॥ श्रीः ॥ भासनाटकचक्रे स्वप्नवासवदत्तम् ( नान्यन्ते ततः प्रविशति सूत्रधारः । ) सूत्रधारः- उदयनवेन्दुसवर्णावासवदत्ताबलौ बलस्य त्वाम् । पद्मावतीर्णपूर्णौ वसन्तकम्रौ भुजौ पाताम् ॥ १ ॥ एवमार्यमिश्रान् विज्ञापयामि । अये ! किं नु खलु मयि विज्ञापन- व्यग्रे शब्द इव श्रूयते । अङ्ग ! पश्यामि । ( नेपथ्य । ) उस्सरह उस्सरह अय्या ! उम्सरह ॥ [ उत्सरतोत्सरतार्याः ! उत्सरत । ] सूत्रधारः - भवतु, विज्ञातम् । भृत्यैर्मगधराजस्य स्निग्धैः कन्यानुगामिभिः । धृष्टमुत्सार्यते सर्वस्तपोवनगतो जनः ॥ २ ॥ ( निष्क्रान्तः । ) स्थापना । ( प्रविश्य । ) भटौ — उस्सरह उस्सरह अय्या ! उस्सरह ॥ [ उत्सरतोत्सरतार्याः उत्सरत । ] ( ततः प्रविशति परिव्राजकवेषो यौगन्धरायण आवन्तिकावेषधारिणी वासवदत्ता च । ) यौगन्धरायणः– ( कर्णे दत्त्वा । ) कथमिहाप्युत्सार्यते । कुतः, धीरस्याश्रमसंश्रितस्य वसतस्तुष्टस्य वन्यैः फलै- र्मनार्हस्य जनस्य वल्कलवतस्त्रासः समुत्पाद्यते । उत्सिक्तो विनयादपेतपुरुषो भाग्यैश्चलैर्विस्मितः कोऽयं भो निभृतं तपोवनमिदं ग्रामीकरोत्याज्ञया ॥ ३ ॥ वासवदत्ता–अय्य! को एसो उस्सारेदि । [ आर्य ! क एष उत्सारयति । ] यौगन्धरायणः - भवति ! यो धर्मादात्मानमुत्सारयति । वासवदत्ता - अय्य! ण हि एव्वं वत्तुकामा, अहं वि णाम उस्सार- इदव्वा होमि त्त्ति ॥ [ आर्य ! न ह्येवं वक्तुकामा, अहमपि नामो- त्सारयितव्या भवामीति । ] यौगन्धरायणः-भवति ! एवमनिर्ज्ञातानि दैवतान्यवधूयन्ते । वासवदत्ता - अय्य! तह परिस्समो परिखेदं ण उप्पादेदि, जह अअं परिभवो ॥ [ आर्य ! तथा परिश्रमः परिखेदं नोत्पादयति, यथायं परिभवः । ] यौगन्धरायणः - भुक्तोज्झित एष विषयोऽत्रभवत्या । नात्र चिन्ता कार्या । कुतः, पूर्वं त्वयाप्यभिमतं गतमेवमासी- च्छ्लाघ्यं गमिष्यसि पुनर्विजयेन भर्तुः । कालक्रमेण जगतः परिवर्तमाना चक्रारपंक्तिरिव गच्छति भाग्यपंक्तिः ॥ ४ ॥ भटौ—उस्सरह अय्या! उस्सरह ॥ [ उत्सरतार्याः उत्सरत । ] ( ततः प्रविशति काञ्चुकीयः । ) काञ्चुकीयः-सम्भषक ! न खलु न खलूत्सारणा कार्या । पश्य, परिहरतु भवान् नृपापवादं न परुषमाश्रमवासिषु प्रयोज्यम् । नगरपरिभवान् विमोक्तुमेते वनमभिगम्य मनस्विनो वसन्ति ॥ ५ ॥ उभौ—अय्य ! तह ॥ [ आर्य ! तथा । ] ( निष्क्रान्तौ । ) ३ यौगन्धरायणः - हन्त सविज्ञानमस्य दर्शनम् । वत्से ! उपसर्पा- वस्तावदेनम् । वासवदत्ता - अय्य! तह ॥ [ आर्य ! तथा । ] ६ यौगन्धरायणः - ( उपसृत्य । ) भोः ! किंकृतेयमुत्सारणा । काञ्चुकीयः- भोस्तपस्विन् ! । यौगन्धरायणः-( आत्मगतम् । ) तपस्विन्निति गुणवान् खल्वय- मालापः । अपरिचयात्तु न श्लिष्यते मे मनसि । काञ्चुकीयः- भोः ! श्रूयताम् । एषा खलु गुरुभिरभिहितनामधेय- स्यास्माकं महाराजदर्शकस्य भगिनी पद्मावती नाम । सैषा नो महाराजमातरं महादेवीमाश्रमस्थामभिगम्यानुज्ञाता तत्रभवत्या राजगृहमेव यास्यति । तदद्यास्मिन्नाश्रमपदे वासोऽभिप्रेतोऽस्याः । तद् भवन्तः तीर्थोदकानि समिधः कुसुमानि दर्भान् स्वैरं वनादुपनयन्तु तपोधनानि । धर्मप्रिया नृपसुता न हि धर्मपीडा- मिच्छेत् तपस्विषु कुलत्रतमेतदस्याः ॥ ६ ॥ यौगन्धरायणः -( स्वगतम् । ) एवम् । एषा सा मगधराजपुत्री पद्मा- वती नाम, या पुष्पकभद्रादिभिरादेशिकैरादिष्टा स्वामिनो देवी भविष्यतीति । ततः, प्रद्वेषो बहुमानो वा संकल्पादुपजायते । भर्तृदाराभिलाषित्वादस्यां मे महती स्वता ॥ ७ ॥ वासवदत्ता–( स्वगतम् । ) राअदारिअत्ति सुणिअ भइणिआसि- णेहो वि मे एत्थ सम्पज्जइ ॥ [ राजदारिकेति श्रुत्वा भगिनिकास्ने हो- ऽपि मेऽत्र संपद्यते । ] ( ततः प्रविशति पद्मावती सपरिवारा चेटी च । ) चेटी - एदु एदु भट्टिदारिआ, इदं अस्समपदं, पविसदु ॥ [ एत्वेतु भर्तृदारिका, इदमाश्रमपदम् , प्रविशतु । ] (ततः प्रविशत्युपविष्टा तापसी । ) तापसी-साअदं राअदारिआए ॥ [ स्वागतं राजदारिकाया: । ] वासवदत्ता–( स्वगतम् । ) इअं सा राअदारिआ । अभिजणाणुरुवं खु से रूवं ॥ [ इयं सा राजदारिका । अभिजनानुरूपं खल्वस्या रूपम्। ] पद्मावती - अय्ये ! वन्दामि ॥ [ आयें ! वन्दे । ] तापसी - चिरं जीव । पविस जादे ! पविस । तवोवणाणि णाम अदिहिजणस्स सअगेहं ॥ [ चिरं जीव । प्रविश जाते ! प्रविश । तपोवनानि नामातिथिजनस्य स्वगेहम् । ] पद्मावती - भोदु भोदु । अय्ये ! विस्सत्थम्हि । इमिणा बहुमानवअ- णेण अणुग्गहिदम्हि ॥ [ भवतु भवतु । आयें ! विश्वस्तास्मि । अनेन बहुमानवचनेनानुगृहीतास्मि । ] वासवदत्ता-( स्वगतम् । ) ण हि रूवं एव्व, वाआ विखु से महुरा ॥ [ न हि रूपमेव, वागपि खल्वस्या मधुरा । ] तापसी- भद्दे ! इमं दाव भद्दमुहस्य भइणिअं कोचि राआ ण वरेदि ॥ [ भद्रे ! इमां तावद् भद्रमुखस्य भगिनिकां कश्चिद् राजा न वरयति । ] ―i.8.6] प्रथमोऽङ्कः । चेटी- अत्थि राआ पज्जोदो णाम उज्जइणीए । सो दारअस्स कार - २४ णादो दूदसम्पादं करेदि ॥ [ अस्ति राजा प्रद्योतो नामोज्जयिन्याः । स दारकस्य कारणाद् दूतसंपातं करोति । ] वासवदत्ता-( आत्मगतम् । ) भोदु भोदु । एसा अ अत्तणीआ दाणिं २७ संवृत्ता । [ भवतु भवतु । एषा चात्मीयेदानीं संवृत्ता । ] तापसी -अर्हा खु इअं आइदी इमस्स बहुमाणस्स । उभआणि राउळाणि महत्तराणि त्ति सुणीअदि । [ अर्हा खल्वियमाकृति- ३० रस्य बहुमानस्य । उभे राजकुले महत्तरे इति श्रूयते । ] पद्मावती - अय्य! किं दिट्ठो मुणिजणो अत्ताणं अणुग्गहीदुं । अभिप्पेदप्पदाणेण तवस्सिजणो उवणिमन्तीअदु दाव को किं एत्थ ३३ इच्छदित्ति ॥ [ आर्य ! किं दृष्टो मुनिजन आत्मानमनुग्रहीतुम् । अभिप्रेतप्रदानेन तपस्विजन उपनिमन्त्रयतां तावत् कः किमत्रेच्छतीति । ] काञ्चुकीयः- यदभिप्रेतं भवत्या । भो भो आश्रमवासिनस्तपस्विनः, ३६ शृण्वन्तु गृण्वन्तु भवन्तः । इहात्रभवती मगधराजपुत्री अनेन विस्रम्भेणोत्पादितविस्रम्भा धर्मार्थमर्थेनोपनिमन्त्रयते । कस्यार्थः कलशेन को मृगयते वासो यथानिश्चितं दीक्षां पारितवान् किमिच्छति पुनर्देयं गुरोर्यद् भवेत् । आत्मानुप्रहमिच्छतीह नृपजा धर्माभिरामप्रिया यद् यस्यास्ति समीप्सितं वदतुतत् कस्याद्य किं दीयताम् ॥ ८ ॥ यौगन्धरायणः - हन्त दृष्ट उपायः । ( प्रकाशम् । ) भोः ! अहमर्थी । पद्मावती - दिट्टिआ सहळं मे तवोवणाभिगमणं ॥ [ दिष्टया सफल ३ मे तपोवनाभिगमनम् । ] तापसी - संतुद्रुतपरिसजणं इदं अस्समपदं । आअन्तुएण इमिणा होदव्वं ॥ [ सन्तुष्टतपस्विजनमिदमाश्रमपदम् । आगन्तुकेनानेन भवि- ६ तम्यम् । ] स्वप्नवासवदत्ते [1.8. काञ्चुकीयः- भोः ! किं क्रियताम् । यौगन्धरायणः - इयं मे स्वसा । प्रोषितभर्तृकामिमामिच्छाम्यत्रभ- ९ वत्या कंचित् कालं परिपाल्यमानाम् । कुतः, कार्यं नैवार्नापि भोगैर्न वस्त्र- नहिं काषायं वृत्तिहेतोः प्रपन्नः । धीरा कन्येयं दृष्टधर्मप्रचारा शक्ता चारित्रं रक्षितुं मे भगिन्याः ॥ ९ ॥ वासवदत्ता—( आत्मगतम् । ) हं । इह मं णिक्खिविदुकामो अय्य- योगन्धरायणो । होदु, अविआरिअ कर्म ण करिस्सदि ॥ [हम् । ३ इह मां निक्षेकाम आर्ययौगन्धरायणः । भवतु, अविचार्य क्रमं न करिष्यति । ] काञ्चुकीयः- भवति ! महती खल्वम्य व्यपाश्रयणा । कथं प्रति- ६ जानीमः । कुतः, सुखमर्थो भवेद् दातुं सुखं प्राणाः सुखं तपः । सुखमन्यद् भवेत् सर्वं दुःखं न्यासस्य रक्षणम् ॥ १० ॥ पद्मावती - अय्य! पढमं उग्घोसिअ को किं इच्छदित्ति अजुत्तं दाणिं विआरिढुं । जं एसो भणादि, तं अणुचिट्ठदु अय्यो ॥ ३ [ आर्य ! प्रथममुद्धोच्य कः किमिच्छतीत्ययुक्तमिदानीं विचारयितुम् । यद्वेष भणति तदनुतिष्टत्वार्यः । ] काञ्चुकीयः- अनुरूपमेतद्भवत्याभिहितम् । ६ चेटी - चिरं जीवदु भट्टिदारिआ एवं सच्चवादिणी ॥ [ चिरं जीवतु भर्तृदारिकैवं सत्यवादिनी । ] तापसी - चिरं जीवदु भद्दे ! । [ चिरं जीवतु भद्रे ! । ] ९ काञ्चुकीयः-भवति ! तथा । (उपगम्य ।) भोः ! अभ्युपगतमत्रभवतो भगिन्याः परिपालनमत्रभवत्या । —i.12] प्रथमोऽङ्कः । यौगन्धरायणः - अनुगृहीतोऽस्मि तत्रभवत्या । वत्से ! उपसर्पात्र- १२ भवतीम् । वासवदत्ता-( आत्मगतम् । ) का गई। एसा गच्छामि मन्दभाआ ॥ [ का गतिः । एषा गच्छामि मन्दभागा । ] १५ पद्मावती - भोदु भोदु । अत्तणीआ दाणिं संवृत्ता ॥ [ भवतु भवतु । आत्मीयेदानीं संवृत्ता । ] तापसी - जा ईदिसी से आइदी, इयं वि राअदारिअत्ति तक्केमि ॥ १८ [ यदिदृश्यस्या आकृति:, इयमपि राजदारिकेति तर्कयामि । ] चेटी- टी - सुट्टु अय्या भणादि । अहं वि अणुहृदहति पेक्खामि ॥ [ सुष्ठु आर्या भणति । अहमप्यनुभूतसुखेति पश्यामि । ] २१ यौगन्धरायणः - (आत्मगतम् । ) हन्त भोः ! अर्धमवसितं भारस्य । यथा मन्त्रिभिः सह समर्थितं, तथा परिणमति । ततः प्रतिष्ठि स्वाभिनि तत्रभवतीमुपनयतो मे इहात्रभवती मगधराजपुत्री २४ विश्वासस्थानं भविष्यति । कुतः, पद्मावती नरपतेर्महिषी भवित्री दृष्टा विपत्तिरथ यैः प्रथमं प्रदिष्टा । तत्प्रत्ययात् कृतमिदं न हि सिद्धवाक्या- न्युत्क्रम्य गच्छति विधिः सुपरीक्षितानि ॥ ११ ॥ ( ततः प्रविशति ब्रह्मचारी । ) ब्रह्मचारी - (ऊर्ध्वमवलोक्य ।) स्थितो मध्याह्नः । दृढमस्मि परिश्रान्तः । ३ अथ कस्मिन् प्रदेशे विश्रमयिष्ये । ( परिक्रम्य । ) भवतु, दृष्टम् । अभितस्तपोवनेन भवितव्यम् । तथाहि- विस्रब्धं हरिणाश्चरन्त्यच किता देशागत प्रत्यया वृक्षाः पुष्पफलैः समृद्धविटपाः सर्वे दयारक्षिताः । स्वप्नवासवदत्तं भूयिष्ठं कपिलानि गोकुलधनान्यक्षेत्रवत्यो दिशो [i.12.- निःसंदिग्धमिदं तपोवनमयं धूमो हि बह्वाश्रयः ॥ १२ ॥ यावत् प्रविशामि । ( प्रविश्य । ) अये आश्रमविरुद्धः खल्वेष जनः । ( अन्यतो विलोक्य । ) अथवा तपस्विजनोऽप्यत्र । निर्दोषमुपसर्पणम् । ३ अये स्त्रीजनः । काञ्चुकीयः- स्वैरं स्वैरं प्रविशतु भवान् । सर्वजनसाधारणमाश्रम- पदं नाम । ६ वासवदत्ता - हं । हम् । पद्मावती-अम्मो परपुरुसदंसणं परिहरदि अय्या । भोदु, सुपरि- वाळणीओ खु मण्णासो ॥ [अम्मो परपुरुषदर्शनं परिहरत्यार्या । भवतु, ९ सुपरिपालनीयः खलु मन्न्यासः । ] काञ्चुकीयः- भोः ! पूर्वं प्रविष्टाः स्मः । प्रतिगृह्यतामतिथिसत्कारः । ब्रह्मचारी-( आचभ्य । ) भवतु, भवतु । निवृत्तपरिश्रमोऽस्मि । १२ यौगन्धरायणः-भोः ! कुत आगम्यते, क्क गन्तव्यं, क्वाधिष्ठानमार्यस्य । ब्रह्मचारी - भोः ! श्रूयताम् । राजगृहतोऽस्मि । श्रुतिविशेषणार्थं वत्सभूमौ लावाणकं नाम ग्रामस्तत्रोषितवानस्मि । १५ वासवदत्ता - ( आत्मगतम् । ) हा ळावाणअं णाम । ळावाणअसं- कित्तणेण पुणो णवीकिदो विअ मे सन्दावो । [ हा लावाणकं नाम । लावाणकसंकीर्तनेन पुनर्नवीकृत इव मे संतापः । ] १८ यौगन्धरायणः - अथ परिसमाप्ता विद्या । ब्रह्मचारी - न खलु तावत् । यौगन्धरायणः - यद्यनवसिता विद्या, किमागमनप्रयोजनम् । २१ ब्रह्मचारी - तत्र खल्वतिदारुणं व्यसनं संवृत्तम् । यौगन्धरायणः - कथमिव । ब्रह्मचारी - तत्रोदयनो नाम राजा प्रतिवसति । i -i.12.48] प्रथमोऽङ्कः । २४ यौगन्धरायणः - श्रूयते तत्रभवानुदयनः । किं सः । ब्रह्मचारी - तस्यावन्तिराजपुत्री वासवदत्ता नाम पत्नी दृढमाप्रता किल । २७ यौगन्धरायणः - भवितव्यम् । ततस्ततः । ब्रह्मचारी - ततस्तस्मिन् मृगयानिष्क्रान्ते राजनि ग्रामदाहेन सा दुग्धा । ३० वासवदत्ता - ( आत्मगतम् । ) अळिअं अळिअं खु एदं । जीवामि मन्दभाआ ॥ [ अलीकमलीकं खल्वेतत् । जीवामि मन्दभागा । । यौगन्धरायणः - ततस्ततः । ३३ ब्रह्मचारी-ततस्तामभ्यवपत्तुकामो यौगन्धरायणो नाम सचिवस्त - स्मिन्नेवानौ पतितः । यौगन्धरायणः - सत्यं पतित इति । ततस्ततः । ३६ ब्रह्मचारी - ततः प्रतिनिवृत्तो राजा तद्वृत्तान्तं श्रुत्वा तयोर्वियोग- जनितसंतापस्तम्मिन्नेवाग्नौ प्राणान् परित्यक्तुकामोऽमात्यैर्महता यत्नेन वारितः । ३९ वासवदत्ता - (आत्मगतम् । ) जाणामि जाणामि अय्यउत्तस्य मइ साणुकोसत्तणं ॥ [ जानामि जानाम्यार्यपुत्रस्य मयि सानुक्रोशत्वम् । ] यौगन्धरायणः -- ततस्ततः । ४२ ब्रह्मचारी - ततस्तस्याः शरीरोपभुक्तानि दग्धशेषाण्याभरणानि परि- ष्वज्य राजा मोहमुपगतः । सर्वे- हा । ४५ वासवदत्ता - (स्वगतम् । ) सकामो दाणि अय्यजोअन्धराअगो हो ॥ [ सकाम इदानीमार्ययौगन्धरायणो भवतु । ] चेटी - भट्टिदारिए ! रोदिदि खु इअं अय्या ॥ [ भर्तृदारिके ! रोदिति ४८ खल्वियमार्या ।] स्वप्रवासवदत्ते [i.12.49 पद्मावती-साणुकोसाए होदव्वं । [ सानुक्रोशया भवितव्यम् । ] यौगन्धरायणः - अथ किमथ किम् । प्रकृत्या सानुक्रोशा मे भगिनी । ५ १ ततस्ततः । ब्रह्मचारी - ततः शनैः शनैः प्रतिलब्धसंज्ञः संवृत्तः । पद्मावती - दिट्टिआ धरइ । मोहं गदो त्ति सुणिअ सुवि ५४ हिअअं ॥ [दिष्टया ध्रियते । मोहं गत इति श्रुत्वा शून्यमिव मे हृदयम् । ] यौगन्धरायणः - ततस्ततः । ब्रह्मचारी-ततः स राजा महीतलपरिसर्पणपांसुपाटलशरीरः सह- ५७ सोत्थाय 'हा वासवदत्ते ! हा अवन्तिराजपुत्रि ! हा प्रिये ! हा प्रिय- शिष्ये ! ' इति किमपि किमपि बहु प्रलपितवान् । किं बहुना, नैवेदानीं तादृशाश्चक्रवाका नैवाप्यन्ये स्त्री विशेषैर्वियुक्ताः । धन्या सा स्त्री यां तथा वेत्ति भर्ता भर्तृस्नेहात् सा हि दग्धाप्यदग्धा ॥ १३ ॥ यौगन्धरायणः - अथ भोः ! तं तु पर्यवस्थापयितुं न कश्चिद्यत्न- वानमात्यः । ३ ब्रह्मचारी-अस्ति रुमण्वान्नामामात्यो दृढं प्रयत्नवांस्तत्रभवन्तं पर्य- वस्थापयितुम् । स हि अनाहारे तुल्यः प्रततरुदितक्षामवदनः शरीरं संस्कारं नृपतिसमदुःखं परिवहन् । दिवा वा रात्रौ वा परिचरति यत्नैर्नरपतिं नृपः प्राणान् सद्यस्त्यजति यदि तस्याप्युपरमः ॥ १४ ॥ वासवदत्ता- (स्वगतम् । ) दिट्टिआ सुणिक्खित्तो दोणि अय्यउत्तो ॥ [ दिष्टया सुनिक्षिप्त इदानीमार्यपुत्रः । ] 1 Printed editions give दाणी । -i.15.21] प्रथमोऽङ्कः । ३ यौगन्धरायणः - ( आत्मगतम् । ) अहो महद्भारमुद्वहति रुमण्वान् । कुतः, सविश्रमो ह्ययं भारः प्रसक्तस्तस्य तु श्रमः । तस्मिन् सर्वमधीनं हि यत्राधीनो नराधिपः ॥ १५ ॥ ( प्रकाशम् । ) अथ भोः ! पर्यवस्थापित इदानीं स राजा । ब्रह्मचारी - तदिदानीं न जाने । ' इह तया सह हसितम्, इह तया ३ सह कथितम्, इह तया सह पर्युषितम्, इह तया सह कुपितम्, इह तया सह शयितम् ' इत्येवं तं विलपन्तं राजानममात्यैर्महता यत्नेन तस्माद् ग्रामाद् गृहीत्वापक्रान्तम् । ततो निष्क्रान्ते राजनि ६ प्रोषितनक्षत्रचन्द्रमिव नभोऽरमणीयः सवृत्तः स ग्रामः । ततोऽह- मपि निर्गतोऽस्मि । " तापसी - सो खु गुणवन्तो नाम राआ, जो आअन्तुपण वि इमिण ९ एवं पसंसीअदि ॥ [ स खलु गुणवान् नाम राजा, य आगन्तुकेना- प्यनेनैवं प्रशस्यते । ] चेटी - भट्टिदारिए ! किं णु खु अवरा इत्थिआ तस्स हत्थं गमि- १२ स्सदि ॥ [ भर्तृदारिके ! किं नु खल्वपरा स्त्री तस्य हस्तं गमिष्यति । ] पद्मावती - (आत्मगतम् । ) मम हिअएण एव्व सह मन्तिदं ॥ [ सम हृदयेनैव सह मन्त्रितम् । ] १५ ब्रह्मचारी- आपृच्छामि भवन्तौ । गच्छामस्तावत् । उभौ-गम्यतामर्थसिद्धये । ब्रह्मचारी - तथास्तु । (निष्क्रान्तः । ) १८ यौगन्धरायणः - साधु, अहमपि तत्रभवत्याभ्यनुज्ञातो गन्तुमिच्छामि । काञ्चुकीयः-तत्रभवत्याभ्यनुज्ञातो गन्तुमिच्छति किल । पद्मावती - अय्यस्स भइणिआ अय्येण विना उक्कण्ठिस्सिदि ॥ २१ [ आर्यस्य भगिनिकार्येण विनोत्कठिष्यते । ] स्वप्नवासवदत्ते [i.15.22_ यौगन्धरायणः - साधुजनहस्तगतैषा नोत्कण्ठिष्यति । ( काञ्चुकीयम- वलोक्य । ) गच्छामस्तावत् । २४ काञ्चुकीयः- गच्छतु भवान् पुनर्दर्शनाय । यौगन्धरायणः - तथास्तु । (निष्क्रान्तः । ) काञ्चुकीयः- समय इदानीमभ्यन्तरं प्रवेष्टुम् । २७ पद्मावती - अय्ये ! वन्दामि ॥ [ आयें ! वन्दे । ] तापसी - जादे ! तव सदिसं भत्तारं क्रमेहि ॥ [ जाते ! तव सदृशं भर्तारं लभस्व । ] ३० वासवदत्ता - अय्ये ! वन्दामि दाव अहं ॥ [ आयें ! वन्दे तावदहम् । ] तापसी - तुवं पि अइरेण भत्तारं समासादेहि ॥ [ स्वमप्यचिरेण भर्तारं समासादय । ] ३३ वासवदत्ता - अणुग्गहीदम्हि ॥ [ अनुगृहीतास्मि । ] काञ्चुकीयः- तदागम्यताम् । इत इतो भवति ! । संप्रति हि खगा वासोपेताः सलिलमवगाढो मुनिजनः प्रदीप्तोऽग्निर्भाति प्रविचरति धूमो मुनिवनम् । परिभ्रष्टो दूराद्रविरपि च संक्षिप्तकिरणो रथं त्र्यावर्त्यासौ प्रविशति शनैरस्तशिखरम् ॥ १६ ॥ (निष्क्रान्ताः सर्वे । ) ( तत: प्रविशति चेटी । ) इति प्रथमोऽङ्कः । अथ द्वितीयोऽङ्कः । चेटी- कुञ्जरिए ! कुञ्जरिए ! कहिं कहिं भट्टिदारिआ पदुमावदी । ३ किं भणासि ' एसा भट्टिदारिआ माहवीळदामण्डवस्स परसदो कन्दुए कीळदि ' त्ति । जाव भट्टिदारिअं उवसप्पामि । ( परिक्र- -ii.29] द्वितीयोऽङ्कः । म्यावलोक्य) अम्मो इअं भट्टिदारिआ उक्करिदकण्णचूळिएण ६ वा आमसज्जाद सेदबिन्दुविइत्तिदेण परिस्सन्तरमणीअदंसणेण मुहेण कन्दुएण कीळन्दी इदो एव्व आअच्छदि । जाव उवसप्पिस्सं ॥ [कुम्जरिके ! कुञ्जरिके ! कुत्र कुत्र भर्तृदारिका पद्मावती । किं भणसि ? ९ एषा भर्तृदारिका माधवीलतामण्डपस्य पार्श्वतः कन्दुकेन क्रीडतीति ! यावद् भर्तृदारिकामुपसर्पामि । अम्मो इयं भर्तृदारिका उत्कृतकर्णचू- लिकेन न्यायामसंजातस्वेद बिन्दु विचित्रितेन परिश्रान्तरमणीयदर्शनेन १२ मुखेन कन्दुकेन क्रीडन्तीत एवागच्छति, यावदुपसप्स्यामि । ] ( निष्क्रान्ता । ) प्रवेशकः । १५ (ततः प्रविशति कन्दुकेन क्रीडन्ती पद्मावती सपरिवारा वासवदत्तया सह । ) वासवदत्ता-हळा ! एसो दे कन्दुओ । [ हला ! एष ते कन्दुक: । ] पद्मावती - अय्ये! भोदु दाणिं एत्तअं ॥ [ आयें ! भवत्विदानीमेतावत् । ] १८ वासवदत्ता - हळा ! अदिचिरं कन्दुरण कीलिअ अहिअसज्जादराआ परकेरआ विअ दे हत्था संवृत्ता ॥ [ हला ! अतिचिरं कन्दुकेन क्रीडित्वाधिकसंजातरागौ परकीयाविव ते हस्तौ संवृत्तौ । ] २१ टी - कीळदु कीळदु दाव भट्टिदारिआ । णिव्वतीअदु दाव अअं कण्णाभावरमणीओ काळो । [ क्रीडतु क्रीडतु तावद् भर्तृदारिका । निर्वर्त्यतां तावदयं कन्याभावरमणीय: काल: । ] २४ पद्मावती - अय्ये ! किं दाणिं मं ओहसिदुं विअ णिज्झाअसि ॥ [ आयें ! किमिदानीं मामपहसितुमिव निध्यायसि । ] वासवदत्ता - हि हि । हळा ! अधिअं अज्ज सोहदि । अभिदो २७ विअ दे अज्ज वरमुहं पेक्खामि ॥ [ नहि नहि । हला ! अधिकमथ शोभते । अभित इव तेऽद्य वरमुखं पश्यामि । ] पद्मावती - अवेहि । मा दाणिं मं ओहस ॥ [ अपेहि । मेदानीं मामपहस ।] स्वप्रवासवदत्ते ३० वासवदत्ता - एसम्हि तुहीआ भविस्सम्महासेणवहू ! ॥ [ तूष्णीका भविष्यन्महासेनवधु ! ॥ ] [ ii. 30 - पद्मावती - को एसो महासेणो णाम । [ क एष महासेनो नाम । ] ३३ वासवदत्ता - अत्थि उज्जइणीओ राआ पज्जोदो णाम । तस्स बळ - परिमाणणिव्वृत्तं णामधेअं महासेणो त्ति ॥ [ अस्त्युज्जयिनयो राजा प्रद्योतो नाम । तस्य बलपरिमाणनिवृत्तं नामधेयं महासेन इति । ] ३६ चेटी- भट्टिदारिआ तेण राज्ञा सह सम्बंधं णेच्छदि ॥ [ भर्तृदारिका तेन राज्ञा सह सम्बंधं नेच्छति । ] वासवदत्ता - अह केण खु दाणिं अभिळसदि ॥ [ अथ केन खल्वि- ३९ दानीमभिलपति । ] चेटी- अत्थि वच्छराओ उदअणो णाम । तस्स गुणाणि भट्टिदा- रिआ अभिळसदि ॥ [ अम्ति वत्सराज उदयनो नाम । तस्य गुणान् ४२ भर्तृदारिकाभिलषति । ] वासवदत्ता - ( आत्मगतम् । ) अय्यउत्तं भत्तारं अभिळसदि । (प्रका- शम् । ) केण कारणेण ॥ [ आर्यपुत्रं भर्तारमभिलपति । केन कारणेन । ] ४५ चेटी - साणुकोसो त्ति ॥ [ सानुक्रोश इति । ] वासवदत्ता - ( आत्मगतम् । ) जाणामि जाणामि । अअं वि जणो एवं उम्मादिदो ॥ [ जानामि जानामि । अयमपि जन एव- ४८ मुन्मादितः । ] चेटी - भट्टिदारिए ! जदि सो राआ विरूवो भवे ॥ [ भर्तृदारिके ! यदि स राजा विरूपो भवेत् । ] ५१ वासवदत्ता - हि नहि । दंसणीओ एव्व ॥ [ नहि नहि । दर्शनीय एव । ] पद्मावती - अय्ये ! कहं तुवं जाणासि ॥ [आयें ! कथं त्वं जानासि । ] ५४ वासवदत्ता - (आत्मगतम् । ) अय्यउत्तपक्खवादेण अदिकन्दो समु- _ii ] द्वितीयोऽङ्कः । दाआरो। किं दाणिं करिस्सं । होदु, दिट्टं । ( प्रकाशम् ) हळा ! एवं उज्जइणीओ जणो मन्तेदि ॥ [ आर्यपुत्रपक्षपातेनातिक्रान्तः ५७ समुदाचारः । किमिदानीं करिष्यामि । भवतु, दृष्टम् । हला ! एवमुज- यिनीय जनो मन्त्रयते । ] पद्मावती - जुज्जइ । ण खु एसो उज्जइणीदुळहो । सव्वजणमणाभि- सोभग्गं णाम ॥ [ युज्यते । न खल्वेष उज्जयिनीदुर्लभः । रामं खु सर्वजनमनोभिरामं खलु सौभाग्यं नाम । ] ( ततः प्रविशति धात्री । ) ६३ धात्री - जेदु भट्टिदारिआ । भट्टिदारिए ! दिण्णासि ॥ [ जयतु भर्तृ- दारिका । भर्तृदारिके ! दत्तासि । ] वासवदत्ता - अय्ये ! कस्स ॥ [ आयें ! कस्मै । ] ६६ धात्री - वच्छराअस्स उद्अणस्स ॥ [ वत्सराजायोदयनाय । ] वासवदत्ता - अह कुसळी सो राआ ॥ [ अथ कुशली स राजा । ] धात्री - कुसळी सो आअदो । तस्स भट्टिदारिआ पडिच्छिदा अ ॥ ६९ [ कुशली स आगतः । तस्य भर्तृद्वारिका प्रतीष्टा च । ] वासवदत्ता -अञ्चाहिदं ॥ [ अत्याहितम् । ] धात्री - किं एत्थ अच्चाहिदं ॥ [ किमत्रात्याहितम् । ] ७२ वासवदत्ता - ण हु किचि । तह णाम सन्तपिअ उदासीणो होदि त्ति ॥ [ न खलु किंचित् । तथा नाम संतप्योदासीनो भवतीति । ] धात्री - अय्ये ! आअमप्पहाणाणि सुळहपय्यवत्थाणाणि महापुरु ७५ सहिअआणि होन्ति ॥ [ आयें ! आगमप्रधानानि सुलभपर्यवस्थानानि महापुरुषहृदयानि भवन्ति । ] वासवदत्ता - अय्ये ! सअं एव तेण वरिदा ॥ [ आयें ! स्वयमेव ७८ तेन वरिता । ] धात्री - हि हि । अण्णप्पओअणेण इह आअदम्स अभिजणवि- स्वप्नवासवदत्ते वओरूवं पेक्खिअ सअं एव्व महाराएण दिष्णा ॥ [ ii. 80_ [ नहि ८१ नहि । अन्यप्रयोजनेनेहा गतस्याभिजनविज्ञानवयोरूपं दृष्ट्वा स्वयमेव महा- 1 राजेन दत्ता । ] वासवदत्ता-( आत्मगतम् । ) एव्वं । अणवरद्धो दाणिं एत्थ अय्य- ८४ उत्तो ॥ [ एवम् । अनपराद्ध इदानीमत्रार्यपुत्रः । ] ( प्रविश्यापरा ) ( निष्क्रान्ताः सर्वे । ) ( ततः प्रविशति विचिन्तयन्ती वासवदत्ता । ) चेटी - तुवरदु तुवरदु दाव अय्या । अज्ज एव्व किळ सोभणं ८७ णक्खत्तं । अज्ज एव्व कोदुअमङ्गळं कादव्वं त्ति अम्हाणं भट्टिणी भणादि ॥ [ स्वरतां त्वरतां तावदार्या । अथैव किल शोभनं नक्षत्रम् । अद्यैव कौतुकमङ्गलं कर्तव्यमित्यस्माकं भट्टिनी भणति । ] ९० वासवदत्ता - ( आत्मगतम् । ) जह जह तुवरदि, तह तह अन्धीक रेदि मे हिअअं ॥ [ यथा यथा त्वरते, तथा तथान्धीकरोति मे हृदयम् । ] ९३ धात्री - एदु एदु भट्टिदारिआ ॥ [ एत्वेतु भर्तृदारिका । ] इति द्वितीयोऽङ्कः । अथ तृतीयोऽङ्कः । वासवदत्ता - विवाहामोदसङ्कळे अन्तेउरचउरसाळे परित्तजिअ पदु- ३ मावदिं इह आअदम्हि पमदवणं। जाव दाणिं भाअधेअणिव्वत्तं दुःखं विणोमि । (परिक्रम्य !) अहो अच्चाहिदं । अय्यउत्तो वि णाम पर- केरओ संवुत्तो । जाव उवविसामि । (उपविश्य ।) धना खु चक्कवा- ६ अवहू, जा अण्णोष्णविरहिदा ण जीवइ । ण खु अहं पाणाणि परित्तजामि । अय्यउत्तं पेक्खामि त्ति एदिणा मणारहेण जीवामि iii.30 ] तृतीयोऽङ्कः । मन्दभाआ ॥ [विवाहा मोदसकुले अन्तःपुरचतुःशाले परित्यज्य पद्मा ९ वतीमिहागतोस्मि प्रमदवनम् । यावदिदानीं भागधेयनिर्वृत्तं दुःखं विनोदयामि । अहो अत्याहितम् । आर्यपुत्रोऽपि नाम परकीयः संवृत्तः । यावदुपविशामि । धन्या खलु चक्रवाकवधूः यान्योन्यविरहिता न १२ जीवति । न खल्वहं प्राणान् परित्यजामि । आर्यपुत्रं पश्यामीत्यनेन मनोरथेन जीवामि मन्दभागा । ] ( ततः प्रविशति पुष्पाणि गृहीत्वा चेटी । ) १५ चेटी - कहिं णु खु गदा अय्या आवन्तिआ । ( परिक्रम्यावलोक्य । ) अम्मो इअं चिन्तासुनहिअअ णीहारपडिहदचन्दळेहा विअ अमण्डिदभद्दअं वेसं धारअन्दी पिअङ्गसिळापट्टए उवविट्ठा । जाव १८ उवसप्पामि । ( उपसृत्य । ) अय्ये ! आवन्तिए ! को काळो, तुमं अण्णेसामि ॥ [ क्व नु खलु गता आर्यावन्तिका । अम्मो इयं चिन्ता- शून्यहृदया नीहारप्रतिहतचन्द्रलेखेवामण्डितभद्रकं वेषं धारयन्ती प्रियङ्गु- २१ शिलापट्टके उपविष्टा । यावदुपसर्पामि । आयें ! आवन्तिके ! कः कालः, त्वामन्विष्यामि । ] वासवदत्ता-किण्णिमित्तं ॥ [ किनिमित्तम् । ] २४ चेटी - अम्हा भट्टिणी भणादि 'महाकुळप्पसूदा सिणिद्धा णिउणा' त्ति । इमं दाव कोदुअमाळिअं गुम्हदु अय्या ॥ [ अस्माकं भट्टिनी भणति महाकुलप्रसूता स्निग्धा निपुणेति । इमां तावत् कौतुकमालिकां २७ गुम्फत्वार्या । ] वासवदत्ता - अह कस्स किळ गुम्हिदव्वं ॥ [ अथ कस्मै किल गुम्फि- तथ्यम् । ] .३० चेटी - अम्हाअं भट्टिदारिआए ॥ [ अस्माकं भर्तृदारिकायै ॥ ] स्व...२ स्वप्नवासवदत्ते [ iii. 31 वासवदत्ता - ( आत्मगतम् । ) एदं पि मए कत्तव्वं आसी । अहो अकरुणा खु इस्सरा ॥ [ एतदपि मया ३ ३ अकरुणाः खल्वीश्वराः । ] कर्तव्यमासीत् । अहो चेटी - अय्ये ! मा दाणिं अभ्यं चिन्तिअ । एसो जामादुओ मणि- भूमीए हा अदि । सिग्धं दाव गुम्हदु अय्या ॥ [ आयें ! मेदानीम- ३६ न्यच्चिन्तयित्वा । एष जामाता मणिभूम्यां स्नायति । शीघ्रं तावद् गुम्फ- त्वार्या । ] वासवदत्ता - ( आत्मगतम् । ) ण सक्कुणोमि अण्णं चिन्तेढुं । ३ ९ ( प्रकाशम् । ) हळा ! किं दिट्ठो जामादुओ ॥ [ न शक्नोम्यन्यश्च्चि- न्तयितुम् । हलाकिं दृष्टो जामाता । ] चेटी- आम दिट्ठो भट्टिदारिआए सिणेहेण अम्हाअं कोदूहळेण अ ॥ ४२ [ आम, दृष्टो भर्तृदारिकायाः स्नेहेनास्माकं कौतूहलेन च । ] वासवदत्ता - कीदिसो जामादुओ ॥ [ कीदृशो जामाता । ] चटी - अय्ये ! भणामि दाव, ण ईरिसो दिट्ठपुरुवो ॥ ४५ भणामि तावद्, नेदृशो दृष्टपूर्वः ।] [ आयें ! वासवदत्ता - हळा ! भणाहि भणाहि, किं दंसणीओ ॥ [हला ! भण भण, किं दर्शनीय: । ] ४८ चेटी - सक्कं भणिदं सरचावहीणो कामदेवो त्ति ॥ [ शक्यं भणितुं शरचापहीनः कामदेव इति । ] वासवदत्ता - होदु एत्तअं ॥ [ भवत्वेतावत् । ] ५१ चेटी - किणिमित्तं वारेसि ॥ [ किंनिमित्तं वारयसि । ] वासवदत्ता-अजुत्तं परपुरुससङ्कित्तणं सोढुं ॥ [ अयुक्तं परपुरुष- संकीर्तनं श्रोतुम् ।] ५४ चेटी - तेण हि गुम्हदु अय्या सिग्धं ॥ [ तेन हि गुम्फत्वार्या शीघ्रम् । ] iii." ] तृतीयोऽङ्कः । वासवदत्ता - इअं गुम्हामि । आणेहि दाव ॥ [ इयं गुम्फामि । आनय तावत् । ] ५७ चेटी - गहदु अय्या ॥ [ गृहात्वार्यां । ] वासवदत्ता - ( वर्जयित्वा विलोक्य । ) इमं दाव ओसहं किं णाम ॥ [ इदं तावदौषधं किं नाम । ] ६० चेटी - अविहवाकरणं णाम ॥ [ अविधवाकरणं नाम । ] वासवदत्ता-(आत्मगतम् । ) इदं बहुसो गुन्हिदव्वं मम अपदुमा वदीए अ । ( प्रकाशम् । ) इदं दाव ओसहं किं णाम ॥ [ इदं ६३ बहुशो गुम्फितव्यं मम च पद्मावत्याश्च । इदं तावदौषधं किं नाम । ] चेटी- सवत्तिमद्दणं णाम ॥ [ सपत्नीमर्दनं नाम । ] वासवदत्ता - इदं ण गुम्हिदन्वं ॥ [ इदं न गुम्फितव्यम् । ] ६६ चेटी - कीस ॥ [ कस्मात् । ] वासवदत्ता - उवरदा तस्स भय्या, तं णिप्पओअणं त्ति ॥ [ उपरता तस्य भार्या, तन्निष्प्रयोजनमिति । ] ( प्रविश्यापरा ) ( उभे निष्क्रान्ते । ) चेटी - तुवरदु तुवरदु अय्या । एसो जामादुओ अविहवाहि अव्भ- न्तरचउस्साळं पवेसीअदि ॥ [ त्वरतां त्वरतामार्या । एष जामाता ७२ अविधवाभिरभ्यन्तरचतुःशालं प्रवेश्यते । ] वासवदत्ता - अइ ! वदामि, गण्ह एदं ॥ [ अयि ! वदामि गृहाणैतत् । ] ७५ चेटी - सोहणं । अय्ये ! गच्छामि दाव अहं ॥ [ शोभनम् । आयें ! गच्छामि तावदहम् । ] स्वप्नवासवदत्ते [ iii.78_ ७८ वासवदत्ता - गढ़ा एसा । अहो अच्चाहिदं । अय्यउत्तो वि णाम परकेरओ संवृत्तो । अवि दाव सम्याए मम दुक्खं विणोदेमि, जदि गिद्दं क्रमामि ॥ [ गतैषा । अहो अत्याहितम् । आर्यपुत्रोऽपि ८१ नाम परकीयः संवृत्तः । अपि तावद् शय्यायां मम दुःखं विनोदयामि, यदि निद्रां लभे । ] ( निष्क्रान्ता । ) ( ततः प्रविशति विदूषकः । ) इति तृतीयोऽङ्कः । अथ चतुर्थोऽङ्कः । विदूषकः - ( सहर्षम् । ) भो ! दिट्टिआ तत्तहोदो बच्छराअस्स अभि- ३ पेदविवाहमङ्गळरमणिज्जो कालो दिट्ठो । भो ! को णाम एवं जाणादि तादिसे वयं अणत्थसळिळावत्ते पक्खित्ता उण उम्मज्जि - सामोति । इदाणि पासादेस वसीअदि, अन्देउरदिग्धिआसु ६ हाईआदि पाकिदिमउरसुउमाराणि मोदअखज्जआणि खज्जीअन्ति त्ति अच्छर संवासो उत्तरकुरुवासो मए अणुभवी अदि । एको खु महन्तो दोसो, मम आहारो सुठु ण परिणमदि । सुप्पच्छदणाए ९ सय्याए णिहं ण ळभामि, जह वादसोणिदं अभिदो विअ वत्तदि त्ति पेक्खामि । भो ! मुहं णामअपरिभूदं अकळवत्तं च ॥ [ भोः ! दिष्टया तत्रभवतो वत्सराजस्याभिप्रेतविवाहमङ्गलरमणीयः १२ कालो दृष्टः । भोः ! को नामैतज्जानाति तादृशे वयमनर्थसलिलावर्ते प्रक्षिप्ताः पुनरुन्मक्ष्याम इति । इदानीं प्रासादेषूष्यते, अन्तःपुरदीर्घि- 1 Printed editions give अविदा सभ्याए । -iv.37] चतुर्थोऽङ्कः । कासु स्त्रायते, प्रकृतिमधुरसुकुमाराणि मोदकखाद्यानि खाद्यन्त इत्यनप्स- १५ रस्संवास उत्तरकुरुवासो मयानुभूयते । एकः खलु महान् दोष:, ममाहारः सुष्ठु न परिणमति, सुप्रच्छदनायां शय्यायां निद्रां न लभे, यथा वातशोणितमभित इव वर्तत इति पश्यामि । भोः ! सुखं नाम- १८ यपरिभ्रतमकल्यवर्तं च । ] ( ततः प्रविशति चेटी । ) चेटी - कहिं णु खु गदो अय्यवसन्तओ । ( परिक्रम्यावलोक्य । ) २१ अम्हो एसो अय्यवसन्तओ । ( उपगम्य । ) अय्य वसन्तअ ! को काळो तुमं अण्णेसामि ॥ [ कुत्र नु खलु गत आर्यवसन्तकः । अहो एप आर्यवसन्तकः । आर्य वसन्तक ! कः कालस्त्वामन्विष्यामि । ] २४ विदूषकः - ( दृष्ट्वा । ) किंणिमित्तं भद्दे ! मं अण्णेससि ॥ [ किंनिमित्तं भद्रे ! मामन्विष्यसि । ] चेटी- अम्हाणं भट्टिणी भणादि अवि व्हादो जामादुओ त्ति ॥ २७ [ अस्माकं भट्टिनी भणति अपि स्नातो जामातेति । ] विदूषकः - किंणिमित्तं भोदि ! पुच्छदि ॥ [ किंनिमित्तं भवति ! पृच्छति । ] ३० चेटी - किमण्णं । सुमणावण्णअं आणेमि त्ति ॥ [ किमन्यत् । सुमनोवर्णकमानयामीति । ] विदूषकः - हादो तत्तभवं । सव्वं आणेदु भोढ़ी वज्जिअ भोअणं ॥ ३३ [ स्नातस्तत्रभवान् । सर्वमानयतु भवती वर्जयित्वा भोजनम् । ] चेटी - किंणिमित्तं वारेसि भोअणं ॥ [ किंनिमित्तं वारयसि भोजनम् । ] विदूषकः - अधण्णस्स मम कोइळाणं अक्खिपरिवट्टो विअ कुक्खि- ३६ परिवट्टो संवृत्तो ॥ [ अधन्यस्य मम कोकिलानामक्षिपरिवर्त इव कुक्षिपरिवर्तः संवृत्तः । ] स्वप्नवासवदत्ते चेटी - ईदिसो एव्व होहि ॥ [ ईदृश एव भव । ] [ iv.38_ ३९ विदूषकः-गच्छदु भोदी । जाव अहं वि तत्तहोदो सआसं गच्छामि ॥ [ गच्छतु भवती । यावदहमपि तत्रभवतः सकाशं गच्छामि । ] (निष्क्रान्तौ । ) प्रवेशकः । ( ततः प्रविशति सपरिवारा पद्मावती, आवन्तिका वेषधारिणी बासव- ४५ दत्ता च । ) चेटी - किंणिमित्तं भट्टिदारिआ पमदवणं आअदा ॥ [ किंनिमित्तं भर्तृदारिका प्रमदवनमागता । ] ४८ पद्मावती-हळा ! ताणि दाव सेहाळिआगुम्हआणि पेक्खामि कुसुमिदाणि वाण वेत्ति ॥ [ हला ! ते तावच्छेफालिकागुल्मकाः पश्यामि कुसुमिता वा न वेति । ] ५१ चेटी - भट्टिदारिए ! ताणि कुसुमिदाणि णाम, पवाळन्तरिदेहिं विअ मोत्तिआलम्बएहिं आइदाणि कुसुमेहिं ॥ [ भर्तृदारिके ! ते कुसु- मिता नाम, प्रवालान्तरितैरिव मौक्तिकलम्बकैराचिताः कुसुमैः । ] ५४ पद्मावती -हळा ! जदि एव्वं, किं दाणि विळम्बेसि यद्येवं किमिदानीं विलम्बसे । ] [ हला ! चेटी - तेण हि इमस्सि सिळावट्टए मुहुत्तअं उपविसदु भट्टिदारिआ ५७ जाव अहं वि कुसुमावचअं करेमि ॥ [ तेन ह्यस्मिञ् शिलापट्टके मुहूर्तकमुपविशतु भर्तृदारिका । यावदहमपि कुसुमावचयं करोमि । ] पद्मावती - अय्ये ! किं एत्थ उपविसामो ॥ [ आये ! किमत्रोप- ६० विशावः । ] —iv.84] चतुर्थोऽङ्कः । वासवदत्ता - एव्वं होदु ॥ [ एवं भवतु । ] ( उभे उपविशतः । ) ६ ३ चेटी - ( तथा कृत्वा । ) पेक्खदु पेक्खदु भट्टिदारिआ अद्धमणासळा- वट्टएहिं विअ सेहाळिआकुसुमेहिं पूरिअं मे अजाळें ॥ [ पश्यतु पश्यतु भर्तृदारिका अर्धमनः शिलापट्टकैरिव शेफालिकाकुसुमैः पूरितं ६६ मेऽञ्जलिम् । ] पद्मावती - (दृष्ट्रा ।) अहो विइत्तदा कुसुमाणं पेक्खदु पेक्खदु अय्या ॥ [ अहो विचित्रता कुसुमानाम् । पश्यतु पश्यत्वार्या । ] ६९ वासवदत्ता - अहो दंसणीअदा कुसुमाणं ॥ [ अहो दर्शनीयता कुसु- मानाम् । ] चेटी- भट्टिदारिए ! किं भूयो अवइणुस्सं ॥ [ भर्तृदारिके ! ७२ किं भूयोऽवचेप्यामि । ] पद्मावती - हळा ! मा मा भूयो अवइणिअ ॥ [ हला मा मा भूयोऽ- afe । ] ७५ वासवदत्ता - हळा ! किंणिमित्तं वारेसि ॥ [हला ! किनिमित्तं वारयसि । ] पद्मावती - अय्यउत्तो इह आअच्छि इमं कुसुमसमिद्धिं पेक्खिअ ७८ सम्माणिदा भवेअं ॥ [ आर्यपुत्र इहागत्येमां कुसुमसमृद्धिं दृष्ट्वा संमानिता भवेयम् । ] वासवदत्ता - हळा ! पिओ दे भत्ता ॥ [हला प्रियस्ते भर्ता । ] ८१ पद्मावती - अय्ये ! ण आणामि, अय्यउत्तेण विरहिदा उक्कण्ठिदा होम ॥ [ आयें ! न जानामि, आर्यपुत्रेण विरहितोत्कण्ठिता भवामि । ] वासवदत्ता - (आत्मगतम् । ) दुक्खरं खु अहं करोमि, इअं वि णाम ८४ एव्वं मन्तेदि ॥ [ दुष्करं खल्वहं करोमि, इयमपि नामैवं मन्त्रयते । ] १ Printed editions read दस्सणीअदा । स्वप्नवासवदत्ते [ iv. 85. चेटी- अभिजादं खु भट्टिदारिआए मन्तिदं 'पिओ मे भत्त' त्ति ॥ [ अभिजातं खलु भर्तृदारिकया मन्त्रितं प्रियो मे भर्तेति । ] ८७ पद्मावती एक्को खु मे सन्देहो ॥ [ एकः खलु मे सन्देहः । ] वासवदत्ता - किं किं ॥ [ किं किम् । ] पद्मावती -जह मम अय्यउत्तो, तह एव्व अय्याए वासवदत्ताए- ९०ति ॥ [ यथा ममार्यपुत्रस्तथैवार्याया वासवदत्ताया इति । ] वासवदत्ता - अदो वि अहिअं ॥ [ अतोऽप्यधिकम् । ] पद्मावती - कहं तुवं जाणासि ॥ [ कथं त्वं जानासि । ] ९३ वासवदत्ता - (आत्मगतम् । ) हं, अय्यउत्तपक्खवादेण अदिक्कन्दो समुदाआरो । एवं दाव भणिस्सं । ( प्रकाशम् । ) जइ अप्पो सिणेहो, सा सजणं ण परित्तजदि । [ हम्, आर्यपुत्रपक्षपातेनाति- ९६ क्रान्तः समुदाचारः । एवं तावद् भणिप्यामि । यद्यल्पः स्नेहः, सा स्वजर्न न परित्यजति । ] पद्मावती - होदव्वं ॥ [ भवितव्यम् । ] ९९ चेटी - भट्टिदारिए ! साहु भट्टारं भणाहि ' अहं पि वीणं सिक्खि- सामि त्ति ॥ [ भर्तृदारिके ! साधु भर्तारं भण, अहमपि वीणां , शिक्षिप्य इति । ] १०२ पद्मावती - उत्तो मए अय्यउत्तो ॥ [ उक्तो मयार्यपुत्रः । ] वासवदत्ता - तदो किं भणिदं ॥ [ ततः किं भणितम् । ] पद्मावती - अभणिअ किञ्चि दिग्धं णिस्ससिअ तुम्हीओ संवृत्तो ॥ १०५ [ अभणित्वा किंचिद् दीर्घं निःश्वस्य तूष्णीकः संवृत्तः । ] वासवदत्ता -तदो तुवं किं विअ तक्केसि ॥ [ ततस्त्वं किमिव तर्कयसि । ] पद्मावती - तक्केमि अय्याए वासवदत्ताए गुणाणि सुमरिअ दक्खि- १०८ ष्णदाए मम अग्गदो ण रोदिदि ति ॥ [ तर्कयाम्यायया वासव- दत्ताया गुणान् स्मृत्वा दक्षिणतया ममाग्रतो न रोदितीति । ] -iv.i."] चतुर्थोऽङ्कः । वासवदत्ता-( आत्मगतम् । ) धना खुम्हि जदि एव्वं सचं भवे ॥ १११ [ धन्या खल्वस्मि, यद्येवं सत्यं भवेत् । ] ( ततः प्रविशति राजा विदूषकश्च । ) विदूषकः - ही ही ! पचिअपडिअबन्धुजीवकुसुमविरळवादरमणिज्जं ११४ पमदवणं । इदो दाव भवं । [ ही ही प्रचितपतितबन्धुजीवकुसुम- विरलaiतरमणीयं प्रमदवनम् । इतस्तावद् भवान् । ] राजा - वयस्य वसन्तक! अयमयमागच्छामि । कामेनोज्जयिनीं गते मयि तदा कामप्यवस्थां गते दृष्ट्रा स्वैरमवन्तिराजतनयां पषवः पातिताः । तैरद्यापि सशल्यमेव हृदयं भूयश्च विद्धा वयं पर्मनो यदा कथमयं षष्ठः शरः पातितः ॥ १ ॥ विदूषकः - कहिं णु खु गदा तत्तहोदी पदुमावदी, ळदामण्डवं गदा भवे, उदाहो असणकुसुमसविदं वग्घचम्मावगुण्ठिदं विअ पव- ३ दतिळअं णाम सिळापट्टअं गदा भवे, आदु अधिअकडुअगन्ध- सत्तच्छदवणं पविट्ठा भवे, अहब आळिहिदमिअपक्खिस बकुळ दारुपत्वदअं गदा भवे । ( ऊर्ध्वमवलोक्य । ) ही ही सरअकाळणि- ६ मळे अन्तरिक्खे पसादिअबळ देवबाहुदंसणीअं सारसपन्ति जाव समाहिदं गच्छन्ति पेक्खदु दाव भवं ॥ [ कुत्र नु खलु गता तत्र- भवती पद्मावती, लतामण्डपं गता भवेद्, उताहो असनकुसुमसंचितं ९ व्याघ्रचर्मावगुण्ठितमिव पर्वततिलकं नाम शिलापट्टकं गता भवेत्, अथवा अधिककटुकगन्धसप्तच्छदवनं प्रविष्टा भवेद्, मृगपक्षिसंकुलं दारुपर्वतकं गता भवेत् । ही ही अथवा लिखित- शरत्काल निर्मले - 2 Printed editions paraphrase विरलपातरमणीयम् । स्वप्नवासवदत्ते [ iv.i._ १२ न्तरिक्षे प्रसादितबलदेवबाहुदर्शनीयां सारसपङ्क्तिं यावत् समाहितं गच्छन्तीं प्रेक्षतां तावद् भवान् । ] राजा - वयस्य ! पश्याम्येनाम् ऋज्वायतां च विरलां च नतोन्नतां च सप्तर्षिवंशकुटिलां च निवर्तनेषु । निर्मुच्यमानभुजगोदर निर्मलस्य सीमामिवाम्बरतलस्य विभज्यमानाम् ॥ २ ॥ चेटी - पेक्खदु पेक्खदु भट्टिदारिआ एवं कोकणदमाळापण्डररमणीअं सारसपन्ति जाव समाहिदं गच्छन्ति । अम्मो भट्टा ॥ [ प्रेक्षतां ३ प्रेक्षतां भर्तृदारिका एतां कोकनदमालापाण्डुररमणीयां सारसपङ्क्ति यावत् समाहितं गच्छन्तीम् । अहो भर्ता । ] पद्मावती - हं अय्यउत्तो । अय्ये! तव कारणादो अय्यउत्तदंसणं ६ परिहरामि । ता इमं दाव माहवीळदामण्डवं पविसामो ॥ [ हम्, आर्यपुत्रः । आयें ! तव कारणादार्यपुत्रदर्शनं परिहरामि । तदिमं तावन्माधवीलतामण्डपं प्रविशामः । ] ९ वासवदत्ता - एव्वं होदु । [ एवं भवतु । ] ( तथा कुर्वन्ति । ) विदूषकः- तत्तहोढ़ी पदुमावदी इह आअच्छि णिग्गदा भवे ॥ १२ [ तत्रभवती पद्मावतीहागत्य निर्गता भवेत् । ] राजा - कथं भवान् जानाति । विदूषकः - इमाणि अवइदकुसुमाणि सेफाळि आगुच्छआणि पेक्खदु १५ दाव भवं ॥ [ इमानपचितकुसुमान् शेफालिकागुच्छकान् प्रेक्षतां तावद् भवान् । ] राजा - अहो विचित्रता कुसुमस्य, वसन्तक । -iv.2.41] चतुर्थोऽङ्कः । १८ वासवदत्ता-( आत्मगतम् । ) वसन्त अस त्तिणेण अहं पुण जाणामि उज्जइणी वत्तामिति ॥ [ वसन्तकसंकीर्तनेनाहं पुनर्जानामि उज्ज यिन्यां वर्त इति । ] २१ राजा - वसन्तक! अस्मिन्नेवासीनौ शिलातले पद्मावतीं प्रती- क्षिष्यावहे । विदूषकः - भो ! तह । ( उपविश्यात्थाय । ) ही ही सरअकाळतिक्खो २४ दुस्सहो आदवो । ता इमं दाव माहवीमण्डवं पविसामो ॥ [ भोस्तथा । ही ही शरत्कालतीक्ष्णो दुःसह आतपः । तदिमं तावन्माधवीमण्डपं प्रविशावः । ] २७ राजा - बाढम् । गच्छाग्रतः । विदूषकः - एव्वं होदु ॥ [ एवं भवतु ] ( उभौ परिक्रामतः । ) ( चेटी तथा करोति । ) ३० पद्मावती- सव्वं आउळं कत्तुकामो अय्यवसन्तओ । किं दाणिं करम्ह ॥ [ सर्वमाकुलं कर्तुकाम आर्यवसन्तकः । किमिदानीं कुर्मः । ] चेटी - भट्टिदारिए ! एवं महुअरपरिणिळीणं ओळंबळदं ओधूय ३३ भट्टारं वारइस्सं ॥ [ भर्तृदारिके ! एतां मधुकरपरिनिलीनामवलम्बलता- मवधूय भर्तारं वारयिष्यामि । ] पद्मावती - एव्वं करेहि [ एवं कुरु । ] विदूषकः - अविहा अविहा, चिट्ठदु चिट्ठदु दाव भवं ॥ [ अविधा अविधा, तिष्ठतु तिष्ठतु तावद् भवान् । ] ३९ राजा- - किमर्थम् । विदूषकः - दासीपुत्तेहि महुअरेहि पीडिदो म्हि ॥ दास्याः पुत्रैर्मधुकरैः पीडितोऽस्मि । ] स्वप्नवासवदत्ते [iv. 2.2 ४२ राजा - मा मा भवानेवम् । मधुकर संत्रासः परिहार्यः । पश्य, मधुमदकला मधुकरा मदनार्ताभिः प्रियाभिरुपगूढाः । पादन्यासविषण्णा वयमिव कान्तावियुक्ताः स्युः ॥ ३ ॥ तस्मादिहैवासिष्यावहे । विदूषकः - एवं होदु ॥ [ एवं भवतु । ] ( उभावुपविशतः । ) चेटी - भट्टिदारिए ! रुद्धा खु म्ह वयं ॥ [ भर्तृदारिके ! रुद्वाः खलु स्मो वयम् । ] पद्मावती - दिट्टिआ उवविट्ठो अय्यउत्तो ॥ [ दिष्टथोपविष्ट आर्यपुत्रः । ] वासवदत्ता ( आत्मगतम् । ) दिट्टिआ पकिदित्थसरीरो अय्यउत्तो ॥ [ दिष्टा प्रकृतिस्थशरीर आर्यपुत्रः । ] चेटी - भट्टिदारिए ! सस्सुपादा खु अय्याए दिट्ठी । [ भर्तृदारिके ! साश्रुपाता खल्वार्याया दृष्टिः । ] वासवदत्ता - एसा खु महुअराणं अविणआदो कासकुसुमरेणुणा १२ पडिदेण सोदआ मे दिट्ठी ॥ [ एषा खलु मधुकराणामविनयात् काशकुसुमरेणुना पतितेन सोदका मे दृष्टि: । ] पद्मावती - जुज्जइ ॥ [ युज्यते । ] १५ विदूषकः - भो ! सुण्णं खु इदं पमदवणं । पुच्छिदवं किनि अत्थि । पुच्छामि भवन्तं ॥ [ भोः ! शून्यं खल्विदं प्रमदवनम् । प्रष्टव्यं किंचिदस्ति । पृच्छामि भवन्तम् । ] १८ राजा -छन्दतः । विदूषकः - का भवदो पिआ, तदाणिं तत्तहोढ़ी वासवदत्ता इदाणिं पदुमावदी वा ॥ [ का भवतः प्रिया, तदानीं तत्रभवती वासवदत्ता २१ इदानीं पद्मावती वा । ] —iv.3.4 ] राजा- चतुर्थोऽङ्कः । - किमिदानीं भवान् महति बहुमानसङ्कटे मां न्यस्यति । पद्मावती - हळा ! जादिसे सङ्कडे निक्खितो अय्यउत्तो । [हला ! २४ यादृशे सङ्कटे निक्षिप्त आर्यपुत्रः । ] वासवदत्ता - ( आत्मगतम् । ) अहं अ मन्दभाआ ॥ [ अहं च मन्दभागा । ] २७ विदूषकः - सेरं सेरं भणादु भवं । एक्का उवरदा, अवरा असण- हिदा ॥ [ स्वैरं स्वैरं भणतु भवान् । एकोपरता, अपरासंनिहिता । ] राजा - वयस्य ! न खलु न खलु ब्रूयाम् । भवांस्तु मुखरः । ३० पद्मावती - एत्तएण भणिदं अय्यउत्तेण ॥ [ एतावता भणितमार्य- पुत्रेण । ] विदूषकः- भो ! सच्चेण सवामि, कस्स वि ण आचक्खिस्सं । ३३ एसा सन्दट्ठा मे जीहा ॥ [ भोः ! सत्येन शपामि, कस्मा अपि नाख्यास्यामि । एषा संदृष्टा मे जिह्वा । ] राजा - नोत्सहे सखे! वक्तुम् । ३६ पद्मावती - अहो इमस्स पुरोभाइदा । एत्तिएण हिअअं ण जाणादि ॥ [ अहो अस्य पुरोभागिता । एतावता हृदयं न जानाति । ] विदूषकः - किं ण भणादि मम । अणाचक्खिअ इमादो सिलावट्ट- ३९ आदो ण सक्कं एकपदं वि गमितुं । एसो रुद्धो अत्तभवं ॥ [ किं न भणति मम । अनाख्यायास्माच्छिलापट्टकान्न शक्यमेकपदमपि गन्तुम् । एष रुद्धोऽत्रभवान् । ] ४२ राजा- - किं बलात्कारेण । विदूषकः - आम, बळक्कारेण ॥ [ आम बलात्कारेण । ] राजा - तेन हि पश्यामस्तावत् । स्वप्नवासवदत्ते [ iv. 3. 45_ ४५ विदूषकः - पसीददु पसीद्दु भवं । वअस्सभावेण साविदो सि, जइ स ण भणासि ॥ [ प्रसीदतु प्रसीदतु भवान् । वयस्यभावेन शापितोऽसि यदि सत्यं न भणसि । ] , ४८ राजा - का गतिः । श्रूयताम् । पद्मावती बहुमता मम यद्यपि रूपशीलमाधुर्यैः । दिण्णं वेदणं इमस्स वासवदत्ताबद्धं न तु तावन्मे मनो हरति ॥ ४ ॥ वासवदत्ता-( आत्मगतम् । ) भोदु, भोदु । परिखेदस्स । अहो अध्ञादवासं पि एत्थ बहुगुणं सम्पज्जइ ॥ ३ [ भवतु भवतु । दत्तं वेतनमस्य परिखेदस्य । अहो अज्ञातवासोऽप्यत्र बहुगुणः संपद्यते । ] चेटी- भट्टिदारिए ! अदक्खि खु भट्टा ॥ [ भर्तृदारिके ! अदा- क्षिण्यः खलु भर्ता । ] पद्मावती-हळा ! मा मा रुवं । सदक्खिनो एव्व अय्यउत्तो, जो इदाणिं वि अय्याए वासवदत्ताए गुणाणि सुमरदि ॥ [हला ! ९ मा मैवम् । सदाक्षिण्य एवार्यपुत्रः, य इदानीमप्यार्याया वासवदत्तायाः गुणान् स्मरति । ] वासवदत्ता - भद्दे ! अभिजणस्स सदिसं मन्तिदं ॥ [ भद्रे ! अभि- १२ जनस्य सदृशं मन्त्रितम् । ] राजा - उक्तं मया । भवानिदानीं कथयतु । का भवतः प्रिया, तदा वासवदत्ता, इदानीं पद्मावती वा । १५ पद्मावती - अय्यउत्तो पि वसन्तओ संवुत्तो ॥ [ आर्यपुत्रोऽपि वसन्तकः संवृत्तः । ] विदूषकः- किं मे विप्पळविदेण । उभओ वि तत्तहोदीओ मे बहु- १८ मदाओ ॥ [ किं मे विप्रलपितेन । उभे अपि तत्रभवत्यौ मे बहुमते । ] राजा - वैधेय ! मामेवं बलाच्छ्रुत्वा किमिदानीं नाभिभाषसे । _iv.5] चतुर्थोऽङ्कः । विदूषकः - किं मं पि बळक्कारेण ॥ [ किं मामपि बलात्कारेण । ] २१ राजा - अथ किं, बलात्कारेण । विदूषकः - तेण हि ण सक्कं सोदुं ॥ [ तेन हि न शक्यं श्रोतुम् । ] राजा- - प्रसीदतु, प्रसीदतु महाब्राह्मणः । स्वैरं स्वैरमभिधीयताम् । २४ विदूषकः - इदाणिं सुणादु भवं । तत्तहोदी वासवदत्ता मे बहुमदा । तत्तहोढ़ी पदुमावदी तरुणी दंसणीओ अकोवणा अणहङ्कारा महुरवाआ सदक्खिना । अअं च अवरो महन्तो गुणो, सिणि- २७ द्धेण भोअगेण मं पच्चुगच्छई 'कहिं णु खु गदो अय्यवसन्तओ' त्ति ॥ [ इदानीं शृणोतु भवान् । तत्रभवती वासवदत्ता मे बहुमता । तत्रभवती पद्मावती तरुणी दर्शनीया अकोपना अनहंकारा मधुरवाक् ३० सदाक्षिण्या । अयं चापरो महान् गुणः, स्निग्धेन भोजनेन मां प्रत्यु- गच्छति कुत्र नु खलु गत आर्यवसन्तक इति । ] वासवदत्ता - भोदु भोदु, वसन्तअ ! सुमरेहि दाणिं एदं ॥ [ भवतु ३३ भवतु, वसन्तक ! स्मरेदानीमेतत् । ] राजा - भवतु भवतु, वसन्तक! सर्वमेतत् कथयिष्ये देव्यै वासव- दत्तायै 1 ३६ विदूषकः - अविहा वासवदत्ता । कहिं वासवदत्ता । चिरा खु वरदा वासवदत्ता ॥ [ अविधा वासवदत्ता । कुत्र वासवदत्ता । चिरात् खलूपरता वासवदत्ता । ] ३९ राजा - ( सविषादम् । ) एवम् । उपरता वासवदत्ता । अनेन परिहासेन व्याक्षिप्तं मे मनस्त्वया । ततो वाणी तथैवेयं पूर्वाभ्यासेन निस्सृता ॥ ५ ॥ १ Printed editions give दस्सणीआ । २ Printed editions read मं पच्चुग्गच्छइ बासवदत्ता 'कहिं णु etc.' स्वप्रवासवदत्ते [ iv. 5. -- पद्मावती - रमणीओ खु कहाजोओ णिसंसेण विसंवादिओ । [ रमणीयः खलु कथायोगो नृशंसेन विसंवादितः । ] ३ वासवदत्ता - ( आत्मगतम् । ) भोदु भोदु, विस्सत्थम्हि । अहो पिअं णाम, ईदिसं वअणं अपश्चक्खं सुणीअदि ॥ [ भवतु भवतु, विश्वस्तास्मि । अहो प्रियं नाम, ईदृशं वचनमप्रत्यक्षं श्रूयते । ] ६ विदूषकः - धारेदु धारेदु भवं । अणदिकमणीओ हि विही । ईदिसं दाणिं एदं ॥ [ धारयतु धारयतु भवान् । अनतिक्रमणीयो हि विधिः । शमिदानीमेतत् । ] ९ राजा - वयस्य ! न जानाति भवानवस्थाम् । कुतः, दुःखं त्यक्तुं बद्धमूलोऽनुरागः स्मृत्वा स्मृत्वा याति दुःखं नवत्वम् । यात्रा त्वेषा यद् विमुच्येह बाष्पं प्राप्तानृण्या याति बुद्धिः प्रसादम् ॥ ६ ॥ विदूषकः - अस्सुपादकिळिण्णं खु तत्तहोदो मुहं । जाव मुहोदअं आमि । (निष्क्रान्तः ) ॥ [ अश्रुपातक्लिन्नं खलु तत्रभवतो मुखम् । ३ यावन्मुखोदकमानयामि । ] पद्मावती - अय्ये ! बप्फा उळपडन्तरिदं अय्यउत्तरस मुहं । जाव णिक्कमम्ह ॥ [ आयें ! बाष्पाकुलपटान्तरितमार्यपुत्रस्य मुखम् । याव ६ निष्क्रामामः । ] वासवदत्ता - एव्वं होदु । अहव चिट्ठ तुवं । उक्कण्ठिदं भत्तारं उज्झिअ अजुत्तं णिग्गमणं । अहं एव्व गमिस्सं ॥ [ एवं भवतु । ९ अथवा तिष्ट त्वम् । उत्कण्ठितं भर्तारमुज्झित्वायुक्तं निर्गमनम् । अह- मेव गमिष्यामि । ] चेटी - सुट्ट अय्या भणादि । उवसप्पदु दाव भट्टिदारिआ ॥ [ सुष्टुार्या १२ भणति । उपसर्पतु तावद् भर्तृदारिका । ] -iv.6.361 चतुर्थोऽङ्कः । पद्मावती - किं णु खु पविसामि ॥ [ किं नु खलु प्रविशामि । ] वासवदत्ता -हळा ! पविस । ( इत्युक्त्वा निष्क्रान्ता ) । [ हला ! १५ प्रविश । ] ( प्रविश्य । ) .) विदूषकः - ( नलिनीपत्रेण जलं गृहीत्वा ) एसा तत्तहोढ़ी पदुमावदी ॥ १८ [ एषा तत्रभवती पद्मावती । ] " पद्मावती - अय्य वसन्तअ ! किं एदं । । [ आर्य वसन्तक ! किमेतत् । ] विदूषकः - एदं इदं । इदं एदं ॥ [ एतदिदम् । इदमेतत् । ] २१ पद्मावती -भणादु भणादु अय्यो भणादु ॥ [ भणतु भणत्वार्यो भण । ] विदूषकः - भोदि ! वादणीदेण कासकुसुमरेणुणा अक्खिणिपडिदेण २४ सस्सुपादं खु तत्तहोदो मुहं । ता गण्हदु होदी इदं महोदअं ॥ भवति ! वातनीतेन काशकुसुमरेणुनाक्षिनिपतितेन सानुपातं खलु तत्र- भवतो मुखम् । तद् गृह्णातु भवतीदं मुखोदकम् । ] २७ पद्मावती - (आत्मगतम् । ) अहो सदक्खिस्स जणस्स परिजनो सिदक्खि एव्व होदि । ( उपेत्य । ) जेदु अय्यउत्तो । इदं महोदअं ॥ [अहो सदाक्षिण्यस्य जनस्य परिजनोऽपि सदाक्षिण्य एव ३० भवति । जयत्वार्यपुत्रः । इदं मुखोदकम् । ] राजा- -अये पद्मावती । ( अपवार्य । ) वसन्तक किमिदम् । विदूषकः - ( कर्णे । ) एव्वं विअ ॥ [ एवमिव । ] ३३ राजा - साधु वसन्तक! साधु । ( आचम्य । ) पद्मावति ! आस्यताम् । पद्मावती -जं अय्यउत्तो आणवेदि । ( उपविशति ) ॥ [ यदार्यपुत्र आज्ञापयति । ] ३६ राजा - पद्मावति ! स्वप्न... ३ स्वप्नवासवदत्ते शरच्छशाङ्कगौरेण वाताविद्धेन भामिनि । काशपुष्पलवेनेदं साश्रुपातं मुखं मम ॥ ७ ॥ ( आत्मगतम् । ) ( निष्क्रान्ताः सर्वे । ) ( ततः प्रविशति पद्मिनिका । ) ( प्रविश्य । ) इयं बाला नवोद्वाहा सत्यं श्रुत्वा व्यथां व्रजेत् । कामं धीरस्वभावेयं स्त्रीस्वभावस्तु कातरः ॥ ८ ॥ liv.7— विदूषकः- उइदं तत्तहोदो मअधराअस्स अवरण्हकाळे भवन्तं अग्गदो करिअ सुहिज्जणदंसणं । सक्कारो हि णाम सकारेण पडि- ३ च्छिदो पीढ़ि उप्पादेदि । ता उट्ठेदु दाव भवं ॥ [ उचितं तत्रभवतो मगधराजस्यापराह्णकाले भवन्तमग्रतः कृत्वा सुहृज्जनदर्शनम् । सत्कारो हि नाम सत्कारेण प्रतीष्टः प्रीतिमुत्पादयति । तदुत्तिष्ठतु तावद् भवान् । ] ६ राजा - बाढम् । प्रथमः कल्पः । ( उत्थाय । ) गुणानां वा विशालानां सत्काराणां च नित्यशः । कर्तारः सुलभा लोके विज्ञातारस्तु दुर्लभाः ॥ ९ ॥ इति चतुर्थोऽङ्कः । अथ पञ्चमोऽङ्कः । पद्मिनिका - महुअरिए ! महुअरिए ! आअच्छ दाव सिग्घं ॥ [ मधुकरिके ! मधुकरिके ! आगच्छ तावच्छीघ्रम् । ] मधुकरिका-हळा ! इअम्हि । किं करीअदु ॥ [ हला ! इयमस्मि । किं क्रियताम् । ] पद्मिनिका -हळा किं ण जाणासि तुवं भट्टिदारिआ पदुमावदी सीसवेदणाए दुक्खा विदेति । [ हला किं न जानासि त्वं भर्तृ- v.33] - V. पञ्चमोऽङ्कः । ९ दारिका पद्मावती शीर्षवेदनया दुःखितेति । ] मधुकरिका - हद्धि । [ हा धिक् । ] पद्मिनिका -हळा ! गच्छ सिग्घं, अय्यं आवन्ति सहावेहि । १२ केवळं भट्टिदारिआए सीसवेदणं एव्व णिवेदेहि । तदो सअं एव्व मिस्सदि ॥ [ ला ! गच्छ शीघ्रम्, आर्यामावन्तिकां शब्दापय । केवलं भर्तृदारिकायाः शीर्षवेदनामेव निवेदय । ततः स्वयमेवाग- १५ मिप्यति । ] मधुकरिका - हळा ! किं सा करिस्सदि । [हला किं सा करिष्यति । ] पद्मिनिका-सा हु दाणिं महुराहि कहाहि भट्टिदारिआए सीसवेदणं १८ विणोदेदि ॥ [ सा खल्विदानीं मधुराभिः कथाभिर्भर्तृदारिकायाः शीर्ष वेदनां विनोदयति । ] मधुकरिका - जुज्जइ । कहिं सअणीयं रइदं भट्टिदारिआए । [ युज्यते । २१ कुत्र शयनीयं रचितं भर्तृदारिकायाः । ] पद्मिनिका - समुद्दगिहके किळ सेज्जात्थिण्णा । गच्छ दाणिं तुवं । अहं वि भट्टिणो णिवेदणत्थं अय्यवसन्तअं अण्णेसामि ॥ [ समुद्र- २४ गृहके किल शय्यास्तीर्णा । गच्छेदानीं त्वम् । अहमपि भत्रे निवेदनार्थ- मार्यवसन्तकमन्विष्यामि । ] मधुकरिका - एवं होदु । (निष्क्रान्ता ॥ ) [ एवं भवतु । ] २७ पद्मिनिका -कहिं दाणिं अय्यवसन्तअं पेक्खामि ॥ [ कुत्रेदानीमार्य- वसन्तकं पश्यामि । ] ( ततः प्रविशति विदूषकः । ) ३० विदूषकः - अज्ज खु देवीविओअविहुरहिअअस्स तत्तहोदो बच्छ- अस्स पदुमावदीपाणिग्गणसमीरिअमाणो अच्चन्तसुहाव मङ्गळोसवे मदष्णाग्गिदाहो अहिअदरं वढइ । (पद्मिनिकां विलोक्य) Printed editions read... समीरिअस्त । स्वप्नवासवदत्ते [v.39_ ३३ अयि पदुमिणिआ । पदुमिणिए ! किं इह वत्तदि ॥ [ अद्य खलु देवीवियोगविधुरहृदयस्य तत्रभवतो वत्सराजस्य पद्मावतीपाणिग्रहण- समीर्यमाणोऽत्यन्तसुखावहे मङ्गलोत्सवे मदनाभिदाहोऽधिकतरं वर्तते । ३६ अयि पद्मिनिका ! पद्मिनिके ! किमिह वर्तते । ] पद्मिनिका-अय्य वसन्तअ ! किंण जाणासि तुवं भट्टिदारिआ पदुमावदी सीसवेदणाए दुक्खाविदेत्ति ॥ [ आर्य वसन्तक ! किं ३९ न जानासि त्वं भर्तृदारिका पद्मावती शीर्षवेदनया दुःखितेति । ] विदूषकः - भोदि ! सच्चं, ण जाणामि ॥ [ भवति ! सत्यं, न जानामि । ] ४२ पद्मिनिका - तेण हि भट्टिणो णिवेदेहि णं । जाव अहं वि सीसा - णुळेवणं तुवारेमि ॥ [ तेन हि भत्रे निवेदयैनाम् । यावदहमपि शीर्षानुलेपनं त्वरयामि । ] ४५ विदूषकः-कहिं सअणीअं रइदं पदुमावदीए ॥ [ कुत्र शयनीयं रचितं पद्मावत्याः । ] पद्मिनिका - समुद्दगिहके किळ सेज्जात्थिष्णा ॥ [ समुद्रगृहके किल ४८ शय्यास्तीर्णा । ] विदूषकः - गच्छतु भोदी । जाव अहं वि तत्तहोदो णिवेदइस्सं ॥ [ गच्छतु भवती । यावदहमपि तत्रभवते निवेदयिष्यामि । ] राजा- (निष्क्रान्तौ । ) ( तत: प्रविशति राजा । ) प्रवेशकः । लाध्यामवन्तिनृपतेः सदृशीं तनूजां कालक्रमेण पुनरागतदारभारः । -v.2.10] पचमोऽङ्कः । लावाणके हुतवहेन हृताङ्गयष्टिं तां पद्मिनीं हिमहतामिव चिन्तयामि ॥ १ ॥ ( प्रविश्य । ) विदूषकः- तुवरदु तुवरदु दाव भवं ॥ [ स्वरतां त्वरतां तावद् ३ भवान् । ] राजा - किमर्थम् । विदूषकः- तत्तदोही पदुमावदी सीसवेदनाए दुक्खाविदा ॥ [ तत्र- ६ भवती पद्मावती शीर्षवेदनया दुःखिता । ] राजा - कैवमाह । विदूषकः - पदुमिणिआए कहिदं ॥ [पद्मिनिकया कथितम् । ] राजा - भोः ! कष्टं रूपश्रिया समुदितां गुणतश्च युक्तां लब्ध्वा प्रियां मम तु मन्द इवाद्य शोकः । पूर्वाभिघातस रुजोऽप्यनुभूतदुःखः पद्मावतीमपि तथैव समर्थयामि ॥ २ ॥ अथ कस्मिन् प्रदेशे वर्तते पद्मावती । विदूषकः - समुद्दगिह के किळ सेज्जात्थिष्णा ॥ [ समुद्रगृहके किल ३ शय्यास्तीर्णा । ] राजा - तेन हि तस्य मार्गमादेशय । विदूषकः- एदु एदु भवं ॥ [ एत्वेतु भवान् । ] ( उभौ परिक्रामतः । ) ६ विदूषकः- इदं समुहगिहकं । पविसदु भवं ॥ [ इदं समुद्रगृहकम् । प्रविशतु भवान् । ] राजा - पूर्वं प्रविश । ९ विदूषकः - भो ! तह । ( प्रविश्य) अविहा, चिट्ठदु, चिट्ठदु दाव भवं ॥ [ भोः ! तथा । अविधा, तिष्ठतु, तिष्ठतु तावद् भवान् । ] - राजा - किमर्थम् । स्वप्नवासवदत्ते [v.2. १२ विदूषकः - एसो खु दीवप्पभावसूइदरूवो वसुधातले परिवत्तमाणो अअं काओ ॥ [ एष खलु दीपप्रभावसूचितरूपो वसुधातले परि- वर्तमानोऽयं काकोदरः । ] १५ राजा- - ( प्रविश्यावलोक्य सस्मितम् । ) अहो सर्पव्यक्तिर्वैधेयस्य । ऋज्वायतां हि मुखतोरणलोलमालां भ्रष्टां क्षितौ त्वमवगच्छसि मूर्ख सर्पम् । मन्दानिलेन निशि या परिवर्तमाना किंचित् करोति भुजगस्य विचेष्टितानि ॥ ३ ॥ विदूषकः-( निरूप्य ) सुट्टु भवं भणादि । ण हु अअं काओदरो । ( प्रविश्यावलोक्य) तत्तहोदी पदुमावदी इह आअच्छि णिग्गदा ३ भवेत् ॥ [ सुष्टु भवान् भणति । न खल्वयं काकोदरः । तत्रभवती पद्मावतीहागत्य निर्गता भवेत् । ] राजा - वयस्य ! अनागतया भवितव्यम् । ६ विदूषकः - कहं भवं जाणादि ॥ [ कथं भवान् जानाति । ] राजा - किमत्र ज्ञेयम् । पश्य, शय्या नावनता तथास्तृतसमा न व्याकुलप्रच्छदा न किष्टं हि शिरोपधानममलं शीर्षाभिघातौषधैः । रोगे दृष्टिविलोभनं जनयितुं शोभा न काचित् कृता प्राणी प्राप्य रुजा पुनर्न शयनं शीघ्रं स्वयं मुखति ॥ ४ ॥ विदूषकः - तेण हि इमस्सि सय्याए मुहुत्त उवविसिअ तत्तहोदिं पढ़िबाळेदु भवं ॥ [ तेन ह्यस्यां शय्यायां मुहूर्तकमुपविश्य तत्रभवतीं ३. प्रतिपालयतु भवान् ] -v.6.³] पनमोऽङ्कः । राजा - बाढम् । ( उपविश्य ।) वयस्य ! निद्रा मां बाधते । कथ्यतां काचित् कथा । ६ विदूषकः - अहं कहइस्सं । हो त्ति करेदु अत्तभवं ॥ [ अहं कथ- यिष्यामि । हो इति करोत्वत्रभवान् । ] राजा - बाढम् । ९ विदूषकः - अत्थि अरी उज्जइणी णाम । तर्हि अहिअरमणीआणि उदअह्वाणाणि वत्तन्ति किळ ॥ [ अस्ति नगर्युज्जयिनी नाम । तत्राधिकरमणीयान्युदकस्नानानि वर्तन्ते किल । ] १२ राजा - कथमुज्जयिनी नाम । विदूषकः - जइ अणभिप्पेदा एसा कहा, अण्णं कहइस्सं ॥ [ यद्यन- भिप्रेतैषा कथा अन्यां कथयिष्यामि । ] १५ राजा-वयम्य ! न खलु नाभिप्रेतैषा कथा । किं तु, अपि च, स्मराम्यवन्त्याधिपतेः सुतायाः प्रस्थानकाले स्वजनं स्मरन्त्याः । वाष्पं प्रवृत्तं नयनान्तलग्नं स्नेहान्ममैवोरसि पातयन्त्याः ॥ ५ ॥ बहुशो ऽप्युपदेशेषु यया मामीक्षमाणया । हस्तेन स्रस्तकोणेन कृतमाकाशवादितम् ॥ ६ ॥ विदूषकः - भोदु, अण्णं कहइस्सं । अत्थि णअरं बम्हदत्तं णाम । तहिं किळ राआ कंपिळो णाम । [ भवतु, अन्यां कथयिष्यामि । ३ अस्ति नगरं ब्रह्मदत्तं नाम । तत्र किल राजा काम्पिल्यो नाम । ] - किमिति किमिति । विदूषकः - ( पुनस्तदेव पठति । ) राजा- स्वप्नवासवदत्ते [ v.6.— ६. राजा - मूर्ख ! राजा ब्रह्मदत्तः, नगरं काम्पिल्यमित्यभिधीयताम् । ( ततः प्रविशति वासवदत्ता आवन्तिकावेषेण चेटी च । ) ( उभे परिक्रामतः । ) विदूषकः- किं राआ बम्हदत्तो, अरं कंपिळं ॥ [ किं राजा ब्रह्म- दत्तः, नगरं काम्पिल्यम् । ] "" ९ राजा - एवमेतन् । .' विदूषकः - तेण हि मुहुत्तअं पडिवाळेदु भवं, जाव ओटू अं करिस्सं । आ बम्हदत्तो, अरं कंपिळं । ( इति बहुशस्तदेव पठित्वा । ) १२ इदाणिं सुणादु भवं । अयि सुत्तो अत्तभवं । अदिसीदळा इअं वेळा । अत्तणो पावरअं गण्हिअ आअमिस्सं । (निष्क्रान्तः । ) ॥ [ तेन हि मुहूर्तकं प्रतिपालयतु भवान् यावदोष्ठगतं करिष्यामि । १५ राजा ब्रह्मदत्तः, नगरं काम्पिल्यम् । इदानीं श्रृणोतु भवान् । अयि सुप्तोऽ त्रभवान् । अतिशीतलेयं वेला । आत्मनः प्रावारकं गमिष्यामि । ]. , गृहीत्वा- चेटी - एदु एदु अय्या । दिढं खु भट्टिदारिआ सीसवेदणाए दुक्खा - विदा ॥ [ एवेत्वार्या । दृढं खलु भर्तृदारिका शीर्षवेदनया दुःखिता । ] २१ वासवदत्ता - हद्धि, कहिं सअणीअं रइदं पदुमावदीए । [ हा धिक्, कुत्र शयनीयं रचितं पद्मावत्याः । ] चेटी- समुद्दगिहके किळ सेज्जात्थिण्णा ॥ [ समुद्रगृहके किल शय्या- २४ स्तीर्णा । ] वासवदत्ता - तेण हि अग्गदो याहि ॥ [ तेन प्रतो याहि । ] २७ चेटी - इदं समुद्दगिहकं । पविसदु अय्या । जाव अहं वि सीसा- णुळेवणं तुवारेमि । (निष्क्रान्ता ) ॥ [ इदं समुद्रगृहकम् शत्वार्या । यावदहमपि शीर्षानुलेपनं स्वरयामि । ] प्रवि- __v.6.b4 ] पचमोऽङ्कः । ३० वासवदत्ता - अहो अकरुणा खु इस्सरा मे । विरहपय्युस्सुअस्स अय्यउत्तस्स विस्समत्थाणभूदा इअं पि णाम पदुमावदी अस्सत्था जादा । जाव पविसामि । ( प्रविश्यावलोक्य । ) अहो परिजणस्स ३. ३ पमादो । अस्सत्थं पदुमावदिं केवळं दीवसहाअं करिअ परित्तजदि । इअं पदुमावदी ओसुत्ता । जाव उवविसामि । अहव अञ्ञासण- परिग्गण अप्पो विअ सिणेहो पडिभादि । ता इमरिंस सय्याए ३६ उवविसामि । ( उपविश्य । ) किं णु खु एदाए सह उवविसन्तीए अज्ज पहलादिदं विअ मे हिअअं । दिट्टिआ अविच्छिण्ण- सुहणिसासा । णिव्वुत्तरोआए होदव्वं । अहव एअदेस संविभा- ३९ अदाए सअणीअस्स सूएदि मं आळिङ्गेहि त्ति । जाव सइस्सं । ( शयनं नाटयति ) ॥ [ अहो अकरुणाः खल्वीश्वरा मे । विरहपर्युत्सु- कस्यार्यपुत्रस्य विश्रमस्थानभूतेयमपि नाम पद्मावत्यस्वस्था जाता । ४२ यावत् प्रविशामि । अहो परिजनस्य प्रमादः । अस्वस्थां पद्मावतीं केवलं दीपसहायां कृत्वा परित्यजति । इयं पद्मावत्यवसुता । यावदुप- विशामि । अथवान्यासनपरिग्रहेणाल्प इव स्नेहः प्रतिभाति । तदस्यां ४५ शय्यायामुपविशामि । किं नु खल्वेतया सहोपविशन्त्या अथ प्रह्ला- दितमिव मे हृदयम् । दिष्टयाविच्छिन्नसुखनिःश्वासा । निवृत्तरोगय भवितव्यम् । अथवैकदेशसंविभागतया शयनीयस्य सूचयति मामा- ४८ लिङ्गेति । यावच्छयिष्ये । ] राजा - ( स्वप्नायते । ) हा वासवदत्ते । वासवदत्ता - ( सहसोत्थाय ।) हैं अय्यउत्तो, ण हु पदुमावदी । किं णु ५१ खु दिट्ठम्हि । महन्तो खु अय्यजोअन्धराअणस्स पडिण्णाहारो मम दंसणेण निष्फळो संवृत्तो ॥ [ हम् आर्यपुत्रः, न खलु पद्मावती । किं नु खलु दृष्टास्मि । महान् खल्वार्ययौगन्धरायणस्य प्रतिज्ञाभारो मम ५ ४ दर्शनेन निष्फलः संवृत्तः । ] स्वप्नवासवदत्ते राजा - हा अवन्तिराजपुत्रि ! [v.6.55 वासवदत्ता - दिट्टिआ सिविणाअदि खु अय्यउत्तो । ण एत्थ ५७ कोच्चि जणो । जाव मुहुत्तअं चिट्ठिअ दिट्ठि हिअअं च तोसेमि ॥ [ दिष्ट्या स्वप्नायते खल्वार्यपुत्रः । नात्र कश्विज्जनः । यावन्मुहूर्तकं स्थित्वा दृष्टिं हृदयं च तोषयामि । ] ६० राजा - हा प्रिये ! हा प्रियशिष्ये ! देहि मे प्रतिवचनम् । वासवदत्ता - आळवामि भट्टा ! आळवामि ॥ [ आलपामि भर्तः । आलपामि । ] ६३ राजा - किं कुपितासि । वासवदत्ता - ण हि ण हि, दुक्खिदम्हि ॥ [ न हि न हि, राजा - यद्यकुपिता, किमर्थं नालंकृतासि । ६६ वासवदत्ता - इदो वरं किं ॥ [ इतः परं किम् । ] राजा - किं विरचिकां स्मरसि । दुःखितास्मि । ] वासवदत्ता - ( सरोषम् । ) आ अवेहि, इहावि विरचिआ ॥ [ आ ६९ अपेहि, इहापि विरचिका । ] राजा - तेन हि विरचिकार्थं भवतीं प्रसादयामि । ( हस्तौ प्रसारयति ।) वासवदत्ता - चिरं ठिदम्हि । को वि मं पेक्खे । ता गमिस्सं । ७२ अहव, सय्यापळम्बिअं अय्यउत्तस्स हत्थं सअणीए आरोविअ गमिस्सं । (तथा कृत्वा निष्क्रान्ता । ) ॥ [चिरं स्थितास्मि । कोऽपि मां पश्येत् । तद् गमिष्यामि । अथवा, शय्याप्रलम्बितमार्यपुत्रस्य हस्तं ७५ शयनीय आरोप्य गमिष्यामि । ] राजा - (सहसोत्थाय । ) वासवदत्ते ! तिष्ठ तिष्ठ । हा धिक् । निष्क्रामन् संभ्रमेणाहं द्वारपक्षेण ताडितः । ततो व्यक्तं न जानामि भूतार्थोऽयं मनोरथः ॥ ७ ॥ ( प्रविश्य । ) -v.11] पचमोऽङ्कः । विदूषकः - अइ परिबुद्धो अत्तभवं ॥ [ अयि प्रतिबुद्धोऽत्रभवान् । ] राजा - वयस्य ! प्रियमावेदये, धरते खलु वासवदत्ता । ३ विदूषकः - अविहा वासवदत्ता । कहिं वासवदत्ता । चिरा खु उवरदा वासवदत्ता ॥ [ अविधा वासवदत्ता । कुत्र वासवदत्ता । चिरात् खलूपरता वासवदत्ता । ] ६ राजा - वयस्य मा मैवं, शय्यायामवसुतं मां बोधयित्वा सखे गता । ब्रुवता पूर्वं वचितोऽस्मि रुमण्वता ॥ ८ ॥ विदूषकः - अविहा असम्भावणीअं ऐं । आ! उदअण्हाणसङ्कित्तणेण तत्तहोदिं चिन्तअन्तेण सा सिविणे दिट्ठा भवे ॥ [ अविवा ३ असंभावनीयमेतद् । आः ! उदकस्तानसंकीर्तनेन तत्रभवतीं चिन्तयता सा स्वप्ने दृष्टा भवेत् । ] विदूषकः - भो ! वअस्स ! एदस्सि गअरे अवन्तिसुन्दरी णाम ६ जक्खिणी पडिवसदि । सा तुए दिट्ठा भवे ॥ [ भोः ! वयस्य ! एतस्मिन् नगरेऽवन्तिसुन्दरी नाम यक्षिणी प्रतिवसति । सा त्वया दृष्टा भवेत् । ] ९ राजा-न न, स्वप्रस्यान्ते विबुद्धेन नेत्रविशेषिताञ्जनम् । चारित्रमपि रक्षन्त्या दृष्टं दीर्घालकं मुखम् ॥ १० ॥ अपि च वयस्य ! पश्य पश्य, योऽयं संत्रस्तया देव्या तया बाहुर्निपीडितः । स्वप्नेऽप्युत्पन्नसंस्पर्शो रोमहर्ष न मुञ्चति ॥ ११ ॥ १ Printed editions read असम्भावणीअं एदं ण । स्वप्नवासवदत्ते [v.11. विदूषक:- : - मा दाणिं भवं अणत्थं चिन्तिअ । एदु एदु भवं । चउ- स्साळं पविसामो ॥ [ मेदानीं भवाननर्थं चिन्तयित्वा । एत्वेतु ३ भवान् । चतुःशालं प्रविशावः । ] ( प्रविश्य । ) ( ततः प्रविशति काञ्चुकीयः । ) ( प्रविश्य । ) काञ्चुकीयः- जयत्वार्यपुत्रः । अस्माकं महाराजो दर्शको भवन्त- ६ माह ' एष खलु भवतोऽमात्यो रुमण्वान् महता बलसमुदयेनो- पयातः खल्वारुणिमभिघातयितुम् । तथा हस्त्यश्वरथपदातीनि मामकानि विजयाङ्गानि संनद्धानि । तदुत्तिष्ठतु भवान् । अपि च, भिन्नास्ते रिपवो भवद्गुणरताः पौराः समाश्वासिताः पाणयापि भवत्प्रयाणसमये तस्या विधानं कृतम् यद्यन् साध्यमरिप्रमाथजननं तत्तन्मयानुष्ठितं तीर्णा चापि बलैर्नदी त्रिपथगा वत्साश्च हस्ते तव ॥ १२ ॥ ' राजा - ( उत्थाय । ) बाढम् । अयमिदानीम्, उपेत्य नागेन्द्रतुरंगतीर्णे तमारुणिं दारुणकर्मदक्षम् । विकीर्णवाणोप्रतरङ्गभङ्गे महार्णवाभे युधि नाशयामि ॥ १३ ॥ निष्क्रान्ताः सर्वे । पञ्चमोऽङ्कः । अथ षष्ठोऽङ्कः । काञ्चुकीयः- क इह भोः ! काचनतोरणद्वारमशून्यं कुरुते । प्रतीहारी - अय्य! अहं विजआ । किं करीअदु ॥ [ आर्य ! अहं विजया । किं क्रियताम् । ] - vi.30 ] षष्ठोऽङ्कः । ६ काञ्चुकीयः - भवति ! निवेद्यतां निवेद्यतां वत्सराज्यलाभप्रवृद्धोदयायो- दयनाय ' एष खलु महासेनस्य सकाशाद् रैभ्यसगोत्रः काञ्चुकीयः प्राप्तः, तत्रभवत्या चाङ्गारवत्या प्रेषितार्या वसुन्धरा ९ वासवदत्ताधात्री च प्रतीहारमुपस्थिताविति । नाम प्रतीहारी - अय्य ! अदेसकाळी परिहारस्स ॥ [ आर्य ! अदेशकाल: प्रतीहारस्य । ] १२ काञ्चुकीयः - कथमदेशकालो नाम । प्रतीहारी - सुणादु अय्यो । अज्ज भट्टिणो सुय्यामुप्पासादगदेण केण वि वीणा वादिदा । तं च सुणिअ भट्टिणा भणिअं 'घोसव- १५ दीए सो विअ सुणीअदि ' त्ति ॥ [ शृणोत्वार्यः । अद्य भर्तुः सूर्या- मुखप्रासादगतेन केनापि वीणा वादिता । तां च श्रुत्वा भर्त्रा भणितं घोषवत्याः शब्द इव श्रूयत इति । ] १८ काञ्चुकीयः- ततस्ततः । प्रतीहारी - तदो तहिं गच्छ पुच्छिदो ' कुदो इमाए वीणाए आगमो 'ति । तेण भणिदं ' अम्हेहिं णम्मदातीरे कुय्यगुम्मळग्गा २१ दिट्ठा । जइ ओअणं इमाए, उवणीअदु भट्टिणो' त्ति । तं च वणी अड्डे करिअ मोहं गदो भट्टा । तदो मोह पच्चागदेण बफपय्याउळेण मुहेण भट्टिणा भणिअं ' दिट्ठाास घोसवदि ! सा २४ हुण दिस्सदि 'ति । अय्य ! ईदिसो अणवसरो । कहं णिवेदेमि ॥ [ ततस्तत्र गत्वा पृष्टः कुतोऽस्या वीणाया आगम इति । तेन भणितमस्मा- भिर्नर्मदातीरे कूर्चगुल्मलग्ना दृष्टा । यदि प्रयोजनमनया, उपनीयतां भर्त्र २७ इति । तां चोपनीतामङ्के कृत्वा मोहं गतो भर्ता । ततो मोहप्रत्यागतेन बाष्पपर्याकुलेन मुखेन भर्त्रा भणितं दृष्टासि घोषवति ! सा खलु न दृश्यत इति । आर्य ! ईदृशोऽनवसरः । कथं निवेदयामि । ] ३० काञ्चुकीयः - भवति ! निवेद्यताम् । इदमपि तदाश्रयमेव । स्वप्नवासवदत्ते [vi.31 प्रतीहारी-अ -अय्य! इअं णित्रेदेमि । एसो भट्टा सुय्यामुप्पासादादो ओदरइ । ता इह एव्व णिवेदइस्सं ॥ [ आर्य ! इयं निवेदयामि । ३३ एष भर्ता सूर्यामुखप्रासादादवतरति । तदिहैव निवेदयिष्यामि । ] काञ्चुकीयः - भवति ! तथा । राजा- ( उभौ निष्क्रान्तौ । ) ( ततः प्रविशति राजा विदूषकश्च । ) मिश्रविष्कम्भकः । 