर्विषः क्व​चित् । न कुलं निर्मलं तत्र स्त्रीजनो यत्र जायते ॥ २६३ ॥ का प्रीतिः सह मार्जारैः का प्रीतिरवनीपतौ । गणिकाभिश्च का प्रीतिः का प्रीतिर्भिक्षुकैः सह ॥ २६४ ॥ नास्ति मैत्रं नरेन्द्रैश्च नास्ति मैत्रं खलैः सह । नास्ति मैत्रमवोधैश्च न च क्रीडा भुजंगमैः ॥ २६५ ॥ स्त्रीषु राजसु सर्पेषु स्वाध्याये शत्रुविग्रहे । अग्नौ दुर्जने विश्वासं कः प्राज्ञः कर्तुमर्हति ॥ २६६ ॥ CĀŅAKYA-RĀJA-NĪTI नखिनां च नदीनां च शृङ्गिणां शस्त्रपाणिनाम् । विश्वासो नैव कर्तव्यः स्त्रीषु राजकुलेषु च ॥ २६७ ॥ भेतव्यमकुलीनानां राजपरोपजीविनाम् । भेतव्यं ज्ञातशत्रूणां ज्ञात्वा पूर्वापकारिणम् ॥ २६८ ॥ VI. VARIA उन्मत्तानां भुजङ्गानां मद्यपानां च दन्तिनाम् । स्त्रीणां राजकुलानां च विश्वसन्ति गतायुषः ॥ २६९ ॥ शास्त्रं सुचिन्तितमपि प्रतिचिन्तनीयम् आराधितोऽपि नृपतिः परिशङ्कनीयः । अङ्के स्थितापि युवतिः परिरक्षणीया शास्त्रे नृपे च युवतौ वशतावसन्ना ॥ २७० ॥ अग्निरापः स्त्रियो मूर्खा: सर्पा राजकुलानि च । नित्यं यत्नेन सेव्यानि सद्यः प्राणहराणि षट् ॥ १७१ ॥ CĀNAKYA-RĀJA-NĪTI अत्यासन्ना विनाशाय दूरस्था न फलप्रदाः । सेव्यतां मध्यभागेन राजा वह्निर्गुरुः स्त्रियः ॥ २७२ ॥ सुहृदामुपकारकारणाद् द्विषतामध्यपकारकारणात् । नृपसंश्रय इष्यते बुधै- र्जंठरं को न बिभर्ति केवलम् ॥ २७३ ॥ VI. VARIA गुरुश्छाया पिता छाया छाया ज्येष्ठश्च बान्धवाः । छाया राजसु संमानमेताश्छाया: सुदुर्लभाः ॥ २७४ ॥ रिक्तपाणिर्न पश्येत राजानं देवतां गुरुम् । नैमित्तिकं च वैद्यं च फलेन फलमादिशेत् ॥ २७५ ॥ देवो राजा गुरुर्भार्या वैद्यनक्षत्रपाठकाः । रिक्तहस्ता न गच्छन्ति गते कार्ये न सिध्यति ॥ २७६ ॥