1 श्रुतिसुखनिनदे ! कथं नु देव्याः स्तनयुगले जघनस्थले च सुप्ता । विहगगणरजोविकीर्णदण्डा प्रतिभयमध्युषितास्यरण्यवासम् ॥ १ ॥ अपि च, अम्निग्धासि घोषवति ! या तपस्विन्या न स्मरसि, श्रोणीसमुद्वहनपार्श्वनिपीडितानि खेदस्तनान्तर सुखान्युपगृहितानि । उद्दिष्य मां च विरहे परिदेवितानि वाद्यान्तरेषु कथितानि च सस्मितानि ॥ २ ॥ विदूषकः- अळं दाणिं भवं अदिमत्तं सन्तापअ ॥ [ अलमिदानीं भवानतिमात्रं संतप्य ] ३ राजा - वयस्य ! मा मैवं, चिरप्रसुप्तः कामो मे वीणया प्रतिबोधितः । तां तु देवीं न पश्यामि यस्या घोषवती प्रिया ॥ ३ ॥ वसन्तक ! शिल्पिजनसकाशान्नवयोगां घोषवतीं कृत्वा शीघ्रमानय । विदूषकः - जं भवं आणवेदि । ( बीणां गृहीत्वा निष्क्रान्तः । ) ॥ -vi.3.27] ३ [ यद् भवानाज्ञापयति । ] षष्ठोऽङ्कः । ( प्रविश्य । ) ( ततः प्रविशति पद्मावती प्रतीहारी च । ) प्रतीहारी - जेदु भट्टा । एसो खु महासेणस्स सआसादो ख्भसगोत्तो ६ कञ्चुईओ देवीए अङ्गारवदीए पेसिढ़ा अय्या वसुन्धरा णाम वासवदत्तावत्ती अ पडिहारं उवद्विदा ॥ [ जयतु भर्ता । एष खलु महासेनस्य सकाशाद् रैभ्यसगोत्रः काठ चुकीयो देव्याङ्गारवत्या प्रेोषतार्या ९ वसुन्धरा नाम वासवदत्ताधात्री च प्रतिहारमुपस्थितौ । ] राजा - तेन हि पद्मावती तावदाहूयताम् । प्रतीहारी - जं भट्टा आणवेदि । (निष्क्रान्ता ) ॥ [ यद् भर्ताज्ञापयति । ] १२ राजा - किं नु खलु शीघ्रमिदानीमयं वृत्तान्तो महासेनेन विदितः । प्रतीहारी- री- एदु एदु भट्टिदारिआ ॥ [ एस्वेतु भर्तृदारिका । ] १५ पद्मावती - जेदु अय्यउत्तो ॥ [ जयत्वार्यपुत्रः । ] राजा - पद्मावति ! किं श्रुतं महासेनस्य सकाशाद् रैभ्यसगोत्र: काञ्चुकीयः प्रामः, तत्रभवत्या चाङ्गारवत्या प्रेषितार्या वसुन्धरा १८ नाम वासवदत्ताधात्री च, प्रतिहारमुपास्थिताविति । पद्मावती- अय्यउत्त ! पिअं मे नादिकुळस्स कुसळ वुत्तन्तं सोढुं ॥ [ आर्यपुत्र ! प्रियं मे ज्ञातिकुलस्य कुशलवृत्तान्तं श्रोतुम् । ] २१ राजा - अनुरूपमेतद् भवत्याभिहितं 'वासवदत्तास्वजनो मे स्वजन ' इति । पद्मावति ! आस्यताम् । किमिदानीं नास्यते । पद्मावती - अय्यउत्त! किं मए सह उवविट्ठो एदं जणं पेक्खिस्सदि । २४ [ आर्यपुत्र ! किं मया सहोपविष्ट एतं जनं द्रक्ष्यति । ] राजा - कोऽत्र दोषः । पद्मावती-अय्यउत्तस्स अवरो परिग्गहो त्ति उदासीणं विअ होदि । २७ [ आर्यपुत्रस्यापरः परिग्रह इत्युदासीनमिव भवति । ] राजा- स्वप्नवासवदत्ते [ vi.5- - कलत्रदर्शनार्हं जनं कलत्रदर्शनात् परिहरतीति बहुदोषमुत्पा- दयति । तस्मादास्यताम् । ३० पद्मावती -जं अय्यउत्तो आणवेदि । ( उपविश्य । ) अय्यउत्त ! तादो वा अम्बा वा किं णु खु भणिस्सदि त्ति आविग्गा विअ संवृत्ता । [ यदार्यपुत्र आज्ञापयति । आर्यपुत्र ! तातो वाम्बा वा ३३ किं नु खलु भणिष्यतीत्याविशेव संवृत्ता । ] राजा - पद्मावति ! एवमेतत् । किं वक्ष्यतीति हृदयं परिशङ्कितं मे कन्या मयाप्यपहृता न च रक्षिता सा । भाग्यैश्वलैर्महदवाप्य' गुणोपघातं पुत्रः पितुर्जनितरोष इवास्मि भीतः ॥ ४ ॥ पद्मावती-णं किं सकं रक्खिदुं पत्तकाळे ॥ [ ननु किं शक्यं रक्षितुं प्राप्तकाले । ] ३ प्रतीहारी - एसो कञ्चुईओ धत्ती अ पडिहारं उवद्विदा ॥ [ एष काञ्चुकीयों धात्री च प्रतिहारमुपस्थितौ । ] राजा - शीघ्रं प्रवेश्यताम् । ६ प्रतीहारी - जं भट्टा आणवेदि । (निष्क्रान्ता । ) ॥ [ यद् भर्ताज्ञापयति । ] ( ततः प्रविशति काञ्चुकीयो धात्री प्रतिहारी च । ) काञ्चुकीयः- भोः ! संबन्धिराज्यमिदमेत्य महान् प्रहर्षः स्मृत्वा पुनर्नृपसुतानिधनं विषादः । किं नाम दैव ! भवता न कृतं यदि स्याद् राज्यं परैरपहृतं कुशलं च देव्याः ॥ ५ ॥ १ Printed editions read 'महदवाप्तंगुणोपघातः । २ Printed editions give ण किं सकूं etc. —vi.8.8] षष्ठोऽङ्कः प्रतीहारी - एसो भट्टा, उवसप्पदु अय्यो । [ एष भर्ता, उपसर्पत्वार्यः । ] काञ्चुकीयः-( उपेत्य । ) जयत्वार्यपुत्रः । ३ धात्री - जेदु भट्टा ॥ [ जयतु भर्ता । ] राजा - ( सबहुमानम् । ) आर्य ! पृथिव्यां राजवंश्यानामुदयास्तमयप्रभुः । अपि राजा स कुशली मया काङ्क्षितबान्धवः ॥ ६ ॥ काञ्चुकीयः- अथ किम् । कुशली महासेनः । इहापि सर्वगतं कुशलं पृच्छति । ३ राजा - ( आसनादुत्थाय । ) किमाज्ञापयति महासेनः । काञ्चुकीयः- सदृशमेतद् वैदेहीपुत्रस्य । नन्वासनस्थेनैव भवता श्रोतव्यो महासेनस्य संदेशः । ६ राजा - यदाज्ञापयति महासेनः । ( उपविशति । ) काञ्चुकीयः- दिष्टया परैरपहृतं राज्यं पुनः प्रत्यानीतमिति कुतः, कातरा येऽप्यशक्ता वा नोत्साहस्तेषु जायते । प्रायेण हि नरेन्द्रश्रीः सोत्साहैरेव भुज्यते ॥ ७ ॥ जा-आर्य ! सर्वमेतन्महासेनस्य प्रभावः । कुतः, राजा - अहमवजितः पूर्वं तावत् सुतैः सह लालितो पहृता कन्या भूयो मया न च रक्षिता । निधनमपि च श्रुत्वा तस्यास्तथैव मयि स्वता ननु यदुचितान् वत्सान् प्राप्तुं नृपोऽत्र हि कारणम् ॥ ८ ॥ 1 काम्चुकीयः- एष महासेनस्य संदेशः । देव्याः संदेशमिहात्रभवती कथयिष्यति । ३ राजा - हा अम्ब ! स्वप्न... ४ स्वप्रवासवदत्ते षोडशान्तःपुरज्येष्ठा पुण्या नगरदेवता । मम प्रवासदुःखार्ता माता कुशलिनी ननु ॥ ९ ॥ [vi.9.- धात्री - अरोआ भट्टिणी भट्टारं सव्वगदं कुसळं पुच्छदि ॥ [ अरोगा भट्टिनी भर्तारं सर्वगतं कुशलं पृच्छति । ] ३ राजा - सर्वगतं कुशलमिति । अम्ब ! ईदृशं कुशलम् । धात्री - मा दाणिं भट्टा अदिमत्तं सन्तप्पिदुं ॥ [ मेदानीं भर्तातिमात्रं संतप्तुम् । ] ६ काञ्चुकीयः- धारयत्वार्यपुत्रः । उपरताप्यनुपरता महासेनपुत्री एव मनुकम्पयमानार्यपुत्रेण । अथवा, कः कं शक्तो रक्षितुं मृत्युकाले रज्जुच्छेदे के घटं धारयन्ति । एवं लोकस्तुल्यधर्मो वनानां काले काले छिद्यते रुह्यते च ॥ १० ॥ राजा - आर्य ! मा मैवं, महासेनस्य दुहिता शिष्या देवी च मे प्रिया । कथं सा न मया शक्या स्मतुं देहान्तरेष्वपि ॥ ११ ॥ धात्री - आह भट्टिणी ' उवरदा वासवदत्ता । मम वा महासेणस्य वा जादिसा गोवाळ अपाळआ, तादिसो एव्व तुमं पुढमं एव अभि- ३ दो जामादुअत्ति । एदणिमित्तं उज्जइणिं आणीदो । अणग्गिस- क्विअं वीणाववदेसेण दिष्णा अत्तणो चवळदार आणिव्वत्तविवाह- मङ्गळो एव्व गदो । अहअ अम्हेहिं तव अ वासवदत्ताए अ पडि- ६ किदिं चित्तफळआए आळिहिअ विवाहो णिव्वुत्तो । एसा चित्त- फळआ तव सआसं पेसिदा । एदं पेक्खिअ णिव्वुदो होहि ॥ [ आह भट्टिनी उपरता वासवदत्ता । मम वा महासेनस्य वा यादृशौ ९ गोपालकपालकौ, तादृश एव त्वं प्रथममेवाभिप्रेतो जामातेति । एतन्निमित्तमुज्जयिनीमानितः । अनग्निसाक्षिकं वीणान्यपदेशेन दत्ता । ----vi:13.' ] षष्ठोऽङ्कः । आत्मनश्चपलतयानिर्वृत्तविवाहमङ्गल एव गतः । अथ चावाभ्यां तव च १२ वासवदत्तायाश्च प्रतिकृतिं चित्रफलकायामालिख्य विवाहो निर्वृत्तः । एषा चित्रफलका तव सकार्श प्रेषिता । एतां दृष्ट्वा निर्वृतो भव । ] ' १५ राजा- - अहो अतिस्निग्धमनुरूपं चाभिहितं तत्रभवत्या । वाक्यमेतन् प्रियतरं राज्यलाभशतादपि । अपराद्धेष्वपि स्नेहो यदस्मासु न विस्मृतः ॥ १२ ॥ पद्मावती - अय्यउत्त ! चित्तगदं गुरुअणं पेक्खिअ अभिवादेदुं इच्छामि ॥ [ आर्यपुत्र ! चित्रगतं गुरुजनं दृष्ट्वाभिवादयितुमिच्छामि । ] ३ धात्री - पेक्खदु पेक्खदु भट्टिदारिआ । ( चित्रफलकां दर्शयति ) । [ पश्यतु पश्यतु भर्तृदारिका । ] पद्मावती - ( दृष्ट्वा आत्मगतम् । ) हं अदिसदिसी खु इअं अय्याए ६ आवन्तिआए । (प्रकाशम् ।) अय्यउत्त ! सदिसी खु इअं अय्याए । [हम् अतिसदृशी खल्वियमार्याया आवन्तिकायाः । आर्यपुत्र ! सदृशी खल्वियमार्यायाः । ] ९ राजा - न सदृशी । सैवेति मन्ये । भोः ! कष्टम्, अस्य स्निग्धस्य वर्णस्य विपत्तिर्दारुणा कथम् । इदं च मुखमाधुर्यं कथं दूषितमग्निना ॥ १३ ॥ पद्मावती-अय्यउत्तम्स पडिकिदिं पेक्खिअ जाणामि इअं अय्याए सदिसी ण वेत्ति ॥ [ आर्यपुत्रस्य प्रतिकृतिं दृष्ट्वा जानामीयमार्यया २ सदृशी न वेति । ] धात्री - पेक्खदु पेक्खदु भट्टिदारिआ ॥ [ पश्यतु पश्यतु भर्तृदारिका ।] पद्मावती - ( दृष्ट्रा । ) अय्यउत्तस्स पडिकिदीए सदिसदाए जाणामि ६ इअं अय्याए सदिसि त्ति ॥ [ आर्यपुत्रस्य प्रतिकृत्याः सदृशतया · जानामीयमार्यया सदृशीति । ] स्वप्नवासवदत्ते [vi.13.8- राजा - देवि ! चित्रदर्शनात् प्रभृति प्रहृष्टोद्विनामिव त्वां पश्यामि । ९ किमिदम् । पद्मावती - अय्यउत्त ! इमाए पडिकिदीए सदिसी इह एव्व पडिव - सदि ॥ [ आर्यपुत्र ! अस्याः प्रतिकृत्याः सदृशीहैव प्रतिवसति । ] १२ राजा - १ - किं वासवदत्तायाः । पद्मावती - आम ॥ [ आम् । ] राजा - तेन हि शीघ्रमानीयताम् । १५ पद्मावती - अय्यउत्त ! मम कण्णाभावे केणवि बम्हणेण मम भइणि- अत्ति ण्णासो णिक्खित्तो । पोसिदभत्तुआ परपुरुस दंसणं परिहरदि । ता अय्यं मए सह आअदं पेक्खिअ जाणादु अय्यउत्तो । [ आर्य- १८ पुत्र ! मम कन्याभावे केनापि ब्राह्मणेन मम भगिनिकेति न्यासो निक्षिप्तः । प्रोषितभर्तृका परपुरुषदर्शनं परिहरति । तदार्यां मया सहागतां दृष्ट्वा जानात्वार्यपुत्रः । ] राजा- यदि विप्रस्य भगिनी व्यक्तमन्या भविष्यति । परस्परगता लोके दृश्यते रूपतुल्यता ॥ १४ ॥ ( प्रविश्य । ) प्रतीहारी - जेदु भट्टा । एसो उज्जइणीओ बम्हणो, भट्टिणीए हत्थे ३ मम भइणीअत्ति ण्णासो णिक्खित्तो, तं पडिग्गहिदु पडिहारं वो ॥ [ जयतु भर्ता । एष उज्जयिनीयो ब्राह्मणः, भट्टिन्या हस्ते मम भगिनिकेति न्यासो निक्षिप्तः तं प्रतिग्रहीतुं प्रतिहारमुपस्थितः । ] ६ राजा - पद्मावति ! किं नु स ब्राह्मणः । पद्मावती-होदव्वं ॥ [ भवितव्यम् । ] राजा - शीघ्रं प्रवेश्यातामभ्यन्तरसमुदाचारेण स ब्राह्मणः । ९ प्रतीहारी - जं भट्टा आणवेदि । (निष्क्रान्ता । ) ॥ [ यद् भर्ताज्ञापयति । ] -vi.15.16] षष्ठोङ्कः । राजा - पद्मावति ! त्वमपि तामानय । पद्मावती -जं अय्यउत्तो आणवेदि । (निष्क्रान्ता ) ॥ [ यदार्यपुत्र १२ आज्ञापयति । ] ( ततः प्रविशति यौगन्धरायणः प्रतीहारी च । ) ( ततः प्रविशति पद्मावती आवन्तिका प्रतीहारी च । ) यौगन्धरायणः - भोः ! ( आत्मगतम् । ) प्रच्छाद्य राजमहिषीं नृपतेर्हितार्थं कामं मया कृतमिदं हितमित्यवेक्ष्य । सिद्धेsपि नाम मम कर्मणि पार्थिवोऽसौ किं वक्ष्यतीति हृदयं परिशङ्कितं मे ॥ १५ ॥ प्रतीहारी - एसो भट्टा । उपसप्पदु अय्यो ॥ [ एष भर्ता । उपस- पवार्यः । ] ३ यौगन्धरायणः - ( उपसृत्य । ) जयतु भवान् जयतु । " राजा - श्रुतपूर्व इव स्वरः । भो ब्राह्मण ! किं भवतः स्वसा पद्मावत्या हस्ते न्यास इति निक्षिप्ता । ६ यौगन्धरायणः - अथ किम् । राजा - तेन हि त्वर्यतां त्वर्यतामस्य भगिनिका । प्रतीहारी - जं भट्टा आणवेदि । (निष्क्रान्ता । ) ॥ [ यद् भर्ताज्ञापयति । ] पद्मावती - एदु एदु अय्या । पिअं दे णिवेदेमि ॥ [ एत्वेत्वार्या । प्रियं ते निवेदयामि । ] १२ आवन्तिका -किं किं ॥ [ किं किम् । ] पद्मावती - भादा दे आअदो ॥ [ भ्राता ते आगतः । ] आवन्तिका -दिट्टिआ इदाणिं पि सुमरदि ॥ [ दिष्टयेदानीमपि १५ स्मरति । ] पद्मावती - ( उग्सत्य) जेदु अय्यउत्तो । एसो णासो ॥ [ जयत्वा- र्यपुत्रः । एष न्यासः । ] स्वप्नवासवदत्ते [vi.15." १८ राजा - निर्यातय पद्मावति ! । अथवा साक्षिमन्न्यासो निर्यातयि- तव्यः । इहात्रभवान् रैभ्यः, अत्रभवती चाधिकरणं भविष्यतः । पद्मावती - अय्य! णीअदां दाणि अय्या । [ आर्य ! नीयतामि- २१ दानीमार्या । ] धात्री - ( आवन्तिकां निर्वर्ण्य । ) अम्मो ! भट्टिदारिआ वासवदत्ता ॥ [ अम्मो ! भर्तृदारिका वासवदत्ता । ] २४ राजा - कथं महासेनपुत्री । देवि ! प्रविश त्वमभ्यन्तरं पद्मावत्या सह । यौगन्धरायणः- न खलु न खलु प्रवेष्टव्यम् । मम भगिनी खल्वेषा । २७ राजा- - किं भवानाह । महासेनपुत्री खल्वेषा । यौगन्धरायणः - भो राजन् ! भारतानां कुले जातो विनीतो ज्ञानवान्छुचिः । तन्नार्हसि बलाद्धर्तुं राजधर्मस्य देशिकः ॥ १६ । राजा - भवतु, पश्यामस्तावद् रूपसादृश्यम् । संक्षिप्यतां यवनिका यौगन्धरायणः -जयतु स्वामी । ३ वासवदत्ता - जेदु अय्यउत्तो ॥ [ जयत्वार्यपुत्रः । ] राजा - अये ! असौ यौगन्धरायणः, इयं महासेनपुत्री । किं नु सत्यमिदं स्वप्नः सा भूयो दृश्यते मया । अनयाप्येवमेवाहं दृष्टया वचितस्तदा ॥ १७ । यौगन्धरायणः - स्वामिन्! देव्यपनयेन कृतापराधः खल्वहम् । तत् क्षन्तुमर्हति स्वामी । ( इति पादयोः पतति । ) ३ राजा - ( उत्थाप्य । ) यौगन्धरायणो भवान ननु । मिथ्योन्मादैश्च युद्धैश्च शास्त्रदृष्टैश्व मन्त्रितैः । भवद्यत्नैः खलु वयं मज्जमानाः समुद्धृताः ॥ १८ ॥ 9 Printed editions drop the word अथवा यौगन्धरायणः - स्वामिभाग्यानामनुगन्तारो वयम् । पद्मावती - अम्महे अय्या खु इअं । अय्ये ! सहीजणसमुदाआरेण अजाणन्तीए अदिक्कन्दो समुदाआरो । ता सीसेण पसादेमि ॥ [ अहो आर्या खल्वियम् ! आर्ये । सखीजनसमुदाचारेणाजानन्त्या- तिक्रान्तः समुदाचारः, तच्छीर्षेण प्रसादयामि । ] वासवदत्ता-( पद्मावतीमुत्थाप्य । ) उट्ठेहि उट्ठेहि अविहवे ! उट्ठेहि । अत्थिसअं णाम सरीरं अवरद्धइ ॥ [ उत्तिष्ठोत्तिष्ठाविधवे ! उत्तिष्ठ । अर्थिस्वं नाम शरीरमपराध्यति । ] पद्मावती - अणुग्गहिदम्हि ॥ [ अनुगृहीतास्मि । ] राजा - वयस्य यौगन्धरायण ! देव्यपनये का कृता ते बुद्धिः । यौगन्धरायणः - कौशाम्बीमात्रं परिपालयामीति । १२ राजा - अथ पद्मावत्या हस्ते किं न्यासकारणम् । यौगन्धरायणः - पुष्पकभद्रादिभिरादेशिकैरादिष्टा स्वामिनो देवी भविष्यतीति । राजा - इदमपि रुमण्वता ज्ञातम् । यौगन्धरायणः - स्वामिन्! सर्वैरेव ज्ञातम् । राजा - अहो शठः खलु रुमण्वान् । यौगन्धरायणः - स्वामिन्! देव्याः कुशलनिवेदनार्थमद्यैव प्रतिनि- वर्ततामत्रभवान् रैभ्योऽत्रभवती च । राजा-न, न । सर्व एव वयं यास्यामो देव्या पद्मावत्या सह । यौगन्धरायणः - यदाज्ञापयति स्वामी । ( भरतवाक्यम् । ) इमां सागरपर्यन्तां हिमवद्विन्ध्यकुण्डलाम् । महीमेकातपत्राङ्कां राजसिंहः प्रशास्तु नः ॥ १९ ॥ (निष्क्रान्ताः सर्वे । ) षष्ठोऽङ्कः । इति स्वप्नवासवदत्तमवसितम् । ॥ श्रीः ॥ भासनाटकचक्रे प्रतिज्ञायौगन्धरायणम् ( नान्यन्ते ततः प्रविशति सूत्रधार :) सूत्रधारः -पातु वासवदत्तायो महासेनोऽतिवीर्यवान् । वत्सराजस्तु नाम्ना सशक्तियौगन्धरायणः ॥ १ ॥ (परिक्रम्य नेपथ्याभिमुखमवलोक्य) आर्ये ! इतस्तावत् । ( प्रविश्य ) नटी - अय्य ! इअम्हि । [ आर्य ! इयमस्मि । ] सूत्रधारः - आर्ये ! गीयतां तावत् किञ्चिद् वस्तु । ततस्तव गीत- प्रसादिते रङ्गे वयमपि प्रकरणमारभामहे । आयें ! किमिदं चिन्त्यते । ननु गीयते । नटी - अज्ज मए सिविणे ज्ञादिकुळस्स अस्सत्थं विअ दिट्ठं । ता इच्छामि अय्येण कुसळविज्ञाणणिमित्तं कञ्चि पुरुषं पेसिदुं । [ अद्य मया स्वप्ने ज्ञातिकुलस्यास्वास्थ्यमिव दृष्टम् । तदिच्छाम्यार्येण कुशलविज्ञाननिमित्तं कञ्चित् पुरुषं प्रेषयितुम् । ] सूत्रधारः - बाढम् । पुरुषं प्रेषयिष्यामि व्यक्तमात्महिते क्षमम् । ( नेपथ्ये ) सालक ! सज्जस्त्वम् । सूत्रधारः - पुरुषं प्रेषयत्येष यथा यौगन्धरायणः ॥ २ ॥ (निष्क्रान्तौ । ) स्थापना । [^१] पेक्खिदुं. ( ततः प्रविशति यौगन्धरायणः सालकेन सह । ) यौगन्धरायणः - सालक ! सज्जस्त्वम् । सालकः - अय्य! अहइं । [ आर्य ! अथकिम् । ] यौगन्धरायणः - महान् खल्वध्वा गन्तव्यः । सालकः - महत्तरेण सिणेहेण अय्यं उवचिट्ठामि । [ महत्तरेण स्नेहेनार्यमुपतिष्ठे । ] यौगन्धरायणः - हन्त यास्यति बलवान्, यस्य सौहार्दम् । कुतः, स्निग्धेष्वासज्यं कर्म यद् दुष्करं स्याद् यो वा विज्ञाता सत्कृतानां गुणानाम् । क्रीतं सामर्थ्यं यस्य तस्य क्रमेण दैवप्रामाण्याद् भ्रश्यते वर्धते वा ॥ ३ ॥ अथ वेणुवनान् त्रिषु गहनेषु नागवनं श्वः प्रयाता स्वामी प्रागेव सम्भावयितव्यः । सालकः - अय्य! ळेहो खु मं ओवज्झइ, जहिं आअत्तं कय्यसरीरं । [ आर्य लेखः खलु मामपवहति, यस्मिन् आयत्तं कार्यशरीरम् । ] यौगन्धरायणः - विजये ! ( प्रविश्य ) विजया - अय्य इअम्हि । [ आर्य ! इयमस्मि । ] यौगन्धरायणः - विजये ! त्वर्यतां लेखः प्रतिसरा च । विजया - अय्य ! तह । (निष्क्रान्ता । ) [ आर्य ! तथा । ] यौगन्धरायणः - अथ दृष्टपूर्वस्त्वयैष पन्थाः । सालक -णहि, सुदपुरुवो। [ नहि, श्रुतपूर्वः । ] यौगन्धरायणः - एतदपि मेधाविलक्षणम् । भोः ! वनगजप्रच्छादित- शरीरं नीलहस्तिनमुपन्यस्य प्रद्योतः स्वामिनं छलयितुकाम इति १ अतीतं. २ वेणुवनाश्रितेषु गहनेषु. ३ ओबज्झइ. -i. 4.17] प्रथमोऽङ्कः । प्रवृत्तिरुपगता नः । अपीदानीं स्वामिनो बुद्धयतिक्रमो न स्यात् । १५ अहोतुखलु वत्सराजभीरुत्वं प्रद्योतस्य । व्यक्तीकृतमसामर्थ्यमक्षौ- हिण्याः । कुतः, व्यक्तं बलं बहु च तस्य न चैककार्यं सङ्ख्यातवीरपुरुषं च न चानुरक्तम् । व्याजं ततः समभिनन्दति युद्धकाले सर्वं हि सैन्यमनुरागमृते कलत्रम् ॥ ४ ॥ ( प्रविश्य ) ( प्रविश्य ) विजया --ळेहो खु अअं । पडिसरा सव्ववहूजणहत्थादो तुवारी- ३ अदित्ति भट्टिमादा आह । [ लेखः खल्वयम् । प्रतिसरा सर्ववधू - जनहस्तात् त्वर्यत इति भर्तृमाता आह । ] यौगन्धरायणः - विजये ! विज्ञाप्यतां तत्रभवत्यै - सर्ववधूजन हस्त- ६ प्रयुक्ता वा एका वा प्रतिसरा दीयतामिति । विजया - अय्य! तह । (निष्क्रान्ता । ) [ आर्य ! तथा । ] ९ निर्मुण्डकः - सुहं अय्यस्स । [ सुखमार्यस्य ] यौगन्धरायणः - कथं निर्मुण्डकः । निर्मुण्डकः -- अय्य! एसा भट्टिपादमूलादो ओवइओ हंसओ १२ आउदो । [आर्य ! एष भर्तृपादमूलादौपस्थितिको हंसकः आगतः । ] यौगन्धरायणः -- कथं हंसक एक: प्राप्त इति । सालक ! विश्रम्य - तामिदानीं मुहूर्तम् । त्वरिततरं वा यास्यसि सविश्रमो वा । १५ सालकः -- अय्य ! तह । (निष्क्रान्तः । ) [ आर्य ! तथा । ] यौगन्धरायणः -- निर्मुण्डक ! प्रवेश्यतां हंसकः । निर्मुण्डकः - अय्य ! तह । (निष्क्रान्तः । ) [ आर्य ! तथा । ] १ अनुरागकृते. २ त्वरितं. प्रतिज्ञायौगन्धरायणे [ i. 4.18_ १८ यौगन्धरायणः–स्वामिनाविरहित पूर्वो हंसक एकः प्राप्त इति सावि- प्रभव मे मनः । कुतः, यथा नरस्याकुलबान्धवस्य गत्वान्यदेशं गृहमागतस्य । तथा हि मे सम्प्रति बुद्धिशङ्का श्रोष्यामि किन्नु प्रियमप्रियं वा ॥ ५ ॥ ( ततः प्रविशति हंसको निर्मुण्डकश्च । ) निर्मुण्डक: - एदु एदु अय्यो । [ एत्वेत्वार्यः । ] ३ हंसकः - कहिं कहिं अथ्यो । [ कुत्र कुत्रार्यः । ] निर्मुण्डकः - एसो अय्यो चिट्ठइ, उवसप्पदु णं । (निष्क्रान्तः । ) एष आर्यस्तिष्ठति उपसर्पत्वेनम् । ] ६ हंसकः - ( उपसृत्य ) सुहं अय्यस्स । [ सुखमार्यस्य । ] यौगन्धरायणः - हंसक ! न खलु गतः स्वामी नागवनम् । हंसकः - अय्य! हिज्जो एव्व गदो भट्टा । आर्य ! ह्य् एव गतो ९ भर्ता । ] यौगन्धरायणः - हन्त निष्फलमनुप्रेषणम् । छलिताः स्मः । अथास्ति प्रत्याशा, अथवा अद्यैव प्राणा मोक्तव्याः । १२ हंसकः - धरदि खुदाव भट्टा । [ धरते खलु तावद् भर्ता । ] यौगन्धरायणः - धरते तावदित्यनूर्जिता विपत्तिरभिहिता । गृहीतेन स्वामिना भवितत्र्यं ननु । १५ हंसकः - अय्येण विवादं । गहीदो भट्टा । [ सुष्ठु आर्येण विज्ञातम् । गृहीतो भर्ता । ] यौगन्धरायणः - कथं गृहीतः स्वामी । हन्त भोः ! महान् खलु भारः १८ प्रद्योतस्य भाग्यैर्निस्तीर्णः । अद्यप्रभृति वत्सराजसचिवानां प्रति• ष्ठितमसामर्थ्यमयशच । इदानीमनुत्पन्नकार्यपण्डितो रुमण्वान् क गतः । इदानीमश्वारोहणीयं क्व गतम् । कुतः, १ ( उपगम्य । ) --i. 6.20] प्रथमोऽङ्कः । स्निग्धं च सौहृदहृतं च कुलोद्गतं च व्यायामयोग्यपुरुषं च गुणार्जितं च । क्रीतं परैर्गहनदुर्गतया प्रनष्टं युद्धे समस्तमतिभारतया विपन्नम् ॥ ६ ॥ हंसकः - जइ समग्गजोहबळपरिवारो भवे भट्टा, ण एसो दोसो भवे । [ यदि समग्रयोधबलपरिवारो भवेद् भर्ता, नैष दोषो भवेत् । ] ३ यौगन्धरायणः - कथमसमग्रयोधबलपरिवारो नाम स्वामी । हंसकः - सुणादु अय्यो । [ शृणोत्वार्यः । ] यौगन्धरायणः - अध्वश्रान्तो भवान् । आस्यताम् । ६ हंसकः - अय्य ! तह । ( उपविश्य ) सुणादु अय्यो । सावसेसप- कचूसाए र अणीए वाहणसुहाए वेळा वाळुआतित्थेण ण णम्मदं तरिअ वेणुवणे कळतं आवासिअ छत्तमत्तपरिच्छदेण गजजूह विम- ९ जोग्गेण बळेण मग्गमदेअणीए वीहीए णाअवणं पआदो भट्टा । [ आर्य ! तथा । शृणोत्वार्यः । सावशेषप्रत्यूषायां रजन्यां वाहनसुखायां वेलायां वालुकातीर्थेन नदीं नर्मदां तीर्त्वा वेणुवने कलत्रमावास्य छत्र- १२ मात्रपरिच्छदेन गजयूथविमर्दयोग्येन बलेन मार्गमदन्या वीथ्या नागवनं प्रयातो भर्ता । ] यौगन्धरायणः - ततस्ततः । १५ हंसकः - तदो इसुक्खेवमत्तोत्थिदे सुय्ये एत्तिअमत्ताणि विअ जो- अणाणि गच्छि कोसमत्तेण विअ मदअंधीरपव्वदं अणासादिअ तडाअपङ्कक्खित्तं अद्धणिम्मिदसिळाकम्मं विअ विसमदंसणं दि १८ णो णाअजूहं । [ तत इषुक्षेपमात्रोत्थिते सूर्य एतावन्मात्राणीव योज- नानि गत्वा क्रोशमात्रेणेव मदगन्धीरपर्वतमनासाद्य तटाकपङ्कोत्क्षिप्तमर्ध- निर्मितशिलाकर्मेव विषमदर्शनं दृष्टं नो नागयूथम् । ] १ मिअमदकण्ठीए मग्गमदगन्धिए. प्रतिज्ञायौगन्धरायणे । 1. 6. २१ यौगन्धरायणः - ततस्ततः । हंसकः - तदो णिज्झाअन्तीसु सेणासु समुप्पण्णसङ्कापिण्डेदे तस्सि जूहे इमस्स अणत्थम्स उप्पादओ कोच्चि पदादी भट्टारं एव उव- २४ ट्ठिदो । [ ततो निध्यायन्तीषु सेनासु समुत्पन्नशङ्कापिण्डिते तस्मिन् यूथेऽस्यानर्थस्योत्पादकः कश्चित् पदातिः भर्तारमेवोपस्थितः । ] यौगन्धरायणः - तिष्ठ । इतः क्रोशमात्रे मल्लिकासाल प्रच्छादितशरीरो २७ नखदन्तवर्जमेकनीलो हस्ती मया दृश्यत इत्युक्तवान् ननु । हंसकः -- कहं परिण्णादं खु एदं अय्येण । जागत्ति खु समुप्पणी अअं दोसो । [ कथं परिज्ञातं खल्वेतदार्येण । जाग्रति खलु समुत्प- ३० न्नोऽयं दोषः । ] यौगन्धरायणः - हंसक ! जाग्रतोऽपि बलवत्तरः कृतान्तः । ततस्ततः । हंसकः -- तदो सुवण्णसदप्पदाणेण तं णिसंसं पडिपूजिअ भट्टिणा ३३ उत्तं-अत्थि एसो चक्कवट्टी हत्थी णीळकुवळअतणू णाम हत्थिसि - क्खाए पठिदो । ता अप्पमत्ता होह तुम्हे इमस्सि जूहे । गअं तं अहं वीणादुदीओ आणेमि त्ति । [ ततः सुवर्णशतप्रदानेन तं नृशंसं ३६ प्रतिपूज्य भत्रोक्तम् - अस्त्येष चक्रवर्ती हस्त नीलकुवलयतनुर्नाम हस्ति शिक्षायां पठितः । तद् अप्रमत्ता भवत यूयमस्मिन् यूथे । गजं तमहं वीणाद्वितीय आनयामीति । ] ३९ यौगन्धरायणः - -अथ कथमुपेक्षितस्तदानीं स्वामी रुमण्वता । हंसकः -- गहि हि । पसादिअ भट्टा अमच्चेण विष्णाविदो - हु दे एावणादीनं विदिसागआणं गहणं ण सम्भावणीअं । अविदु ४२ दुरारक्खदाए आसण्णदोसाणि विसअन्तराणि । तहिं णिज्जो गिरभिजणो पच्चन्तवासी जणो । ता पदादिमत्ता हिट्ठिदं इमं जूह करिअ सव्व एव्व गच्छामो, ण एकाइणा सामिणा गन्तव्वं त्ति । १ पीडिदे. -i. 6.69] प्रथमोऽङ्कः । ८५ [ नहि नहि । प्रसाद्य भर्तामात्येन विज्ञापितः - नखलु ते ऐरावणादी- नामपि दिग्गजानां ग्रहणं न सम्भावनीयम् । अपितु दुरारक्षतयासन्न- दोषाणि विषयान्तराणि । तत्र निर्लजो निरभिजनः प्रत्यन्तवासी जनः । ४८ तत् पदातिमात्राधिष्ठितमिदं यूथं कृत्वा सर्व एव गच्छामः, नैकाकिना स्वामिना गन्तव्यमिति । ] यौगन्धरायणः - अपि महाजनसमक्षमेवमुक्तः स्वामी रुमण्वता । ५१ एवमप्यवक्तव्यां स्वामिभक्तिमिच्छामि । ततस्ततः । हंसकः - तदो अत्तजीविदणिणि सवहेण णिवारिअ अमच्च नीळवळा आदो हत्थिणो ओदरिअ सुन्दरपाडलं णाम अस्सं ५४ आळुहिअ अणद्धागए सुय्ये विसदिमत्तेहि पदादिहि सह आदो भट्टा । [तत आत्मजीवितनिर्दिष्टेन शपथेन निवार्यामात्यं नीलबलाहकाद् हस्तिनोऽवतीर्य सुन्दरपाटलं नामाश्वमारुह्यानर्धागते सूर्ये ५७ विंशतिमात्रैः पदातिभिः सह प्रयातो भर्ता । ] यौगन्धरायणः - विजयाय । हा धिक्, स्नेहान् पूर्ववृत्तान्तो नावे - क्षितः । ततस्ततः । ६० हंसकः-तदो दिउणं विअ अद्धाणं गच्छिअ साळलुकखच्छाआए सवण्णणणीळदार परु भासिदेहि असरीरविणिक्खित्तेहि वि दन्तजुअळेहि सूइदो धणुसदमत्तेण विअ दिट्ठो सो दिव्ववारणप- ६३ डिच्छन्दो । [ ततो द्विगुणमिवाध्वानं गत्वा सालवृक्षच्छायायां सावर्ण्यनष्टनीलतया प्रोद्भासिताभ्यामशरीरविनिक्षिप्ताभ्यामिव दन्तयु- गलाभ्यां सूचितो धनुःशतमात्रेणेव दृष्टः स दिव्यवारणप्रतिच्छन्दः । ] ६६ यौगन्धरायणः - हंसक! अस्मत्परिताप इत्युच्यताम् । ततस्ततः । हंसकः - तदो भट्टिणा ओदरिअ अस्सादो आअमिअ देवदाणं पण करिअ गहीदा वीणा । तदो पिट्ठदो एक्ककिदणिश्चओ विअ ६९ महन्तो कण्ठीरवो समुप्पण्णो । [ततो भर्त्रावतीर्याश्वादागम्य देवतानां प्रतिज्ञायौगन्धरायणे [i. 6.70 प्रणामं कृत्वा गृहीता वीणा । कण्ठीरवः समुत्पन्नः । ] ततः पृष्ठत एककृतनिश्चय इव महान् ७२ यौगन्धरायणः - कण्ठीरव इति । ततस्ततः । हंसकः - तदो कण्ठीरवपरिज्ञाणणिमित्तं परिवृत्ता अ वअं । महामत्तोत्तराउही आहिट्टिदो पच्चुग्गदो सो किद अहत्थी । [ ततः ७५ कण्ठीरवपरिज्ञाननिमित्तं परिवृत्ताश्च वयम् । महामात्रोत्तरायुधीयाधिष्ठितः प्रत्युद्गतः स कृतकहस्ती । ] यौगन्धरायणः - ततस्ततः । ७८ हंसकः - तदो णामगोत्तग्गहणेण समस्सासिअ कुलवृत्तजणं सव्वहा पज्जोदपओओ एसो, अणुगच्छह मं, अहं दाणिं परस्स उवण्णासं विसमारम्भं परक्कमेण समीकरोमि त्ति भणिअ भट्टा पविट्ठो एव्व तं ८१ परबळं । [ ततो नामगोत्रग्रहणेन समाश्वास्य कुलपुत्रजनं सर्वथा प्रद्योत - प्रयोग एषः, अनुगच्छत माम्, अहमिदानीं विषमारम्भं परस्योपन्यासं पराक्रमेण समीकरोमीति भणित्वा भर्ता प्रविष्ट एव तत् परबलम् । ] ८४ यौगन्धरायणः - प्रविष्ट इति । अथवा ननु स्थाने, वीलितो वचनां प्राप्य मानी सत्त्वमुपाश्रितः । शूरश्चैकायनस्थच किमन्यत् प्रतिपद्यते ॥ ७ ॥ ततस्ततः । हंसकः - तदो कीळाअमाणो विअ अत्तच्छन्दाणुवत्तिणा सुन्दर- ३ पाडळेण अस्सेण अत्ताभिप्पाआदो वि अहिअं पहरन्तो अदिबहु- कदाए परबळस्स अदिप्पउज्जमाणवाआमो विसण्णणटु सव्वपरि- जणो मए एकाइणा, हि नाहि, भट्टिणा एव्व रक्खिमाणो ६ अणुत्रद्धदिवसजुद्धपरिस्सन्तो बहुप्पहारणिपडिअतुरओ तम्माअ- माणसुय्यदारुणाए वेळाए मोहं गदो भट्टा । [ ततः क्रीडनिवात्म- च्छन्दानुवर्तिना सुन्दरपाटलेनाश्वेनात्माभिप्रायादप्यधिकं प्रहरन् अति- -i. 8."] प्रथमोऽङ्कः । ९ बहुकतया परबलस्यातिप्रयुज्यमानव्यायामो विषण्णनष्ट सर्वपरिजनो मयैकाकिना, नहि नहि, भत्रैव रक्ष्यमाणोऽनुबद्धदिवसयुद्धपरिश्रान्तो बहुप्रहारनिपतिततुरगस्ताम्यत्सूर्यदारुणायां वेलायां मोहं गतो भर्ता । ] १२ यौगन्धरायणः - कथं मोहमुपगतः स्वामी । ततस्ततः । हंसकः - तदो जहासत्ति सण्णहिदगहणुप्पाडिदाहि अविण्णाअमाण- जादीहि कक्कसाहि दाहि पाकिदो विअ सरीर अन्तणादो पहरि- १५ सिदो भट्टा । [ ततो यथाशक्ति सन्निहितगहनोत्पाटिताभिरविज्ञायमान- जातिभिः कर्कशाभिर्लताभिः प्राकृत इव शरीरयन्त्रणात् प्रधर्षितो भर्ता । ] यौगन्धरायणः - कथं प्रधर्षितः स्वामी । पीनांसस्य विकृष्टपर्वमहतो नागेन्द्र हस्ताकृते- श्वापास्फालिकरस्य दूरंभरणाद् बाणाधिकारोपिणः । विप्राभ्यर्चयितुः श्रमेषु सुहृदां सत्कर्तुरालिङ्गनै- र्न्यस्तं तस्य भुजद्वयस्य वलयस्थानान्तरे बन्धनम् ॥ ८ ॥ अथ कस्यां वेलायां प्रत्यागतप्राणः स्वामी । हंसकः - अय्य! अवसिदावळेवेसु पावेसु । [ आर्य ! अवसितावले - ३ पेषु पापेषु । ] यौगन्धरायणः - दिष्टया शरीरं धर्षितं, न तेजः । ततस्ततः । हंसकः - तदो पञ्चाअदप्पाणं दाणि भट्टारं पेक्खिअ अणेण मम भादा ६ हदो अणेण मम पिदा अणेण मम सुदो मम वअस्सो त्ति अञ्ञहा भट्टिणो परकमं वण्णअन्ता सव्वदो अभिदा दे पावा । [ ततः प्रत्यागतप्राणमिदानीं भर्तारं प्रेक्ष्यानेन मम भ्राता हतोऽनेन मम पितानेन ९ मम सुतो मम वयस्य इति अन्यथा भर्तुः पराक्रमं वर्णयन्तः सर्वतोऽभिगु- तास्ते पापाः । ] यौगन्धरायणः - ततस्ततः । १ दूरहरणात्. प्रतिज्ञायौगन्धरायणे [ i. 8.2_ १२ हंसकः - अण्णं च दाणि अम्बॅरिअं । अञ्ञो ञाणुण तहिं एक्को ववसिदो अकय्यं कर्त्तुं । सो दक्खिणाहिमुहं परिवत्तिअ भट्टारं समरवा आमसोहिदाणि विरुवआरं सहिदि केसाणि पीडिअ १५ करेण करवाळं पहावेगं उप्पादइदुकामो आधावन्तो- [ अन्यच्चे- दानीमाश्चर्यम् । अन्योन्यानुनयेन तत्रैको व्यतिसितोऽकार्यं कर्तुम् । स दक्षिणाभिमुखं परिवर्त्य भर्तारं समरव्यायामसंक्षोभितान् निरुपचारं १८ संक्षिप्य केशान् पीडयित्वा करेण करवालं प्रहारवेगमुप्तादयितुकाम आधावन् - ] यौगन्धरायणः - हंसक ! वृत्तान्तं तावदाधारय, यावदहमुच्छ्रसामि । २१ हंसकः - तदो ळुहिळपडळपिच्छिलाए भूमीए सो सिसओ सण वेण ओघट्टिदळणो पडिहदारम्भो हदो पडिदो । [ तो रुधिर- पटलपिच्छिलायां भूमौ स नृशंसः स्वेन वेगेनावघट्टितचरणः प्रतिहतारम्भो २४ हतः पतितः ] यौगन्धरायणः - पतितः पाप एषः । भोः ! परचकर नाक्रान्ता धर्मसङ्करवर्जिता । भूमिर्भर्तारमापन्नं रक्षिता परिरक्षति ॥ ९ ॥ हंसक - तदो भट्टिणा पुढमं कुन्तापहारज णिदमोहो साळङ्काअणो णाम पज्जोदस्स अमच्चो 'माखु माखु साहसं 'त्ति भणिअ तं देसं उवट्ठिदो । [ ततो भर्त्रा प्रथमं कुन्तप्रहारजनितमोहः शालङ्कायनो नाम प्रद्योत - स्यामात्यो 'माखलु माखलु साहसमि 'ति भणित्वा तं देशमुपस्थितः । ] यौगन्धरायणः - ततस्ततः । ६ हंसकः - तदो तक्काळ दुळहं पणामं करिअ सरीरअन्तणादो तेण मोइदो भट्टा । [ ततस्तत्कालदुर्लभं प्रणामं कृत्वा शरीरयन्त्रणात् तेन मोचितो भर्ता । ] १ अच्चाहिदं. २ तावदवधारय. -i. 12.4] प्रथमोऽङ्कः । ९ यौगन्धरायणः - विमुक्तः स्वामी । साधु भोः शालङ्कायन ! साधु । अवस्था खलु नाम शत्रुमपि सुहृत्त्वे कल्पयति । हंसक ! व्यसनात् किञ्चिदुच्छसि तमिव मे मनः । अथ किं प्रतिपन्नं तेन साधुना । १२ हंसकः - तढ़ो तेण अय्येण अणेअ सोवआरं सन्तिवअणं भणिअ गाढबहुप्पहारदाए असमत्थो वाहणासणत्ति खन्धसणं आरोविअ उज्जइणि एव्व णीदो भट्टा । [ ततस्तेनार्येणानेकं सोपचारं शान्तिवचनं १५ भणित्वा गाढबहुप्रहारतयासमर्थो वाहनासन इति स्कन्धशयनमारोप्यो- ज्जयिनीमेव नीतो भर्ता । ] यौगन्धरायणः- नीतः स्वामी । एष सोऽनर्थः, अथ, एतत् तन्न्यङ्गमस्माकमेष सोऽतिमनोरथः । प्रद्योतस्य मनस्वित्वात् स्वामी दुःखेषु वर्तते ॥ १० ॥ कथमगणितपूर्वं द्रक्ष्यते तं नरेन्द्रः कथमपुरुषवाक्यं श्रोष्यते सिद्धवाक्यः । कथम विषयवन्ध्यं धारयिष्यत्यमर्षं प्रणिपतति निरुद्धः सत्कृतो धर्षितो वा ॥ ११॥ ( प्रविश्य ) प्रतीहारी - अय्य! एसा पडिसरा । [ आर्य ! एषा प्रतिसरा । ] ३ यौगन्धरायणः- एतानि तान्यापतितानि काले भाग्यक्षयान्निष्फलमुद्यतानि । तुरङ्गमस्येव रणे निवृत्ते नीराजनाकौतुकमङ्गलानि ॥ १२ ॥ प्रतीहारी - अय्य! इमा पडिसरा । [ आर्य ! इयं प्रतिसरा । ] यौगन्धरायणः - विजये ! स्थाप्यताम् । ३ प्रतीहारी - किंत्ति भट्टिमादरं णिवेदेमि । [ किमिति भर्तृमातरं निवे- दयामि । ] १ बन्धसअणं. प्रतिज्ञायौगन्धरायणे [i. 12. 5 यौगन्धरायणः - विजये ! एवमेतत् । ६ प्रतीहारी - किं एदं । [ किमेतत् । ] यौगन्धरायणः - इदम् । प्रतीहारी - भादु भणादु अय्यो भणादु । [ भणतु भणत्वार्यो भणतु । ] ९ यौगन्धरायणः - अथवा नैतच्छक्यं परिहर्तुम् । निवेदयिष्याम्यत्रभवत्यै । विजये ! स्थिरी क्रियतामात्मा । ( कर्णे ) एवमिव । प्रतीहारी–हा । १२ यौगन्धरायणः - विजया खल्वसि । प्रतीहारी - एसा गच्छामि मन्दभाआ । [ एषा गच्छामि मन्दभागा ।] यौगन्धरायणः - विजये ! न खलु त्वयात्रभवत्यै गृहीतः स्वामीति १५ सहसा निवेदयितव्यम् । स्नेहदुर्बलं मातृहृदयं रक्ष्यम् । प्रतीहारी - कहं दाणि णिवेदेमि । [ कथमिदानीं निवेदयामि । ] यौगन्धरायणः-शृणु । पूर्वं तावद् युद्धसम्बद्धदोषाः प्रस्तोतव्या भावनाः संशयानाम् । सन्दिग्धेऽर्थे चिन्त्यमाने विनाशे रूढे शोके कार्यतत्वं निवेद्यम् ॥ १३ ॥ प्रतीहारी - घत्तिस्सं । (निष्क्रान्ता । ) [ ग्रहीष्यामि । ] यौगन्धरायणः - हंसक ! त्वमिदानीं स्वामिना किं न गतः । ३ हंसकः - अय्य! ववसिदो खु अहं अत्ताणं अणुग्गहिदुं साळङ्काअ- णेण णिउत्तो- गच्छ; इमं वुत्तन्तं कोसम्बीए णिवेदेहि त्ति । [ आर्य ! व्यवसितः खल्वहमात्मानमनुग्रहीतुं सालङ्कायनेन नियुक्तः - गच्छेमं ६ वृत्तान्तं कौशाम्ब्यां निवेदयेति । ] यौगन्धरायणः - किन्नुखल्विदानीं निराशमनुसारं कर्तुकामः, उताहो स्निग्धपुरुषसन्निकर्षं परिहरति । ९ हंसकः - अहई । [ अथकिम् ] १ हं. २ निरागम. -i. 14.3] प्रथमोऽङ्कः । यौगन्धरायणः - स 'स्वकं विस्मयादात्मानमाविष्करोति, उत सर्वारम्भ- सिद्धी रमणीयं भवति । अथ मामन्तरेण स्वामी न किञ्चिदाह । १२ हंसकः - अय्य ! अत्थि, पदक्खिणीकर अन्तो भट्टारं अन्तज्जळाव- गाढाए दिट्ठीए बहुकं सन्दट्टुकामेण विअ म्हि भट्टिणा उत्तो- गच्छ जोअन्ध - ( इत्यर्धे तिष्ठति । ) [ आर्य ! अस्ति, प्रदक्षिणीकुर्वन् १५ भर्तारमन्तर्जलावगाढया दृष्टया बहुकं सन्देष्टुकामेनेवास्मि भक्त:- गच्छ यौगन्ध- ] यौगन्धरायणः - स्वैरमभिधीयतां, स्वामिवाक्यमेतत् । १८ हंसकः-जोअन्धराअणं पेक्खेहि त्ति । [ यौगन्धरायणं प्रेक्षस्वेति । ] यौगन्धरायणः - मा तावत् । सर्वसचिवमण्डलमतिक्रम्यैको यौगन्ध- रायणो द्रष्टव्य इत्याह । २१ हंसकः - अहई । [ अथकिम् ] यौगन्धरायणः - तेन हि अनर्ह प्रतिक्रियमनिर्विष्ट्रभर्तृपिण्डमनुपकृतरा- जसत्कारं यदि खलु मां द्रष्टव्यं मन्यते स्वामी । २४ हंसकः- बाहं । [ बाढम् । ] यौगन्धरायणः - पुरुषान्तरितं मां द्रक्ष्यति स्वामी, रिपुनृपनगरे वा बन्धने वा वने वा समुपगतविनाशः प्रेत्य वा तुल्यनिष्ठम् । जितमिति कृतबुद्धिं वञ्चयित्वा नृपं तं पुनरधिगत राज्यः पार्श्वतः घनीयम् ॥ १४ ॥ ( नेपथ्ये ) हा हा भट्टा ! [ हा हा भर्तः ! ] ३ यौगन्धरायणः - १ स्वयं. प्रतिज्ञायौगन्धरायणे एष शोकप्रतीकारो यथाशक्ति निवेद्यते । एतत् स्त्रीभिरसामर्थ्यं मन्त्रिणामनुवर्ण्यते ॥ १५ ॥ ( प्रविश्य ) प्रतीहारी - अय्य! भट्टिमादा । [ आर्य ! भर्तृमाता । ] ३ यौगन्धरायणः - किं किम् । प्रतीहारी - आह् । यौगन्धरायणः - किमिति । [i. 15- ६ प्रतीहारी - एवंविहस्स सुहिज्जणेण परिगहीदस्स बच्छराअस्स अअं वुत्तन्तो । किं सक्कं कर्त्तुं अन्तरेण विहाणं । ता सम्माणिअ सुहिज्जणं समत्थिदु । जो खु दाणि सङ्कटेसु वा ण विसीददि, विसमगड़ो ९ वाण पय्यवचिट्ठदि, वविदो वा ण णिव्वेदं गच्छदि, पडिघादेसु वा पाणा ण समुज्झदि, सो खु बुद्धिमन्तो पुच्छि ज्जइ पढमं एव्व मे वच्छस्स वअम्सो पच्चा अमचो आणेदु मे पुत्तअं पुत्तओत्ति । १२ [ एवंविधस्य सुहृज्जनेन परिगृहीतस्य वत्सराजस्यायं वृत्तान्तः । किं शक्यं कर्तुमन्तरेण विधानम् । तत् सम्मान्य सुहृज्जनं समर्थ्यताम् । यः खल्वि- दानीं सङ्कटेषु वा न विषीदति, विषमगतो वा न पर्यवतिष्ठते, वञ्चितो १५ वा न निर्वेदं गच्छति, प्रतिघातेषु वा प्राणान् न समुज्झति, स खलु बुद्धिमान् पृच्छयते प्रथममेव मे वत्सस्य वयस्यः पश्वादमात्य आनयतु मे पुत्रकं पुत्रक इति । ] १८ यौगन्धरायणः - अहोतुखत्वत्रभवत्या राजवंशाश्रितं धीरवाक्यमभि- हितम् । अत्रभवत्याः सम्भावनां पूजयामि । विजये ! आपस्तावत् । प्रतीहारी - अय्य ! तह । (निष्क्रम्य प्रविश्य ) इमा आवो । [ आर्य ! २१ तथा । इमा आपः । ] यौगन्धरायणः - आनय । ( आचम्य ) विजये ! किमाह तत्रभवती । प्रतीहारी - आणेदु मे पुत्तअं पुत्तओ त्ति । [ आनयतु मे पुत्रकं पुत्रक २४ इति । ] -i. 16.18] प्रथमोऽङ्कः । यौगन्धरायणः - हंसक ! किमाह स्वामी । हंसकः-जोअन्धराअणं पेक्खेहि त्ति । [ यौगन्धरायणं प्रेक्षस्वेति । ] २७ यौगन्धरायणः - विजये ! यदि शत्रु लग्रस्तो राहुणा चन्द्रमा इव । मोचयामि न राजानां नास्मि यौगन्धरायणः ॥ १६ ॥ प्रतीहारी - अय्य ! तह । (निष्क्रान्ता । ) [ आर्य ! तथा । ] ( प्रविश्य ) ( ततः प्रविशति ब्राह्मणः । ) ३ निर्मुण्डकः - अय्य! अच्छरिअं णिग्वृत्तं । भट्टिणो सन्तिणिमित्तं उवट्टिभोअणं म्हणजणं पेक्खिअ केण वि किल उम्मत्तवेसधा- रिणा ब्रम्हणेण उच्च हसिअ उत्तं- सेरं सेरं अहन्तु भवन्तो, ६ अब्भुद खु इमस्स राअउळस्स भविस्सदिति । तदो वअण- समआळं एव अदंसणं गदो । [ आर्य ! आश्वर्यं निर्वृत्तम् । भर्तुः शान्तिनिमित्तमुपस्थितभोजनं ब्राह्मणजनं प्रेक्ष्य केनापि किलोन्मत्तवेषधा- ९ रिणा ब्राह्मणेनोच्चं हसित्वोक्तं - स्वैरं स्वैरमश्नन्तु भवन्तः, अभ्युदयः खल्वस्य राजकुलस्य भविष्यतीति । ततो वचनसमकालमेवादर्शनं गतः । यौगन्धरायणः - अपि सत्यम् । :1] ब्राह्मणः - इमेऽत्रभवता परिगृहीता आत्मप्रयोजनोत्सृष्टाः परिच्छद- विशेषाः । एभिः प्रच्छादितशरीरो भगवान् द्वैपायनः प्राप्तः । १५ यौगन्धरायणः - एवं, द्वैपायनः प्राप्तः । ब्राह्मणः-बाढम् । यौगन्धरायणः - तेन हि पश्यामस्तावत् । १८ ब्राह्मणः - पश्यतु भवान् । १ यदि शत्रुबलग्रस्तं राहुणा चन्द्रमिव । which should be यदि शत्रु- बलग्रस्तं तं चन्द्रमिव राहुणा ॥ २ उवहसिअ. प्रतिज्ञा यौगन्धरायणे [ i. 19.19 यौगन्धरायणः--कथमन्यद् रूपमिव मे संवृत्तम् । हन्त भोः ! गतोऽस्मि स्वामिसन्निकर्षमेव । इदानीं ममोपदेशार्थमिवोत्सृष्टाः । उन्मत्तसदृशो वेषो धारितस्तेन साधुना । मोचयिष्यति राजानं मां च प्रच्छादयिष्यति ॥ १७ ॥ ( प्रविश्य ) ( निष्क्रान्ताः । ) प्रतीहारी- अय्य! भट्टिमादा आह— इच्छामि मे पुत्तअं पेक्खिदुं ३ त्ति । [ आर्य ! भर्तृमाताह - इच्छामि मे पुत्रकं प्रोक्षतुमिति । ] यौगन्धरायणः -अयमयमागच्छामि । आर्य ! शान्तिगृहे मां प्रतीक्षस्व । ६ ब्राह्मणः - बाढम् । (निष्क्रान्तः । ) यौगन्धरायणः - हंसक! विश्रम्यतामिदानीम् । हंसकः - अय्य! तह । (निष्क्रान्तः । ) [ आर्य ! तथा । ] ९ यौगन्धरायणः - विजये ! गच्छाग्रतः । प्रतीहारी - अय्य! तह । [ आर्य ! तथा । ] यौगन्धरायणः -- भोः ! काष्ठादग्निर्जायते मध्यमानाद् भूमिस्तोयं खन्यमाना ददाति । सोत्साहानां नास्त्यसाध्यं नराणां मार्गारब्धाः सर्वयत्नाः फलन्ति ॥ १८ ॥ प्रथमोऽङ्कः । द्वितीयोऽङ्कः । अथ द्वितीयोऽङ्कः । ( ततः प्रविशति काञ्चुकीयः । ) ( निष्क्रान्तः । ) ( ततः प्रविशति राजा सपरिवारः । ) ३ काञ्चुकीयः- आभीरक ! आभीरक ! गच्छ महासेनवचनात् प्रतीहाररक्षकं ब्रूहि — एष काशिराजोपाध्याय आर्यजैवन्तिरद्य दौत्येन प्राप्तः । अस्य सामान्यदूतसत्कारं पृष्ठतः कृत्वा सुखमिव ६ निवेश्यताम् । यथा चातिथिसत्कारं जानीयान् तथा प्रयतितव्यम् इति । भोः ! एवं नामाहन्यहनि गोत्रानुकूलेभ्यो राजकुलेभ्यः कन्या- प्रदानं प्रति दूतसम्प्रेषणा वर्तते । न खलु महासेनः कञ्चिदपि ९ प्रत्याचप्रे, न चाप्यनुगृह्णीते । किन्नुखल्विदम् । अथवा दैवमत्र कन्याप्रदानेऽधिकृतम् । कुतः, व्यक्तं न तावत् समुपैति तम्य दृतो वधूत्वे विहिता हि यस्य । ततो नरेन्द्रेषु गुणान् नरेन्द्रो न वेत्ति जानन्नपि तत्प्रतीः ॥ १ ॥ अये संलीयमानान्तःपुरचरः सनाथीभवत्ययं देशः । अये अयं महासेनः, य एषः, राजा- दुर्वाकुर स्तिमितनीलमणिप्ररोहः पीताङ्गदैः परिगतैः परिणीवितांसः । अम्माद् घनान् कनकतालवनैकदेशा- निर्धावितः शरवणादिव कार्त्तिकेयः ॥ २ ॥ विष्कम्भकः । मम हयखुरभिन्नं मार्गरेणुं नरेन्द्रा कुटतटविलग्नं भृत्यभूता वहन्ति । २ पारेणीहितांसः ३ निर्धारितः. १ अन्यसामान्यदूत ०. प्र. यो. २ बादरायण ! प्रतिज्ञा यौगन्धरायणे न च मम परितोषो यन्न मां वत्सराजः प्रणमति गुणशाली कुञ्जरज्ञानदृप्तः ॥ ३ ॥ ( प्रविश्य) काञ्चुकीयः- जयतु महासेनः । ३ राजा - निवेशितो जैवन्तिः । काल्चुकीयः- निवेशितोऽनुरूपतश्च सत्कृतः । [ ii. 3.- राजा - न्याय्यं कृतं राजवंश्यगुणाभिलाषिणा । समागतानां युक्तः ६ पूजया प्रतिग्रहः । अथ सर्वोऽपि कन्याप्रदानं प्रति पृष्टश्चेत् परच्छ- देन तिष्ठति । ( काञ्चुकीयमवलोक्य) बादरायण ! वक्तुकाममिव त्वां लक्ष । ९ काञ्चुकीयः- न खलु किञ्चित् । कन्याप्रदानं प्रति समुत्पन्नोऽभिमर्शः । राजा-अलमलं परिहृत्य । सर्वसाधारणो ह्येष विधिः । अभिधीयताम् । काञ्चुकीयः - महासेन ! एषा मे विवक्षा एवं नामाहन्यहनि गोत्रानु- १२ कूलेभ्यो राजकुलेभ्यः कन्याप्रदानं प्रति दूतसम्प्रेषणा वर्तते । न च महासेनः कचिदपि प्रत्याचष्टे, न चाप्यनुगृह्णीते । किन्नुख- विदमिति । १५ राजा - बादरायण ! एवमेतत् । अतिलोभादू वरगुणानामतिस्नेहाश्च वासवदत्तायां न शक्नोमि निश्चयं गन्तुम् । कुलं तावच्छ्लाध्यं प्रथममभिकाङ्क्षे हि मनसा ततः सानुक्रोशं मृदुरपि गुणो ह्येष बलवान् । ततो रूपे कान्तिं न खलु गुणतः स्त्रीजनभयात् ततो वीर्योदग्रं न हि न परिपाल्या युवतयः ॥ ४ ॥ काञ्चुकीयः- महासेनं वर्जयित्वा न हीदानीमेते गुणाः कचिदेकस्था यन्ते । १ समासन्नप्रीतिकारणागतानाम्. २ वक्तुकाम इव. —ii. 6.4 ] द्वितीयोऽङ्कः । ३ राजा - अतः खलु चिन्त्यते । कन्याया वरसम्पत्तिः पितुः ( प्रायः ) प्रयत्नतः । भाग्येषु शेषमायत्तं दृष्टपूर्वं न चान्यथा ॥ ५ ॥ दुहितुः प्रदानकाले दुःखशीला हि मातरः । तस्माद् देवी तावदा- हूयताम् । ३ काञ्चुकीयः- यदाज्ञापयति महासेनः । (निष्क्रान्तः । ) राजा - भोः ! काशिराजदूतसम्प्रेषणेन वत्सराजग्रहणार्थं गतं शालङ्कायनं प्रति गता मे बुद्धिः । किन्नुखल्वद्यापि वृत्तान्तं न ६ प्रेषयति स ब्राह्मणः । कार्म या तस्य सा लीला तत्रैवानुगतं मनः । ये त्वस्य सचिवाः सर्वे यत्नमास्थाय ते स्थिताः ॥ ६ ॥ ( ततः प्रविशति देवी सपरिवारा । ) देवी - जेदु महासेणो । [ जयतु महासेनः । ] ३ राजा - आस्यताम् । देवी-जं महासेणो आणवेदि । ( उपविशति । ) [ यन्महासेन आज्ञापयति । ] ६ राजा - वासवदत्ता क । देवी - उत्तराए वेदाळिआए सआसे वीणं सिक्खिदुं गारदी अं आ आसी । [ उत्तराया वैतालिक्याः सकाशे वीणां शिक्षितुं ९ नारदीयां गतासीत् । ] राजा - कथमुत्पन्नोऽस्या गान्धर्वेऽभिलाषः । देवी- केण वि किळ उग्घादेण कचणमाळं वीणाजोग्गं करअन्ति १२ पेक्खअ सिक्खिदुकामा आसी । [ केनापि किलोद्घातेन काच- नमालां वीणायोग्यां कुर्वतीं प्रेक्ष्य शिक्षितुकामासीत् । ] राजा - सदृशं बाल्यस्य । प्रतिज्ञायौगन्धरायणे [ii. 6.15 १५ देवी - महासेणं वि किं वि विष्णविदुकामा म्हि । [ महासेनमपि किमपि विज्ञापयितुकामास्मि । ] राजा - - किमिति । १८ देवी - आअय्यं इच्छामि त्ति । [ आचार्यमिच्छामीति । ] राजा - उपस्थित विवाहकालायाः किमिदानीमाचार्येण । पतिरेवैनां शिक्षयिष्यति । २१ देवी - हं एसो दाणि मे दारिआए काळो । [ हम् एषं इदानीं मे दारिकायाः कालः । ] राजा - भोः ! नित्यं प्रदीयतामित्यम्मानुपरुध्य किमिदानीं सन्तप्यसे । २४ देवी - अभिप्पेदं मे पढ़ाणं । विओओ मं सन्तावेदि । अह कस्स उण दिण्णा । [ अभिप्रेतं मे प्रदानम् । वियोगो मां सन्तापयति । अथ स्मै पुनर्दता । ] २७ राजा - न तावन्निश्चयो गम्यते । देवी - इदाणिं पिण दाव । [ इदानीमपि न तावत् । ] राजा- अदत्तेत्यागता लज्जा दत्तेति व्यथितं मनः । धर्मस्नेहान्तरे न्यस्ता दुःखिताः खलु मातरः ॥ ७ ॥ सर्वथा श्वशुरपरिचरणसमर्थे वयसि वर्तते वासवदत्ता । एष चापरः काशिराजोपाध्याय आर्यजैवन्तिरद्य दौत्येन प्राप्तो विलोभयति मां ३ चारित्रेण । (आत्मगतम् ) न किश्विदाह । अश्रुपूर्वा व्याकुला कथं निश्चयं गमिष्यति । भवतु, निवेदयाम्यस्यै । (प्रकाशम् ) श्रूयन्ते ऽस्म- त्सम्बन्धप्रयोजनायागता राजानः । ६ देवी - किं दाणि वित्थरेण । जहिं दइअ ण सन्तप्पामो, तहिं दीअदु । [ किमिदानीं विस्तरेण । यत्र दत्त्वा न सन्तप्यामहे, तत्र दीयताम् । ] राजा - अहो महान् खलु लीलाभिहितो दुःखविस्तर इदानीं पश्चादु- ii. 8." ] द्वितीयोऽङ्कः । ९ पालम्भनं श्रोतुम् । तस्माद् देवी तावन्निश्चयं गच्छतु । श्रूयताम्, अस्मत्सम्बद्धो मागधः काशिराजो वाङ्गः सौराष्ट्रो मैथिलः शूरसेनः । एते नानार्थेर्लोभयन्ते गुणैम करते वैतेषां पात्रतां याति राजा ॥८॥ ( प्रविश्य ) काञ्चुकीयः- वत्सराजः ! ३ राजा - किं वत्सराजः । काञ्चुकीयः- प्रसीदतु प्रसीदतु महासेनः । प्रियवचननिवेदनत्वरया क्रमविशेपो नावेक्षितः । ६ राजा - प्रियवचनमिति । देवी - (उत्थाय ) जेदु महासेणो । [ जयतु महासेन: । ] राजा- - ( सहर्षम् ) प्रियवचनपरिहार्या हि देवी । आस्यताम् । ९ देवी - जं महासेणो आणवेदि । ( उपविशति । ) [ यद् महासेन आज्ञापयति । ] - उत्तिष्ठोत्तिष्ठ, स्वैरमभिधीयताम् । राजा- १२ काञ्चुकीयः- ( उत्थाय ) तत्रभवतामात्येन शालङ्कायनेन गृहीतो वत्सराजः । T - ( सहर्षम् ) किमाह भवान् । राजा- १५ काञ्चुकीयः- तत्रभवतामात्येन शालङ्कायनेन गृहीतो वत्सराजः । राजा - उदयनः । काञ्चुकीयः- अथ किम् । १८ राजा - शतानीकस्य पुत्रः । काञ्चुकीयः- दृढम् । राजा - सहस्रानीकस्य नप्ता । २१ काञ्चुकीयः- स एव । राजा - कौशाम्बीशः । प्रतिज्ञायौगन्धरायणे [ ii. 8.3 काञ्चुकीयः-सुव्यक्तम् । २४ राजा - गान्धर्ववित्तकः । काञ्चुकीयः- एवं ब्रुवन्ति । राजा - वत्सराजो ननु । २७ काञ्चुकीयः- :- अथ किं, वत्सराजः । राजा - अथ किमुपरतो यौगन्धरायणः । काञ्चुकीयः- न खलु, कौशाम्ब्यां किल । - यद्येवं, न गृहीतो वत्सराजः । काञ्चुकीयः-श्रद्धत्तां महासेनः । ३० राजा- राजा- न श्रद्दधाम्युदयनग्रहणं त्वयोक्तं यावर्तनं करतलैरिव मन्दरस्य । यस्याहवेषु रिपवः कथयन्ति शौर्यं यौगन्धरायणमतानि च नः स्वनन्ति ॥ ९ ॥ काञ्चुकीयः- प्रसीदतु महासेनः । वृद्धोऽस्मि ब्राह्मणः खल्वहम् । न महासेनसमीपेऽनृतमभिहितपूर्वम् । ३ राजा-आ अस्त्येतत् । अथ कः प्रियदूतः शालङ्कायनेन प्रेषितः । काञ्चुकीयः- न पुरुषः । जवातिशययुक्तेन खररथेन वत्सराजमग्रतः कृत्वा स्वयमेवामात्यः प्राप्तः । ६ राजा - एवं प्राप्तः । हन्त भोः ! अद्य विमुक्तसन्नाहा सुखं विश्राम्य- त्वक्षौहिणी । अद्यप्रभृति प्रच्छन्नकृतदूतसम्प्रेषणा अशङ्किताः स्थास्यन्ति राजानः । एष समासः - अद्यास्मि महासेनः । ९ देवी - किं अमचेण आणीदो । [ किममात्ये नानीतः । ] राजा - अथ किम् । देवी - एदणिमित्तं कस्स विण दिस्सामो वासवदत्तं । [ एतन्निमित्तं १२ कस्मा अपि न दित्सामो वासवदत्ताम् । ] -ii. 10.14] द्वितीयोऽङ्कः । राजा- - युद्धावजितशत्रुः खल्वेप मम । बादरायण ! शालङ्कायनः क । काञ्चुकीयः- ओहितो भद्रद्वारे । १५ राजा - गच्छ । भरतरोहकं ब्रूहि - - कुमार विधिविशिष्टेन सत्कारेण वत्सराजमग्रतः कृत्वा प्रवेश्यताममात्य इति । काञ्चुकीयः- यदाज्ञापयति महासेनः । १८ राजा - एहि तावत् । काञ्चुकीयः- अयमस्मि । राजा - वत्सराजदर्शने कश्चिन्नोत्सारयितव्यः । शत्रुं पश्यन्तु मे पौराः श्रुतपूर्वं स्वकर्मभिः । सिंहमन्तर्गतामर्षं यज्ञार्थमिव संयतम् ॥ १० ॥ काञ्चुकीयः- यदाज्ञापयति महासेनः । (निष्क्रान्तः । ) देवी - बहूणि अब्दआणि इमस्मिं राअउळे अणुभूदाणि । ण खु ३ अहं ईदिसं पीदिजोग्गं महासेणस्स सुमरामि । [बहवोऽभ्युदया अस्मिन् राजकुलेऽनुभूताः । न खल्वहमीदृशं प्रीतियोग्यं महासेनस्य स्मरामि । ] राजा - अहमप्येतादृशं प्रीतिविशेषं न श्रुतपूर्वं म्मरामि, यथा गृहीतो ६ वत्सराज इति । देवी - वच्छराओ णं । [ वत्सराजो ननु । ] राजा - अथ किम् । ९ देवी - बहूणि सम्बन्धप्पओअणागढ़ाणि राअउळणि सुदाणि । एदिणा ण पेसिदपुरुवो पुरुसो । [ बहूनि सम्बन्धप्रयोजनागतानि राजकुलानि श्रुतानि । एतेन न प्रेषितपूर्वः पुरुषः । ] १२ राजा - देवि ! महासेनशब्दमपि न गणयति, किं सम्बन्धमभिलषति । देवी-ण गणेदि । किं बाळो अपण्डिदो वा । [ न गणयति । किं बालः अपण्डितो वा । ] १ आस्थितो द्वारे. प्रतिज्ञायौगन्धरायणे १५ राजा - बालः, न त्वपण्डितः । [ii.10.15 देवी - किण्णु एणं उस्सेअअदि । [ किन्नु खल्वेनमुत्सेकयति । ] राजा - उत्सेकयत्येनं प्रकाशराजर्षिनामधेयो वेदाक्षरसमवाय विष्टो १८ भारतो वंशः । दर्पयत्येनं दायाद्यागतो गान्धर्वो वेद: । विभ्रमयत्येनं वयस्सहजं रूपम् । विस्रम्भयत्येनं कथमप्युत्पन्नोऽस्य पौरानुरागः । देवी - अभिळसणीआ वरगुणा । कस्स वामदाए दोसो संवृत्तो । २१ [ अभिलपणीया वरगुणाः । कस्य वामतया दोषः संवृत्तः । ] राजा-देवि ! किमिदानीमस्थाने विस्मितासि । पश्य, अभिः क इव दहन् कार्त्स्न्येन मेदिनीम् । अस्य मे शासनं दीप्तं विषयान्तेऽवसीदति ॥ ११ ॥ ( प्रविश्य ) ( वीणां दर्शयति । ) काञ्चुकीयः- जयतु महासेनः । यथाज्ञाप्रयुक्तसत्कारं प्रविष्टः शालङ्का- ३ यनः । स तु विज्ञापयति- इदं भरतकुलोपभुक्तं वत्सराजकुले द्रष्टव्यं घोषवती नाम वीणारत्नम् । महासेनः प्रतिग्राहयितव्य इति । ६ राजा - प्रतिगृहीतं जयमङ्गलम् । ( वीणां गृहीत्वा ) इयं सा घोषवती नाम । पा श्रुतिसुखमधुरा स्वभावरक्ता कर जमुखोलिखिताम्रघृष्टतन्त्री । ऋषिवचनगतेव मन्त्रविद्या गजहृदयानि बलाद् वशीकरोति ॥१२॥ भोः ! समरावजितानां रत्नानामिष्टसम्भोगः प्रीतिमुत्पादयति । अर्थशास्त्रगुणग्राही ज्येष्ठो गोपालकः सुतः । गान्धर्वद्वेषी व्यायामशाली चाप्यनुपालकः ॥ १३ ॥ कनुखल्वियं सुन्यस्ता भवेत् । देवि ! वासवदत्ता वीणामुपक्रान्ता ननु । १ प्रतिष्ठितः देवान्वयसमवायप्रविष्टो. ii. 13. T ] द्वितीयोऽङ्कः । १३ देवी- आम । राजा - तेन हि इयमस्यै प्रदीयताम् । देवी - वीणापाणेण भूओ वि उम्मत्ता विअ चिट्ठदि । [ वीणा- ६ प्रदानेन भूयोऽप्युन्मत्तेव तिष्ठति । । राजा - क्रीडतु क्रीडतु । नैतन् सुलभं वशुरकुले । बादरायण! कसा । काञ्चुकीयः- अमात्येन सहोपविष्टा । ९ राजा - अथ वत्सेष्वधिकृतः । काञ्चुकीयः- आहितविनयत्वात् पादयोरङ्गे तस्य स्कन्धवाह्येन शयनीयेन मध्यमगृहे प्रवेशितः । बहुप्रहारत्वाच्च १२ राजा - हा धिग्, बहुप्रहारः । एष इदानीं निरुपस्कृतस्य तेजसां दोषः । नृशंसः खल्वस्मिन् काल उपेक्षितवान् । बादरायण ! गच्छ । भरतरोहकं ब्रूहि – क्रियतामस्य व्रणप्रतिकर्मेति । - १५ काञ्चुकीयः- यदाज्ञापयति महासेनः । राजा - अथवा एहि तावत् । काञ्चुकीयः - अयमस्मि । १८ राजा - अस्य सर्वदर्शनमवि मुक्तसत्कारमवगन्तव्यम् । आकार सूचिता अस्य प्रीतयो विज्ञेयाः । अतिक्रान्तविग्रहाश्रिताः कथा न कथयित- व्याः । क्षुतादिप्रयोगेष्वाशिषोऽभिधेयाः । कालसंवादिना स्तवेनार्यः । २१ काञ्चुकीयः- यदाज्ञापयति महासेनः । ( निष्क्रम्य प्रविश्य) जयतु महासेनः । पश्येव कृतव्रणप्रतिकर्मा वत्सराजः । अकालस्तावदिदानीं द्वितीयस्य प्रतिकर्मण इति । मध्याह्नमारोहति दिवाकरः । २४ राजा - अथ कस्मिन् प्रदेशे वीरमानी । काञ्चुकीयः- मयूरयष्टिमुखे । . राजा - हा धिग्, अनाश्रयणीयः खल्वयं देशः । आतपप्रातिकूल्यार्थं २७ मणिभूमिकायां प्रवेशयेत्याज्ञापय । प्रतिज्ञायौगन्धरायणे [ii. 13.28 काञ्चुकीयः- यदाज्ञापयति महासेनः । (निष्क्रम्य प्रविश्य) यदाज्ञप्तं महासेनेन, तत् सर्वमनुष्ठितम् । अमात्यस्तु भरतरोहको महासेन ३० द्रष्टुमिच्छति । राजा - व्यक्तं न रोचते तम्मै वत्सराजसत्क्रिया । अस्यैष नीतेः परिश्रमः । अहमेवैनमनुनयामि । ३३ देवी - किं सम्बन्धो णिच्चिदो । [ किं सम्बन्धो निश्चितः । ] राजा - न तावन्निश्वयो गम्यते । देवी - अळं दाणि तुवरिअ । बाळा मे दारिआ । [ अलमिदानीं ३६ त्वरित्वा । बाला मे दारिका । ] राजा - यदभिरुचितं भवत्यै । प्रविशत्वभ्यन्तरम् । देवी - जं महासेणो आणवेदि । (निष्क्रान्ता सपरिवारा । ) [ यन्महा- ३९ सेन आज्ञापयति । ] राजा - ( विचिन्त्य ) पूर्वं तावद् वैरमम्यावलेपादानीतेऽस्मिन् म्यान् तु मध्यस्थता मे । युद्धक्लिष्टं संशयस्थं विपन्नं श्रुत्वा त्वेनं संशयं चिन्तयामि ॥ १४ ॥ (निष्क्रान्तौ । ) (ततः प्रविशति डिण्डिकवेषो विदूपकः । ) द्वितीयोऽङ्कः । अथ तृतीयोऽङ्कः । ३ विदूषकः - ( निरूप्य ) भो ! देवउळपीठिआए मम मोदअमलअं णिक्खिविअ दक्खिणामासआणि गणिअ बन्धिअ पडिणिवृत्तो दाणि मोदअमळअं ण पेक्खामि । ( विचिन्त्य ) आ एकमोद - ६ अपरितोसिदो ण दाव ओळग्गो मं अणुसरदि । उच्चदाए पाआरस्स अगई कुक्कुराणं । अक्खदभत्तदाए अळोहणीअं पहिआणं । आदु 1 -ii. 0.32] तृतीयोऽङ्कः । अपिणं खामि । भोदु ओग्गारइस्सं दाव अहं । ही ही बुड्ढो ९ विअ सूअरवत्थी सुद्धवादं एव्व उग्गिरामि । अव ळोहिदकच्चा- अणीए के मम केरअं त्ति करिअ सिवेण पडिहत्थीकिदं भवे । ( निम्य ) जदि वि एसो बम्हआरी बहुकेहि रूवेहि अवि अ १२ करेदि । भोदु पेक्खिम्सं दाव अहं । भो ! एदं खु मम मोदअम- अं सिवस्स पादमूळे चिट्ठइ । जाव णं गृह्णामि । देहि भट्टा ! देहि मे मोदअमळअं । भट्टा ! तुवं वि मम चोरो सि । अविहा १५ आलिहिदं खु मम मोदअमलअं संदावतिमिरेण मुट्ठ ण पेक्खामि । भोदु पमज्जिसं दाव अहं । ही ही साहु ळे चित्तअर ! भाव ! साहु । जुत्तळेहदाए वण्णाणं जह जह पमज्जामि, तह तह उज्जलदरं १८ होइ । भोदु, उदारण पमज्जिसं । कहिंणुहु उदअं । इदं सोहणं सुद्धताअं । अहं विअ सिवो वि दाव एदम्सि मोदअमलए णिरासो होदु । [ भोः ! देवकुलपीठिकायां मम मोदकमलकं निक्षिप्य २१ दक्षिणामापकान् गणयित्वा बद्ध्वा प्रतिनिवृत्त इदानीं मोदकमलकं न प्रेक्षे । आ एकमोदकपरितोषितो न तावदवलग्नो मामनुसरति । उच्चतया प्राकारम्यागतिः कुक्कुराणाम् । अक्षतभक्ततयालोभनीयं पथिकानाम् । २४ अथवा अप्येनं खादामि । भवतु उद्गरिष्यामि तावदहम् । ही ही वृद्ध इव सूकरवस्तिः शुद्धवातमेवोद्विरामि । अथवा लोहितकात्यायन्याः सम्बन्धि मम सम्बन्धीति कृत्वा शिवेन प्रतिहन्तीकृतं भवेत् । यद्यप्येष २७ ब्रह्मचारी बहुकै रूपैरविनयं करोति । भवतु प्रेक्षिप्ये तावदहम् । भोः ! एष खलु मम मोदकमल्लकः शिवस्य पादमूले तिष्ठति । यावद् एनं गृह्णामि । देहि भर्तः ! देहि मे मोदकमलकम् । भर्तः ! त्वमपि मम ३० चोरोऽसि । अविधा आलिखितं खलु मम मोदकमलकं सन्तापतिमिरेण सुष्ठु न प्रेक्षे । भवतु प्रमार्जिष्यामि तावदहम् । ही ही साधु रे चित्रकर ! भाव ! साधु । युक्तलेखतया वर्णानां यथा यथा प्रमाज्मि, तथा तथो- प्रतिज्ञा यौगन्धरायणे [iii. 0.33 ३३ ज्ज्वलतरं भवति । भवतु, उदकेन प्रमार्जिष्यामि । कुत्रनुखलुदकम् । इर्द शोभनं शुद्धताकम् । अहमिव शिवोऽपि तावद् एतस्मिन् मोद- कमलके निराशो भवतु । ] (नेपथ्य ) ( ततः प्रविशत्युन्मत्तकः । ) मोआ ! मोदआ ! हहह । [ मोदकाः ! मोदकाः ! हहह । ] विदूषकः - अविहा एसो उम्मत्तओ मम मोदअमलअ गहणिअ ३९ हसमाणो फेणायमाणमळिणवरि सारच्छोदअं विअ इदो एवाहावइ । चिट्ठ चिट्ट उम्मत्तअ ! चिट्ठ । इमिणा दण्डअद्वेण सीसं दे भिन्दामि । [ अविधा एप उन्मत्तको मम मोदकमल्लकं गृहीत्वा हसमानः फेनायमान- ४२ मलिनवर्षारथ्योदकमिवेत एवाधावति । तिष्ठ तिष्ठोन्मत्तक ! तिष्ठ । अनेन दण्डकाष्टेन शीर्ष ते भिनद्मि । ] ४५ उन्मत्तकः- मोदआ ! मोदआ ! हहह । [ मोदका: ! मोदकाः ! हहह ।] विदूषकः - भो उम्मत्तअ ! आणेहि मम मोदअमलअं । [ भो उन्म- त्तक ! आनय मम मोदकमलकम् । ] ४८ उन्मत्तकः- किं मोदआ । कहिं मोदआ । कश्श मोदआ । किं इमे मोदआ उज्झन्ति, आदु पिणज्झन्ति उदाहो खज्जन्ति । [ किं मोदकाः । कुत्र मोदकाः । कस्य मोदकाः । किमिमे मोदका उज्जयन्ते, ५१ अथवा पिनह्यन्ते उताहो खाद्यन्ते । ] विदूषकः - खज्जन्ति ण खज्जन्ति ण उज्झन्ति अ । [ न खाद्यन्ते न खाद्यन्ते नोज्झ्यन्ते च । ] ५४ उन्मत्तकः - एसा खु मम रसणा खाइदुकामा लिङ्गाणि करेदि । [ एपा खलु मम रसना खादितुकामा लिङ्गानि करोति । ] विदूषकः - भो उम्मत्तअ ! आणेहि मम मोदअमळअं । मा परकेरए ५७ सिणेहं करिअ आवज्झेहि । [ भो उन्मत्तक ! आनय मम मोदक- मल्लकम् । मा परकीये स्नेहं कृत्वा अवबध्यस्व । ] iii. 1. 9 ] तृतीयोऽङ्कः । उन्मत्तकः के :-के के मं वज्झन्ति । मोदआ खु में रक्खन्ति । णेवच्च्छविसेसमण्डिदा पीढ़ि उवदेदुं वट्टआ । ळाअगिहे दिष्णमुलिआ काळवसेण मुहुत्तदुबळा ॥ १ ॥ [ के के मां बध्नन्ति । मोदकाः खलु मां रक्षन्ति । नेपथ्यविशेषमण्डिताः प्रीतिमुपदातुमुपस्थिताः । राजगृहे दत्तमूल्या कालवशेन मुहूर्तदुर्बलाः ॥ ] विदूषकः - भो उम्मत्तअ । आगेहि मम मोदअमळअं । इमिणा पच्चएण उवज्झाअउळं गन्तव्वं । [ भो उन्मत्तक ! आनय मम ३ मोदकमलकम् । अनेन प्रत्ययेनोपाध्यायकुलं गन्तव्यम् । ] उन्मत्तकः - मए वि इमिणा पच्चएण जोअणसदं गन्तव्वं । [ मयाप्य- नेन प्रत्ययेन योजनशतं गन्तव्यम् । ] ६ विदूषकः - किं एळावणे तुवं । [ किभैरावणस्त्वम् । ] उन्मत्तकः-आम एळावणे अहं । ग हु दाव देवळाजां मं आशणं आळुहदि । शुद्धं च मया पादपा शिएहि इन्दे वज्झति । धाराणि - ९ अहि विज्जुम्मईहि कशाहि ताळिअ वाउ भामेण परिभमन्तेण भिन्दीअदि महबन्धणं । [ आम ऐरावणोऽहम् । न खलु तावद् देवराजो मामासनमारोहति । श्रुतं च मया पादपाशि कैरिन्द्रो बद्ध इति । १२ धारानिगलैः विद्युन्मयीभिः कशाभिस्ताडयित्वा वातोद्भ्रामेण परिभ्रमता भिद्यते मेघबन्धनम् । ] विदूषकः - भो उम्मत्तअ ! पण तुवं मम दइस्सिसि, विळविस्सं दाव १५ अहं । [ भो उन्मत्तक ! न त्वं मम दास्यसि, विलपिप्यामि तावदहम् । ] उन्मत्तकः - विळव विळव विक्कोस वा विळव । [ विलप विलप विक्रोश वा विलप । ] १८ विदूषकः - अम्बम्मण्णं भो ! अव्म्मणं । [ अब्रह्मण्यं भोः ! अब्रह्मण्यम् । ] प्रतिज्ञायौगन्धरायणे [ iii. 1.0 उन्मत्तक:- अहं पि विळविस्सं । इन्दे वज्झे भो ! इन्दे वज्झे भो ! । २४ [ अहमपि विलपिप्यामि । इन्द्रो बद्धो भोः ! इन्द्रो बद्धो भोः ! । ] विदूषकः - अम्ब्रम्मणं भो ! अब्ब्रम्मणं । [ अब्रह्मण्यं भोः ! अब्रह्म- यम् । ] ( नेपथ्ये ) ( ततः प्रविशति श्रमणकः । ) मा आहि मा भाआहि बम्हणाउस ! मा भाआहि । [ मा बिभीहि मा बिभीहि ब्राह्मणोपासक ! मा बिभीहि । ] २७ विदूषकः - ( सहर्षम् ) आअदे चन्दे समाअदाणि सव्वणक्खत्ताणि । अघं बम्हणभावं । ईहामत्तएण समणएण अभअं दीअदि । [ आगते चन्द्रे समागतानि सर्वनक्षत्राणि । अघं ब्राह्मणभावः । ईहामात्रकेण ३० श्रमणकेनाभयं दीयते । ] श्रमणकः - मा भाआहि मा भाआहि बम्हणाउस ! मा भाआहि । ३३ के के इह, किं कय्यं, विक्रवन्दि । [ मा बिभीहि मा बिभीहि ब्राह्मणो- पासक ! मा बिभीहि । के के इह, किं कार्य, विलपन्ति । ] विदूषकः - अविहा पडिहारक्खअउत्ति खु समओ अहोदि । भो ३६ समणअ ! भअवं ! एसो उम्मत्तओ मम मोदअमळअं गहूणिअ दि । [ अविधा प्रतिहाररक्षकवृत्तिं खलु श्रमणकोऽनुभवति । भोः श्रमणक ! भगवन् ! एप उन्मत्तको मम मोदकमलकं गृहीत्वा न ३९ ददाति । ] श्रमणकः - मोदअं पेक्खामि दाव । [ मोदकं प्रेक्षे तावत् । ] उन्मत्तक:- ४२ भवान् । ] - पेक्खदु पेक्खदु शमणअ! भवं । [ प्रेक्षतां प्रेक्षतां श्रमणक ! श्रमणक:-थु थु । [ धु धु । ] विदूषकः-हद्धि उम्मत्तअस्स हत्थे ईहामत्तएण समणएण थुथूकिदा ४५ अघण्णस्स मम मोदआ दिट्ठपुरुवा एव्व संवृत्ता । [हा धिग् उन्म- iii. 1. 9 ] तृतीयोऽङ्कः । तकस्य हस्ते ईहामात्रकेण श्रमणकेन थुथूकृता अधन्यस्य मम मोदका दृष्टपूर्वा एव संवृत्ता: । ] ४८ श्रमणकः - भो उम्मत्त आउस ! णीआदेहि णी आदेहि पदाणि मोद- आणि कत्थूळि आफेणपण्डराणि बहुपिटुसमिद्धकोमळाणि णिट्ठाणिआ सुरा विअ महुराणि । मा दे खाइदाणि खअं उप्पादन्ति । [ भो ५ १ उन्मत्तकोपासक ! निर्यातय निर्यातय एतानि मोदकानि कस्थूलिकाफेन- पाण्डराणि बहुपिष्टसमृद्धकोमलानि निष्ठानिताः सुरा इव मधुराणि । मा ते खादितानि क्षयमुत्पादयन्तु । ] ५४ विदूषकः - अविहा मोदआणि त्ति करिअ कण्डिळलड्डुआ मे पडि- च्छिदा । [ अविधा मोदका इति कृत्वा कण्णिललड्डुका मे प्रतीष्टाः । ] श्रमणकः–उम्मत्तआउस ! णीआदेहि णी आदेहि । जदि ण णीआदेसि, ५७ तुवं सवेमि । [ उन्मत्तकोपासक ! निर्यातय निर्यातय । यदि न निर्यातयसि, त्यां शपामि । ] उन्मत्तक:- - पशीदु पशीदु शमणअ! भअवं । मा खुमा खु मं ६० शविदुं । हूण गहूण । [ प्रसीदतु प्रसीदतु श्रमणक ! भगवान् ! माखलु माखलु मां शप्तम् । गृहाण गृहाण । ] श्रमणक:- ब्रम्हणाउस ! पेक्ख पेक्ख मम प्पभावं । [ ब्राह्मणोपासक ! ६३ प्रेक्षस्व प्रेक्षस्व मम प्रभावम् । ] विदूषकः - एसो उम्मत्तओ एदेण ईहामत्तएण समणएण उज्झिदं सावं पेक्खिअ मोदअमळअं भीदभीदं अम्गङ्गुळिआए पसारिदाए ६६ ठाविअ चिट्ठइ । भो उम्मत्तअ ! आणेहि मम मोदअमळअं ॥ [ एष उन्मत्तक एतेनेहामात्रकेण श्रमणकेन उज्झितं शापं प्रेक्ष्य मोदकमलकं भीतभीतमग्राड्गुल्यां प्रसारितायां स्थापयित्वा तिष्ठति । भो उन्मत्तक ! ६९ आनय मम मोदकमल्लकम् । ] श्रमणकः- प्रतिज्ञायौगन्धरायणे [iii. 1.70 :- एदु एदु भवं । एढ़ेहि मोदएहि मं सांत्थि वाअइस्ससि । [ एतु एतु भवान् । एतैर्मोदकैमां स्वस्ति वाचयिष्यसि । ] ७२ विदूषकः - ही ही ममकेर एहिं सोत्थि वाएमि । मए वि कोडुम्बिअस्स हत्थादो डिग्गहगही दाणि । ताणि भवदो वि उवाअणं भविम्सदि । सो समिद्धो हो । एसो उम्मत्तओ अग्गिगि अहिमुहो ७५ गच्छइ । द्विदो मज्झहूणो । पुत्र्वणे वि दाव अअं देसो सुन्नो भविम्सदि । जाव अहं वि इमाणि दक्खिणामासआणि मग्गगेहे. णिक्खिविअ गच्छामि । एकस्स शाडिआए कय्यं अवरम्स मुळेण । ७८ [ हीही मदीयैः स्वस्ति वाचयामि । मयापि कौटुम्बिकस्य हस्तात् प्रति- ग्रहगृहीतानि । तानि भवतोऽप्युपायनं भविष्यति । सोऽपि समृद्धो भवतु । एष उन्मत्तकोऽग्निगृहमभिमुखो गच्छति । स्थितां मध्याह्नः । ८१ पूर्वाह्णेऽपि तावदयं देशः शून्यो भविष्यति । यावदहमपीमान दक्षिणा- मापकान् मार्गगेहे निक्षिप्य गच्छामि । एकस्य शाटिकया कार्यमपरस्य मूल्येन । ] ( सर्वे अग्निगृहं प्रविशन्ति । ) ( सर्वे उपविष्टाः ) यौगन्धरायणः–वसन्तक ! शून्यमिदमग्निगृहम् । विदूषकः- आम भो ! सुध्यं खु इदं । [आम भोः ! शून्यं खल्विदम् ॥ ] ८७ यौगन्धरायणः - तेन हि परिष्वजेतां भवन्तौ । उभौ- - वाढम् । (परिवजेते ) यौगन्धरायणः - भवतु भवतु । तुल्यपरिश्रमौ भवन्तौ । आस्तां ९० भवान् । भवानप्यास्ताम् । उभौ-वाढम् । ९३ यौगन्धरायणः - वसन्तक ! अपि दृष्टस्त्वया स्वामी । विदूषकः- आम भो ! दिट्ठो तत्तभवं । [ आम भोः ! दृष्टस्तत्रभवान् । ] —iii. 4.'] तृतीयोऽङ्कः । यौगन्धरायणः - हन्तभोः, अतिक्रान्तयोगक्षेमा रात्रिः । दिवस इदानीं प्रतिपाल्यते । अहः समुत्तीर्य निशा प्रतीक्ष्यते शुभे प्रभाते दिवसोऽनुचिन्त्यते । अनागतार्थान्यशुभानि पश्यतां गतं गतं कालमवेक्ष्य निर्वृतिः ॥ २ ॥ रूमण्वान्–सम्यग् भवानाह । तुल्येऽपि कालविशेषे निशैव बहुदोषा बन्धनेषु । कुतः, व्यवहारेष्वसाध्यानां लोके वा प्रतिरज्यताम् । प्रभाते दृष्टदोषाणां वैरिणां रजनी भयम् ॥ ३॥ यौगन्धरायणः–वसन्तक ! स्वामिना सह कथितं ननु । विदूषकः- आम भो ! चिरं एव च म्हि तत्तहोदा ओवज्झो। अज्ज ३ चउहसीं ह्राअमाणो पडिवालिदो अ । [ आम भोः ! चिरमेव चास्मि तत्रभवतावबद्धः । अद्य चतुर्दशीं स्नायमानः प्रतिपालितश्च । ] यौगन्धरायणः - स्नातः स्वामी । ६ विदूषकः - व्हादो अत्तभवं । [ स्नातोऽत्रभवान् । ] यौगन्धरायणः-कृतं देवकार्यम् । विदूषकः - आम भो ! पणाममत्तेण पृइदा देवदा । [ आम भोः ! ९ प्रणाममात्रेण पूजिता देवता: । ] यौगन्धरायणः - एतामपि बहुमतामवस्थां प्राप्तः स्वामी । कुतः, स्नातस्य यम्य समुपस्थितं दैवतम्य पुण्याह घोषविर मे पटहा नदन्ति । तस्यैव कालविभवात् तिथिपूजनेपु दैवप्रणामचलिता निगलाः स्वनन्ति ॥ ४ ॥ रुमण्वान् - भवत इदानीं प्रयत्न उचितं तिथिसत्कारमानेष्यति स्वामिनः । प्र. यो. ३ Ро प्रतिज्ञा यौगन्धरायणे ३ यौगन्धरायणः - वसन्तक ! गच्छ भूयः स्वामिनं [iii. 4. 3 पश्य । विज्ञाप्यतां च स्वामी- -या सा प्रयाणं प्रतीह प्रस्तुता कथा, तस्याः श्वः प्रयोगकाल इति । कुतः, स्थानावगाह यवसशय्याभागेष्वाश्रयेषूप- ६ न्यस्तौषधियाजो नलागिरिर्मन्त्रौषधिनियमसम्भृतः पुरोणकर्म- व्यामोहितः । अनुकूलमारुतमोक्तत्र्यः सज्जितो धूपः । रोषप्रति - कूलोऽस्य सजितः प्रतिगजमदः । शालासन्निकृष्टमल्पसाधनं ९ गृहमादीपयितुम मित्रासित्वाद् वारणानाम् । गजपतिचित्तोद्धमणार्थं देवकुलेषु स्थापिताः शङ्खदुन्दुभयः । तेन नादेन सर्वसाधनपरिगत- शरीरेणावश्यं श्वः प्रद्योतेन स्वामी शरणमुपगन्तव्यः । ततः स्वामिना १२ शत्रोरनुमतेनैव बन्धनान्निष्क्रम्य सहव्यापन्नां घोषवती हस्तगतां कृत्वा नलागिरिः स्वाधीनः कर्तव्यः । ततो व्यवस्थितासनस्तदानीं स्वामी नलागिरौ, इति । सेनाभिर्मनसानुबद्धजघनं कृत्वा जवे वारणं सिंहानामसमाप्त एव विरुते त्यक्त्वा सविन्ध्यं वनम् । एका हे व्यसने वने स्वनगरे गत्वा त्रिवर्णां दशां येनैव द्विरदच्छलेन नियतस्तेनैव निर्वाह्यते ॥ ५॥ रुमण्वान् - वसन्तक! किमिदानीं चिन्त्यते । ३ विदूषकः - एव्वं चिन्तेमि महन्तो खु भवदो पयत्तो विवज्जिस्सिदि त्ति । [ एवं चिन्तयामि महान् खलु भवतः प्रयत्नो विपत्स्यत इति । ] उभौ- न खलु वयं विज्ञातारः । ६ विदूषकः - अहं पुठमं पच्चा भवन्तो । [ अहं प्रथमं पश्चाद् भवन्तौ । ] यौगन्धरायणः - अथ किंकृता कार्यविपत्तिः । विदूषकः- वच्छराअम्स अण्णकय्यदाए । [ वत्सराजस्यान्यकार्यतया । ] १ पुराणकर्मणि. २ अत्तकय्यदाए. iii. 5.33 ] ९ यौगन्धरायणः - कथमिव । तृतीयोऽङ्कः । विदूषकः - सुगह भवन्तो । [ श्रृणुतां भवन्तौ ] उभौ-अवहितौ स्वः । १२ विदूषकः - जा सा काळट्ठमी अदिकन्दा, तहिं तत्तहोदी वासवदत्ता णाम राअदारिआ धत्तीदुदीआ कण्णआदंसणं गिद्दोसं ति करिअ अवणीदकच आए सिविआए ओघट्टिदपणाळी पम्सदसळिळविसमं १५ राअमग्गं परिहरिअ जं तं बन्धणदुवारम्स अग्गदो भअवदीए जक्खिणीए द्वाणं, तम्सिं देवकय्यं कत्तुं गआ आसी । [ या कालाष्टमी अतिक्रान्ता, तस्यां तत्रभवती वासवदत्ता नाम राजदारिका धात्रीद्वि- १८ तीया कन्यकादर्शनं निर्दोषमिति कृत्वापनीतकल्चुकायां शिबिकायामव- घट्टितप्रणालीप्रस्रुतसलिलविषमं राजमार्ग परिहृत्य यत्तद् बन्धनद्वार- स्याग्रतो भगवत्या यक्षिण्याः स्थानं, तस्मिन् देवकार्यं कर्तुं गतासीत् ] २१ यौगन्धरायणः - ततस्ततः । विदूषकः - तदो तत्तभवं तं दिअसं अन्भन्तरबन्धण परिरक्खअं सिवअं णाम अदासं अणुमणि बन्धणदुवारे णिक्कन्तो । २४ [ ततस्तत्रभवान् तं दिवसमभ्यन्तरबन्धनपरिरक्षकं शिवकं नाम राजदा- मनुमान्य बन्धनद्वारे निष्क्रान्तः । ] उभौ - ततस्ततः । २७ विदूषकः- तदो पुरुसक्खन्धपरिवणट्टिदाए सिविआए पकामं दिठ्ठा सा अङ्गारिआ । [ ततः पुरुस्कन्धपरिवर्तनास्थितायां शिविकायां प्रकामं दृष्टा सा राजदारिका । ] ३० यौगन्धरायणः - ततस्ततः । विदूषकः - किं तदो तो त्ति । बन्धणं दाणिं पमदवणं सम्भाविअ उत्तो राअळीळं कर्त्तुं । [किं ततस्तत इति । बन्धनमिदानीं प्रमदवनं ३३ संभाव्य प्रवृत्तो रागलीलां कर्तुम् । ] १ भअवदीए अवन्तिसुन्दरीए. प्रतिज्ञायौगन्धरायणे [iii. 5.3 यौगन्धरायणः - न खलु तां प्रति समुत्पन्नाभिलाषः स्वामी । विदूषकः - भो ! सङ्घआरिणो अगत्थ त्ति ईदिसं एव्व । [ भोः ! ३६ मङ्घचारिणोऽनर्था इतीदृशमेव ] यौगन्धरायणः - सखे! रुमण्वन ! स्थिरीक्रियतामात्मा । अनेनैव वेषेण जरा गन्तव्या । ३९ विदूषकः - भो ! अहं च एदेण उत्तो— भणेहि जोअन्धराअणस्स जहसमत्थिदा समत्या पण रोअदे मे । समाणे गमणे पज्जोदस्स अवमाणविसेसो चिन्तीअदि । मा कामप्पधाग त्ति मं अवमहि । ४२ अवमाणम्स अवजिदि अण्णेसामि त्ति । [ भोः ! अहं चैतेनोक्तः- भण यौगन्धरायणाय यथासमर्थिता समर्थना न रोचते मे । समाने गमने प्रद्योतस्यावमानविशेषश्चिन्त्यते । मा कामप्रधान इति मामवम- ४५ न्यस्व अवमानस्यापचितिमन्विष्यामिति । ] यौगन्धरायणः - अहो शत्रुजनापहा यमभिधानम् । अहो निरपत्रपता खलु बुद्धेः । अहो सुहृज्जनसन्तापकारणम् । अदेशकाले ललितं ४८ कामयते स्वामी । कुतः, शक्ता दर्पयितुं स्वहस्तरचिता भूमिः कटप्रच्छदा पर्याप्तो निगलम्वनश्चरणयोः कन्दर्पमालम्बितुम् । कः श्रुत्वा न भवेद्धि मन्मथपटुः प्रत्यक्षतो बन्धने रक्षार्थं परिगण्यमानपुरुष राजेति शब्दापनम् ॥ ६ ॥ विदूषकः - भो ! सिदो सिणेहा । णिचि पुरुस आरं । साहु उज्झिअ णं गच्छाम । [ भोः ! दर्शितः स्नेहः । निर्विष्टः पुरुषकारः । साधूज्झि- ३ स्वैनं गच्छामः । ] यौगन्धरायणः–वसन्तको भवान् ननु । वसन्तक ! मा मैवम् । परित्यजाम सन्तप्तं दुःखेन मदनेन च । सुहृज्जनमुपाश्रित्य यः कालं नावबुध्यते ॥ ७ ॥ -iii. 9.6] तृतीयोऽङ्कः । विदूषकः - एवं एव जरं गमिम्सामा । [ एवमेव जरां गमिष्यामः ।] यौगन्धरायणः - तन्ननु श्लाघ्यम् । ३ विदूषकः - सिळाघणीओ भवे, जदि कोओ जागादि । [ श्लाघनीयं भवेद्, यदि लोको जानाति । ] यौगन्धरायणः - न नः कार्यं लोकेन, स्वामिप्रियार्थोऽयमारम्भः । ६ विदूषकः - सो विदाय ग जागादि । [ सोऽपि तावन्न जानाति । ] यौगन्धरायणः - काले ज्ञाम्यति । विदूषकः - कदमो दाणि सो कालो । ९ यौगन्धरायणः - यदेयमारम्भसिद्धिः । कतम इदानीं स कालः । ] विदूषकः - तो तादिमो भवं बन्धणादो राआणं अन्तेउरादो राअ- दारिअं उभे शिय्यादु । [ ततस्तादृशो भवान् बन्धनाद्राजानमन्तः- १२ पुराद्राजदारिकामुभे निर्यातयतु । ] रुमण्वान्-इह भवता द्रष्टव्यम् । यौगन्धरायणः - उभयमिति । बाढम् । इयं द्वितीया प्रतिज्ञा- सुभद्रामिव गाण्डीवी नागः पद्मलतामिव । अपि च, यदि तां न हरेद्राजा नाम्मि यौगन्धरायणः ॥ ८ ॥ यदि तां चैव तं चैव तां चैवायतलोचनाम् । नाहरामि नृपं चैव नास्मि यौगन्धरायणः ॥ ९ ॥ ( कर्ण दत्त्वा ) अये शब्द इव । ज्ञायतां शब्दः । विदूषकः- भां! तह । (निष्क्रम्य प्रविश्य) भो ! पडिउत्तदिवस - ३ विम्सम्भेण अविरळं सञ्चरन्तो जणो दीसह । किं दाणि करम्ह । [भोस्तथा । भोः ! परिवृत्तदिवस विस्रम्भेणाविरलं सञ्चरन् जनो दृश्यते । किमिदानीं कुर्मः । ] ६ रुमण्वान् तेन हि चतुर्द्वारमग्निगृहं भिद्यतां नः सङ्घातः । प्रतिज्ञायौगन्धरायणे [ iii. 9.7— यौगन्धरायणः- :-न न । अभिन्नो नः सङ्घातः । भिद्यतामरिसङ्घातः । स्वकार्यमनुष्ठीयताम् । ९ उभौ-तह । [ तथा ] (निष्क्रान्ता । ) उन्मत्तकः- ही ही चन्दं गिळदि लाहू । मुच मुच चन्दं । यदि मुशि, मुहं दे पाडि मुखावइस्सं । एशे एशे दुट्टुअश्शे परिभट्टे १२ आअच्छदि । एशे एशे चउप्पहवीहिआअं । जाव णं आळुहिअ बलिं भक्खिरसं । एशे एशे दाळअभट्टा ! मं ताळेह । माखु माखु मं ताळेह । किं भणाशि - अम्हाणं किं पि णचेहि त्ति । दक्खह १५ दक्खह दाळ अभट्टा ! एशे दाळअभट्टा ! पुणो वि मं ताळेह इट्टि - आहि । माखु माखु ताळेह । तेग हि अहं पि तुम्हे ताळेमि । [ ही ही चन्द्रं गिरति राहुः । मुञ्च मुञ्च चन्द्रम् । यदि न मुञ्चसि, मुखं १८ ते पाटयित्वा मोचयिष्यामि । एप एप दुष्टाश्वः परिभ्रष्ट आगच्छति । एष एष चतुष्पथवीथिकायाम् । यावदेनमारुह्य बलिं भक्षयिष्यामि । एते एते दारकभर्तारः ! मां ताडयथ । माखलु माखलु मां ताडयत । २१ किं भणथ - अस्माकं किमपि नृत्येति । पश्यत पश्यन दारकभर्तारः ! । एते दारकभर्तारः ! पुनरपि मां ताडयथ यष्टिभिः । माखलु माखलु ताडयत । तेन ह्यहमपि युष्मान् ताडयामि । ] ( निष्क्रान्तः । ) ( ततः प्रविशति भटः । ) तृतीयोऽङ्कः । अथ चतुर्थोऽङ्कः । ३ भटः - को कालो अहं भट्टिदारिआए वासवदत्ताए उढ़ए कीलिदु- कामाए भद्दवदीपरिचारअं गत्तसेवअं ण पेक्खामि । भाव पुष्पदन्तअ! गत्तसेवअं ण पेक्खसि । किं भणासि - एसो गत्तसेवओ कण्डिळ - ६ ण्डिगिणीए गेहं पविसिअ सुरं पिबदि त्ति । गच्छदु भावो । (परिक्रम्य) —iv. 1.3 ] चतुर्थोऽङ्कः । इण्डण्डिगिणीए गेहूं । जाव णं सद्दावेमि । भो गत्तसेवअ ! गत्तसेवअ ! । [ कः कालोहं भर्तृदारिकाया वासवदत्ताया उदके ९ क्रीडातुकामाया भद्रवतीपरिचारकं गात्रसेवकं न प्रेक्षे । भाव पुष्पदन्तक ! गात्रसेवकं न प्रेक्षसे । किं भणसि - एष गात्रसेवकः कण्डिलशौण्डिक्या गेहूं प्रविश्य सुरां पिवतीति । गच्छतु भावः । इदं कण्डिलशौण्डिक्या गेहम् । १२ यावदेनं शब्दापयामि । भो गात्रसेवक ! गात्रसेवक ! । ] ( नेपथ्य ) ( ततः प्रविशति यथानिर्दिष्टो गात्रसेवकः । ) को दाणिं एसो एत्थ राअमग्गे गत्तसेवअ ! गत्तसेवअ ! त्ति मं १५ सहावेदि । [ क इदानीमेपोऽत्र राजमार्गे गात्रसेवक ! गात्रसेवकेति मां शब्दापयति । ] भट: - एसो गत्तसेवओ सुरं पित्रिअ पिविअ हसिअ हसिअ १८ मदिअ मदिअ जवापुष्पं विअ रत्तकोअगो इदो एव आअच्छदि । एदस्स पुरदो चिट्ठिस्सं । ( निवृत्य स्थित: । ) [ एष गात्रसेवकः सुरां पीत्वा पीत्वा हसित्वा हसित्वा मदित्वा मदित्वा जपापुष्पमिव २१ रक्तलोचन इत एवागच्छति । एतस्य पुरतो न स्थास्यामि । ] गानसेवक:- को दाणिं एसो एत्थ राअमग्गे गत्तसेवअ ! गत्तसेवअ ! २४ ति मं सहावेदि । पाणागारादो किन्तो दिट्ठ म्हि मम सुसुरेण सुरुट्ठे । अमुदअमळपण घिमरिअळोणरूशिदे मंशखण्डे मुहे पक्खित्ते अ । सा रज्जइ पीदा जइ । अत्ता णं दण्डुज्जुआ होइ । धण्णा सुराहि मत्ता धण्णा सुराहि अणुळित्ता । धण्णा सुराहि हूणादा घण्णा सुराहि संञविदा ॥ १ ॥ अण्णा अत्तणो पुत्तदाराणं कट्टं पिट्ठ सुणन्ता जे मूढा णरा सुस- मिद्धा सुरातटाअं ण जोजअंति । ता जाणे जमळोए वा णरअं ३ अस्थि णत्थि अ । प्रतिज्ञा यौगन्धरायणे [ iv. 1. 3 – [ क इदानीमेषोऽत्र राजमार्गे गात्रसेवक ! गात्रसेक ! इति मां शब्दापयति । पानागारान्निष्क्रान्तो दृष्टोऽस्मि मम श्वशुरेण सुरुष्टेन । अमृत- ६ मलकेन घृतमरिचलवणरूपितो मांसखण्डो मुखे प्रक्षिप्तश्च । स्नुषा रज्यति पीता यदि । श्वश्रूर्ननु दण्डोद्यता भवति । धन्याः सुराभिर्मत्ता धन्याः सुराभिरनुलिप्ताः । धन्याः सुराभिः स्नाता धन्याः सुराभिः संज्ञापिताः ॥ १ ॥ अधन्या आत्मनः पुत्रदाराणां कष्टं पिष्टं शृण्वन्तो ये मूढा नराः सुसमृद्धाः सुरातटाकं न योजयन्ति । ततो जाने यमलोके वा नरकोS- ३ स्ति नास्ति च । ] भटः- ( उपसृत्य ) भो गत्तसेवअ ! को कालो तुमं अण्णेसामि । भट्टिदारिआए वासवदत्ताए उढ़ए कीळिदुकामाए भद्दवदी ण ६ दिस्सदि । तुमं दाव मत्तो एत्थ आहिण्डसि । [भो गात्रसेवक ! कः कालस्त्वामन्विष्यामि । भर्तृदारिकाया वासवदत्ताया उदके क्रीडितुकामाया भद्रवती न दृश्यते । त्वं तावन्मत्तोऽत्राहिण्डसे । ] ९ गात्रसेवकः - जुज्जइ । सा अ णं मत्ता, सो पुरुसो वि मत्तो, अहं विमत्तो, तुमं वि मत्तो, सवं मत्तसमं होइ । [ युज्यते । सा च ननु मत्ता, म पुरुषोऽपि मत्तोऽहमपि मत्तः, त्वमपि १२ मत्तः, सर्वं मत्तसमं भवति । ] भटः- सव्वं दाव चिट्टदु । राउळे भद्दपीठिअं णणिक्कम कुदो अ आहिण्डदिति । १५ [ सर्वं तावत् तिष्ठतु । राजकुले भद्रपीठिकां ननिष्क्राम्य कुतोऽयमा- हिण्डत इति । ] गात्रसेवकः- इदो आहिण्डामि, एत्थ पिबामि, एदेण पित्रामि, मा १८ संरम्भेण । किं करीअदु । १ भद्दपीठिआ ण णिकर्मादि । कुदो अअं पिबदित्ति. -iv. 1.43] चतुर्थोऽङ्कः । [ इत आहिण्डे, अत्र पिबामि, एतेन पिबामि, मा संरम्भेण । किं क्रियताम् । ] २१ भटः - हिज्जउ असम्बन्धप्पळावो । सिग्धं भवदिं पवसेहि । [ भवत्वसम्बन्धप्रलापः । शीघ्रं भद्रवतीं प्रवेशय । ] गात्रसेवक :- पविसदु पविसदु भद्दवदी । अंघो मए भद्दवदीए २४ असं आढत्तं । [ प्रविशतु प्रविशतु भद्रवती । अङ्गो मया भद्रवत्या अङ्कुशमाहितम् । ] भटः- सभावविणीदाए भद्दवदीए अङ्कुसेण किं कव्यं । गच्छ, २७ सिग्घं भद्दवदिं पवेसेहि [ स्वभावविनीताया भगवत्या अङ्कुशेन किं कार्यम् । गच्छ, शीघ्रं भद्रवतीं प्रवेशय । ] गात्रसेवक :- पविसदु पविसदु भद्दवदी । अंघो मए भद्दवदीए ३० खुप्पमाळा आढत्ता । [ प्रविशतु प्रविशतु भद्रवती । अङ्गो मया भद्रवत्याः क्षुरप्रमालाहिता । ] भटः- 2:- पुप्फबन्धि आर भद्दवदीय खुरपमाळाए किं कय्यं । सिग्घं ३३ भद्दवदिपवेसे हि । [ पुष्पबन्ध्याया भवत्याः क्षुरप्रमालया किं कार्यम् । शीघ्रं भद्रवतीं प्रवेशय । ] गात्रसेवकः - पविसदु पविसदु भद्दवदी । अंघो मए भद्दवदीए ३६ घण्टा आढत्ता ! [ प्रविशतु प्रविशतु भद्रवती । अघो मया भद्रवत्या घण्टाहिता । ] भटः- उढ़ए कीळिदुकामाए भद्दवदीए घण्टाए किं कव्यं । सिग्धं ३९ भद्दवादं पवेसेहि । [ उदके क्रीडिनुकामाया भद्रवत्या घण्टया किं कार्यम् । शीघ्रं भद्रवतीं प्रवेशय । ] गात्रसेवकः - पविसदु पविसदु भद्दवदी । अंघो मए भद्दवदीए ४२ कसिअं आढत्तं । [ प्रविशतु प्रविशतु भद्रवती । अङ्घो मया भद्रवत्याः कशिका आहिता ।] प्रतिज्ञा यौगन्धरायणे [iv. 1. 44 भट: - कसिएण किं कय्यं । सिग्धं भद्दवर्दि पवेसेहि । [ कशिकया ४५ किं कार्यम् । शीघ्रं भद्रवतीं प्रवेशय । ] गात्रसेवकः- पविसदु पविसदु भवदी । अंघो । [ प्रविशतु प्रविशतु भद्रवती । अघो । ] :- किं अंघो । [ किम् अघो । ] ४८ भटः- ग्रामसेवकः - अंघो मए । [ अङ्को मया । ] भटः- :- किं तुए । [ किं त्वया । ] ५१ गात्रसेवकः - अंघो भद्द । [ अङ्घो भद्र । ] :- किं भद्दत्ति । [ किं भद्रेति । ] भटः- गान्रसेवकः - अंघो भद्दवदी । [ अङ्घो भद्रवती । J :- किं भद्दवदी । किं भद्रवती । ] ५४ भटः- गात्रसेवकः - भद्दवदी पि आढत्ता । [ भद्रवत्यप्याहिता । ] जा भटः- तुवं एत्थ अवरज्झो। कण्डिळसुण्डिकिणी खु अवरज्झा, ५७ राअवाहणं गणिअ सुरं देदि । [ न त्वमत्रापराद्धः । कण्डिलशौौण्डक खल्वपराद्धा, या राजवाहनं गृहीत्वा सुरां ददाति । ] गात्रसेवक:- अंघो मए उत्तं-मा मूलविद्धिं विणासेहित्ति । ६० [ अङ्घो मयोक्तम् - मा मूलवृद्धिं विनाशयेति । ] भट: - हं सद्दो विअ । [ हं शब्द इव । ] गान्रसेवकः- अंघो जाणामि जाणामि, कण्डिळ सुण्डिकिणीए गेहूं ६३ भिन्दिअ भद्दवदी पळाअदि । [ अङ्घो जानामि जानामि कण्डिल- शौण्डक्या गेहं भित्वा भद्रवती पलायते । ] भटः- :- किं भणासि - ( आकाशे) एसो भट्टा वच्छराओ वासवदत्तं ६६ गणिअ णिग्गदो त्ति । [ किं भणसि - एष भर्ता वत्सराजो वासव- दत्तां गृहीत्वा निर्गत इति । ] गात्रसेवकः-( सहर्षम् ) अविघ्नमस्तु स्वामिनः । કર —iv. 4.' ] ६९ भटः- चतुर्थोऽङ्कः । :- पित्र पिब । अज्ज वि तुमं मत्तो आहिण्डेहि । [ पिब पिब । अद्यापि त्वं मत्त आहिण्डस्व । ] गात्रसेवकः - आः को मत्तः, कस्य वा मदः, वयं खत्वार्ययौगन्ध- ७२ रायणेन स्वेषु स्वेषु स्थानेषु स्थापिताश्चारपुरुषाः । यावदहमपि सुहृज्जनस्य संज्ञां करोमि । एते ते सुहृदो निरोधमुक्ता इव कृष्ण- सर्पा इतस्ततो निर्धावन्ति । भो भोः सुहृदः ! शृण्वन्तु शृण्वन्तु ७५ भवन्तः- नवं शरावं सलिलैः सुपूर्णं सुसंस्कृतं दर्भकृतोत्तरीयम् । तत्तस्य मा भून्नरकं स गच्छेद् यो भर्तृपिण्डस्य कृते न युध्येत् ॥ २ ॥ कनुखत्वार्ययौगन्धरायणः । ( विलोक्य) अये अयमत्रभवान् आर्य- यौगन्धरायणः । य एषः, निशितविमलखङ्गः संहृतोन्मत्तवेषः कनकरचितच मत्र्यप्रवामाग्रहस्तः । विरचितबहुचीरः पाण्डराबद्धपट्टः सतडिदिव पयोदः किञ्चिदुद्गीर्णचन्द्रः ॥ ३ ॥ अहो महत् प्रवृत्तं युद्धम् । हत्वा गजान् सगजिनः सहयांश्च यौधा- नक्षौहिणीमतिविगाह्य बलान्मुहूर्तम् । नागेन्द्रदन्तमुसलाह्तभग्नबाहु- भ्रष्टायुधोऽपि ननिवृत्तपदोऽभियातः ॥ ४ ॥ हा धिग्, ग्रहणमुपगतः खल्वार्ययौगन्धरायणः । यावदहमप्यार्य- यौगन्धरायणस्य प्रत्यन्तरीभविष्यामि । (निष्क्रान्तः । ) १ अहो प्रतिभयमिदं युद्धम् । अहो महत्प्रतिभयं प्रवृत्तमिदं युद्धम् . प्रतिज्ञा यौगन्धरायणे [ iv. 4. 2 ३ भटः- किंणु एवं । पाआरतोरणवज्जं सत्र्वं कोसम्बी खु इदं । होदु, इमं वुत्तन्तं अमञ्चस्स निवेदेमि । [ किन्नुखल्वेतत् । प्राका- रतोरणवर्जं सर्वं कौशाम्बी खल्विदम् । भवत्विमं वृत्तान्तममात्याय ६ निवेदयामि । ] (निष्क्रान्तः । ) ( ततः प्रविशतः साधारणां । ) प्रवेशकः । उभौ - उस्सरह उम्सरह अय्या ! उस्सरह । [ उत्सरतोत्सरतार्या ! उत्सरत । ] १२ प्रथमः- अंघो कण्ठम्स दीअमाणम्स ण उच्च विरमदि । [ अङ्घो कण्ठस्य दीर्यमाणस्य नोच्चं विरमति । ] द्वितीयः - अंघो भट्टिदारिआए वासवदत्ताए अवगअ गविभमदाए १५ विरुवन्तरस मे वअणं कोच्चि ण सुणादि । अंघो किं भगह- :- किष्णि- मित्तं उस्सारणा वत्तदिति । गहीदो अय्यजोअन्धराअणो । किं भगह कहं गहीद त्ति । सुगन्तु अय्या । अय्यजोअन्धराअणेण १८ अमिदुदीए अक्खोहिणीए अग्गवेगो मुहुत्तअं धारिदो । विजय- सुन्दरस्स हत्थिणो दन्तन्तचोदिदो असी विवण्णो । अमिदोसेण गहीदो, ण पुरुसदासेण । [ अङ्गो भर्तृदारिकाया वासवदत्ताया अप- २४ नयनविभ्रमतया विरुवतो मे वचनं कश्चिन्न श्रृणोति । अङ्घये किं भणथ- किन्निमित्तमुत्सारणा वर्तत इति । गृहीत आर्ययौगन्धरायणः । किं भणथ- कथं गृहीत इति । श्रृण्वन्त्वार्याः । आर्ययौगन्धरायणेनासि द्वितीयेनाक्षी- २४ हिण्या अग्रवेगो मुहूर्तं धारितः । विजयसुन्दरस्य हस्तिनो दन्तान्तचो- दितोऽसि विपन्नः । असिदोषेण गृहीतो, न पुरुषदोषेण । ] प्रथमः -- -- अंघो अप्पमत्ता होह तुम्हे । पाआरतोरणवज्जं सवं २७ कोसम्बी खु इअं । [ अङ्घो अप्रमत्ता भवत यूयम् । प्राकारतोरणवर्ज सर्वं कौशाम्बी खल्वियम् । ] —iv. 7.+ ] चतुर्थोऽङ्कः । उभौ - ओदरदुओदरदु अय्यो ओइरदु । ३० [ अवतरत्ववतरत्वार्योऽवतरतु । ] ( ततः प्रविशति यौगन्धरायणः बद्धबाहुः फलकशयनेनानीयमानः । ) यौगन्धरायणः - अयमहमवतरामि । रिपुगतमपनीय वत्सराजं ग्रहणमुपेत्य रणे स्वशस्त्रदोपान् । अयमहमपनीतभर्तृदुःखो जितमिति राजकुले सुखं विशामि ॥ ५ ॥ भोः ! सुखं खलु निष्कलत्राणां कान्तारप्रवेशः, रमणीयतरः खलु प्राप्तमनोरथानां विनिपातः, अपश्चात्तापकरः खलु सचितधर्माणां ३ मृत्युः । मया हि, वैरं भयं परिभवं च समं विहाय कृत्वा नयैश्च विनयैश्च शरैश्च कर्म । शत्रोः श्रियं च सुहृदामयशश्च हित्वा प्राप्तो जयश्च नृपतिश्च महांश्च शब्दः ॥ ६ ॥ उभौ - उस्सरह उस्सरह अय्या ! उस्सरह । [ उत्सरतोत्सरतार्याः ! उत्सरत । ] यौगन्धरायणः- मद्दर्शनाभिलाषी जनां न कश्चिदुत्सारयितव्यः । पश्यन्तु मां नरपतेः पुरुषाः ससत्त्वा राजानुरागनियमेन विपद्यमानम् । ये प्रार्थयन्ति च मनोभिरमात्यशब्दं तेषां स्थिरीभवतु नश्यतु वाभिलाषः ॥ ७ ॥ उभौ - उम्सरह उस्सरह । किं तुम्हेहि ण दिट्ठपुरुवो अय्यजो- अन्धराअणो ! [ उत्सरतोत्सरत । किं युष्माभिर्न दृष्टपूर्व आर्ययोग- ३ न्धरायणः । ] यौगन्धरायणः - दृष्टः पूर्वं, न त्वेवम् । मम हि, प्रतिज्ञा यौगन्धरायणे उन्मत्तच्छन्नवेषस्य रथ्यासु परिधावतः । अवगीतमिदं रूपं कर्म सम्प्रति दृश्यते ॥ ८ ॥ ( प्रविश्य ) ( परिक्रम्य ) [ iv. 8.— भटः - अय्य! पिअं दे णिवेदेमि । गहीदो कि बच्छराओ । ३ [ आर्य ! प्रियं ते निवेदयामि । गृहीतः किल वत्सराजः ।] यौगन्धरायणः - नैतदस्ति । चिरमरिनगरे निरोधमुक्तः स किल वनान्युपलभ्य भद्रवत्या । ग्रहणमुपगमिष्यति प्रयातो निमिषितमात्रगतेषु योजनेषु ॥ ९ ॥ भद्र ! कथं गृहीत इति श्रुतम् । भटः- टः - अगुसारिअ णळागिरिणा गहीदो किल । [ अनुसार्य नला- ३ गिरिणा गृहीतः किल । ] यौगन्धरायणः - अस्ति वाहनसामर्थ्यम् । असमायुक्तस्तु सः । गजस्याधोरणायुक्तो जवो भवति शिक्षया । विमुक्तं वत्सराजेन के एनं वाहयिष्यति ॥ १० ॥ भटः-अय्य ! अमचो आह - आउहागारे चिट्ठदु किळ अय्यो । पुरुसगुत्तो अअं देसो त्ति । [ आर्य ! अमात्य आह - आयुधागारे ३ तिष्ठतु किलार्थः । पुरुषगुप्तोयं देश इति । ] यौगन्धरायणः - अहो हास्यमभिधानम् । अग्निं बद्ध्वा वत्सराजाभिधानं यस्मिन् काले सर्वतो रक्षितत्र्यम् । तस्मिन् काले सुप्तमासीदमात्यैनीते रत्ने भाजने को निरोधः ॥ ११ ॥ भटः - इदं आउहागारं । पविसदु अय्यो । [ इदमायुधागारम् । ३ प्रविशत्वार्यः । ] ( प्रविश्य) भटः - अमचो आह-अवणीअदु बन्धणं ति । [ अमात्य आह-अपनीयतां बन्धनमिति । ] -iv. 14.5] चतुर्थोऽङ्कः । यौगन्धरायणः - अक्षीणं मां कुरु । व्यक्तं भरतरोहको मां द्रष्टुमि- च्छति । अहमपि तावद् भरतरोहकं द्रष्टुमिच्छामि । मद्वाक्यैः परिखिद्यमानहृदयं रोषान् प्रमत्ताक्षरैः प्रारब्धेषु नयच्छलेषु तुलितं तुल्याधिकारोज्झितम् । सूक्तैः शास्त्रविनिश्चितैर्विरहितं बुद्धपाधिकं वचितं द्रष्टुं मल्लमपक्रियाविनिहतं त्रीलादिवाधोमुखम् ॥ १२ ॥ ( तत: प्रविशति भरतरो हकः । ) भरतरोहकः- कासौ कासौ यौगन्धरायणः । अवसितनिजकार्यं वञ्चनैर्दुर्निरीक्ष कथमिव परिभाषे भर्तुरर्थे विपन्नम् ॥ चिरमवनंतकार्यं चापि नियुक्तमन्त्रं भुजगमिव सरोषं धर्षितं चोच्छ्रितं च ॥ १३ ॥ भटः- अय्यजोअन्धराअणो अय्यं पडिवाळअन्तो आउहागारे चिट्ठइ । [ आर्ययौगन्धरायण आर्यं प्रतिपालयन् आयुधागारे तिष्ठति । ] ३ भरतरोहकः - भवतु भवतु । मन्त्रित्वे चितो ह्येष सव्याजं नीलहस्तिना । प्रत्यादेष्टुं स तद्वैरं मामिदानीं प्रतीक्षते ॥ १४ ॥ भटः - अय्य! एसो अमच्चो । [ आर्य ! एषोऽमात्यः । ] भरतरोहकः- ( उपगम्य ) भो यौगन्धरायण ! । यौगन्धरायणः - भोः ! । भट:- अहो सरस्स गम्भीरदा । अय्यस्स एकक्खरेण पृरिदो अयं दसो । [ अहो स्वरस्य गम्भीरता । आर्यस्यैकाक्षरेण पूरितोऽयं देशः । ] १ नृप. २ 'मुपनत'. प्रतिज्ञा यौगन्धरायणे [iv. 14.6 ६ भरतरोहकः - ( उपविश्य ) भोः ! यौगन्धरायण इत्यशरीराण्यक्षराणि श्रूयन्ते । दिष्टा भवान् दृश्यते । यौगन्धरायणः - दिया भवान् दृश्यत इति । पश्यतु भवान् माम्, एवं रुधिरदिग्धाङ्गं वैरं नियममास्थितम् । गुरजितं हत्वा शान्तं द्रौणिमिव स्थितम् ॥ १५ ॥ भरतरोहकः- अहो छलेनागतगजारम्भस्यात्मसम्भावना । यौगन्धरायणः - किं छलेनति । तन् पुनरिदानीं युक्तम् । या सा मल्लिकसालवृक्षरचिता नागाश्रिता वचना बद्धः सेवितवान् हि नो नरपतिर्बाहृपधानां क्षितिम् । राज्ञो वारणनिग्रहे परिचयाद् वीणाश्रिता वञ्चना पूर्वं प्रस्तुतमेव यामि भवता नैवापराधो मम ॥ १६॥ भरतरोहकः- भो यौगन्धरायण ! यदग्निसाक्षिकं महासेनस्य दुहितरं शिष्यां प्रतिगृह्य अत्तापनयनं कृतं युक्तेयं भोम्तम्करप्रवृत्तिः । ३ यौगन्धरायणः - मा मा भवानेवम् । विवाहः खल्वेष स्वामिनः । भारतानां कुले जातो वत्सानामूर्जितः पतिः । अकृत्वा दारनिर्देशमुपदेशं करिष्यति ॥ १७ ॥ भरतरोहकः- अद्यापि महासेनेन प्रयुक्तसत्कारो वत्सराजः । तदि- दानीं किं नावेक्षते । ३ यौगन्धरायणः - मा मा भवानेवम् । यदस्य चाज्ञां कुरुते नलागिरिः स शिक्षितानां वचनेषु तिष्ठति । ततो विमुक्तः स्वशरीररक्षणे यशः प्रदातुं सुहृदां च जीवितम् ॥ १८ ॥ भरतरोहक :- यद्येवं, नलागिरिग्रहणार्थं विमुक्तश्चेद्, न पुनर्बद्धस्ते स्वामी । १. नैवात्र दोषो मम. وا —iv. 22.' ] चतुर्थोऽङ्कः । ३ यौगन्धरायणः - नेति पश्यत्युपक्रोशभयात् । भरतरोहकः-अपरोक्षराज्यव्यवहारो भवानिति ब्रवीति । समराव - जितेपु शत्रुषु किमाह शास्त्रम् । ६ यौगन्धरायणः - वधः । भरतरोहकः- वधार्हो वत्सराजश्चेत् किमस्माभिः स सत्कृतः । यौगन्धरायणः - एतदवेक्ष्य खलु यदस्य शरीरं नापहृतम् । ९ भरतरोहकः - एतदपि सम्भाव्यं मन्यते स्वामी । यौगन्धरायणः - कः संशयः । हस्तप्राप्तो हि वो राजा रक्षितस्तेन साधुना । न ह्यनारुह्य नागेन्द्रं वैजयन्ती निपात्यते ॥ १९ ॥ भरतरोहकः-भवतु भवतु । महासेनस्य प्रतिकूलं कृत्वा कौशाम्बी प्रति का कृता ते बुद्धिः । ३ यौगन्धरायणः - अहो हास्यमभिधानम् । भवतां चाग्रतो यातः शेषकार्येषु का कथा । समूलं वृक्षमुत्पाटय शाखाश्छेत्तुं कुतः श्रमः ॥ २० ॥ ( प्रविश्य ) ( नेपथ्ये हाहाकारः क्रियते । ) काञ्चुकीयः - ( कर्णे ) एवमिव । ३ भरतरोहकः - प्रकाशमुच्यताम् । काञ्चुकीयः- इति । कारणैर्बहुभिर्युक्तैः कामं नापकृतं त्वया । गुणेषु न तु मे द्वेषो भृङ्गारः प्रतिगृह्यताम् ॥ २१ ॥ यौगन्धरायणः - हा धिक् । गृहा न निर्वान्ति मया प्रदीपितास्तथैव तावद्धृदयानि मन्त्रिणाम् । इयं तु पूजा मम दण्डधारिणः कृतापराधस्य हि सत्कृतिर्वधः ॥ २२ ॥ प्र. यो. ४ भरतरोहकः - अये, प्रतिज्ञायौगन्धरायणे [ iv. 22. ' को नु खल्वेष सहसा प्रासादाप्राद् विनिःसृतः । श्येनपक्षाभिमृष्टानां कुररीणामित्र ध्वनिः ॥ २३॥ भोः ! ज्ञायतां शब्दः । काञ्चुकीयः- यदाज्ञापयत्यार्थः । (निष्क्रम्य प्रविश्य ) एषा तत्रभव- ३ त्यङ्गारवती शोकाभिभूतहृदया प्रासादाच्छरीरं विमोक्तुकामा महा- सेनाभिहिता यथा - क्षत्रधर्मेणोद्दिप्रस्ते दुहितुर्विवाहः । किमिदानीं हर्षकाले सन्तप्यसे । तच्चित्रफलक स्थयोर्वत्सराजवासवदत्तयोर्विवा- ६ होऽनुष्ठीयताम् इति । तत्र हि, - स्त्रीजनेनाद्य सहसा प्रहर्षव्याकुलक्रमा । क्रियते मङ्गलाकीर्णा सबाष्पा कौतुकक्रिया ॥ २४ ॥ यौगन्धरायणः - एवं सम्बन्धं मन्यते महासेनः । तेन ह्यानीयतां भृङ्गारः । ३ काञ्चुकीयः - गृह्यताम् । ( उपनयति । ) भरतरोहकः- भो यौगन्धरायण ! किं ते भूयः प्रियमुपहरति महा- सेनः । ६ यौगन्धरायणः - यदि मे महासेनः प्रसन्नः, किमतः परमिच्छामि । ( भरतवाक्यम् ) ( निष्क्रान्ताः सर्वे । ) भवन्त्वरजसो गावः परचक्रं प्रशाम्यतु । इमामपि महीं कृत्स्नां राजसिंहः प्रशास्तु नः ॥ २५ ॥ चतुर्थोऽङ्कः । प्रतिज्ञानाटिकावसिता । श्रीगणेशाय नमः । महाकविश्रीभासप्रणीतम् अविमारकम् । ( नान्यन्तं ततः प्रविशति सूत्रधारः । ) सूत्रधारः- उत्क्षिप्तां सानुकम्पं सलिलनिधिजलादेकदंष्ट्राप्ररूढा- माक्रान्तामाजिमध्ये निहतदितिसुतामेकपादावधूताम् । सम्भुक्तां प्रीतिपूर्वं स्वभुजवशगतामेकचक्राभिगुप्तां श्रीमान् नारायणस्ते प्रदिशतु वसुधामुच्छ्रितैकातपत्राम् ॥ १ ॥ ( नेपथ्याभिमुग्वमवलोक्य ) आर्ये ! इतस्तावत् । ( प्रविश्य ) नटी - अय्य! इअम्हि । [ आर्य ! इयमस्मि । ] सूत्रधारः - आर्ये ! तव वदनजनितकौतूहलेन स्मितेन निवेदित इवा- न्तर्गतो भावः । ननु किञ्चिद् वक्तुकामासि । नटी - को एत्थ विम्हओ अय्यो भावञ्ञो त्ति । [ कोऽत्र विस्मय आर्यो भावज्ञ इति । ] सूत्रधारः - तेन हि स्वैरमभिधीयताम् । नटी - इच्छेमि अय्येण सह उय्याणं गन्तुं । अत्थि मे तहिं इत्थि - आकरणीअं णिअमकय्यं । [ इच्छाम्यार्येण सहोद्यानं गन्तुम् । अस्ति मे तत्र स्वीकरणीयं नियमकार्यम् । ] ( नेपथ्ये ) भूतिक ! त्वमप्युद्यानं गच्छ कुरङ्गीरक्षणार्थम् । मदभावस्थो ह्यञ्जनगिरिः । अविमारके [i. 1.15 १५ सूत्रधारः - आर्ये ! ननु भवत्या श्रुतम् उद्यानं गता राजपुत्रीति । तस्मात् सम्प्रति सर्वतः परिगुप्तानि भवन्त्युद्यानानि । प्रतिनिवृत्तायां राजसुतायां स्वैरं गमिष्यावः । १८ नटी - जं अय्यो आणवेदि । [ यदार्य आज्ञापयति । ] ( निष्क्रान्तौ ) ( ततः प्रविशति राजा सपरिवारः ) ( ततः प्रविशति सपरिवारा देवी ) ( उपविशति । ) स्थापना । राजा- इष्टा मखा द्विजवराश्च मयि प्रसन्नाः प्रज्ञापिता भयरसं समदा नरेन्द्राः । एवंविधस्य च न मेऽस्ति मनः प्रहर्षः कन्यापितु सततं बहु चिन्तनीयम् ॥ २ ॥ केतुमति ! गच्छ देवीमानय । प्रतिहारी-जं भट्टा आणवेदि । [ यद् भर्ताज्ञापयति । ] (निष्क्रान्ता ) देवी - जेदु महाराओ । [ जयतु महाराजः । ] राजा-देवि ! नित्यप्रसन्नमपि ते मुखमद्यातिप्रसन्नमिव । किङ्कृतो- ६ ऽयं प्रहर्षः । देवी - णं महाराण कहिदं कुरङ्गीणिमित्तं दो आअदत्ति । ता अइरेण जामादुअं पेक्खामि त्ति । [ ननु महाराजेन कथितं कुर ९ ङ्गीनिमित्तं दूत आगत इति । तदचिरेण जामातरं प्रेक्ष इति । ] राजा - तादृशमप्यस्ति । न तु तावत् क्रियते निश्चयः । एह्युपविश । देवी - जं महाराओ आणवेदि । [ यद् महाराज आज्ञापयति । ] -i. 5.] प्रथमोऽङ्कः । राजा - देवि ! विवाहा नाम बहुशः परीक्ष्य कर्तव्या भवन्ति । कुतः, जामातृसम्पत्तिमचिन्तयित्वा पित्रा तु दत्ता स्वमनोभिलाषात् । कुलद्वयं हन्ति मदेन नारी कूलद्वयं क्षुब्धजला नदीव ॥ ३ ॥ अये शब्द इव । बहुभिः कारणैर्भवितव्यम् । अयं हि, बहुत्वाद् दूरसंस्थोऽपि समीप इव वर्तते । सत्सु हेतुसहस्रेषु कुरङ्गयां शङ्कते मतिः ॥ ४ ॥ देवी - हं उय्याणं गआ मे दुहिआ । [ हम् उद्यानं गता में दुहिता । ] राजा - कोऽत्र । ( प्रविश्य ) ( ततः प्रविशति कौञ्जायन: । ) भटः- जयतु महाराजः । एष आर्यकौञ्जायनो निवेदयितुमागत: । राजा- - शीघ्रं प्रवश्यताम् । ६ भटः - यदाज्ञापयति महाराजः । (निष्क्रान्तः । ) कौआयनः - ( सनिर्वेदम् ) भोः ! कष्टममात्यत्वं नाम । कुतः, प्रसिद्धी कार्याणां प्रवदति जनः पार्थिवबलं विपत्तौ विस्पष्टं सचिवमतिदोषं जनयति । अमात्या इत्युक्ताः श्रुतिसुखमुदारं नृपतिभिः सुसूक्ष्मं दण्डधन्ते मतिबलविदग्धाः कुपुरुषाः ॥ ५ ॥ जयसेन ! कम्मिन् प्रदेशे वर्तते स्वामी । किं ब्रवीषि — उपस्था- नगृह इति । अतस्त्वशङ्कनीयेयं भूमिः । ( परिक्रम्य ससम्भ्रमम् ) ३ प्रसीदतु प्रसीदतु स्वामी । राजा - अलमलं सम्भ्रमेण । स्वैरमुपविश्य कथ्यतां वृत्तान्तः । अविमारके [ i. 5.5- कौआयनः - शृणोतु स्वामी । ननु स्वामिनाहमुक्तः - स्वामिदारिकया ६ सह गच्छोद्यानम् इति । राजा - एवमुक्तम् । पुनः किम् । कौआयनः- ततो गत्वोद्यानं यथासुखमाक्रीड्य निवर्तमानायां राज- ९ सुतायां दासीदासहसित कथितश्रवणबृंहितमदस्रवन्मदजलार्द्र दुर्दि- नाननो निहतपतितसादितपुरुषः क्षितिरजोवगुण्ठिताव्यक्तभीम- मूर्तिर्मूर्तिमानिव पवन दृष्टादृष्ट लघुप्रचारः स्वामिसचिवानां वक्तयं १२ जनयितुकाम इवैकपुरुषविशेषं प्रकाशयितुमिच्छन्निव मदान्धस्तं देशमभ्युपगतो हस्ती । राजा- - तिष्ठतु विस्तरः । ननु कुशलिनी कुरङ्गी । १५ कौञ्जायनः - कथमकुशलिनी भवति विद्यमानेषु वामिभाग्येषु । राजा- - दिष्या । यथेष्टमिदानीं ब्रूहि । कौआयनः- ततः प्रद्रुतेषु प्राकृतजनेपु हाहाकारमात्रप्रतीकारामु १८ स्त्रीषु समाश्रितनिहतेषु सुपुरुषेषु उद्यानगतानां सर्वोपकरणानां परी- क्षणाय मुहूर्तव्याक्षिप्ते मयि च नीतिगुप्ते सहसैव स्वामिदारिकाया यानमेव प्राप्तः स हस्ती । २१ देवी - हं इदो वरं किष्णुखु भविस्सदि । [ हम् इतः परं किन्नुखलु भविष्यति । ] राजा - अथ केन सनाथीकृता कुरङ्गी । २४ कौञ्जायनः-अथ कश्चिद् दर्शनी - ( इत्यर्धोक्ते तिष्ठति ) राजा - यथेष्टमिदानीं ब्रूहि । निष्परिहारा व्यापदः । कौआयनः - अथ कश्चिद् दर्शनीयोऽप्यविस्मितस्तरुणोऽप्यनहङ्कारः २७ शूरोऽपि दाक्षिण्यवान् सुकुमारोऽपि बलवान् म्वामिदारिकायां हम्तिनाभिभूयमानायां तत्काल दुर्लभमभयं प्रदाय निर्विशङ्कः समा- सादितवांस्तं द्विपवरम् । -i. 6.] प्रथमोऽङ्कः । ३० राजा - अनृणः स कारुण्यस्य । ततस्ततः । कौआयनः- ततस्तेन सललितसरभस करतलताडनप्ररुष्टः सहसैव स्वामिदारिकां विहाय तमेव हन्तुकामः प्रतिनिवृत्तः स व्यालः । देवी- कुसको हो । [ कुशलं भवतु । ] राजा - ततस्ततः । कौआयनः-अथ तदनन्तरमभ्यागतेन भूतिकेन मया च पुनर्यानमा - रोप्य इतमानीय कन्यान्तः पुरमेत्र प्रवेशिता स्वामिदारिका । राजा- जा - अहो महानयं प्रमादः । अथ भूतिकः किमर्थं नाभ्यागतः । कौञ्जायन:- :-उक्तोऽहं भूतिकेन - गत्वेमं वृत्तान्तं स्वामिने कथय । अहं तस्य पुरुषस्य प्रवृत्तिमन्वयं च ज्ञात्वा शीघ्रमागमिष्यामीति । राजा - तेन हि सर्वं परीक्ष्यागमिष्यति भूतिकः । कौञ्जायन ! कतर- कुलसमुद्भूतः परव्यसनसहायः । कौआयनः - स्वामिन ! इह विसंवादयत्यात्मानमन्त्यजोऽहमिति । देवी - महाराज ! अकुळीणो कहूं एव्वं साणुक्कोसो भवे । [ महाराज ! अकुलीनः कथमेवं सानुक्रोशो भवेत् । ] राजा- - किन्नुखलु भवदेतत् । ( ततः प्रविशति भूतिकः । ) भूतिक: - ( सविस्मयम् ) अहो प्रच्छन्नरत्नता पृथिव्याः । अस्य तावत् पुरुषस्य निर्व्याजेन विक्रमेण मन्दीभूता इव मनस्विनां वि- क्रमबुद्धयः । एकस्तु मे संशयः, किमर्थमात्मानमन्वयं चाच्छादयति । अथवा कः शक्तः सूर्यं हस्तेनाच्छादयितुम् । इह हि, छन्ना भवन्ति भुवि सत्पुरुषाः कथञ्चित् स्वैः कारणैर्गुरुजनैश्च नियम्यमानाः । भूयः परव्यसनमेत्य विमोक्तुकामा विस्मृत्य पूर्वनियमं विवृता भवन्ति ॥ ६ ॥ अविमार के [ i. 6. - जयसेन ! कस्मिन् प्रदेशे वर्तते स्वामी । किं ब्रवीषि उपस्थानगृह इति । अतस्त्वशङ्कनीयेयं भूमिः । यावत् प्रविशामि । ( प्रविश्य ) ३ अये अयं महाराजो देव्या सहास्ते । ( उपगम्य ) जयतु महाराजः । -देवि ! त्वमभ्यन्तरं प्रविश्याश्वासय कुरङ्गीम् । अहमप्यनुपद- मागमिष्यामि । राजा- ६ देवी - जं महाराओ आणवेदि । [ यन्महाराज आज्ञापयति । ] ( निष्क्रान्ता ) राजा - को वृत्तान्तस्तस्य परार्थमनवेक्षितशरीरस्य । ९ भूतिक:- शृणोतु स्वामी । स मुहूर्तमनादरमत्वरितं सललित प्रियवयस्येनेव तेन हस्तिना प्रक्रीडय निवर्तनानुवर्तनगतिविशेषैर्वि- मो लज्जित इव तेन कर्मणा महाजनप्रशंसामसहमानः समवनत- १२ शिरस्कः स्वर स्वमेवावासं गतः । राजा- - भोः ! प्रीतोऽस्मि । अयं हि मे द्वितीयो लाभः । भूतिक:- :- अथ तदनन्तरमुपलभ्य हस्तिनीभिस्तं गजवरं सङ्ग्रा- १५ ह्येमां गजशालां प्रवेश्याहं तस्य पुरुषस्य प्रवृत्तिमन्वयं च ज्ञातु- मन्यापदेशेन गतवानस्मि । राजा - अथ किं कृतो निश्चयः । श्रुतमस्माभिरन्त्यज इति । १८ भूतिकः - शान्तं शान्तं पापम् । नायं तादृश: । केनापि कारणे- नात्मानमन्वयं चाच्छादयति । राजा - अथ किं भवता परीक्षितम् । २१ भूतिक:-किमत्र परीक्षितव्यम् । दैवं रूपं ब्रह्मजं तस्य वाक्यं क्षात्रं तेजः सौकुमार्यं बलं च । यद्येवं स्यान् सत्यमस्यान्त्यजत्वं व्यर्थोऽस्माकं शास्त्रमार्गेषु खेदः ॥ ७ ॥ —i. 9.8 ] प्रथमोऽङ्कः । राजा - किमस्त्यस्य कलत्रम् । भूतिकः - सर्वमस्ति । कलत्रं स्वयमनिविष्टः । ३ राजा-‍ - यद्यपि स्त्रीदर्शनं परिहृतं किमर्थं तस्य पिता न परीक्षितः । भूतिक:- दृष्टस्तत्रभवान् सत्पुत्रसम्पन्नः । स हि, व्यायाम स्थिर विपुलोहितायतांसां ज्याघातप्रचितकिणोल्बणप्रकोष्ठः । प्रच्छन्नोऽप्यनुकृति लक्ष्यराजभावो मेघान्तर्गतरविवत् प्रभानुमेयः ॥ ८ ॥ राजा - अलमेतावता प्रसङ्गेन । पुनरप्येषा परीक्षा क्रियताम् । भूतिक:- यदाज्ञापयति स्वामी । ३ राजा - अथेदानीं काशिराजदूतं प्रति किं कर्तव्यम् । भूतिक:- स्वामिन ! दूतशतान्यागतान्यागमिष्यन्ति च । न तत्र कर्तव्यमिहास्ति लोके राजा- कन्यापितृत्वं बहुवन्दनीयम् । सर्वे नरेन्द्रा हि नरेन्द्रकन्यां मल्लाः पताकामिव तर्कयन्ति ॥ ९ ॥ - कोऽभिप्रायः । भूतिकः - सर्वत्र दाक्षिण्यं न कर्तव्यम् । गुणबाहुल्यं तदात्वमायतिं ३ चावेक्ष्य त्वरतां दीर्घसूत्रतां च परित्यज्य देशकालाविरोधेन साध- यितव्यं कार्यमित्यर्थः । राजा - युक्तमभिहितं भूतिकेन । कौञ्जायन ! किमर्थं तूष्णीं भूतः । ६ कौआयनः - स्वामिन्! बहुष्वपि क्षत्रियेषु पूर्वसम्बन्धविशेषी सौवीर- राजकाशिराजी स्वामिनो भगिनीपतित्वे तुल्यौ अस्मत्सम्बन्ध- योग्याविति स्वामिना चिन्तितौ । तत्र पूर्वमेव सौवीरराजेन पुत्रस्य अविमारके [i. 9.9— ९ कारणाद् दूतः प्रेषितः । स चास्माभिरतित्राला कन्येत्यपदेश मुक्त्वा सुपूजितो विसर्जितः । इदानीं तु काशिराजेन पुत्रस्य कारणाद् प्रेषितः । तत्र बलाबलचिन्तायां स्वामी प्रमाणम् । दूतः १२ राजा - सम्यगुक्तं कौञ्जायनेन । भूतिक ! सर्वराजमण्डलमपोह्य द्वयोः स्थापितयोः कं प्रति विशेषः । भूतिकः- न भृत्यदूषणीया राजानः, स्वामिनो हि स्वाम्यममात्यानाम् । १५ राजा - अलमुपचारेण । ब्रूहि को निश्चयः । भूतिकः - इदानीं तु न प्रत्याख्यातव्यम् । स्वामिन्! सौवीरराज- काशिराजौ स्वामिनो भगिनीपतित्वे तुल्यौ । अथ देव्या भ्राति १८ सौवीरेन्द्रो गुणाधिकः । राजा - न खलु भवानम्मत्सङ्कल्पानभिवादकः । भूतिकः - उभयथानुगृहीतोऽस्मि । २१ राजा - भोः ! किन्नुखलु सौवीरेन्द्रेण पुनर्न दूतसम्पातः क्रियते । भूतिकः- तत्रास्ति मे कश्चित् सन्देहः । सुष्ठु परीक्ष्य वक्ष्यामीति नोक्तवानस्मि । २४ राजा - ननु कुशली तत्रभवान् । भूतिकः - वदन्ति चारपुरुषाः- न दृश्यते तत्रभवान सपुत्रः कार्याण्यमात्याः किल वर्तयन्ति । न विद्यते कारणमत्र किवि- न्न लभ्यते राजकुलप्रवेशः ॥ १० ॥ राजा - भोः ! किन्नुखलु भवेदेतत् । कामाहतः कुमतिभिः सचिवैर्गृहीतो रोगातुरः स्वजनरागमवेक्षते वा । -i.12.2] प्रथमोऽङ्कः । शप्तो द्विजैर्व्रतमुपेत्य करोति शान्ति को वा भवेन्नरपतेर्गृहरोधहेतुः ॥ ११ ॥ शीघ्रं परीक्ष्यतामेष वृत्तान्तः । भूतिकः - यदाज्ञापयति स्वामी । राजा - कौञ्जायन ! किमिदानीं काशिराजदूतं प्रति कर्तव्यम् । कौआयनः एवं गते काशिराजदूतः पूजयितव्यः । विवाहा यथेष्टं साध्यन्ते । राजा - अहो कार्यमेवापेक्षते बुद्धिरमात्यानां न स्नेहम् । (नेपथ्य ) (निष्क्रान्ताः सर्वे । ) बहुमुखा जयतु स्वामी, जयतु महाराजः । दश नाळिका: पूर्णाः । भूतिकः - स्वामिन्! शेषमभ्यन्तरे चिन्तयिष्यामः । अतिक्रामति स्नानवेला । स्वामिदारिका चाश्वासयितव्या । महादेवी च चिरं प्रतीक्षते । महाजनोऽप्यस्मिन्नुपद्रवे स्वामिनं द्रष्टुमिच्छति । राजा - अहो महद्भारो राज्यं नाम । कुतः, धर्मः प्रागेव चिन्त्यः सचिवमतिगतिः प्रेक्षितव्या स्वबुद्धया प्रच्छाद्या रागशेषौ मृदुपरुषगुणौ कालयोगेन कार्यों । ज्ञेयं लोकानुवृत्तं परचरनयनैर्मण्डलं प्रेक्षितव्यं रक्ष्यो यत्नादिहात्मा रणशिरसि पुनः सोऽपि नावेक्षितव्यः ॥ १२ ॥ प्रथमोऽङ्कः । अविमारके अथ द्वितीयोऽङ्कः । (ततः प्रविशति विदूषकः ) ( ततः प्रविशति चेटी ) ३ विदूषकः - भो ! ण जाणन्ति अवत्थाविसेस इस्सरपुत्ता णाम । अदो तत्तभवं अविमारओ इसिसावेण कुळपरिब्भंसं अन्तअकुळप्पवासं अत्तणो विष्णाणं गुरुजणं च अचिन्तयन्तो जदा हत्थिसम्भमदि- ६ असे कुन्तिभोअदुहिआ कुरङ्गी दिट्ठा, तदप्पहुदि अण्णादिसो विअ संवुत्तो । ही ही किंबहुणा, मए वि सह गोट्ठि णेच्छदि, सञ्चआळं चिन्तअन्तो अहिरमदि । सचो खु लोअप्पवादो 'सङ्घआरिणो ९ अणत्थ 'ति । को एत्थ सम्बन्धो । सा राअदारिआ सअं अन्तजत्ति । अहं पि दाव बम्हणपरिवादं परिहरन्तो म्हण- कुळेसु परिब्भमि पच्छण्णो तत्तहोदो आवास एव्व गच्छामि । १२ [ भोः न जानन्त्यवस्थाविशेषमीश्वरपुत्रा नाम । अतस्तत्रभवान् अवि- मारकः ऋपिशापेन कुलपरिभ्रंशमन्त्यजकुलप्रत्रासमात्मनो विज्ञानं गुरु- जनं चाचिन्तयन् यदा हस्तिसम्भ्रमदिवसे कुन्तिभोजदुहिता कुरङ्गी दृष्टा, १५ तदाप्रभृत्यन्यादृश इव संवृत्तः । ही ही किं बहुना, मयापि सह गोष्टीं नेच्छति, सर्वकालं चिन्तयन्नभिरमते । सत्यः खलु लोकप्रवादः ' सङ्घ- चारिणोऽनर्था' इति । कोऽत्र सम्बन्धः । सा राजदारिका स्वयमन्त्यज १८ इति । अहमपि तावद् ब्राह्मणपरिवादं परिहरन् ब्राह्मणकुलेषु परिभ्रम्य प्रच्छन्नस्तत्रभवत आवासमेव गच्छामि । ] , २१ टी - एरिंस अवस्थापरिभट्ठे राअउळे अबहुकय्यदाए णअरं पेक्खिदुं णिग्गदम्हि । ( परिक्रम्यावलोक्य) अयि एसो अय्यस- न्तुट्ठो गच्छइ । होदु एदेण सह हसन्ती मुहुत्तअं णिव्वेदं वि- २४ णोदेमि । (उपसृत्योर्ध्वमवलोक्य) हळा कोमुदिए ! किं क्रुद्धो बम्हणो । 1. Ganapati Sāstri reads अन्तजत्ति ( पुच्छदि ? ). ii. 50 ] द्वितीयोऽङ्कः । किं भणासि ण भामि त्ति । [ एतस्मिन्नवस्थापरिभ्रष्टे राजकुलेऽब- हुकार्यतया नगरं प्रेक्षितुं निर्गतास्मि । अयि एप आर्यसन्तुष्टो गच्छति । २७ भवतु, एतेन सह हसन्ती मुहूर्तकं निर्वेदं विनोदयामि । हला ! कौ - मुदिके ! किं लब्धा ब्राह्मणः । किं भणसि- -न लभ इति । ] विदूषकः - चन्दिए ! किं एदं । [ चन्द्रिके ! किमेतत् । ] ३० चेटी - अय्य! कवि बम्हणं असामि । [ आर्य ! कञ्चिद् ब्राह्मण- मन्विष्यामि । ] विदूषकः - बम्हणेण किं करयं ! [ ब्राह्मणेन किं कार्यम् । ] ३३ चेटी - किमण्णं, भोअगत्थं णिमन्तेढुं । [ किमन्यद्, भोजनार्थ निम- न्त्रयितुम् । ] विदूषकः - भोदि ! अहं को, समणओ । [ भवति ! अहं कः, ३६ श्रमणकः । चेटी - तुवं किल अवेदिओ । [त्वं किलावैदिकः । ] विदूषकः - किस्स अहं अवेदिओ । सुगाहि दाव । अत्थि रामानं ३९ णाम णट्टसत्थं । तस्सिं पञ्च सुळोआ असम्पुण्णे संवच्छरे मए पठिदा । [ कस्मादहमवैदिकः । शृणु तावत् । अस्ति रामायण नाम नाट्यशास्त्रम् । तस्मिन् पञ्च श्लोका असम्पूर्ण संवत्सरे मया पठिताः । ] ४२ चेटी - जाणामि जाणामि । अय्यरस कुळोइदो ईदिसो मेधाविभावो । [ जानामि जानामि । आर्यस्य कुलोचित ईदृशो मेधाविभावः । ] विदूषकः - ण केवळं सुळोआ एव, तेसं अत्थो वि मुणिओ । ४५ अण्णं च । अवरो विसेसो, बम्हणो दुळहो अक्खरज्ञो अथ अ । [ न केवलं श्लोका एव तेषामर्थोऽपि ज्ञातः । अन्यच्च । अपरो विशेषः, ब्राह्मणो दुर्लभोऽक्षरज्ञोऽर्थज्ञश्व । ] ४८ चेटी - तेण हि भणाहि किं णाम एवं अक्खरं । ( नाममुद्रिकां दर्शयति ) [ तेन हि भण किं नामैतदक्षरम् । ] अविमारके [ ii. 52. विदूषकः - ( आत्मगतम्) अजाणमाणो किं भणिस्सं । ( विचार्य ) ५१ भोदु दिट्टं । एवं दाव भणिस्सं । ( प्रकाशम्) भोदि ! एदं अक्खरं मम पुत्थए णत्थि । [ अजानानः किं भणिष्यामि । भवतु दृष्टम् । एवं तावद् भणिप्यामि । भवति ! एतदक्षरं मम पुस्तके नास्ति । ] ५४ चेटी - जदि ण जाणासि, अदक्खिणं भुञ्जेहि । [ यदि न जानासि, अदक्षिणं भुङ्क्ष्व । ] विदूषकः- भादु भोदु । [ भवतु भवतु । ] ५७ चेटी - पेक्खामि दाव अय्यम्स अङ्गुळीअअं । [ पश्यामि तावदार्य- स्याङ्गुलीयकम् । ] विदूषकः - पेक्ख पेक्ख ममकेरअं दंसणीअं । [ पश्य पश्य मदीयं ६० दर्शनीयम् । ] चेटी - ( गृहीत्वा ) एसो भट्टिदारओ इदो एव आअच्छदि । [ एष भर्तृदारक इत एवागच्छति । ] ६३ विदूषकः- (परावृत्यावलोक्य) कहि कहिं तत्तभवं । [ कुत्र कुत्र तत्र- भवान् ] चेटी - विलोभिदो मुद्धबम्हणो । इमं जणसमूहं पविसिअ चउप्प- ६६ हमग्गे वाश्चअ गमिस्सं । (निष्क्रान्ता ) [ विलोभितो मुग्धब्राह्मणः । इमं जनसमूहं प्रविश्य चतुष्पथमार्गे वञ्चयित्वा गमिष्यामि । ] विदूषकः - ( सर्वतो विलोक्य) चन्दिए ! चन्दिए ! कहिं कहिं चन्दि- ६९ आ । हा वचिदो म्हि । गण्डभेददासीए सीळं जागन्तो वि अत्तणो भोगविस्सम्भेण छळिदो म्हि । ( परिक्रम्य ) भोअणं वि अळिअं चिन्तेमि । ( अग्रतो विलोक्य ) हन्त एसा धावइ । चिट्ठ चिट्ठ अ- ७२ धम्मिट्ठदासि ! चिट्ठ । किं धावइ एव । जाव अहं वि धावामि । ( धावति । ) मम पादा सिविणे हत्थिणा आसादिअमाणस्स चिअ तहिं तहिं एव पडन्ति । हन्त कुम्भदासीए वुत्तन्तं तत्तहोदो ii. 2. + ] द्वितीयोऽङ्कः । ०५ णिवेदइस्सं । [ चन्द्रके ! चन्द्रके ! कुत्र कुत्र चन्द्रिका । हा वञ्चितोऽ- स्मि । गण्डभेददास्याः शीलं जानन्नप्यात्मनो भोजनविस्त्रम्भेण च्छलि- तोऽस्मि । भोजनमप्यलीकं चिन्तयामि । हन्तैषा धावति । तिष्ठ तिष्ठ ७८ अधर्मिष्ठदासि ! तिष्ट । किं धावत्येव । यावदहमपि धावामि । मम पादौ स्वप्ने हस्तिनासाद्यमानस्येव तत्र तत्रैव पततः । हन्त कुम्भदास्या वृत्तान्तं तत्रभवते निवेदयिष्यामि । ] ८ १ अविमारक:- ( निष्क्रान्तः ) ( ततः प्रविशत्युपविष्टोऽविमारकः । ) प्रवेशकः । अद्याप हस्तिकरशीकरशीतलाङ्गीं बालां भयाकुलविलोलविषादनेत्राम् । म्वनेषु नित्यमुपलभ्य पुनर्विबोधे जातिस्मरः प्रथमजातिमिव स्मरामि ॥ १ ॥ अहो बलमनङ्गस्य । कुतः, दृष्टिस्तदाप्रभृति नेच्छति रूपमन्यद् बुद्धिः प्रहृष्यति विषीदति च म्मरन्ती । पाण्डुत्वमेति वदनं तनुतां शरीरं शोकं व्रजामि दिवसेषु निशासु मोहम् ॥ २ । अथवा अयुक्तमधृतित्वं पुरुषाणाम् । सङ्कल्पमानो हि विजृम्भते मदनः । तस्मादहमिदानीं न सङ्कल्पयामि । (स्मृत्वा ) अहो तस्या ३ रुपसम्पद्, रूपानुरूपं यौवनं, यौवनसदृशं सौकुमार्यम् अत्र हि, प्र. यो. ५ i अविमारके प्रतिच्छन्दं धात्रा युवतिवपुषां किन्नु रचितं गता वा स्त्रीरूपं कथमपि च ताराधिपरुचिः । विहाय श्रीः कृष्णं जलशयनसुप्तं कृतभया [ ii. 3- धृतान्यस्त्रीरूपं क्षितिपतिगृहे वा निवसति ॥ ३॥ कथमहं पुनरारब्धश्चिन्तयितुम् । किमिदानीं करिष्ये । मनश्व तावदस्मदिच्छया न प्रवर्तते । इह हि, प्रतिषिद्धं प्रयत्नेन क्षणमात्रं न वीक्षते । चिराभ्यस्तपथं याति शास्त्र दुर्गुणितं यथा ॥ ४ ॥ अथवा न शक्यं मनो जेतुम् । चिन्तयिष्याम्येनाम् । अहो सर्वेषां गुणानामेकत्र समवायः । ( चिन्ताभिभूत उपविशति ) ( ततः प्रविशति धात्री नलिनिका च । ) धात्री - ( सवितर्कम् ) अहो सङ्कडदा कय्यम्स । जइ एवं करीअदि, अउ दूसिअं होइ । जदि ण करीअदि, अवस्सं सा विवज्जइ । ६ मए अणेएहि उवाएहि विआरिदं च । मम विसा अज्ज वि पच्छादि । अव किं ताए पच्छादिदं । सा तदप्पहृदि सुमणा- वण्णअं णेच्छदि, आहारं णाभिळसदि, ण रमदि गोट्ठीजणेण, ९ दिग्घं णिस्ससदि, असम्बद्धं कहेदि, कहिदं ण जाणादि, गूढ़ हसदि, विवित्ते रोदिदि, रोअं अवदिसदि, तणुआ होदि, पण्डुभावं गच्छदि । एकं पि तहिं अच्छरिअं । एवंविधेहि १२ अवत्थाविसेसेहि अत्तणो लज्जाए भएण कुळमाणेण बाळभावेण अ एकम्सा वि किचि ण मन्तेदि । [ अहो सङ्कटता कार्यस्य । यद्येवं क्रियते, राजकुलं दूषितं भवति । यदि न क्रियतेऽवश्यं सा ११.५. विपद्यते । मयानेकैरुपायैर्विचारितं च । ममापि साद्यापि प्रच्छादयति । अथवा किं तया प्रच्छादितम् । सा तदाप्रभृति सुमनावर्णकं नेच्छति, १ 'अआरणं णि '. ii. 5.] ! द्वितीयोऽङ्कः । आहारं नाभिलपति, न रमते गोष्टीजनेन, दीर्घं निःश्वसिति असम्बर्द्ध १८ कथयति, कथितं न जानाति, गूढं हसति, विविक्ते रोदिति, रोगमप- दिशति, तन्वी भवति, पाण्डुभावं गच्छति । एकमपि तत्राश्चर्यम् । एवंविधैरवस्थाविशेषैरात्मनो लज्जया भयेन कुलमानेन बालभावेन च २१ एकस्या अपि किञ्चिन्न मन्त्रयते । ] नलिनिका - किस्स णमन्तेदि । मम सव्वं कहेदि । [ कस्मान्न मन्त्रयते । मम सर्वं कथयति । ] २४ धात्री - हळा ! जाणामि दे अभिप्पाअं, अवत्थं जाणि सव्वा इमं पण जाहि त्ति । [ हला ! जानामि तेऽभिप्रायम्, अवस्थां ज्ञात्वा सर्वथेमामतेन योजयेति । ] २७ नलिनिका- किंणुखु ईदिसो तादिसेहि गुणविस सेहि अकुळीणो भवे । [ किन्नुखल्वीदृशस्तादृशैर्गुणविशेषैर कुलीनो भवेत् । ] धात्री - तहिं च सन्देहो । सुदं च मए भट्टिणीए समीवे अमहि ३०. किन भणिदं ण सो तादिसो दुक्खुळजो त्ति । अत्ताणं केण वि ( नेपथ्ये ) कारणेण पच्छादेदिति । [ तत्र च सन्देहः । श्रुतं च मया भट्टिन्याः समीपेऽमात्यैः किल भणितं न स तादृश: दुष्कुलज इति । आत्मानं २३ केनापि कारणेन प्रच्छादयतीति । ] : नलिनिका- कोखु भवे । [ कोनुखलु भवेत् । ] धात्री - जदि सो सन्देहो गत्थि, को अण्णो अदिरित्तगुणो जामा- ३६ दुओ भवे । [ यदि स सन्देहो नास्ति, कोऽन्योऽतिरिक्तगुणो जामाता भवेत् । ] 1 यदि च विभवरूपज्ञानसत्त्वादयः म्यु- कुलविलानां वर्तते वृत्तशुद्धिः । ध्रुवमिह कुलमस्य श्रोष्यसि प्राप्तकाले त्यज कुलगतशङ्कां साध्यतां स्वन्तमेतत् ॥ ५ ॥ अविमारके [ ii. 5. ' धात्री - ला ! केण खु भणिदं । [ हला ! केन खलु भणितम् । ] नलिनिका - एत्थ को विण दिस्सदि । [ अत्र कोऽपि न दृश्यते । ] ३ धात्री - पहिरोमकूवं मे सरीरं । असंसअं दवेण भणिदं । अहं पुण जाणामिण एसो केवळ माणुसत्ति । [ प्रहृष्टरोमकूपं मे शरीरम् । असंशयं दैवेन भणितम् । अहं पुनर्जानामि नैप केवलो मानुष इति । ] ६ नलिनिका - गढ़ो तरस कुळसन्देहो । अम्हाणं वअणं करेदि ण करेदित्ति चिन्तेमि । ( विचिन्त्य ) धण्णो खु सो जणो इमं एवं उम्मादेदि । किं बहुणा. सअं कामदेवो वि भट्टिदारिआए रूवं ९ पेक्खि किळिम्सिदि । तेण सो वि किलिस्सिदि ति तक्केमि । [गतस्तस्य कुलसन्देहः । अस्माकं वचनं करोति न करोतीति चिन्तयामि । धन्यः खलु स जन इममेवमुन्मादयति । किं बहुना स्वयं काम- १२ देवोऽपि भर्तृदारिकाया रूपं प्रेक्ष्य क्लिश्यते । तेन सोऽपि क्लिश्यत इति तर्कयामि । ] धात्री - हळा ! एसो तम्स आवासो, जं तदा हत्थिसम्भमदिअसे १५ कोहळेण आअदम्ह । [ हला ! एप तस्यावासः; यं तदा हस्ति सम्भ्रमदिवसे कौतूहले नागते स्वः । ] नलिनिका - हळा ! अहो दस्सणीअं किदोवहारं च दुवारमुहं । १८ हळा ! एहि पविसामो । [हला ! अहो दर्शनीयं कृतोपहारं च द्वार- मुखम् । हला ! एहि प्रविशावः । ] धात्री - हळा ! कहिं भट्टिदारओ । किं भणासि - चउरसाळे वत्तदि २१ त्ति । ( परिक्रम्यावलोक्य) अअं अम्हाणं भट्टिदारओ एको एव किं विचिन्तन्तो चिट्ठ । [ हला ! कुत्र भर्तृदारकः । किं भणसि- चतुःशाले वर्तत इति । अयमस्माकं भर्तृदारक एक एव किमपि २४ चिन्तयंस्तिष्ठति । ] १' कोचि ण '. -ii. 6.] द्वितीयोऽङ्कः । नलिनका - हळा ! णं पविसामो । [ हला ! ननु प्रविशावः । ] धात्री एवं करम्ह । ( प्रविश्य ) सुहं अय्यम्स । [ एवं कुर्वः । २७ सुखमार्यस्य । ] अविमारकः - अहो तस्या रूपसम्पन् । धात्री - ( साकुलम् ) किष्णुहु भवे । सुहं अय्यम्स । [ किन्नु खलु ३० भवेत् । सुखमार्यस्य । ] अविमारक:- उर: स्तनतटालसं जघनभारखिन्ना तनुः धात्री - अम्मो विप्पळवदि । [ अम्मो विप्रलपति । ] अविमारक:- मुखं नयनवल्लभं प्रकृतिताम्रबिम्बाधरम् । धात्री - धण्णो खु सांजणो इमं एवं उम्मादेदि । [ धन्यः खलु म जन इममेवमुन्मादयति । ] अविमारक:- भयेऽपि यदि तादृशं नयनपात्र पेयं वपुः धात्री - सुत्थिदं कयं । [ सुस्थितं कार्यम् । ] अविमारक:- कथन्नु सुरतान्तरप्रचुरविभ्रमं तद् भवेन् ॥ ६ । धात्री - सा एव इमं उम्मादेदि । [ सैवेममुन्मादयति । ] नलिनिका-मुट्टु भणिदं-एसो वि किलिम्सिदित्ति । [ सुष्ठु भणितम्- ३ एषोऽपि क्लिश्यत इति । ] धात्री - सुट्टु विज्ञादं तुए । सुहं अय्यम्स । [ सुष्ठु विज्ञातं त्वया । सुखमार्यस्य । ] ६ अविमारकः - ( विलोक्य सत्रीडम) स्वागतं भवतीभ्याम् । उभे-अवि सुहं । [ अपि सुखम् । ] अविमारके अविमारकः- भविष्यति वां दर्शनेन । [ii. 6. — ९ धात्री - अय्य! किं चिन्तीअदि । [ आर्य ! किं चिन्त्यते । ] अविमारकः - भवति ! शास्त्रं चिन्त्यते । धात्री - किं णाम एदं रमणीअं सत्यं विवित्थे चिन्तीआदि । [ किं १२ नामैतद् रमणीयं शास्त्रं विविक्ते चिन्त्यते । ] अविमारकः - भवति ! योगशास्त्रं चिन्त्यते । धात्री - ( सस्मितम् ) पडिग्गहिदं मङ्गळवअगं जोअसत्थं एव १५ होदु । [ प्रतिगृहीतं मङ्गलवचनम् । योगशास्त्रमेव भवतु । ] अविमारक:- ( आत्मगतम् ) कोनुखलु वाक्यार्थः । अन्यदप्यभि- लापवशादन्यथा सङ्कल्पयामि । ( प्रकाशम ) किमभिप्रेतं भवत्याः १८ धात्री - जोअं इच्छन्तीओ आअदम्ह । अणुमदो अय्येण जोओ ति गिट्टिदं कयं अम्हा राअउळे विवित्ते अवआसे । तहिं पि को वि जो अहिअदरं जोअं चिन्तअन्तो अच्छदि । तेण सह २१ तहिं एव अय्येण सुहु जोअविहाणं चिन्तीअदु न्ति । [ योगमि च्छन्त्यावागते स्वः । अनुमत आर्येण योग इति ननु निष्ठितं कार्य मस्माकं राजकुले विविक्त अवकासे । तत्रापि कोऽपि जनोऽधिकतरं योग २४ चिन्तयन्नस्ति । तेन सह तत्रैवायेंण सुष्ठु योगविधानं चिन्त्यतामिति ।] अविमारकः- कथमद्यापि सावशेषाणि मे भाग्यानि । (आसनादुत्थाय ) भवति ! पुनर्दत्ता इव मे प्राणाः । कुतः, तम्या भयाकुलित दृष्टिविपं मनोज्ञं १ आवासे. सौम्यप्रकारमतितीक्ष्णमवेक्ष्य वक्त्रम् । उन्मादमभ्युपगतोऽम्मि चिरं भवत्यो- र्वाक्यामृतेन पुनराकृतः ससंज्ञः ॥ ७ ॥ २ पुनर्भवत्या. ii. 8.3 ] द्वितीयोऽङ्कः । धात्री - दिट्टिआ अय्येण परिपाळिदो अअं जणो । अक्रम दिप्प- सङ्गेण । अज्ज एव पविसिदव्वं कण्णाउरं । अमचो अग्यभूदिओ ३ कण्णाउररक्खओ कासिराअदृदेण सह अम्हाअं महाराएण पूइदो पत्थिदो अ । [ दिष्टायेंण परिपालितोऽयं जनः । अलमतिप्रसङ्गेन । अद्यैव प्रवेष्टव्यं कन्यापुरम् । अमात्य आर्यभूतिकः कन्यापुररक्षक: ६ काशिराजदूतेन सहास्माकं महाराजेन पूजितः प्रस्थितश्च । ] अविमारकः- बाढम् । प्रथमः कल्पः । भवति ! कस्तावदौषधमुप- लभ्य मन्दीभवत्यातुरः । : ९ धात्री - पवेसमत्तं एव्व दुळहं । सक्कं अब्भन्तरे चिरं वसिदुं । [ प्रवेशमात्रमेत्र दुर्लभम् । शक्यमभ्यन्तरे चिरं वस्तुम् । ] अविमारकः - प्रविष्ट एवाहं चिन्तयितव्यः । क्रियतामनर्गलविशाला १२ प्रासादमाला । धात्री - एवं करेम्ह । सव्वं अव्भन्तरकरणीअं संपादेम्ह । अप्प- मत्त एव पविसदु अय्यो । [ एवं कुर्वः । सर्वमभ्यन्तरकरणीयं १५ संपादयावः । अप्रमत्त एव प्रविशत्वार्य: । ] अविमारकः - भवति ! सकृदभिधीयतां राजकुलस्य विधानम् । धात्री एवं विअ । [ एवमिव । ] १८ अविमारकः - हन्त भोः ! श्रुत्वा तु राज्ञो गृहसंविधानं प्रविष्टमात्मानमवैति बुद्धिः । न पौरुषं वै परदूषणीयं न चेद् विसंवादमुपैति दैवम् ॥ ८ ॥ ( विचिन्त्य ) भवति ! कोऽस्माकमस्मिन् कार्ये प्रत्ययः । उभे-अअं पञ्चओ । जेदु भट्टिदारओ । [ अयं प्रत्ययः । जयतु ३ भर्तृदारकः । ] अविमार के [ii. 8. - अविमारकः-हन्त गम्यतां सम्प्रति । प्रतीक्ष्यतामर्धरात्रम् । उभे-जं भट्टिदारओ आणवेदि (निष्क्रान्ते ) [ यद भर्तृदारक ६ आज्ञापयति । ] ( ततः प्रविशति विदूषकः । ) विदूषक:- अहो अरस्स सोहा संपदि । अत्थं आसादिदा ९ अवं सुय्यो दीसइ दहिपिण्डपण्डरेमु पासामु अग्गापणा- ळिन्देसु पसारिअगुळम हुरसङ्गदो विअ । गणिआजणां अरिअजणो अ अण्णोष्णविसेसमण्डिढ़ा अत्ताणं दंसइदु- १२ कामा तेसु तेसु पासादेसु सविभमं सञ्चरन्ति । अहं तु तादि- साणि पोक्खअ उम्मादिअमाणम्स तत्तहोदो रत्तिसहाओ होमित्ति अरादो णिग्गदो म्हि । सो वि दाव अम्हाअं अधष्णदाए केण वि ४५ अणत्थसचिन्तणेण अण्णादिसां विअ संवृत्तो । एदं तत्तहोदो आवासहिं । अज्ज अरापणाळिन्दे सुणामि तत्तहोदो गिहादो णिग्गदा राजदारिआए धत्ती सही अत्ति । किंणुखु एत्थ कयं । १८ अहव हस्थिहत्थचञ्चलाणि पुरुसभग्गाणि होन्ति । अह्व गच्छदु अणत्थो अम्हाअं । अवत्थासादिमं राअउ पविसामि । ( प्रविश्य) ही ही एसो अत्तभवं कामुअजणवण्णण अणुळित्तो विअ पण्डु- २१ भावेण इदो एव आअच्छदि । अव सवं अलङ्कारो होदि सुरूवाणं । ( उपेत्य ) जेदु भवं । [ अहो नगरस्य शोभा सम्प्रति । अस्तमासादितो भगवान् सूर्यो दृश्यते दधिपिण्डपाण्डरेषु प्रासादेष्व- २४ प्रापणालिन्देषु प्रसारितगुलमधुरसङ्गत इव । गणिकाजनो नागरिकजन- श्वान्योन्यविशेषमण्डितावात्मानं दर्शयितुकामौ तेषु तेषु प्रासादेषु सविभ्रमं संचरतः । अहं तु तादृशानि प्रेक्ष्योन्माद्यतस्तत्रभवतो रात्रिसहायो २७ भवामीति नगरान्निर्गतोऽस्मि । सोऽपि तावदस्माकमधन्यतया केनाप्य- नर्थसंचिन्तनेनान्यादृश इव संवृत्तः । एतत् तत्रभवत आवासगृहम् । -ii. 8.3] द्वितीयोऽङ्कः । अथ नगरापणालिन्दे शृणोमि तत्रभवतो गृहान्निर्गता राजदारिकाया ३० धात्री सखी चेति । किंनुखल्वत्र कार्यम् । अथवा हस्तिहस्तचञ्चलानि पुरुषभाग्यानि भवन्ति । अथवा गच्छत्वनर्थोऽस्माकम् । अवस्थासदृशं राजकुलं प्रविशामि । ही ही एषोऽत्रभवान् कामुकजनवर्णकनानुलिप्स इव ३३ पाण्डुभावेनेत एवागच्छति । अथवा सर्वमलङ्कारो भवति सुरूपाणाम् । जयतु भवान् । ] T अविमारकः - वयम्य ! अतिविलम्बितमिव भवता नगरे । ३६ विदूषकः - तुमं दाव आमन्तणविप्पळद्धां विअ ब्रम्हणो अहोरत्तं चिन्तेसि । अहं पि दाव दिअसे अरं परिव्भमिअ अलद्धभोआ पाअडगणिआ विअ रत्तिं पम्सदो सइदं आअच्छामि । [ स्वं ३९ तावदामन्त्रणविप्रलब्ध इव ब्राह्मणोऽहोरात्रं चिन्तयमि । अहमपि तावद् दिवसे नगरं परिभ्रम्यालब्धभोगा प्राकृतगणिकेव रात्रौ पार्श्वतः शयितुमागच्छामि । ] ४२ अविमारकः - सखे ! प्रियं ते कथयिष्यामि । विदूषकः - किं ममत्त अम्हाअं इसिमावो । [ किं समाप्तोऽस्माकमृ- पिशापः । ] ४५ अविमारकः - मूर्ख ! अवश्यं भवितव्येऽर्थे कः प्रहर्षः । विदूषक:- किं पुण अणं । [ किं पुनरन्यत् । ] अविमारक:- किं न दृष्टा कुरङ्गया धात्री नलिनिका च । ४८ विदूषकः - आम भो ! दिट्ठाओ तत्तहोदीओ । किं आणीदं । [ आम भोः ! दृष्टे तत्रभवत्यौ । किमानीतम् । ] अविमारक:- अम्मच्छोकौषधमानीतम् । ५४ विदूषकः - पेक्खामि दाव । [ पश्यामि तावत् । ] अविमारकः-काले द्रक्ष्यसि । अद्य तावच्छ्रूयताम् विदूषकः-भणादु भणादु भवं । [ भणतु भणतु भवान् । ] अविमारके [ ii. 8.54 – ५४ अविमारक:- किं बहुना । तत्रभवती ब्रवीति अद्यैव प्रवेष्टव्यं कन्या- पुरमिति । विदूषकः - ( विहस्य ) केण खु उवाएण अव्भन्तरं पविसिअ जीव- ५७ ग्गहणं पत्तुकामोऽसि । अमचा णाम विसमसीळा कुन्तिभो- अस्स । [ केन खलूपायेनाभ्यन्तरं प्रविश्य जीवग्रहणं प्राप्तुकामोऽसि । अमात्या नाम विपमशीला : कुंतिभोजस्य । ] ६. अविमारक:- कथं भवतापि शङ्कनीयम् । पश्य, भग्ना मयैकेन पराः ससैन्या अद्यापि गन्धेन न संश्रयन्ते । किं मानुषैः सोऽप्यसुरेश्वरो मे हतो भुजाभ्यामविरूपधारी ॥ ९ ॥ विदूषकः - जाणामि जाणामि भवदो अमाणुसाणि कम्माणि । सव्वा सङ्कणीओ रत्तिच्छण्णो परगिहप्पवेसो । [ जानामि ३ जानामि भवतोऽमानुषाणि कर्माणि । सर्वथा शङ्कनीयो रात्रिच्छन्नः परगृहप्रवेश: । ] अविमारकः-एष समासः । सर्वथा प्रवेष्टव्यं कुन्तिभोजस्य कन्या- ६ पुरम् । तदनुमन्तुमर्हति महाब्राह्मणः । विदूषकः - कहं मं उज्झिअ गच्छसि । अहं भवन्तं सव्वकाळं ग मुचामि । अक्कोसन्तो वि एको इच्छिदुव्वो । [ कथं मामुज्झित्वा ९ गच्छसि । अहं भवन्तं सर्वकालं न मुञ्चामि । आक्रोशन्नध्येक एष्टव्यः । ] अविमारक:-न जानाति भवान् शास्त्रमार्गम् । एकः परगृहं गच्छेद् द्वितीयेन तु मन्त्रयेत् । बहुभिः समरं कुर्यादित्ययं शास्त्रनिर्णयः ॥ १० ॥ —ii. 12. ] द्वितीयोऽङ्कः । तस्मादेकेनैव मया प्रवेष्टव्यं कुन्तिभोजम्य कन्यापुरम् । न ते वयं शङ्कनीयाः । पश्यतु भवान्, मितगुणमिह कुन्तिभांज सैन्यं नृपभवनं विभवैः सुखं प्रवेष्टुम् । वयमपि च भुजायुधप्रधानाः किमिह सखे ! भवतापि शङ्कनीयाः ॥ ११ । विदूषकः - जइ एवं किदो णिचओ, संपदि अरं पविसामो । तहिं मम अत्थिमित्तो । तस्स आवासे काळं पडिवाळम्ह । [ यद्येवं ३ कृतो निश्वयः संप्रति नगरं प्रविशावः । तत्र ममास्ति मित्रम् । तस्या- वासे कालं प्रतिपालयावः । ] अविमारकः - सम्यग् भवानाह । साम्प्रतमभ्यन्तरं प्रविश्य कृता- ६ ह्निको महाराजेनाभ्यनुज्ञातो वासगृहे शयनसंविधानं प्रविश्याज्ञातो नगरं प्रविश्य भवतो मित्रगृहे कालं प्रतिपालयामि । ( प्रविश्य ) ९ चेटी - जेदु भट्टिदार आवृत्तं हाणोदअं । [ जयतु भर्तृदारकः । आवृत्तं स्नानोदकम् । ] अविमारक:-अयमयमागच्छामि । गच्छाग्रतः । १२ चेटी - जं भट्टिदारओ आणवेदि । (निष्क्रान्ता ) [ यद् भर्तृदारक आज्ञापयति । ] अविमारकः - वयस्य ! अस्तमितो भगवान् दिवाकरः । सम्प्रति हि- पूर्वा तु काष्ठा तिमिरानुलिप्ता सन्ध्यारुणा भाति च पश्चिमाशा । द्विधा विभक्तान्तरमन्तरिक्षं यात्यर्धनारीश्वर रूपशोभाम् ॥ १२ ॥ विदूषकः- सुट्टु अविमारके [ii. 12. -- भवं भणादि । अदिकन्दो दिअसो । आरूढो ओसो । [ सुष्ठु भवान् भणति । अतिक्रान्तो दिवसः । आरूढः ३ प्रदोषः । ] अविमारक:- अहो विचित्रस्वभावता जगतः । कुतः । व्यामृष्टसूर्यतिmको वितताडुमालो नष्टातपो मृदुमनोहरशीतवातः । संलीनकामुकजनः प्रविकीर्णशूरो वेषान्तरं रचयतीव मनुष्यलोकः ॥ १३ ॥ ( निष्क्रान्ती ) ( ततः प्रविशति कुरङ्गी चेट्यौ च ) द्वितीयोऽङ्कः । अथ तृतीयोऽङ्कः । ३ कुरङ्गी -हळा ! किं तेण भणिअं । [ हला ! किं तेन भणितम् । ] चेटी - भट्टिदारिए ! केण । [ भतृहारिके ! केन । ] कुरङ्गी - ( स्वगतम् ) हं भिन्दामि खु मन्दभाआ । ( प्रकाशम ) ६ कण्णेउरचेडे । [ हं भिनद्मि खलु मन्दभागा । कन्यापुरचेटेन । ] मागधिका - दिट्ठी मए कणेडरचेडो । भणिदं च । ण किञ्चि आह । [ दृष्टो मया कन्यापुरचेटः । भणितं च । न किञ्चिदाह । ] ९ कुरङ्गी - हन्त भट्टिणीए णिवेदेमि कण्णेडरचेडो मम सुपञ्जरं ण करेदि ति [ हन्त भट्टिन्यै निवेदयामि - कन्यापुरचेटो मम शुक- पञ्जरं न करोतीति । ] १२ मागधिका-णं णिट्टिदो सुअपञ्जरो भट्टिदारिए । [ ननु निष्ठितः शुकपञ्जरो भर्तृदारिकायाः । ] -iii.] तृतीयोऽङ्कः । कुरजी - वाचाडे ! किं अण्णो वि अत्थि । [ वाचाटे ! किमन्योऽ- १५ प्यस्ति । ] मागधिका - भोवं । [ भवितव्यम् । ] कुरङ्गी - हळा ! का वेळा । [ हला ! का वेला । ] १८ मागधिका - ओगाहो पओसो । [ अवगाढः प्रदोषः । ] कुरी - तेण हि पासा आळुहामां । [ तेन हि प्रासादमारोहामः । ] मागधिका - विळासिणि ! अग्गदो जाहि । विरहि सअणासणाणि । २१ [ विलासिनि ! अग्रतो याहि । विरचय शयनासनानि । ] विलासिनी - मुत्ता खु तुवं । को काळो विरइदाणि सअणासणाणि । [ सुप्ता खलु स्वम् । कः कालो विरचितानि शयनासनानि । ] २४ मागधिका - हळा ! जाणामि दे अळसत्तणं । दिवसरइदाणि भणासि राणिति । [ हला ! जानामि तेऽलसत्वम् । दिवस- रचितानि भणसि रचितानीति । ] २७ विलासिनी-हळा ! मा एवं भणाहि । भट्टिदारिअं अन्तरेण अण्णादिसाणि होन्ति । [ हला ! मैवं भण । भर्तृदारिकामन्तरेणान्या- शानि भवन्ति । ] ३० मागधिका - हळा ! गदुअ जाणामि [हला ! गत्वा जानामि । ] ( सर्वाः परिक्रामन्ति । ) मागधिका-एसो पासादो । [ एष प्रासादः । ] ३३ कुरनी - अग्गदो जाहि । ( आरोहणं नाटयति । ) [ अग्रतो याहि । ] मागधिका- साहु विळासिणि ! साहु । अत्तणो णामसदिसं किटं । एदस्सि सिळादळे रइदं सअणं । [ साधु विलासिनि ! साधु । ३९ आत्मनो नामसदृशं कृतम् । एतस्मिन् शिलातले रचितं शयनम् । ] विलासिनी - अब्भन्तरमण्डवे खु रइदं सअणं । मागधिए ! पेक्ख पेक्ख मे अळसत्तणं । [ अभ्यन्तरमण्डपे खलु रचितं शयनम् । मागधिके ! ४२ पश्य पश्य मेऽलसत्वम् । ] ! अविमारके [ iii._ मागधिका-अपिण्डदा खु संवृत्ता । एवं पण्डित चेडवुत्तं भत्तारं भेहि । [ अतिपण्डिता खलु संवृत्ता । एवं पण्डितचेटवृत्तं भर्तारं ४५ लभस्व । ] कुरजी -हळा ! इमस्सि सिकादळे मुहुत्त उवविसामि । [हला ! अस्मिन् शिलातले मुहूर्तकमुपविशामि । ] ४८ मागधिका-जं भट्टिदारिआए मइदं । होदु । [ यद् भर्तृदारिकायै 1 रुचितम् । भवतु । ] ( सर्वा उपविशन्ति ) ५१ मागधिका - भट्टिदारिए ! कमि वक्वाणं । [ भर्तृहारिके ! कथ- यामि व्याख्यानम् । ] कुरजी -हळा ! जाणामि हे असम्बद्धप्पळावं । [ हला ! जानामि ६४ तेऽसंबद्धप्रलापम् । ] 'मागधिका - भट्टिदारिए ! अभिगवा खु कहा । [ भर्तृदारिके ! अभिनवा वलु कथा । ] ५७ कुरङ्गी - याचेमि, माणिव्बन्धिअ, मुहत्तअं मआमि । [ याचे, मा निर्बंध्य, मुहूर्तकं शये । ] 1 विलासिनी - सुहं सइदु भट्टिदारिआ । मे कहहि । [ सुखं शेतां ६० भर्तृदारिका । मम कथय । ] कुरङ्गी - ( आत्मगतम् ) किंणुखु भवे । [ किंनुखलु भवेत् । ] !! मागधिका - हुळा ! सुणाहि भट्टिदारिअं अन्तरेण । [ हला ! श्रृणु ६ ३ भर्तृदरिकामन्तरेण । ] कुरजी - हं विदिदं रहसं । परिभटुम्हि । [ हैं विदितं रहस्यम् । परिभ्रष्टास्मि । ] '६६ विलासिनी -हळा ! कहिं तुए सुदं । [ हला ! कुत्र त्वया श्रुतम् । ] ! मागधिका - भट्टिणीपरिचारिआए वसुमित्ताए कहिढं । [ भट्टिनी- परिचारिकया वसुमित्रया कथितम् । ] .२६ iii." ] तृतीयोऽङ्कः । ६९ विलासिनी - सअं णाम भट्टिणीए कहिदं होदि । [ स्वयं भट्टिन्या कथितं भवति । ] नाम मागधिका-अत्थि कासिराअपुत्तो जअवम्मा णाम । तस्स दिण्णा ७२ भट्टिदारिआ । तस्स अ दूदो आउदो महाराएण पूइदो । पडि- ग्गहिदं च वणिआरं । [ अस्ति काशिराजपुत्रो जयवर्मा नाम । तस्मै दत्ता भर्तृदारिका । तस्य च दूत आगतो महाराजेन पूजितः । प्रति- ७५ गृहीतं च वर्णिकारम् । ] कुरजी - ( आत्मगतम् ) एवं अळिअं । अहं अत्तणो भवामि । [ एतदलीकम् । अहमात्मनः प्रभवामि । ] ७८ मागधिका - तहिं किल भट्टिणीए भणिदं - बाळा खु मे दुहिआ, सक्कुणोमि एकं पि दिअसं अपेक्खन्ती जीविउँ । जदि मे महाराओ पसण्णो, एत्थ एव्व जामादुओ आणीव्वो त्ति । ८१ [ तत्र किल भट्टिन्या भणितं - बाला ग्वलु मे दुहिता, न शक्नोम्येकमपि दिवसमपश्यन्ती जीवितुम् । यदि मे महाराजः प्रसन्नः, अत्रैव जामाता- 1 1 'व्य इति । ] ८४ विलासिनी - तदा तदो । [ ततस्ततः । ] मागधिका - तो तं पि किळ अणुमदं महाराएण । अज्ज गक्खत्तं सोभणं त्ति तेण अ दूदेण अमचो अय्यभूदिओ पत्थिदो। [ तत ८७ स्तदपि किलानुमतं महाराजेन । अद्य नक्षत्रं शोभनमिति तेन च दूतेना- मात्य आर्यभूतिकः प्रस्थितः । ] कुरजी - (स्वगतम् ) हन्त काळन्तरिदं कय्यं । [ हन्त कालान्तरितं ९० कार्यम् । ] विलासिनी - पिअं भट्टिदारिआए रूवजोव्वणं सफळं संवुक्तं त्ति । [ प्रियं भर्तृदारिकाया रूपयौवनं सफलं संवृत्तमिति । ] अविमारके ( प्रविश्य ) [ iii. 3 नलिनिका - भणिः हि मम मादाए-गच्छ एवं वुत्तन्तं भट्टिदारि- आए कहि । पिअणिवेदिअमाणाणि पिआणि पिअदराणि ९६ होन्ति । अह अ सा वि मं पेक्खन्ती सव्वं विम्सत्यं ण भणादि । अहं पि काले पम्सो पभवामि त्ति । जाव भट्टिदारिआए पिअं वेदे । ( परिक्रामति ) [ भणितं हि मम मात्रा - गच्छेतं वृत्तान्तं १९ भर्तृदारिकायै कथय । प्रियनिवेद्यमानानि प्रियाणि प्रियतराणि भवन्ति । अथ च सापि मां पश्यन्ती सर्व विश्वस्तं न भणति । अहमपि काले पार्श्वतः प्रभवामीति यावद भर्तृदारिकायै प्रियं निवेदयामि । ] १०२ कुरी - कोणुखु अभूदपूवो रोओ चिन्तिअमाणो मं उम्मादेदि । सुमणावण्णअं णेच्छदि । ण तुस्सदि गोट्ठीए । इदं एत्थ दारुणं मनोहरं च । (निःश्वस्य ) गळिणिए ! किं एदं । [कोनुखल्वभूतपूर्वो १०५ रोगश्चिन्त्यमानो मामुन्मादयति । सुमनावर्णकं नेच्छति । न तुष्यति गोष्ठया । इदमत्र दारुणं मनोहरं च । नलिनिके ! किमेतत् । ] मागधिका - भट्टिदारिए ! माअधिआ ख़ु अहं । [ भर्तृदारिके ! १०८ मागधिका खल्वहम् । ] विलासिनी - भट्टिदारिए ! विलासिणी खु अहं । [ भर्तृदारिके ! विलासिनी खल्वहम् । ] १११ नलिनिका - ( उपगम्य ) भट्टिदारिए ! अहं णळिणिआ । सोवाण- सण खु भट्टिदारिआए विज्ञादं । भट्टिदारिए ! भट्टिणी भणादि । [ भर्तृदारिके ! अहं नलिनिका। सोपानशब्देन खलु भर्तृदारिकया ११४ विज्ञातम् । भर्तृदारिके ! भट्टिनी भणति । ] कुरङ्गी - किंत्ति । [ किमिति । ] नलिनका - ( कर्णे ) एवं विअ । [ एवमिव । ] ११७ कुरजी - हैं हीणं चारितं । [ हं हीनं चारित्रम् । ] iii. 142 ] तृतीयोऽङ्कः । नलिनिका-णं सम्भावणीओ एसो । णं सो एव सो। [ ननु संभावनीय एषः । ननु स एव सः । ] १२० कुरमी - णळिणिए ! संवाहेहि मं । [ नलिनिके ! संवाहय माम् । ] नलिनिका-जं भट्टिदारिआ आणवेदि । [ यद भर्तृदारिकाज्ञापयति । ] विलासिनी - णळिलिए ! विवाहो कदा भविस्सिदि । [ नलिनिके ! १२३ विवाहः कदा भविष्यति । ] अद्य । १२६ नलिनिका - चिरं जीव । ( नेपथ्य ) ( नेपथ्य ) राजपुरुषाः ! अमात्यः प्रस्थित इति कश्चिदमात्यभृत्यः कन्यापु- * २९ ररक्षणार्थं नाभ्यागतः । तद् यथेष्टं भवतु । तावदहं श्रो गज्ञो निवेदयिष्यामि । विलासिनी-हळा गळिणिए ! किं भणिदं । [ हला नलिनिके ! किं १३२ भणितम् । ] नलिनिका-जढ़ा सो भट्टिदारओ पविसदि, तदा होदि विवाहों । [ यदा स भर्तृदारकः प्रविशति, तदा भवति विवाह: । ] ५३५ विलासिनी - अविग्घेण पविसदु । [ अविघ्नेन प्रविशतु । ] नलिनिका - एवं होदु । [ एवं भवतु ] मागधिका - हळा ! एहि चउरसाळे उपविसामो । [ हला ! एहि ३८ चतुःशाले उपविशामः । ] विलासिनी - एवं होदु । गढ़पाओ पओसो । आरूढा जोहा । [ एवं भवतु । गतप्रायः प्रदोषः । आरूढा ज्योत्स्ना । ] १४१ नलिनिका - हळा मम व अत्थरं अत्थरेहि । [ हला ! ममाप्यास्त- रमास्तृणु । ] प्र. यो. अविमारके , [iii. 143 मागधिका-अत्थि अवआसो । सेवेहि भट्टिदारिअं जाव हिं १४४ भदि । [ अस्त्यवकाशः । सेवस्व भर्तृदारिकां, यावन्निद्रां लभते ] नलिनिका - एवं होदु । [ एवं भवतु । ] ( उभे निष्क्रान्ते । ) १४७ ( ततः प्रविशति खड्गहस्त श्रोरवेषेण रज्जुहस्तोऽविमारकः ) अविमारकः-( सविमर्शम् ) भोः ! कष्टं तारुण्यं नाम । कुतः, रागं विजृम्भयति संश्रयते प्रमादं दोपान न चिन्तयति साहसमभ्युपैति । स्वच्छन्दतो व्रजति नेच्छति नीतिमार्ग बुद्धि शुभां सुविदुषामवशीकरोति ॥ १ ॥ कथमात्माधीनेष्वर्थेषु मन्दीभवामि । इह हि, नगरपरिचितोऽहं रक्षिणो ज्ञातसारा- स्तिमिरगहनभीमं वर्तते चार्धरात्रम् । असिरपि सुसहायो निश्चितश्चान्तरात्मा किमिह बहुविचारैः को मया दुष्करोऽर्थः ॥ २ ॥ अहो अर्धरात्रस्य प्रतिभयता । सम्प्रति हि, ! गर्भस्था इव मोहमभ्युपगताः सर्वाः प्रजा निद्रया प्रासादाः सुखसुप्तनीरवजना ध्यानं प्रविष्टा इव । प्रग्रस्ता इव सचितेन तमसा स्पर्शानुमेया नगा अन्तर्धानमिवोपयाति सकलं प्रच्छन्नरूपं जगत् ॥ ३ ॥ अद्यैव खलु वर्तते कालरात्रिः । तिमिरमिव वहन्ति मार्गनद्यः पुलिननिभाः प्रतिभान्ति हर्म्यमालाः । तमसि दश दिशो निमग्नरूपाः लवतरणीय इवायमन्धकारः ॥ ४ ॥ —iii. 7.5 ] तृतीयोऽङ्कः । ( परिक्रम्य कर्ण दत्त्वा ) अये गान्धर्वध्वनिवि श्रूयते । कोनुखल्वयं सर्वकालसुखी पुरुषः कान्तया सह गान्धर्वमनुभवति । व्यक्तं ३ स्वयं वीणां वादयति । कुतः, उच्च हर्म्यं सन्निरुद्धाच जाला- स्तन्त्रीनादः श्रूयते सानुनादम् । बाह्मस्थानं व्यक्तमेवं प्रयोक्तुं किं सामर्थ्यं स्त्रीकराप्राङ्गलीनाम् ॥ ५ ॥ गीतं तु पुनः स्त्रियाः । इह हि, तानस्तु मन्दी विशदप्रवृत्तो जातश्च नादो मुखनासिकेन । स्थूलोऽपि हेतुः करतालनादः सञ्जायते सद्वलयस्वनेन ६ ॥ ( परिक्रम्यावलोक्य) हहह अयमपरः कः क्रुद्धां कान्तां प्रसादयति । महान् खल्वस्यापराधः, येनेयमस्यां वेलायामपि न प्रसीदति । ३ अथवा प्रसन्ना खल्वियं व्यपदेशमिच्छति । कुतः, बाष्पोपरुद्ध जडगद्दजिह्मकण्ठं काहं तवेत्यसकलं प्रणयाद् वदन्ती । सद्भावतः प्रियवशं समुपागतापि स्त्रीभावतः प्रवदति प्रतिकूलमेव ॥ ७ ॥ कोनुखल्वयं पक्षी भैरवस्वरः । आ उलूकः खल्वयम् । कथं हसित- मनेन । उलूकस्वरश्रवणभीतया कान्तया परिष्वक्तः खल्वयं तपस्वी । ३ सदृशं वयसः । किं परव्यापारवीक्षणम् । साधयामस्तावत् । ( परिक्रम्य ) कोनुखत्वयमस्मिन् नगरापणालिन्दे सशङ्कित- मतिस्निग्धं च सम्भाषते । अस्मत्सब्रह्मचारी खल्वयं तपस्वी । १ किमपरव्यापारेण. ૪૦ अविमार के सम्पीडयते परिजनेन शनैर्वदेति विद् भवति भूषणनिस्वनेन । मङ्गं वदत्यसुखदं मदनाभिभूतः [ iii. 8- सङ्केतमिच्छति च नेच्छति चाभिगन्तुम् ॥ ८ ॥ ( परिक्रम्य ) अये ज्योत्स्ना । नैषा ज्योत्स्ना, उभयपङ्किगतानां प्रासा- दानां गवाक्षान्तरगता दीपप्रभैषा । इह खलु प्रयत्नादात्मा - ३ तव्यः । अये अयं तु तस्करः । एष हि, दृढपरिकरबन्धहृष्टचित्तः परगृहवादनिविष्टदृष्टिचेष्टः । द्रुतगतिरपि दीपिकावलोकी भवति च पादनिपातनादभीरुः ॥ ९ ॥ हन्त परिहरिष्याम्येनम् । ( एकान्ते स्थितः ) गतो नृशंसः । वय- मपि तावत् प्रतिष्ठामहे । (परिक्रम्य) अये रक्षिणः खल्वेते । किन्नु- ३ खल्विदानीं करिष्ये । भवतु दृष्टम् । इमां शृङ्गाटकस्थां विटसभां प्रविशामि । ( विलङ्घ्य स्थित्वा ) आरक्षिणां तु विमुखं मितविक्रमाणां मामभ्युपेत्य हसतीव ममैष खङ्गः । नैते तु रक्षिपुरुषा मम भारभूता मत्कार्यसाधनपरोऽहमिह प्रविष्टः ॥ १० ॥ गता रक्षिणः । के रक्षन्ति रक्षितात्मानम् । अबहुपुरुषपक्षमेत्य शौर्यं निशि विचरन्ति सरागलोभमोहाः । इह तु पुरुषकारसारसाक्षी बहुविषमश्च सुखश्च रात्रिचारः ॥ ११ ॥ -iii. 13.] तृतीयोऽङ्कः । एतद् राजकुलम् । अहो स्थिरत्वमुच्छ्रितत्वं प्राकारस्य । इह खलु प्रयुज्यते पुरुषाणां कक्ष्याबन्धः । अथवा प्रविष्ट एवाहं चिन्तयितव्यः, ३ यदि स्थिराः कपिशीर्षकाः । इह स्थित्वा रज्जुं प्रक्षिपामि । नमः प्रजापतये । नमः सर्वसिद्धेभ्यः । प्रसीदन्तु बलिशम्बर महाकालाः । विजृम्भतां रात्रिः । वर्धतां निद्रा । अनुमन्यतां पद्मा । लयं गताः ६ सर्वविघ्ना भवन्तु । हताः परिपन्थिका भवन्तु । जयतु भगवती कार्त्यायनी । (रज्जुं क्षिप्त्वा ) हन्त बद्धः कर्कटकर ज्ज्वा कपिशीर्षकः । अहो भवितव्यस्य प्रभावः । एकेनैव क्षेपेण सुसंसक्तां रज्जुं कार्य- • सिद्धिमिव पश्यामि । अहो बलवान् हि भगवान प्रजापतिः । कुतः, यत्ने कृते यदि न सिध्यति कोऽत्र दोषः को वा न सिध्यति ममेति करोति कार्यम् । यत्नैः ः शुभैः पुरुषता भवतीह नृणां दैवं विधानमनुगच्छति कार्यसिद्धिः ॥ १२ ॥ भवतु रज्जुमवलम्ब्यारोहामि । (आरुह्य दृष्ट्वा ) अहो राजकुलस्य श्रीः । विपुलमपि मितोपमं विभागा- निबिडमिवाभ्युदितं क्रमोच्छ्रयेण । नृपभवनमिदं सहर्म्यमालं जिगमिषतीव नभो वसुन्धरायाः ॥ १३ ॥ इह तु न स्थातव्यम् । अट्टालप्रतोलीन्द्रपथेभ्यः सर्वविघ्ना भवन्ति । भवतु अनयैव रज्वावतरिष्यामि । ( अवतीर्य ) कनुखल्विदानीं ३ रज्जुं प्रच्छादयामि । ( विचिन्त्य ) भवतु दृष्टम् । अस्यां हस्ति- शालायां पाशं छित्वा क्षिपामि । ( प्रक्षिपति । परिक्रम्य ) अविमारके [iii. 14- अयं तन्त्रनादो युवतिकलगीतध्वनियुतः अन्यतो यास्यामि । अये गन्धामोढ़ी गजवर मदोद्बोधितपटुः । मुहूर्तं स्थित्वा यास्यामि । प्रभैपा दीपानामिह तु वितता रक्षिपुरुषाः का गतिः । चिराद् रात्रौ शान्तं सह कमलपण्डैर्नृपग्रहम् ॥ १४ ॥ यास्यामि । एप तयोक्तो मार्गः । इयं मन्दाकिनी । असौ दारुपर्वतकः । इयमुपस्थानसभा । अये अयं कन्यापुरप्रासादः । एष ३ तु काष्ठकर्मबहुलतया समासन्नजालत्वाच्च सुखमारोढुम् । अथवा दुरारोहश्चेत्, कान्तासमीपमुपगम्य मनोभिलाषा- म्याधिरोहणमतेर्मम का विशङ्का । संसक्तनालगतकण्टकभीतचेता- स्तृष्णार्दितः क इह पुष्करिणीं जहाति ॥ १५ ॥ भवत्वारोहामि । ( आम्ह्य ) इदं तयोक्तं जालयन्त्रम् । (विघाट्य प्रविश्यावलोक्य च ) साधु कुन्तिभोज ! साधु । उत्प्रहसित इव ३ भवनेनानेन स्वर्गः । तथाहि, हंसाः स्वपन्ति मणिरत्नशिलातलेषु वैदूर्यमौक्तिककृताः सिकताप्रतानाः । स्तम्भाः प्रवालविहिताः किमिह प्रलापै- मन्दीभवन्ति मणिदीपहताः प्रदीपाः ॥ १६ ॥ अलं रौद्रवेषेण । ( चोरवेषमपनीय कश्याबन्धं विमुञ्चति ) १ प्रधानाः. 34 : iii. 18. ] तृतीयोऽङ्कः । नलिनका - कोखु वुत्तन्तो भट्टिदारअस्स । भट्टिदारिआ वि .. ३. अवत्थादुहं निहं क्रभदि अज्ज उ मम पिओ आअच्छदित्ति सुमत्तेण एव । [ कोनुखलु वृत्तान्तो भर्तृदारकस्य । भर्तृदारिकाय- वस्थादुर्लभां निद्रां लभत अद्य तु मम प्रिय आगच्छतीति श्रुतमात्रेणैव । ] ६ अविमारकः - ( श्रुत्वा सहसोपसृत्य ) भवति ! अयं मे वृत्तान्तः । नलिनिका - ( विलोक्य महर्षम) सादं भट्टिदारअस्स । [ स्वागतं भर्तृदारकस्य । ] अविमारकः- ( दृष्ट्वा सानन्दम ) इयमियं सा । यत्र मम, दृष्टिर्न तृप्यति परिष्वजतीव माझं बुद्धिस्त्वरां व्रजति बोधयतीव सुप्ताम् । रागोऽभिचोदयति सादयतीव चा हर्षात् प्रसीदति विमुह्यति चान्तरात्मा ॥ १७ ॥ नलिनिका- ( आत्मगतम् ) एसो खु भअवं कामदेवो ओघो विअ उभअपक्खं पीडेइ । (प्रकाशम्) भट्टिदारअ ! अळङ्करीअदु सअणअळं । [ एष खलु भगवान् कामदेव ओघ इवोभयपक्षं पीड- यति । भर्तृदारक! अलंक्रियतां शयनतलम् । ] अविमारक:- बाढम् । ( उपविशति ) ६ नलिनिका - भट्टिदारअ ! किं ओबोधेमि भट्टिदारिअं । [ भर्तृदारक ! किमवबोधयामि भर्तृदारिकाम् ।] अविमारकः - भद्रे ! अलमलं बालचापलेन । पश्य, अहं द्विनेत्रो न सहस्रनेत्रो मतिश्च मूढा सुचिराभिलाषान् । कामार्णवस्याद्य तु दृष्टपारं १ 'भिलाषा. क्रियतां मे सुखमक्षियुग्मम् ॥ १८ ॥ अविमारके [ iii 18.-- नलिनिका - जाणामि जाणामि भट्टिदारिअं अन्तरेण भट्टिदारअस्स परिस्समं । [ जानामि जानामि भर्तृदारिकामन्तरेण भर्तृदारकस्य ३ परिश्रमम् । ] अविमारक:- अद्य सफलो में परिश्रमः । कुरङ्गी - ( बुद्ध्वा ) हळा ! किं णिरणुकोसेण भणिअं । [ हला ! ६ किं निरनुक्रोशेन भणितम् । ] नलिनिका- भट्टिदारिए ! भणिदं खु मए पुढमं । [ भर्तृदारिके ! भणितं खलु मया प्रथमम् ] ९ अविमारकः - प्राप्तं खलु मया जीवितम्य फलं येनेयमीदृशं मोह गता । कुरङ्गी - ( आत्मगतम् ) हं परिव्भठ्ठम्हि । ( प्रकाशम् ) हळा ! १२ किं मए भणिदं । [ हं परिभ्रष्टास्मि । हला ! किं मया भणितम् । ] नलिनिका - भट्टिदारिए ! किचि ण मन्तिदं । [ भर्तृदारिके ! किञ्चिन्नमन्त्रितम् । ] १५ अविमारक:-अयमम्या मोहविस्तरेण द्वितीयो मे मोहः । कुरङ्गी - किणिए ! चिरं खु उवविट्ठा । का वेळा । [ नलिनिके ! चिरं खलूपविष्टा । का वेला । ] १८ नलिनिका - संवृत्तं अद्धरत्तं । [ संवृत्तोऽर्धरात्रः ] कुरङ्गी - तेण हि परिम्सन्तासि । एहि परिम्मजेहि मं । [ तेन हि परिश्रान्तासि । एहि परिष्वजस्व माम् । ] २१ नलिनिका - (अपवार्य) अहं संवाहेमि । भट्टिदारअ ! परिस्सजेहि भट्टिदारिअं । [ अहं संवाहयामि । भर्तृदारक ! परिष्वजस्व भर्तृदारिकाम् । ] -iii.19.10] तृतीयोऽङ्कः । २४ अविमारक:-(सहर्षम् ) बाढम् । एवमेव त्वमपि प्रियशतानि शृणु कुरजी-अळं अदिसिणेहेण । एहि दाव । [ अलमतिस्नेहेन । एहि तावत् । ] २७ नलिनिका - भट्टिदारिए ! इअम्हि । [ भर्तृदारिके ! इयमस्मि । ] कुरङ्गी - (बलादाकृष्याविमारकमा लिङ्गति ) हं को दाणिं मं संवा- दि । [ हंक इदानीं मां संवाहयति । ] ३० नलिनिका - ( कर्णे ) एवं विअ । [ एवमिव । ] कुरङ्गी - (मसम्भ्रमम ) हा हीणं चारितं । भीदम्हि । [ हा हीनं चारित्रम् । भीतास्मि । ] ३३ अविमारक:- न त्वं प्रिये ! मम नवासि मनोभियोगान् किं कम्पसे पवनवेगहता लतेव । भद्रे ! भयं त्यज कुरुष्व मयि प्रसादं किं वा प्रलप्य बहुधा शरणागतोऽस्मि ॥ १५ ॥ ( कुरङ्गी सलज्जं न लिनिकां विलोकयति ) ( प्रविश्य ) नलिनिका - भट्टिदारअ ! उट्ठेहि उट्ठेहि । भट्टिदारिआ भणादि । उट्ठेहि किल । [ भर्तृदारक ! उत्तिष्ठोत्तिष्ठ । भर्तृदारिका भणति । ३ उत्तिष्ठ किल । ] अविमारक:- बाढम् । ( उत्तिष्ठति ) ६ धात्री -- जेदु भट्टिदारआं । [ जयतु भर्तृदारकः । ] अविमारकः - कथं भवती । 1 धात्री - णळिणिए ! अब्भन्तरमण्डवे खु रइदं सअणं । भट्टिदारिअं ९ भट्टिदारअं च तहिं एव पवेसेहि । [ नलिनिके ! अभ्यन्तरमण्डपे खलु रचितं शयनम् । भर्तृदारिकां भर्तृदारकं च तत्रैव प्रवेशय । ] अविमारके [ iii. 19.' नलिनिका - तह । [ तथा । ] ( निष्क्रान्ता धात्री ) ( उभाँ परिक्रामतः ) (निष्क्रान्ताः सर्वे ) ( ततः प्रविशति चाङ्गेरिका हस्ता मागधिका ) नालेनिका - भट्टिदारअ ! अब्भन्तरमण्डवे खु रइदं सअणं । तहिं एव पविसदु भट्टिदारिआए सह । [ भर्तृदारक ! अभ्यन्तरमण्डपे खलु १५ रचितं शयनम् । तत्रैव प्रविशतु भर्तृदारिकया सह । ] अविमारकः - त्वमप्येवं प्रियशतानि श्रृणु । ( हस्तेन तस्या हस्तं गृहीत्वेत्तिष्ठति । ) १८ नलिनिका - एदु एदु भट्टिदारओ । [ एत्वेतु भर्तृदारकः । ] अविमारक:-अयमयमा गच्छामि । २१ अविमारकः- ( सहर्षम् ) अनृणोऽस्मि यौवनस्य । कुतः, नेत्रे बाष्पपरिणते करभृती व्यावल्लामानौ स्तनौ श्रोणी चाधिकभारिका न विशदौ पादौ हिया स्यन्दिनौ । एतत् सप्तपदप्रमाणमिह भोः ! सम्पाद्यते योजना यद्येपा क्षणदा भवेद् युगशतं धन्यो मदन्य कुतः ॥ २० ॥ तृतीयोऽङ्कः । अथ चतुर्थोऽङ्कः । ३ मागधिका - अहो परिजणस्स पमादा । आसुय्योदअं पि ण किढ़ा पासादर अणा । ण सुणीअदि गोट्ठीजणकोळाहळो । किंणुखु भवे । आ, रत्तिजागरदाए पभादप्पसुत्ता भवे । जाव भट्टिदारिअं ओबो- ६ धेमि । ( परिक्रामति ) [ अहो परिजनस्य प्रमादः । आसूर्योदयमपि न कृता प्रासादरचना । न श्रूयते गोष्टीजनकोलाहलः । किंनुखलु - iv. 32 ] चतुर्थोऽङ्कः । भवेत् । आ, रात्रिजागरतया प्रभातप्रसुप्ता भवेत् । यावद् भर्तृदारिका- ९ मवबोधयामि । ] ( ततः प्रविशति विलासिनी वीजनेन ) विलासिनी - मागधिए ! चिट्ठ चिट्ठ । [ मागधिके ! तिष्ठ तिष्ठ । ] १२ मागधिका - हळा ! मा वारेहि । भट्टिदारिआए सुमणावण्णअं मए आणीअदि । [हला ! मा वारय । भर्तृदारिकायै सुमनावर्णकं मया नीयते । ] १५ विलासिनी-किं भट्टिदारिआए सुमणावण्णएण वा अळङ्कारेण वा । [ किं भर्तृदारिकायाः सुमनावर्णकेन वालङ्कारेण वा । ] मागधिका-अविणीदे ! मा अमङ्गलं भणाहि । सददाळङ्किदा भट्टि १८ दारिआ होदु । [ अविनीते ! मा अमङ्गलं भण । सततालङ्कृता भर्तृदारिका भवतु । ] विलासिनी- - खु। आइदी एव भट्टिदारिआए अलङ्कारो ति २४ भणामि । [ न खलु । आकृतिरेव भर्तृदारिकाया अलङ्कार इति भणामि । ] मागधिका - उम्मत्तिए ! गणु पुष्कं वि वासीअदि । [ उन्मत्तिके ! ननु पुप्पमपि वास्यते । ] २४ विलासिनी - सदिसं एदं । सभावरमणीआणि मण्डिदाणि अदिर- मणीआणि होन्ति । [ सदृशमेतत् । स्वभावरमणीयानि मण्डिता- न्यतिरमणीयानि भवन्ति । ] २७ मागधिका - हळा ! सुजोजिदो खु भट्टिदारिआए रूवाणुरुवो भत्ता । [ हला ! सुयोजितः खलु भर्तृदारिकाया रूपानुरूपो भर्ता । ] विलासिनी - अळं पक्खवादेण । भट्टिदारिअस्स समीवे भट्टिदारिआ ३० पदुमिणिआ विअ दिस्सदि । [ अलं पक्षपातेन । भर्तृदारकस्य समीपे भर्तृदारिका पद्मिनव दृश्यते । ] मागधिका-सुट्टु भणादि । अहं विचिन्तेोमि --ससरीरो भअवं अविमारके [ iv."— ३३ कामदेवो ईदिसो भवेत्ति । [ सुष्ठु भणति । अहमपि चिन्तथामि- मशरीरो भगवान् कामदेव ईदृशो भवेदिति । ] विलासिनी - तह एव भट्टिदारिआ भट्टिदारअं विणा खणमत्तं विण ३६ रमदि । [तथैव भर्तृदारिका भर्तृदारकं विना क्षणमात्रमपि न रमते । ] ( ततः प्रविशति साम्रा नलिनिका ) नलिनिका- (मशोकम् ) मचो खु लोअप्पवादो - बहुविग्घाणि ३९ सुहाणि त्ति । एसो खु संवच्छरो अदिकन्दो भट्टिदारिआए अवि- च्छिष्णसहसम्भोएण रदिं करिअ । अम्हा पुण गोट्ठीजणस्स उत्तरकुरूवासो संवृत्तो । अज्ज उण महाराएण विदिदो एसो खु ४२ वुत्तन्तोत्ति सुणिअ सीददि विअ सरीरं । भट्टिदारिआ च लज्जा- भअमअणेहि अभिताळिअमाणा सन्दावेण मुद्धा अवअदचेदणा विअ संवृत्ता । एसो खु पासादो णिज्वाविददीवो विअ मे पडि- ४५ भादि । तेण भट्टिदारएण विरहिदाए मम एक्कं पि हिअअप्पीदिकरं जा । भट्टिदारओ अविग्घेण णिग्गदो त्ति सुणिअ अज्ज पहा दिर्द विअ मे हिअअं । सम्पदि सुरुद्धं कण्णाउरं । ( परिक्रम्य ) अम्मो ४८ सहीओ । हळा माअधिए ! किं एदं । [ सत्यः खलु लोकप्रवादः- बहुविघ्नानि सुखानीति । एष खलु संवत्सरोऽतिक्रान्तो भर्तृदारिकाया अविच्छिन्नसुखसम्भोगेन रतिं कृत्वा । अस्माकं पुनर्गोष्टीजनस्योत्तरकुरु- ५१ वासः संवृत्तः । अद्य पुनर्महाराजेन विदित एष खलु वृत्तान्त इति श्रुत्वा सीदतीव शरीरम् । भर्तृदारिका च लज्जाभयमदनैरभिताढ्यमाना सन्तापेन मुग्धापगतचेतनेव संवृत्ता । एष खलु प्रासादों निर्वापितदीप ५४ इव मे प्रतिभाति । तेन भर्तृदारकेण विरहिताया ममैकमपि हृदयप्री- तिकरं न जातम्। भर्तृदारकोऽविघ्नेन निर्गत इति श्रुत्वाद्य प्रल्हादितमिव मे हृदयम् । सम्प्रति सुरुर्द्ध कन्यापुरम् । अम्मो सख्यौ । हला माग- ५७ धिके ! किमेतत् । ] ―iv.³] चतुर्थोऽङ्कः । १४९. ( सर्वा निष्क्रान्ताः ) ( ततः प्रविशत्यविमारक: ) मागधिका - हळा ! किं पुच्छसि । णं मण्डणवेळा भट्टिदारिआए । [ हला ! किं पृच्छसि । ननु मण्डनवेला भर्तृदारिकायाः । ] ६० नलिनिका - अदिक्कन्दो उच्छवो । (रोदिति ) [ अतिक्रान्त उत्सवः ।] उभे- सिविणं विअ किं एदं । भणाहि समाणा भवामो । [ स्वश इव किमेतत् । भण समाना भवामः । ] ६३ नलिनिका - मव्वहा गओ भट्टिदारओ । [सर्वथा गतो भर्तृदारकः ।] उभे-हुँ । नलिनिका - अहं पि भट्टिदारिआए दुक्खं पेक्खिदुं असहन्ती इह ६६ आअदम्हि । [ अहमपि भर्तृदारिकाया दु:खं प्रेक्षितुमसहमानेहा- गतास्मि । ] मागधिका-ण सक्कं खु भट्टिदारिआए अवत्थादंसणं । तह व ६९ भट्टिदारिअं अस्सासइस्लामो । [ न शक्यं खलु भर्तृदारिकाया अवस्थादर्शनम् । तथापि भर्तृदारिकामाश्वासयिष्यामः । ] उभे- एवं करम्ह । [ एवं कुर्मः । ] प्रवेशकः । अविमारकः - ( सशोकम् ) कन्यापुरात् कथमपीह विनिर्गतं मे भाग्यावशेषमवलम्ब्य शरीरमात्रम् । अद्यापि तन्मम मनो न तु मामुपैति नावेक्षते मयि तया प्रिययावरुद्धम् ॥ १ ॥ कानुखलु भवेदवस्था कुरङ्गयाः । ड्रीता भवेत् प्रेष्यजनप्रवादैर्भीता च राज्ञा दृढसन्निरुद्धा । बाष्पाविला मामनवेक्षमाणा मोहं व्रजेद् रात्रिषु किं करिष्ये ॥ २ ॥ अविमार के [ iv.2.-- हन्त दृष्टः प्रतीकारः । तथापि तावदस्मदपेक्षया नापेक्षित आत्मा ! तस्मादहमपि तावत् तदर्थे प्राणान् परित्यजामि । ( परिक्रम्य ) ३ कतिपयदिवसप्रोषितोऽहमस्मि । अद्य तु मानसं शारीरं च दुःख- मसामिव मे प्रतिभाति । इह हि, निर्व्याजं परिचयवर्धमानरागां रूपाढयामभिनवयौवनां मनोज्ञाम् । त्यक्त्वा तां क्षणमपि वचितोऽस्मि जीवन् कष्टोऽन्यः क इह भवेन् कृतघ्नभावः ॥ ३ ॥ सम्प्रति हि मदनेनान्तर्दह्यमानस्य क्षारीभवितुमारब्धो भगवान सूर्य: सहस्ररश्मिः । ( सर्वतो विलोक्य) अहो प्रतिभयता निदा- ३ घस्य । सम्प्रति हि, अत्युष्णा ज्वरिव भास्करकरैरापीतसारा मही यक्ष्मार्ता इव पादपाः प्रमुषितच्छाया दवाग्न्याश्रयात् । विक्रोशन्त्यवशादिवोच्छ्रित गुहांत्र्यात्ताननाः पर्वता लोकोऽयं रविपाकनष्टहृदयः संयाति मूर्च्छामिव ॥ ४ ॥ किमिदानीं करिष्ये । न चास्म्यहं गन्तुं समर्थः । कुतः, लिम्पन्ति रूक्षपवनाः सिकताग्निचूर्णैः संस्वेदयन्ति च नगाः परुषैः पलाशैः । दावैद्रवीकृततनुः स्रवतीव भास्वा- नादित्यपाकचलितः फलतीव लोकः ॥ ५ ॥ 1 हा प्रिये ! हा सुन्दरि ! देहि मे प्रतिवचनम् । ( मूर्छा नाटयति । पुनर्निःश्वस्य । ऊर्ध्वमवलोक्य ) रुद्धः खलु भगवान् सूर्यः सहस्र- ३ रश्मिः । अथवा, —-iv.9 ] चतुर्थोऽङ्कः । किमत्र चित्रं वितताः पयोदा रुन्धन्ति सूर्यं ननु वातनीताः । अन्तः स्थितं मे यदि वारयन्ति कामं भवेद् विस्मयनीयमेतत् ॥ ६ ॥ किमनेन जीवन्मरणेन । विसर्जयिष्याम्यात्मानम् । ( उत्थाय परि- क्रामति ) किन्नुखलु करिष्ये । भवतु दृष्टम् । अस्मिन्नारण्यतटाके ३ विसर्जयिष्याम्यात्मानम् । धिगधर्मः खलु मे मरणमार्गः । अभि- मनमोहान्महापथो विस्मृतः । अन्यथा प्रयतिष्ये । . ( विलोक्य ) भवतु दृष्टम् । अये अदूरे दृश्यते दवाग्निः । तस्मिन् प्राणानाहुतिं ६ करिष्यामि । ( उपगम्य प्रणम्य च ) भगवन ! अग्ने ! इष्टं चेदेकचित्तानां यद्यग्निः साधयिष्यति । परत्रापि च मे कान्ता सा भवेदेककीर्तनी ॥ ७ ॥ ( अग्निं प्रविश्य सकुतूहलम् ) किमिदं वर्तते । दग्धाः स्फुलिङ्गनिकरेर्निपतन्ति वृक्षा ज्वालाश्च मे मलयचन्दनपङ्कशीताः । अभिर्दयां हि कुरुते मदनातुरेऽति पुत्रं पितेव च परिष्वजति प्रहृष्टः ॥ ८ ॥ भोः ! किमतः परं विस्मयनीयम् । अभिः खलु मां न दहति । अथवा एतदप्यस्तिकारणम् । अन्यथा प्रयतिष्ये ( परिक्रम्य ) एष ३ खलु महान् पर्वतः, असितजलदवृन्दौर्म श्रसन्दिग्धश्रृङ्गो गगनचरकुलानां विश्रमस्थानभूतः । सुकविमतिविचित्रो मित्रसंयोगहृद्यो नरपतिरिव नीचो दृश्यते निष्फलाढयः ॥ ९ ॥ अविमारके [ iv. 9. - भवतु तावदस्मिन्छेले प्राणान परित्यजामि । मरुत्प्रपातो हि सर्वा- र्थसाधकः । यावदारोहामि । ( आरुह्यावलोक्य ) एतत् पानीयं गोत्रम्थं स्नात्वोपस्पृश्य मन्त्रं जपामि । ( तथा कृत्वा जपति ) ( तत: प्रविशति विद्याधरः सह प्रियया ) ( उभावाकाशयानं निरूपयतः ) ( उभाववतरतः ) विद्याधर:- प्राक्सन्ध्या कुरुषूत्तरेषु गमिता स्नातः पुनर्मानसे भूयो मन्दरकन्दरान्तरतटेष्वामोदितं यौवनम् । क्रीडार्थं हिमवद्गुहासु चरिता दृष्टिश्व संलोभिता याम्यावो मलयम्य चन्द्रननगान्मध्याह्ननिद्रासुखान ॥ १० ॥ (आकाशयानं निरूप्य) मौदामनि ! पश्य पश्य भगवत्या वसुन्धराया दूरस्थां दर्शनीयामाकृतिम् । इह हि, शैलेन्द्राः कलभोपमा जलधयः क्रीडातटाकोपमा वृक्षाः शैवलसन्निभाः क्षितितलं प्रच्छन्ननिम्नस्थलम् । सीमन्ता इव निम्नगाः सुविपुलाः सौधाश्च बिन्दूपमा दृष्टुं वक्रमिवाभिभाति सकलं संक्षिप्तरूपं जगत् ॥ ११ ॥ भद्रे! अवहिता भव । शीतचन्दननिलयं मलयं प्रयास्यावः । सौदामनी - अय्य! तह । [ आर्य ! तथा । ] सौदामनी - अय्य! ण पारेमि अविम्सन्ता गन्तुं । [ आर्य । न पारयाम्यविश्रान्ता गन्तुम् । ] ६ विद्याधरः- तेन हि कस्मिंश्चिन् पर्वते मुहूर्तं विश्रम्य गमिष्यावः । सौदामनी - अय्य! पिअं मे । [ आर्य ! प्रियं मे । 1] ९ विद्याधर : - सौदामनि ! पश्य पश्य । —iv.12° ] चतुर्थोऽङ्कः । जलदगहनमुज्झतीव वेगा- दभिपततीव मही समुद्रमुद्रा । जलदसमयतोयदा इवामी भृशमभिभान्ति नगा विजृम्भमाणाः ॥ १२ । भवति ! अयं पर्वतः समर्थ इवाम्माकं मुहूर्तमातिथ्यं कर्तुम् । तस्माद् विश्रान्तौ गमिष्यावः । ३ सौदामनी - -अय्य ! एवं करम्ह । [ आर्य ! एवं कुर्वः । ] विद्याधरः - सौदामनि ! पुष्पितानां नगानां पड्भागग्रहणमम्माकं धर्मः । तम्मादनृणान वृक्षान करिष्यावः । ६ सौदामनी - अय्य! तह । [ आर्य ! तथा । ] ( पुष्पापचयं नाटयतः ) विद्याधरः-(अविमारकं विलोक्य) अये कोनुखल्वयम् । आ ज्ञातम् । ः खलु मन्त्रभ्रष्टः । कुतः, रूपमीदृशं हि नान्येषाम् । दिष्टया यदयं दृष्टः । भवत्वहमपि विस्मृतं पृच्छामि । ९ विद्याधरः अविमारकः - भवतु कृतं देवकार्यम् । प्रपतामि । ( पार्श्वतो विलोक्य, १२ विद्याधरं दृष्ट्वा ) भोः ! कोनुखल्वयम् । अथवा, स्वप्नोऽयं भवेत् । न ह्यहं सुप्तः । आ अन्तकाले मनुष्याः किमपि पश्यन्ति । तदेतन् स्यात् । तदपि संमूढानां खलु । अहं तु सर्वं जानामि । भवतु १५ पृच्छाम्येनम् । भोः ! कतरकुलान्वयो भवतालक्रियते । विद्याधरः-श्रूयताम्- अहं मेघनादो नाम विद्याधरः । इयं तावदस्मत्कुडुम्बिनी सौदामनी नाम । अद्य भगवन्तमगस्त्यमारा- १८ धयितुं मलयपर्वते विद्याधरैरुत्सवः प्रारख्धः । तत्र वयमपि सङ्केतिताः । इह मुहूर्तं विश्रम्य गमिष्याव इत्यवतीर्णाः । एपोऽस्माकं वृत्तान्तः । अथ किमर्थमिदानीं भवान क्षितितलं देवलोकीकरोति । अ. मा. ७ अविमारके 1 [ iv. 12" २१ अविमारकः-(आत्मगतम् ) किन्नुखलु वक्तव्यम् । वर्तमाने ममान्त- कालेऽनृतं न वक्तव्यम् । ( प्रकाशम् ) भोः ! सौवीरराजपुत्रोऽ- aarat नानास्मि । २४ विद्याधरः-( आत्मगतम् ) एतदनृतम् । नेयमाकृतिर्मानुषी । ( प्रका- शम्) अथ किमर्थमेकाकी भवानिहागतः । अविमारक:-(आत्मगतम् ) किन्नु खलु वक्ष्यामि । (अधोमुखस्तिष्ठति ) २७ विद्याधरः- (आत्मगतम् ) भवत्वहमेव ज्ञास्यामि । ( विद्यामावर्तयति) भोः ! कष्टम् । अयं खलु भगवतोऽमेः पुत्र आत्मानं न जानाति, कुन्तिभोजदुहितरं कुरङ्गीमभिलषमाणो रममाणश्च तत्र विदिते ३० सति निर्गतः, पुनः प्रवेशोपायमलभमानः प्राणपरित्यागाभिलाषी मरुत्प्रपातं कर्तुमिहारूढः । सापि च तत्र जीवन्मरणमनुभवति । अहमस्यास्मिन् कार्ये सहायो भविष्यामि । ( प्रकाशम्) भो ३३ अविमारक ! अच्छलं मित्रत्वं नाम । न शक्नोषि मया विदितमर्थं प्रच्छादयितुम् । अविमारकः- उच्यताम् । ३६ विद्याधरः- अद्यप्रभृत्यावयोः सख्यमस्तु । सकला च भवतोऽस्मा- भिरवस्था विदिता । प्राणपरित्यागार्थमिहारूढो भवान् ननु । अविमारकः- वयस्य ! एवमेतत् । ३९ विद्याधरः - भोः ! प्रीतोऽस्म्यनेन विस्रम्भेण । यदि तत्राज्ञातमेव प्रवेष्टुं स्यादुपायः, किं करिष्यति भवान् । अविमारकः-( सहर्षम्) किमन्यत् । अनुप्रवेक्ष्यामि । तदर्थो ४२ व्याक्षेपः । विद्याधरः - तेन हि सखे ! दृश्यतामङ्गुलीयम् । ( इत्यङ्गुलीयकं दर्शयति ) ४५ अविमारकः - वयस्य ! किमनेन प्रयोजनम् । —iv.14.4 ] चतुर्थोऽङ्कः । विद्याधरः- एतदङ्गुलीयकं दक्षिणाङ्गुल्या धारयन्नदृश्यो भवति, वामेन प्रकृतिस्थः । ४८ अविमारकः– वयस्य ! एतदप्यस्ति । विद्याधरः - अयं ते प्रत्ययं करिष्यामि । वयस्य ! किं मां पश्यसि । अविमारकः- एवम् । ५१ विद्याधरः - अवहितो भव । अविमारक:-अवहितोऽस्मि । विद्याधरः- (दक्षिणाङ्गुल्यां प्रक्षिप्य ) वयस्य ! किं मां पश्यसि । ५४ अविमारकः-वयस्य ! छायापि न दृश्यते, किं पुनः शरीरम् । एते खलु लोके सुखिनो नाम । ये सञ्चरन्ति गगने वनितासहायाः क्रीडन्ति पर्वततटेषु कृतोपदेशाः । सर्वं विदन्त्यपि च मन्त्रकृतैः प्रभावै- रन्तर्हिताच विवृताच सुखं भ्रमन्ति ॥ १३ ॥ भवतु, प्रविष्ट एवास्म्यनेन । विद्याधरः- ( वामाङ्गुल्यां प्रक्षिप्य ) तेन हि गृह्यतामङ्गलीयकम् । ३ अविमारकः-(प्रतिगृह्य) अनुगृहीतोऽस्मि । विद्याधरः- न न, अहमेवानुगृहीतः । कुतः, न तथा रत्नमासाद्य सुजनः परितुष्यति । यथा तन् तद्गताकाङक्षे पात्रे दत्त्वा प्रहृष्यति ॥ १४ ॥ अविमारकः - एकस्तु मे संशयः । मम शरीरे परीक्षितुमिति वक्तु- मसदृशमिव । ३ विद्याधरः-तेन हि प्रक्षिप दक्षिणाङ्गुल्याम् । अविमारक:- बाढम् । ( तथा करोति ) अविमारके विद्याधरः- वयस्य ! गृह्यतामसिः । [iv. 145 ६ अविमारकः– बाढम् । ( खङ्गं गृहीत्वा सविस्मयम् ) अहो खड्गस्य प्रभावः । प्रच्छन्नरूपस्त्वशनिः कथञ्चिन् खङ्गीकृतः स्यात्तु तडित्कलापः । निर्भर्त्सयन् सूर्यकृतां प्रदीमिं वनं दवाग्निः सहसाभ्युपैति ॥ १५ ॥ विद्याधरः- अहो वीर्यमग्निपुत्रस्य । अम्य खड्गस्य प्रभावं विद्या- धरेष्वपि कतिचित् सहन्ते । अग्निः खलु भगवानिमं रक्षति । ३ अविमारकः-( खङ्गे दृष्ट्वा ) अहो भगवतीनां विद्यानां प्रभावः । दिव्यं स्वभावं समुपागतोऽस्मि स एव नामाम्मि गुणैर्विशिष्टः । इदं यदा निर्गुणमर्त्यवृन्दे- र्न ज्ञायते चास्ति च मे शरीरम् ॥ १६ ॥ वयस्य ! कृतमम्मत्कार्यम् । गृह्यतामसिः । विद्याधरः–यदिष्टं भवतः । वयस्य ! अन्तर्हितश्चान्तर्हितस्पृष्टश्च ३ तत्स्पृष्टश्चान्तर्हिता भवन्तीति निश्चयः । अविमारकः– सखे ! प्रीतोऽस्मि । अयमभ्युदयादभ्युदयः । सखे ! अस्मदपेक्षया विलम्बितमिति तर्कयामि । ६ वेलातिक्रमः । विद्याधरः - प्रविष्टोऽस्मि, यद्यापुष्टो भवान । अविमारक:- किंबहुना भाषितंन । विद्यावशानां तु भवद्विधानां कोऽस्मद्विधः म्यात् प्रतिकर्तुकामः । मा भूदिदानीं _iv.20] चतुर्थोऽङ्कः । क्रीतोऽस्म्यहं जीवित सम्प्रदानात् प्रशाधि मां किं करवाणि भृत्यः ॥ १७ ॥ विद्याधरः-जानाम्यहं भवतोऽच्छलां बुद्धिम् । यदि च भवान - स्मद्वचनमनुवर्तते, सख्यै मम प्रतिनिवेदय मामिमां च त्वं मामनुस्मर सखे ! गतिरीक्ष्यतां मे । क्रीडारसैः प्रतिविलोभय राजपुत्रीं कार्यान्तरेषु पुनरप्यहमम्मि पार्श्वे ॥ १८ ॥ अहो पुरुषसारो हि नाम नेच्छति विसर्जयितुं मे मनः । वयस्य ! गच्छामस्तावत् । ३ अविमारकः–गच्छतु भवान् पुनर्दर्शनाय । विद्याधरः - बाढम् । ( उत्थितां विद्याधरः सह प्रियया ) ६ अविमारकः - ( ऊर्ध्वमवलोक्य) एष हि तत्रभवान मेघनादो गगना- वमवगाढः । य एपः, वातोद्भूताम्रकेशः सलिलधरदरीमृष्टदष्टाङ्गरागः सम्यग्बद्धासिकक्ष्यः प्रिययुवतिकर स्पृष्टसङ्गढमध्यः । वातोद्भूतोत्तरीयो मुकुटमणिगणैस्तारकाः सम्प्रमृगन् श्रीमान् विद्याधरोऽसावुपरिगतिजवैः क्षीयमाणः प्रयाति ॥ १९ ॥ इयमपि विद्याबलेन प्रियमनुवर्तते । यैषा, जवशिथिल विमुक्त पार्श्वकेशी स्तनतट वल्गना खन्नसन्नमध्या । वियति दयितदत्तपूर्वकाया डिदिव तोयधरेषु दृष्टनष्टा ॥ २० ॥ ४९. अविमारके [vi.20.- गतस्तत्रभवान् मेघनादः । अहमप्यद्यैव नगराभिमुखो भविष्यामि । यावदवतरामि । ( अवतीर्य ) परिश्रान्त इवास्मि । भवतु, एत- ३ स्मिन् शिलातले मुहूर्तं विश्रम्य गमिष्यामि । ( उपविशति । ) ( ततः प्रविशति विदूषकः । ) विदूषकः - अहो तत्तहोदो सुगहीदणामहेअस्स सोवीर अस्स ६ अघण्णदा, जाए चिरं अपुत्तो भविअ अत्तणो णिअमावसे- सेण देवप्पसादेण अ माणुसळोअदुळ सुपुत्तं ळभिअ पुणो वि तादिसो एव संवृत्त । सव्वहा मम अ समत्तजीविददाए ९ बन्धुजणस्स अघण्णदाए परिब्भट्ठो कुमारो । ( परिक्रम्य ) अज्ज खु तत्तहोदीए भणिदं —– खेमेण गदो कुमारो त्ति । अहब को एत्थ जाणादि अदिउमारो राअउमारो एआई वम्महेण अभिताळ- १२ अमाणो परिब्भट्ठो कुसळ होदित्ति । अहं वि कुमारं वा कुमा- रस्स सरीरं वा पेक्खिस्सामि दाव सव्वळोअं परिभमिअ । जदि ण पेक्खामि तत्तहोदो परत्त सहाओ होमि । परिस्सन्तो १५ खु अहं । भोदु एदस्सि पादपच्छाआअं मुहुत्तअं विस्समिअ गमिस्सं । ( स्वपिति ) [ अहो तत्रभवतः सुगृहीतनामधेयस्य सौवीरराजस्याधन्यता, यया चिरमपुत्रो भूत्वात्मनो नियमविशेषेण १८ दैवप्रसादेन च मानुषलोकदुर्लभं सुपुत्रं लब्ध्वा पुनरपि तादृश एव संवृत्तः । सर्वथा मम च समाप्तजीविततथा बन्धुजनस्याधन्यतया परिभ्रष्टः कुमारः । अद्य खलु तत्रभवत्या भणितं - क्षेमेण गतः कुमार २१ इति । अथवा कोऽत्र जानाति अतिसुकुमारो राजकुमार एकाकी मन्म- थेनाभिताड्यमानः परिभ्रष्टः कुशलो भवतीति । अहमपि कुमारं वा कुमारस्य शरीरं वा प्रेक्षिष्ये तावत् सर्वलोकं परिभ्रम्य । यदि न प्रेक्षे, २४ तत्रभवतः परत्र सहायो भवामि । परिश्रान्तः खल्वहम् । भवतु, एतस्यां पादपच्छायायां मुहूर्तकं विश्रम्य गमिष्यामि । ] iv. 21.17 ] चतुर्थोऽङ्कः । अविमारक:- कानुखलु सन्तुष्टस्यावस्था । सुष्ठु भवेद् यदि मे २७ निर्गमनं तेन श्रुतं, न श्रुतं चेद् विपत्स्यते स ब्राह्मणः । अथवा किं मम सर्वारम्भैस्तेन विना । सहि, गोष्ठीषु हास्यः समरेषु यौधः शोकं गुरुः साहसिकः परेषु । महोत्सव मे हृदि किं प्रलापै- द्विधा विभक्तं खलु मे शरीरम् ॥ २१ ॥ ( सर्वतो विलोक्य) अये कोनुखलु च्छायायामध्वगः प्रसुप्तः । ( उपेत्य ) अभ्युदयो मे हृदयस्य यदृच्छयागतः । त्वरते मे मनः ३ परिष्वक्तुमेनम् । विदूषकः - ( बुद्ध्वा ) चिरं खु सुत्तन्हि । जाव गच्छामि । को विस्समो णाम विन्भट्ठमणोरहाणं । ( परिक्रम्या विमारकं विलोक्य) ६ कहं तत्तभवं अविमारओ । [ चिरं खलु सुप्तोऽस्मि । यावद् गच्छामि । को विश्रमो नाम विभ्रष्टमनोरथानाम् । कथं तत्रभवान् अविमारकः । ] ९ आवमारकः - अये वयस्यः सन्तुष्टः । ( उभौ परिष्वजेते ) विदूषकः - ( उच्च विहस्य ) भो वअस्स ! कहेहि कहि एत्तिअं १२ काळं किं तुए किदं । [ भो वयस्य ! कथय कथयैतावन्तं कालं किं त्वया कृतम् । ] a अविमारकः - वयस्य ! एतत् कृतम् । ( अङ्गुलीयकं दक्षिणाङ्गल्यां १५ प्रक्षिप्य तिरस्कृतः । ) विदूषकः - हा हा कहिं कहिं तत्तभवं । कहं ण दिस्सदि । आ तस्सि गढ़ाए चिन्ताए तं विअ पेक्खामि । अहव फुडीकरिस्सं । अविमारके [ iv. 21.18_ १८ भो वअम्स ! सावेण साविदो सि, उदि अत्ताणं छादेसि । [ हा हा कक्क तत्रभवान् । कथं न दृश्यते । आ तस्मिन् गतथा चिन्तया तमिव पश्यामि । अथवा स्फुटीकारष्यामि । भो वयस्य ! शापेन २१ शापितोऽसि यद्यात्मानं छादयसि । ] अविमारकः - वयस्य ! अयमस्मि । विदूषकः - कहिं कहिं सि । [ क्व क्वासि । ] २४ अविमारकः-(वामाङ्गुल्यामगुलीयकं प्रक्षिप्य ) वयम्य ! अयमस्मि । विदूषकः - पुढमं सुद्धो अविमारओ, इदाणिं माआविमारओ संवृत्तो । एवं माआवित्तअ ! किम्स तुवं कण्णाउरे पच्छण्णरुवो २७ ण चरसि । [ प्रथमं शुद्धोऽविमारकः, इदानीं मायाविमारकः संवृत्तः । एवं मायावित्तक ! कस्मात्त्वं कन्यापुरे प्रच्छन्नरूपो न चरसि । ] अविमारकः - वयस्य ! इदानीं खल्वेतदुपलब्धम् । ३० विदूषकः -अच्छरीअं अच्छरीअं । कुदो दाणि पदस्स आगमो । [ आश्चर्यमाश्चर्यम् । कुत इदानीमंतस्यागम: । ] अविमारकः - सर्वमन्तःपुरे कथयिष्यामि । ३३ विदूषकः - सम्पदि बुभुक्खिदो सि । [ संप्रति बुभुक्षितोऽसि । ] अविमारकः - वैधेय ! शीघ्रमागच्छ प्रक्षेपभूमिप्रवेशाय । नैवायं हस्तो मोचयितव्यः । ३६ विदूषकः -अच्छरीअं अच्छरीअं । अहं पि दाव अदिस्सो । मम सरीरं अस्थि वा णत्थि वा । उच्छिट्टं करिस्सं । थु थु । [ आश्चर्य- माश्वर्यम् । अहमपि तावददृश्यः । मम शरीरमस्ति वा नास्ति वा । ३९ उच्छिष्टं करिष्यामि । थु थु । ] अविमारकः-मूर्ख ! अलमलं विलंबितेन । त्वरते मे मनः कान्ता- दर्शनाय । ( आकर्षति ) ४२ विदूषकः - ण मे सद्धा । [ न मे श्रद्धा ।] -iv. 22.4] चतुर्थोऽङ्कः । अविमारकः - हन्त भोजनवेलां प्रतिपालयामि । विदूषकः -कञ्चि काळं विस्समिअ गमिस्सामो । [ कंचित् कालं ४५ विश्रम्य गमिष्यावः । ] अविमारकः - किं न स्मरति मां कुरङ्गी । विदूषक:- किog जीवदि गग्गन्धस्समणिआ । [ किंनुखलु जीवति ४८ नद्मान्धश्रमणिका । ] अविमारकः - वयस्य ! याचे भवन्तं, शीघ्रमागम्यताम् । विदूषकः - किस्स तुवं किदसमावृत्तो बहुओ विअ तुवरसि । ५१ [ कस्मात् त्वं कृतसमावतों वटुक इव त्वरसे । ] अविमारकः–मूर्ख ! इतस्तावन् । विदूषकः - माकड्ढेहि, अअं अणुधावामि । [ मा कर्ष, अयम- ५४ नुधावामि । ] अविमारकः - ( परिक्रम्य ) एतन्नगरम् । विदूषकः - पेयामि दाव अरम्स सोहं । [ पश्यामि तावन्नगरस्य ५७ शांभाम् । ] अविमारकः - इदं राजकुलम् । एतन्नरेन्द्रभवनं निशि जातशङ्को यन् साहसं समुपलभ्य तथा प्रविष्टः । भूयस्तदेव दिवसे सुसहायमायो वृन्दं सतामिव पटुः प्रविशाम्यशङ्कः ॥ २२ ॥ (परिक्रम्य ) इदानीं प्रासादे स्नातयाभ्यन्तरस्थया कुरङ्गया भवित- व्यम् 1 ३ विदूषकः - जहिं वा तहिं वा पविसामो । अदिकमदि भिक्खवेळा । [ यत्र वा तत्र वा प्रविशावः । अतिक्रामति भिक्षावेला । ] अविमारके [ iv. 22.5- अविमारकः-एहि तावदभ्यन्तरमेव प्रविशावः । ( प्रविश्य) इह हि, पुरे गृहे वापि पुरा सुखोषित- र्मनस्विभिर्दुर्लभचिन्तयागतैः । पुनः कृतार्थैर्मुदितान्तरात्मभिः सुखं प्रवेष्टुं सविशेषकर्मभिः ॥ २३ ॥ ( निष्क्रान्तौ ) ( ततः प्रविशति कुरङ्गी नलिनिका च ) चतुर्थोऽङ्कः । अथ पञ्चमोऽङ्कः । ३ नलिनिका - भट्टिदारिए ! अळं सन्दावेण । कण्णा उपासाद आळुहिअ दिट्ठिविलोभणं करिस्सामा । [ भर्तृदारिके ! अलं सन्तापेन । कन्यापुरप्रासादमारुह्य दृष्टिविलोभनं करिष्यावः । ] ६ कुरङ्गी - हळा ! किं तुए मम हिअअं परिवादं । एत्थ हि अजाणन्तेण परिजणेण मम परितोसणिमित्तं बउळसरळ- सज्जज्जुणकदम्बणीवणिउळप्प हुदीणि मेहकाळवळहाणि परम- ९ सुरहीणि आणीअमाणाणि मं उम्मादअन्ति । अह अ इमे मोरा अम्हाअं राअउळमाणसे अदिपीठमद्दभावं करन्ति । अम्हे हि सददळाळिदा वि अदेसकाळञ्ञदाए अत्तणो अहि- १२ कञभावं दंसेंदि । सुअसारिआ वि वक्खाणं एव कहेर्दु आरद्धा । मणिव्वेदभावं अजाणन्ती भूदिअसारिआ वि सव्वळ अवुत्तन्तं कहइस्सामिति आअदा । मम रोआवत्थं पुच्छिदं आअदो १५ परिजणो मं णिब्बन्धिअ णिवेदेदि । ता इच्छामि मुहुत्तअं पासा दे अच्छिदुं । [ हला ! किं त्वया मम हृदयं परिज्ञातम् । अत्र -v.1. ] पचमोऽङ्कः । जानता परिजनेन मम परितोषनिमित्तं बकुलसरलसर्जार्जुनकदम्बनीप- १८ निचुलप्रभृतीनि मेघकालवल्लभानि परमसुरभीण्यानीयमानानि मामुन्मा- दयन्ति । अथ चेमे मयूरा अस्माकं राजकुलमानसे अतिपीठमर्दभावं कुर्वन्ति । अस्माभिः सततलालिता अप्यदेशकालज्ञतयात्मनोऽधिकज्ञमावं २१ दर्शयन्ति । शुकसारिकापि व्याख्यानमेव कथयितुमारब्धा । मम निर्वेदभावमजानन्ती भूतिकसारिकापि सर्वलोकवृत्तान्तं कथयिष्यामी. त्यागता । मम रोगावस्थां प्रष्टुमागतः परिजनो मां निर्बध्य निवेदयति । २४ तदिच्छामि मुहूर्तकं प्रासादे आसितुम् । ] नलिनिका-जं भट्टिदारिआए रुइदं ! होदु । [ यद् भर्तृदारिकायै रुचितम् । भवतु । ] ( उभे आरोहतः । ) ( तत: प्रविशत्यविमारको विदूषकश्च ) कुरङ्गी - हळा ! एत्थ वि महन्तो अणत्थो उट्ठदो विज्जुप्पदीवं धारिअ काळ हो । [ हला ! अत्रापि महाननर्थ उत्थितः विद्युत्प्रदी - ३० पं धृत्वा कालमेघः । ] नलिनिका- भट्टिदारिए ! अळं उक्कण्ठिदेण । पेक्ख पेक्ख णवस - ळिळधररुद्धसुय्यं पविरळजळ णिवाददरसणीअं गअणअळं । ३३ [ भर्तृदारिके ! अलमुत्कण्ठितेन । पश्य पश्य नवसलिलधररुद्धसूर्यं प्रविरलजलनिपातदर्शनीयं गगनतलम् । ] कुरञ्जी - पेक्खामि अ रमणीअं आआसं । [ पश्यामि च रमणीय- ३६ माकाशम् । ] अविमारक:- वयस्य ! दृष्टा सा कुरङ्गी । यैषा, रोगादकालागुरुचन्दनाद्री विमुक्तभूषा गतहावभावा । अविमारके विभाति निर्व्याजमनोहराङ्गी वेदश्रुतिर्हेतुविवर्जिते ॥ १ ॥ [ v. 1.- विदूषकः - भो ! तुट्ठो म्हि । तुवं खु सञ्वळोए अहं सुवोत्ति अत्ताणं आरसि । जिदो दाणि तत्तहोदीए सहावरमणीएण ३ रुवेण । चिन्तेमि भवदो विओपण इअं तणुआ जादा । एवं पि एसा बालचन्दले हा विअ दिट्ठि तोसेदि । [ भोः ! तुष्टोऽस्मि ! त्वं खलु सर्वलोकेऽहं सुरूप इत्यात्मानमाचरसि । जित इदानीं तत्रभवत्याः ६ स्वभावरमणीयेन रूपेण । चिन्तयामि भवतो वियोगेनेयं तनुका जाता । एवमप्येषा बालचन्द्रलेखेव दृष्टिं तोषयति । ] अविमारकः - सखे ! अतिपण्डित इव, किमेतत् । ९ विदूषकः -- भो ! णिञ्च परिचएण मं परिहससि । अपुत्रवो जणो मम बुद्धिं अजागन्तो अहिअदरं पसंसदि । अहं पितं जाणिअ एदस्सि अरे के वि विमम्भं करोमि । [ भोः ! नित्यपरिचयेन मां १२ परिहससि । अपूर्वो जनो मम बुद्धिमजानन्नधिकनरं प्रशंसति । अहमपि तद् ज्ञात्वैतस्सिन्नगरे केनापि विस्रम्भं न करोमि । ] अविमारकः-अलमौदासीन्येन । बहुजनपरिवारतया न लब्धः क्षणः १५ कान्तां प्रबोधयितुम् । तदिदानीं प्रासाद्गतामपि तत्रैव तां बोध- यिष्यावः । विदूषकः- सुडु भवं भणादि । पासादं आळुहामो । [ सुष्ठु भवान् १८ भणति । प्रासादमारोहाव: । ] अविमारकः-सखे ! प्रयत्नादारोढव्यं यथा तथा न प्रवर्तते प्रासाद- शब्दः । २१ विदूषकः - भो ! ण सक्कं एदं । को सकदि उच्छि करतो भुञ्ज । अहं एत्थ चिट्ठामि । तुवं एव आळुह । [ भोः ! न —v. 2.* ] पञ्चमोऽङ्कः । शक्य प्रेतत् । कः शक्नोत्युच्छिष्टमकुर्वन् भोक्तुम् । अहमत्र तिष्ठामि । २४ त्वमेवाह । ] अविमारक:- यदि विमुने, दृश्यते भवान् । विदूषकः-भो ! विम्सरिदं खु मए एदं । पुणो पुणो कहेहि । [ भोः ! २७ विस्मृतं खलु मयैतत् । पुनः पुनः कथय । ] अविमारकः- इतस्तावन् । ( आरुह्यावलोक्य) सखे ! इयमम्मत्कान्ता शिलातले नलिनिकया सहास्ते । येषा, सव्ये करे समुपवेश्य मुखं सुदीनं कालं मनोभवसहायममृष्यमाणा । या विचिन्तयति किञ्चिदलोलदृष्टि- पं निवारयितुमूर्ध्वमवेक्षमाणा ॥ २ ॥ कुरी - (स्वगतम्) किं एद्रेण जीवम्मरणेण । ( प्रकाशम्) गळि - णिए ! गच्छ, माअधिअं आणेहि उवण्हाणेण । [ किमेतेन जीव- ३ न्मरणेन । नालनिके! गच्छ मागधिकामानयोपस्त्रानेन । ] नलिनिका - एआइणिं भट्टिदारिअं उज्झिअ कहूं गमिस्सं । ण हु एत्थ को विज । [ एकाकिनीं भर्तृदारिकामुज्झित्वा कथं गमि- ६ प्यामि । न खल्वत्र कोऽपि जन: । ] ( प्रविश्य ) हरिणिका - जेदु भट्टिदारिआ । भट्टिदारिए ! भट्टिणी भणादि- ९ सम्पदि कीदिसी सीसवेदणत्ति । एदं वि ओसधं किम्पेहि किल । [ जयतु भर्तृदारिका । भर्तृदारिके ! भट्टिनी भणति — सम्प्रति कीदृशी शीर्षवेदनेति । एतदप्यौषधं लिम्प किल । ] १२ कुरङ्गी -- णळिणिए ! गच्छ दाणि तुवं । तक्केमि देवो वरिसिदुं आरद्धो । अहं इच्छामि अहिणवेण आआसतोएण व्हा । ता तुवारेहि उवण्हाणं । [ नालनिके! गच्छेदानीं त्वम् । तर्कयामि देवो अविमारके [ v.2.15 १५ वर्षितुमारब्धः । अहमिच्छाम्यभिनवेनाकाशतोयेन स्नातुम् । तत् स्वर- योपस्नानम् । ] नलिनिका-जं भट्टिदारिआ आणवेदि । [ यद् भर्तृदारिकाज्ञापयति । ] १८ अविमारकः--किन्नुखल्वनया व्यवसितम् । कुरङ्गी - हळा ! एहि दाव ! [ हला ! एहि तावत् । ] नलिनका -- भट्टिदारिए ! इअम्हि । [ भर्तृदारिके ! इयमस्मि । ] २१ कुरशी -हळा णं ! सीदळं दे सरीरं । [ हला ! ननु शीतलं ते शरीरम् । ] नलिनका - भट्टिदारिए ! ण आणामि । [ भर्तृदारिके ! न जानामि । ] २४ कुरङ्गी - हळा ! एहि परिस्सजेहि मं । [हला ! एहि परिष्वजस्व माम् ] नलिनिका- भट्टिदारिए ! तह । ( परिष्वजते ) [ भर्तृदारिके ! तथा । ] २७ कुरङ्गी - हळा ! अदिसीदळं मणोहरं च दे सरीरं । [हला ! अति- शीतलं मनोहरं च ते शरीरम् । ] नलिनिका - अणुग्गहीद म्हि । [ अनुगृहीतास्मि । ] ३० कुरङ्गी-हळा ! सम्पदि णस्सदि विअ मे सरीरदाहो । (स्वगतम्) हन्त किो सहिप्पणओ । समत्तो अ अज्ज एदाए सरीरसंसग्गो । ( प्रकाशम् ) गच्छ दाणि तुवं । [ हला ! सम्प्रति नश्यतीव मे ३३ शरीरदाहः । हन्त कृतः सखी प्रणयः । समाप्तश्चाद्यैतस्याः शरीर- संसर्गः । गच्छेदानीं त्वम् ।] नलिनिका-जं भट्टिदारिआ आणवेदि । (निष्क्रान्ता ) [ यद् ३६ भर्तृदारिकाज्ञापयति । ] हरिणिका - भट्टिदारिए ! भट्टिणीए किं णिवेदेमि । [ भर्तृदारिके ! भट्टिन्यै किं निवेदयामि । ] _v.3.13] पञ्चमोऽङ्कः । ३९ कुरङ्गी - अज्ज विअदरोआ सोत्था होदिति । [ अद्य विगतरोगा स्वस्था भवतीति । ] हरिणिका - कहं तु विनादं त्ति पुच्छिदा किं विण्णवेमि । [ कथं ४२ त्वया विज्ञातमिति पृष्टा किं विज्ञापयामि । ] कुरङ्गी - सुट्ठ तुए विदं । एदेण ओसधविसेसेण त्ति भणेहि । [ सुष्ठु त्वया विज्ञातम् । एतेनौषधविशेषेणेति भण । ] ४५ हरिणिका - जं भट्टिदारिआ आणवेदि । (निष्क्रान्ता ) [ यद् भर्तृ- दारिकाज्ञापयति । ] अविमारकः - किन्नुखल्वनया व्यवसितम् । उष्णं श्वसिति तन्वङ्गी सर्वतः प्रेक्षते मुहुः । नेत्राभ्यां बाष्पपूर्णाभ्यां किन्नु कर्तुं व्यवस्थिता ॥ ३ ॥ कुरङ्गी - होदु, उत्तरीअवासेण अत्ताणं उच्बन्धि वावादइस्सं । ( उत्थाय तथा कुर्वती मेघस्तनितं श्रुत्वा ) हं परित्ताआहि परिता- ३ आहि मं । [ भवतु, उत्तरीयवाससात्मानमुद्वध्य व्यापादयिष्यामि । हं परित्रायस्व परित्रायस्व माम् । ] अविमारकः-सखे ! न शक्यमतः परमुपक्षितुम् । (अङ्गुलीयकं वामा- ६ ङ्गुल्या प्रक्षिप्य ) कान्ते ! न भेतव्यं न भेतव्यम् । (इति कुरङ्गीमुत्था- पयति ) कुरङ्गी - ( सहर्षम् ) किण्णुखु सच्चं एदं । मूढा विअ जादा । : [ किन्नुखलु सत्यमेतत् । मूढेव जाता । ] अविमारकः - कान्ते ! व्यपनीयतां शङ्का । (परिष्वजते ) कुरङ्गी -अच्छरीअं । एकक्खणेण णस्सदि विअ मे सरीरदाहो । १२ [ आश्चर्यम् । एकक्षणेन नश्यतीव मे शरीरदाहः ] अविमारकः–अयं खल्वस्याः परिष्वङ्गः, अविमार के [ v. 4.-- सततपरिचितो मनोभियोगा- दधिकरसः प्रथमात् समागमान् । रणशिरसि नृपेण साहसायो विजय इवाद्य मयानुभूयते ॥ ४ ॥ विदूषकः - कहं रोदिदुं आरद्धा । अळं अदिमत्तं सन्दावेण । अव अहं विरोदामि । एकं पि तहिं दुहं मम णअणादो ३ बणणिग्गच्छइ । जदा मे पिदा उवरदो, तदा वि महन्तेण आरम्भेण रोदिदु आरद्धो । बफंण णिग्गच्छइ । किं पुण अण्ण- सन्दावस्स । तह वि अणुम्सुओ गेदामि । कथं रोदितुमारब्धा । ६ अलमतिमात्रं सन्तापेन । अथवा अहमपि रोदिमि । एकमपि तत्र दुर्लभं मम नयनाद् बापं न निर्गच्छति । यदा मे पितोपरतस्तदापि महता- रम्भेण रोदितुमारब्धः । बाप्पं न निर्गच्छति । किं पुनरन्यसन्तापस्य । ९ तथाप्यनुत्सुको रोदिमि । ] अविमारकः-अलमुत्प्रहसितेन । अच्छलो हि स्नेहो नाम । ते न बुद्धिर्ममदूषणीया येन प्रकामं भवताम्मि हास्यः । प्राज्ञस्य मूर्खस्य च कार्ययोगे ममत्वमभ्येति तनुर्न बुद्धिः ॥ ५ ॥ ( प्रविश्य ) नलिनिका - हरिणिए ! हरिणिए ! । कहं दुवारं रुद्धं । हद्धि दुवा- ३ रणिरोहेण अवअदसन्दावं अत्ताणं करिम्सदिति तम । हरि- णिए ! । हरिणए ! । हद्धि तं एव संवृत्तं । [ हरिणिक ! हरिणिके! । कथं द्वारं रुद्धम् । हा धिग् द्वारनिरोधेनापगतसन्तापमात्मानं करिष्य- ६ तीति तर्कयामि । हरिणिके ! हरिणिके ! । हा धिग् तदेव संवृत्तम् । ] -v. 5.30] पञ्चमोऽङ्कः । अविमारक:-नलिनिकाया इव स्वरः । वयस्य ! विघयतां द्वारम् । विदूषकः - जं भवं आणवेदि । ( विधाट्य ) एदु एदु भोदी । ९ [ यद् भवानाज्ञापयति । एत्वे भवती । ] नलिनिका- हं को दाणिं एसो पुरिसो । [ हं क इदानीमेष पुरुषः । ] विदूषकः - सुट्ट विना तुए । अहो राअउळस्स विसेसो । को १२ अण्णो जणो मं पेक्खिअ पुरिसोत्ति भणादि । इत्थआ खु अहं । [ सुष्ठु विज्ञातं त्वया । अहो राजकुलस्य विशेषः । कोऽन्यो जनो मां प्रेक्ष्य पुरुष इति भणति । स्त्री खल्वहम् । ] १५ अविमारकः - नलिनिके ! प्रविशेदानीम् । नलिनिका- कहं ट्टिदारओ । भट्टिदारअ ! वन्दामि । भट्टिदारअ ! को एसो पुरिसो । [ कथं भर्तृदारकः । भर्तृदारक ! वन्दे । भर्तृदार- १८ क ! क एष पुरुष: । ] विदूषक:- अहं पुक्खरिणी णाम चेडी । [ अहं पुष्करणी नाम चेटी । ] अविमारकः - योऽस्माभिः सदा कथ्यते सन्तुष्ट इति, सोऽयं २४ ब्राह्मणः । नलिनिका- आ दिट्ठपुरुवो णअरापणाळिन्दे अअं बम्हणो । [आ दृष्टपूवों नगरापणालिन्देऽथं ब्राह्मणः । ] २४ विदूषकः - आम भोदि । जण्णोपवीदेण ब्रम्हणो, चीवरेण रत्तपढो । जदि वत्थं अवणेमि, समणओ होमि । भोदि ! किं एदं । [ आम भवति ! यज्ञोपवीतेन ब्राह्मणः, चीवरेण रक्तपटः । यदि वस्त्रमपनयामि २७ श्रमणको भवामि । भवति ! किमेतत् । ] नलिनिका - भट्टिदारिआए उवण्हाणं । [ भर्तृदारिकाया उपस्नानम् । ] विदूषकः - किं एदिणा बुभुक्खिदाए रोदन्तीए अत्तहोदीए उवण्हाणेण ३० कय्यं । गच्छ सिग्धं भोअणं आणेहि । अहं अग्गासणीओ अ. मा. ८ अविमार के [ v. 5.31 होम । [ किमेतेन बुभुक्षिताया रुदन्त्या अत्रभवत्या उपस्नानेन कार्यम् । गच्छ शीघ्रं भोजनमानय । अहमग्रासनीयो भवामि । ] ३३ नलिनिका- दुम्बम्हण ! एदं पि भोअणं चिन्तेसि । सव्वं दाव चिठ्ठदु । कहं दिअसे अणेअपुरुससम्पादे राअमग्गे भट्टिदारओ विट्ठो । [ दुर्ब्राह्मण ! एतदपि भोजनं चिन्तयसि । सर्वं तावत् ३६ तिष्ठतु । कथं दिवसेऽनेकपुरुषसम्पाते राजमार्गे भर्तृदारकः प्रविष्टः ।] अविमारकः- सर्वं भवत्यै सन्तुष्टः कथयिष्यति । नलिनिका - विसज्जिदम्हि इमिणा बहुमाणवअणेण । होदु, इमं ३९ गह्निअ चउस्साळं पविसिअ गोट्ठीजणेण सह वृत्तन्तं सुणामि । एहि म्हण ! ( इत्याकर्षति । ) [ विसर्जितास्म्यनेन बहुमानवचनेन । भवतु, इमं गृहीत्वा चतुःशालं प्रविश्य गोष्टीजनेन सह वृत्तान्तं ४२ शृणोमि । एहि ब्राह्मण ! । ] विदूषकः - अबम्हणणं अबम्हणणं । [ अब्रह्मण्यमब्रह्मण्यम् । ] कुरङ्गी-हस्सो खु अअं बम्हणो । [ हास्यः खल्वयं ब्राह्मणः । ] ४५ अविमारकः – वयस्य । हास्यः खलु भवान् । - विदूषकः - को एत्थ मम अस्सद्धेअं भणादि । अहं ण हस्सो, तत्तहोदी एव हस्सा । जा अत्तणो अवत्थं जाणिअ किंपि कत्तुं ४८ ववसिअ मेहसद्दं सुणिअ सव्वं विसुमरिअ पडिदा । [ कोsन ममाश्रद्धेयं भणति । अहं न हास्यः, तत्रभवत्येव हास्या । यात्मनोऽ वस्थां ज्ञात्वा किमपि कर्तुं व्यवस्य मेघशब्दं श्रुत्वा सर्व विस्मृत्य ५१ पतिता । ] कुरजी - हं एदं पि इमेहि दिट्टं । [ हम् एतदप्याभ्यां दृष्टम् । ] नलिनिका-याचेमि अहं । इदो एहि बम्हण ! । [ याचेऽहम् । ५४ इत एहि ब्राह्मण ! 1] __v. 6. ] पञ्चमोऽङ्कः । विदूषकः - जइ भोअणं देसि, तदो गच्छामि अहं । इट्ठ आअन्तुअ- स्स भोअणदाणं । [ यदि भोजनं ददासि ततो गच्छाम्यहम् । इष्ट- ५७ मागन्तुकस्य भोजनदानम् । ] नलिनिका - एहि मे सव्वाभरणं देमि । [ एहि में सर्वाभरणं ददामि । ] विदूषकः - हि दिवअणेण पित्तं णस्सदि । मम हत्थगदं करेहि । [ नहि घृतवचनेन पित्तं नश्यति । मम हस्तगतं कुरु । ] नलिनिका - एवं होदु । ( आभरणान्यवमुच्य ददाति ) [ एवं भवतु । ] विदूषकः - सुणादु होदी । [ श्रृणोतु भवती । ] ६३ नलिनिका - मूढ ! बम्हण ! चउरसाळे उवविसिअ गोट्ठीजणेण सह सुणामि । [ मूढ ! ब्राम्हण ! चतुःशाल उपविश्य गोष्टीजनेन सह मृणोमि । ] ६६ विदूषकः- तत्तहोढ़ीं पुच्छि आअच्छामि । [ तत्रभवतीं पृष्ट्वागच्छामि। ] नलिनिका - को तुवं, मम सव्वाभरणं गहिअ वो जादो । एहि दाव । ( विदूपकं हस्ते गृह्णाति । ) [ कस्त्वं मम सर्वाभरणं गृही- ६९ त्वा वल्लभो जातः । एहि तावत् । ] ' विदूषकः - भोदि ! मा मा एवं । अदिसुउमारो खु अहं । [ भवति ! मा मैवम् । अतिसुकुमारः खल्वहम् । ] ७२ नलिनिका - जाणामि जाणामि दे सुउमारत्तणं । जइ सुउमारो, सिग्धं एहि । [ जानामि जानामि ते सुकुमारत्वम् । यदि सुकुमारः, शीघ्रमेहि । ] विदूषकः - भोदि ! अअं आअच्छामि । [ भवति ! अयमागच्छामि । ] (निष्क्रान्तां । ) अविमारकः- प्रिये ! पश्य पश्य परमदर्शनीयान् प्रावृट्कालवल्लभान् कालमेघान् । इमे हि, जलदसमयघोषणाडम्बरानेकरूपक्रियाजम्भका वस्त्रभृद्गृष्टयो भगणयवनिकास्तटित्पन्नगीवासवल्मीकभूता नभोमार्गरूढक्षुपाः । अविमार के [ v. 6. - मदनशर निशानशैलाः प्ररुष्टाङ्गनासन्धिपाला गिरिस्नापनाम्भोघटाः उदधिसलिलभैक्षहारा रवीन्द्वर्गला देवयन्त्रप्रपा भान्ति नीलाम्बुदाः ॥ ६ ॥ कुरङ्गी - अय्यउत्त ! दस्सणीआ दाणिं संवृत्ता । [ आर्यपुत्र ! दर्शनी- या इदानीं संवृत्ता: । ] ३ अविमारक:- अहो विपुलता विरलता धाराणाम् । तथाहि, ज्योमार्णवोर्मिसदृशा निनदन्ति मेघा मेघप्ररोह सदृशाः प्रपतन्ति धाराः । रक्षोङ्गनाकुटिवत् तडितः स्फुरन्ति प्राप्तोऽग्रयौवनघनस्तनमर्द कालः ॥ ७ ॥ कुरङ्गी - अय्यउत्त ! आरद्धो सम्पदि वरिसिदुं देवो । [ आर्यपुत्र ! आरब्धः सम्प्रति वर्षितुं देवः । ] ३ अविमारकः - प्रिये ! एहि अभ्यन्तरमेव प्रविशावः । कुरङ्गी - ( सहर्षम् ) जं अय्यउत्तो आणवेदि । [ यद् आर्यपुत्र आज्ञापयति । ] ( निःक्रान्तौ । ) ( ततः प्रविशति धात्री । ) पञ्चमोऽङ्कः । अथ षष्ठोऽङ्कः । धात्री - अहो अणवत्था किदन्तम्स, जं राअदारिआ पढमं महारा- ३ एण सोवीरणतं विहुसेणं उद्दिसिअ वरिदा । अज्ज अवि- दिअसम्भवेण माणुसळोअदुळ भाकिदिगुणवि से सेण के वि संओओ जादो । अहअ दाणि कासिराअपुत्तो जअवम्मा णाम ६ भट्टिणीए सुदस्सणाए सह अमच्चेण भूदिएण आणीदो सम्पदि —vi.31 ] षष्ठोऽङ्कः । अउ पविट्ठो । सअं किल कासिराओ जण्णवावारेण ण आदो । किंणुखु एदं भविस्सदि । [ अहो अनवस्था कृतान्तस्य, ९ यद् राजदारिका प्रथमं महाराजेन सौवीरराजेन तं विष्णुसेनमुद्दिश्य वृता । अद्याविदितसम्भवेन मानुषलोकदुर्लभाकृतिगुणविशेषेण केनापि संयोगो जातः । अथ चेदानीं काशिराजपुत्रो जयवर्मा नाम भट्टिन्या १२ सुदर्शनया सहामात्येन भूतिकेनानीतः संप्रति राजकुलं प्रविष्टः । स्वयं किल काशिराजो यज्ञव्यापारेण नागतः । किन्नु खल्वेतद् भविष्यति । ] ( ततः प्रविशति वमुमित्रा । ) १५ वसुमित्रा - अहो विसमसीळा संवच्छरिआ णाम अत्तणो णक्खत्त- विसेसं एव चिन्तअन्ति, कम्मगोरखं ण जाणन्ति । अज्ज पविट्ठो कुमारो, अज्ज एव विवाहो णिउत्तो । ( परिक्रम्य ) किण्णुखु जअ - १८ दा इअं किं विचिन्तयन्ती अप्पसण्णा विअ उम्सुआ दीसइ । जअदे ! भट्टिणी भणादि -आअच्छेहि त्ति । [ अहो विपमशीलाः सांवत्सरिका नामात्मनो नक्षत्रविशेषमेव चिन्तयन्ति, कर्मगौरवं न २१ जानन्ति । अद्य प्रविष्टः कुमारोऽद्यैव विवाहो नियुक्तः । किंनुखलु जय- देयं किमपि चिन्तयन्त्यप्रसन्नेवोत्सुका दृश्यते । जयद ! भट्टिनी भणति —आगच्छेति । ] २४ धात्री - हळा ! जाणासि किं णिमित्तं त्ति । [हला ! जानासि किं निमित्तमिति । ] वसुमित्रा - किं अण्णं, एदस्सि करये कत्तवं चिन्तेढुं । [ किम- २७ न्यत्, एतस्मिन् कार्ये कर्तव्यं चिन्तयितुम् । ] धात्री - सम्पदि भट्टिणीए को अभिपाओ । [ संप्रति भट्टिन्याः कोऽभिप्रायः । ] ३० वसुमित्रा–अत्तणो वंसजादस्स विहुसेणस्स अवत्थं अजाणिअ च्छदि अवम्मणो दारिअं दादुं । किन्तु महाराओ सोवीररा- अविमार के [ vi. 32 अउत्तं अजाणन्तो अज्ज किळ अहिअसन्दावो जादो । [ आत्मनो ३३ वंशजातस्य विष्णुसेनस्यावस्थामज्ञात्वा नेच्छति जयवर्मणे दारिकां दातुम् । किन्तु महाराजः सौवीरराजपुत्रमजानन्नथ किलाधिकसन्तापो जात: । ] ( प्रविश्य ) नलिनिका -- -अज्ज किदसङ्गेदा विअ अम्हाअं सव्वसङ्कडा । ( परिक्रम्यावलोक्य) किष्णुहु एसा मम मादा वसुमित्ताए सह ३९ किं विचिन्तेदि । इमं उपसप्पिअ असुहवुत्तन्तं सुणामि । [ अद्य कृतसंकेतानीवास्माकं सर्वसंकटानि । किंनुखल्वेषा मम माता वसुमित्रया सह किमपि चिन्तयति । इमामुपसर्प्यसुखवृत्तान्तं शृणोमि । ] ४२ वसुमित्रा हा गळिणिए ! एहि दाव। तुमं कञ्चुइसहवासेण राउळवुत्तन्तं जाणासि । [ हला नलिनिके ! एहि तावत् । त्वं कञ्चुकिसहवासेन राजकुलवृत्तान्तं जानासि । ] ४५ नलिनिका - अभिणवो वुत्तन्तो । णं तं णिवेदिउं आअदम्हि । [ अभिनवो वृत्तान्तः । ननु तं निवेदयितुमागतास्मि । ] वसुमित्रा - भणाहि जादे ! । [ भण जाते ! । ] ४८ नलिनिका - पेसिदो खु सोवीरराअस्स अमचेहि दूदो — अम्हाअं सामी तुम्हाणं अरे सपुत्तदारकळत्तो पच्छण्णो पडिवसदि अम्हाअं गृढ़पुरुसेहि वुत्तन्तो जाणिअदु सामिणेत्ति । [ प्रेषितः ५१ खलु सौवीरराजस्यामात्यैर्वृतः - अस्माकं स्वामी युष्माकं नगरे सपुत्र- दारकलत्रः प्रच्छन्नः प्रतिवसतीत्यस्माकं गूढपुरुषैर्वृत्तान्तो ज्ञायतां स्वामिनेति । ] ५४ उभे-कहं पच्छण्णवेसो वत्तदित्ति । तदो तदो । [ कथं प्रच्छन्न- बेषो वर्तत इति । ततस्ततः । ] —vi. 2. ] षष्ठोऽङ्कः । नलिनिका - तदो एदं सव्वं सुणिअ तस्स ळेहस्स अवसाणं ५७ पेक्खिअ अय्यभूदिएण सह गओ किळ महाराओ तं अण्णेसि । [ तत एतत् सर्वं श्रुत्वा तस्य लेखस्यावसानं प्रेक्ष्यार्यभूतिकेन सह गतः किल महाराजस्तमन्वेषितुम् । ] ६० धात्री - किण्णुखु भवे । [ किन्नुखलु भवेत् । ] वसुमित्रा - गळिणिए ! । तुवं दाव अब्भन्तरं पविस । [ नलि- निके ! त्वं तावद्भ्यन्तरं प्रविश । ] ६३ नलिनिका - जं अय्या भणादि । (निष्क्रान्ता ) [ यदार्या भणति । ] वसुमित्रा - एहि दाव । वअं भट्टिणी पेक्खामो । [ एहि तावत् । आंवा भट्टिनीं पश्यावः । ] ६६ धात्री एवं करम्ह । [ एवं कुर्वः । ] (निष्क्रान्ते । ) ( ततः प्रविशति कुन्तिभोजः सौवीरराजभूतिकाभ्याम् ) ( उभौ परिष्वजेते ) प्रवेशकः । कुन्तिभोजः - वयस्य ! किं प्रेक्षसे मम मुखं चिरकालदृष्टो गाढं परिष्वज सखे ! स्मर बालभावम् । प्रीत्या भवन्तमनिमेषमवेक्षितुं मे स्नेहा नवीकृत इवाद्य वयस्यभावः ॥ १ ॥ सौवीरराजः - यदिष्टं भवतः । ३ कुन्तिभोजः - चिन्ताकुलत्वं व्रजतीव बुद्धि- र्वाक्यं च बाष्पाहत गद्गदं च । अविमारके नेत्रे सबाष्पे मुखमप्रसन्नं किं हर्षकाले क्रियते विकारः ॥ २ ॥ [vi. 2- सौवीरराजः - न खल्वहमप्रहृष्टो भवत्सङ्गमेन । किन्तु बलवान् पुत्र- स्नेहो नाम । यो मे पुत्रगतः शोको हृदयस्थो विजृम्भते । सोऽय लब्ध्वा सहायं त्वां बाष्परूपेण निर्गतः ॥३॥ कुन्तिभोजः - कथं पुत्रगतः शोक इति । भूतिकः - विदितमस्तु स्वामिना । न दृश्यते किलाम्मिन् संवत्सरे ३ कुमारः । सौवीरराजः - बलवान् पुत्रस्नेहो नाम । पश्यतु भवान अनुपमबलवीर्यरूपवन्तं सुतमत्रिमारकमद्य चिन्तयामि । तव चरणरजोचिताम्रकेशो यदि स भवेदिह को तु मद्विशिष्टः ॥ ४ ॥ भूतिकः--( आत्मगतम् ) महान् खल्वयं सन्तापो वर्धत एव हि कुमारमन्तरेण । विलोपयाम्येनम् । ( प्रकाशम् ) कथं स्वामिनोऽभ्या- ३ गता व्यापत् । कुन्तिभोजः - - अहमप्यनेन व्याक्षेपेण विस्मृतवानेतन् प्रष्टुम् सौवीरराज:- :- श्रूयताम् ६ खाच्छोतुमिच्छति । 1. अथवा भूतिकम्तु विजानाति । अप्यस्मन्मु- कुन्तिभोजः - वयमवहिताः स्मः । सौवीरराज:-अपि ज्ञायते चण्डभार्गवो नामात्यन्तरोषी ब्रह्मर्षिः । ९ कुन्तिभोजः - श्रूयते तत्रभवांस्तपोनिधिः । _vi. 6. ] षष्ठोऽङ्कः । सौवीरराजः - सोऽस्मद्विषयमभ्यागतः । कान्तारे तस्य शिष्यो व्याघ्रेणाभिभूय मारितः । १२ कुन्तिभोजः - ततस्ततः । सौवीरराज:- नतोऽहमपि तस्मिन् काले मृगयावशाद् यदृच्छयैव तं देशमभ्युपगतः । १५ कुन्तिभोजः - ततस्ततः । सौवीरराज:- अथ मां दृष्ट्रा विजृम्भमाणरोषभ्रुकुटी पुट विषमीकृत- वदनः प्रलम्बजटाभारः शिष्ये स न्यस्तकरः क्रुद्धो दहन्निव क्रोधा- १८ ग्निना मद्वचनमश्रोतुकामः संरम्भम्खलितवचनो मां बहुधा क्षेप्तुमारब्धः । कुन्तिभोजः - :- ततस्ततः । २१ सौवीरराजः- ततोऽहमपि भवितव्यस्यार्थस्य प्राबल्येनाधृतिः 'वृत्तान्तं न ब्रवीषि, निष्कारणं क्षिपसि ' इति संक्रुद्धवानस्मि । न भाषसे वृत्तमुपैषि रोषं निष्कारणं प्रक्षिपसि प्रकामम् । अभाजनं त्वं तपसां प्रकोपाद् ब्रह्मर्षिरूपेण भवाऽछुपाकः ॥ ५ ॥ कुन्तिभोजः-असदृशमुक्तं भवता । सौवीरराजः–ततस्तच्छ्रुत्वैवाज्यधारावसिक्तो भगवान् हुताशन इव ३ प्रज्वलित नेत्रो बहुशः शिरः कम्पयन ' कथं कथम् ' इत्युक्त्वा मां शप्तुमारब्धवान् । इति । यस्माद् ब्रह्मर्षिमुख्योऽहं श्वपाक इति भाषितः । तस्मात् सपुत्रदारस्त्वं श्वपाकत्वमवाप्स्यसि ॥ ६ ॥ अविमारके कुन्तिभोज :- अहो अल्पमूलत्वं महतां चानर्थस्य । भूतिकः - सभाग्यं सौवीरराजकुलम् । कुतः, ब्रह्मर्षिणा प्ररुष्टेन श्रपाकत्वं तदा कृतम् । [ vi. 6.—— यस्मात् तेनैव रूपेण न सर्व भस्मसात् कृतम् ॥ ७ ॥ कुन्तिभोजः - युक्तमभिहितं भवता । ततस्ततः । सौवीरराजः- ततस्तच्छापप्रक्षुब्धमनसा मया सुचिरमनुनीयमानः शनैः शनैः प्रकृतिस्थो भूत्वानुग्रहं कृतवान्- - यावत् प्रच्छन्नरूपेण तावत् संवत्सरं व्रजेः । ततः संवत्सरे पूर्णे मुक्तशापो भविष्यसि ॥ ८ ॥ इति । एवमुक्त्वा प्रसन्नचित्तेन एहि भोः काश्यप ! इत्याहूयत, स तमनुगतो व्याघ्रेण मारितो बटुः । चरितं च मया संवत्सरं ३ पात्रतम् । अद्यास्मि शापान्मुक्तः । कुन्तिभोजः - अहो व्यापदः प्रवृत्तिर्निवृतिश्च । दिष्टया भवान् वर्धते । ६ भूतिकः - जयतु स्वामी । कुन्तिभोजः ननु विष्णु सेनमाता सपरिवारमन्तःपुरं प्रविष्टा । भूतिकः- तत्रभवती प्रविश्याभ्यन्तरं चिरकालप्रसुप्तं प्रणयमुद्रो- ९ धयति । कुन्तिभोजः - अथेदानीं विष्णुसेनः कथमविमारको जातः । भूतिकः - शृणोतु स्वामी - अस्ति धूमकेतुर्नामासुरः । सर्व- १२ लोकमारणाय परिभ्रमन् स कदाचित् सौवीरराष्ट्रमुत्सादयितुं प्रवृत्तः । कुन्तिभोज :- अपूर्वा खलु कथा । ततस्ततः । —vi. 1° ] षष्ठोऽङ्कः । १५ भूतिकः - ततः स्वदेशे सर्वप्रजानामार्ति दृष्ट्वा तस्य राक्षसस्य च प्रतिक्रियामनवेक्षमाणः स्वामी क्लेशमुपगतः । कुन्तिभोजः - ततस्ततः । १८ भूतिकः - ततस्तत् सर्वं बुद्धा कुमारो विष्णुसेनः क्षितिरेणु- परुषगात्रः प्रलम्बमानकाकपक्षः शिशुभिस्तुल्यवयोभिः प्रक्रीड- मानो दैवयोगान् प्रमत्तेषु रक्षिपुरुषेषु सहसैव तं देशमभ्युपगतो २१ यत्रासौ राक्षसः कुन्तिभोजः - अहो आश्चर्यमाश्चर्यम् । ततस्ततः । भूतिकः- ततः स राक्षसः प्रीत्या सुसम्पन्नमिवाहारं कुमारमभि- २४ समीक्ष्य स्वकर्म कर्तुमारब्धः । कुन्तिभोजः - अहो नृशंसता राक्षसस्य । ततस्ततः । :- अथ कुमारेण किञ्चित् प्रहस्य, भूतिक:- प्रपतदशनिना यथा गिरीन्द्रो दवदहनेन यथा वनप्रदेशः । युधि ललितमनायुधेन तेन क्षितिपतेन तदा हतः स नीचः ॥ ९ ॥ कुन्तिभोजः– प्रथममेव हस्तिसम्भ्रमे मयोक्तं -- दैवादुत्पादितोऽयं केवलो मानुषो न भवतीति । ३ सौवीरराजः - भवान् प्रति । भूतिकः-स्वामिन्! सहस्रनेत्रश्चरैः कथं चिन्तयत्यविमारकं गम्यास्तु देशाः सुपरीक्षिता मे न दृश्यते कापि चरैः कुमारः । अविमारके परीक्षितुं तं मनसोऽस्ति शक्ति - नूनं हि मायामनुगच्छतीति ॥ १० ॥ (ततः प्रविशति नारदः ) नारदः- वेदैः पितामह महं परितोषयामि गीतैः करोमि हरिमुद्गतरोमहर्षम् । उत्पादयाम्यहरहर्विविधैरुपायै- [ vi. 10 - स्तन्त्रीषु च स्वरगणान कलहांश्च लोके ॥ ११ ॥ भोः ! कुन्तिभोजस्य पित्रा दुर्योधनेन वयं सुचिरमाराधिताः । तस्मिन् मानुषस्वभावमुपगते कुन्तिभोजश्चाम्मासु भृत्यत्वमाच- ३ रति । अद्य कुन्तिभोजस्य सौवीरराजस्य च महानविमारकादर्श - कार्यसङ्कट वर्तते । तदिदानीमहमविमारकप्रदर्शनेन तयो- र्याक्षेपं समाक्षिपामीत्यवतीर्णोऽस्मि भूम्याम् । ( इति कुन्तिभोजसौ- ६ वीरराजयोः पुरतः स्थितः । ) कुन्तिभोजः - अये भगवान देवर्षिर्नारदः । भगवन ! अभिवादये । नारद: - स्वस्ति भवते ९ कुन्तिभोजः - अनुगृहीतोऽस्मि । सौवीरराज:- भगवन् ! अभिवादये । नारदः - शान्तिरस्तु ते । १२ सौवीरराज:- अनुगृहीतोऽस्मि । कुन्तिभोज : - ( कर्णे) भूतिक ! एवं क्रियताम् । भूतिकः - यदाज्ञापयति स्वामी । १५ पाद्यं च । ( निष्क्रम्य प्रविश्य ) इदमर्यं कुन्तिभोजः - भगवन् ! क्रियतामनुग्रहः । नारद: - एवमस्तु । —vi. 12.° ] षष्ठोऽङ्कः । १८ कुन्तिभोजः - ( अभ्यर्च्य ) भगवन् ! अस्मद्गृहं परिपूतं भवदव- तर । सौवीरराजः - इदानीं मुक्तशापोऽस्मि देवर्षिदर्शनेन । २१ नारदः–नाहं साम्प्रतं युष्मद्दर्शनार्थमेवागतोऽत्र । अविमारकादर्श - नेन सम्भूतं दुःखं भवतोर्ज्ञात्वावतीर्णोऽस्मि । उभौ-यद्येवं, विमुक्तसन्तापौ स्वः । २४ नारदः - भूतिक ! सुदर्शनामानय । भूतिकः - यदाज्ञापयति भगवान । (निष्क्रम्य सुदर्शनया सार्धं प्रविष्टः ) सुदर्शना - अव्भाअदो देवरिसी । [ अभ्यागतो देवर्षिः ] । २७ भूतिकः - एवम् । सुदर्शना - साहो दाणि मे पुत्तअम्स विवाहो संवृत्तो । (उपगम्य ) भवं वन्दामि । [ सनाथ इदानीं मे पुत्रकस्य विवाहः संवृत्तः । ३० भगवन् ! वन्दे । ] नारद:- एवमेव महाभागे ! नित्यं प्रीतिमवाप्नुहि । कुन्तिभोजश्च भूपालो नित्यं म्यान् प्रीतिपीडितः ॥ १२ ॥ सुदर्शना - अगुग्गहीदम्हि । [ अनुगृहीतास्मि । ] नारदः - इदानीं पृच्छतां भवन्तौ प्रष्टव्यम् । ३ उभौ - अनुगृहीतौ स्वः । कुन्तिभोजः-भगवन् ! किं जीवति सौवीरराजपुत्रः । नारदः - बाढम् । ६ सौवीरराज:- केन कारणेन न दृश्यते । नारद:- विवाहव्याक्षेपात् । सौवीरराज:- कथं निर्विष्टः कुमारः । :- अथ कस्मिन् प्रदेशे । ९ कुन्तिभोजः - नारद: - नगरे वैरन्त्ये । अविमारके [vi. 12.1° कुन्तिभोजः - वैरन्त्यं नाम नगरमध्यस्तीति । भवतु कस्य जामातृत्व- १२ मुपगतः । नारद: - कुन्तिभोजस्य । कुन्तिभोजः-कः सः । १५ नारद:- पिता कुरङ्गया भूपालो वैरन्त्य नगरेश्वरः । दुर्योधनस्य तनयः कुन्तिभोजो भवान् ननु ॥ १३ ॥ कुन्तिभोज:- किं बहुभिः प्रश्नैः । मत्सुतायां कुरङ्गयां निर्विष्ट इत्युच्यते भगवता । ३ नारदः - एवमेतन् । कुन्तिभोज :- लज्जित इवास्मि । केन दत्ता, कथं वा, कथं चार्य प्रविष्टः कन्यापुरम् । ६ नारद:- दत्ता सा विधिना पूर्वं दृष्टा सा गजसम्भ्रमे । पूर्वं पौरुषमाश्रित्य प्रविष्टो मायया पुनः ॥ १४ । कुन्तिभोजः - भवत्वेवं तावन्निष्प्रतिवचनमृषिवचनम् । भगवन् ! इदानीं किं प्राप्तकालं कुमारस्य कुरङ्गयाश्च । विवाहः पूर्वमारब्धव्यः । ३ नारदः - निष्ठितो विवाहो ननु गान्धर्वः स्वसमय एव इदानीम् । कुन्तिभोजः - अग्निसाक्षिकमिच्छामि । नारदः - नित्यमग्निसाक्ष्येव । तथापि स्वजनपरितोषणार्थमभ्यन्तर- ६ समयमात्रमुपाध्यायेन कारयित्वा शीघ्रमानीयतामिह कुमारः सह भार्यया । कुन्तिभोजः - भगवन ! एष गच्छामि । —vi. 14.33 ] षष्ठोऽङ्कः । ९ नारद:- तिष्ठतु भवान् । भूतिक ! गच्छ त्वम् । भूतिकः - यदाज्ञापयति भगवान् । (निष्क्रान्तः । ) कुन्तिभोजः - भगवन् ! विज्ञाप्यमस्ति । १२ नारदः–इतस्तावत् । स्वैरमभिधीयताम् । कुन्तिभोजः - भगवन् ! सुदर्शनायाः पुत्राय जयवर्मणे कुरङ्गीं दास्या- मीति मयानीता सा पूर्वं सनाथा । किं कर्तव्यमिदानीम्, अभि- १५ धीयताम् । नारद: - एवं करोमि । मुहूर्तमेकान्ते तिष्ठ । कुन्तिभोजः - तथास्तु । ( तथा करोति । ) १८ नारदः - सुदर्शने ! इतस्तावत् । सुदर्शना - भअवं ! इअम्हि । [ भगवन् । इयमस्मि । ] नारदः - ननु श्रुतमस्मद्वचनम् । २१ सुदर्शना - सुदं सोवीरराअउत्तम्स गुणसङ्कीत्तणं । [ श्रुतं सौवीर- राजपुत्रस्य गुणसङ्कीर्तनम् । ] नारदः - मा मैवम् । भवत्या विस्मृतोऽग्निदेवादुत्पन्नोऽग्रजस्ते पुत्रः । २४ सुदर्शना - हं, एदं पि भअवं जाणादि । [ हम्, एतदपि भगवान् जानाति । ] नारदः - ममैवाज्ञां कुरुष्व तावत् । २७ सुदर्शना - एवं करोमि । भअवं भणादु । [ एवं करोमि । भगवान् भण ] नारदः - तवायं पुत्रोऽमेरुत्पन्नः । त्वद्भगिन्याः सुचेतनायाः । ३ • प्रसवसमकाल एव तत्सुतः स्वर्गं गतः । तवायं पुत्रस्त्व- द्भगिन्यै त्वया दत्तः । सौवीरराजश्चासावत्यन्तसन्तुष्टः प्रीतिस- दृशीः क्रियाः कृत्वा विष्णुसेन इति संज्ञामकरोत् । अमानुष- ३३ स्वरूपबलवीर्यपराक्रमेणानेन वर्धमानेन यस्मादविरूपधारी मा- अविमार के [ vi. 14, 34_ रितोऽसुरः तस्मादविमारक इति विष्णुसेनं लोको ब्रवीति । ततः सोऽपि ब्रह्मशापपरिभ्रष्टो हस्तिसम्भ्रमदिवसे कुरङ्गी दृष्ट्वा ३६ समुत्पन्नाभिलाषः परेण पौरुषेण सङ्गम्य कुरङ्गया दर्शनश- ङ्कितैः कन्यापुररक्षिभिः परीक्ष्यमाणोऽग्निना भगवता प्रच्छादितो निर्गतः । तेन निर्वेदेनाग्निं प्रविष्टः पित्रा भगवताग्निना प्रीत्या ३९ परिष्वज्यमानो न दहत्यग्निरिति महत्प्रपातार्थं कञ्चित् पर्वतमारूढः । सुदर्शना - अहो अचाहिदं । [ अहो अत्याहितम् । ] नारदः - तत्र केनापि विद्याधरेण तद्रूपदर्शनमात्रप्रहृष्टेन प्रीत्यान्त- ४२ धनकार्यमात्रमङ्गलीयकं दत्तं यद् दक्षिणाङ्गल्या धारयन्नदृश्यो भवति, वामेन प्रकृतिस्थश्च । सुदर्शना - अच्छरीअं अच्छरीअं । [ आश्चर्यमाश्चर्यम् । ] ४५ नारदः- ततम्तद् दक्षिणाङ्गुल्या धारयन सन्तुष्टनामधेयेन ब्राह्मणेन सह कुन्तिभोजम्य कन्यापुरं स्वगृहवत् प्रविश्य कुरङ्गया यथेष्टम- भिरममाणः सुखमास्ते । एष वृत्तान्तः । किमिदानीं कर्तव्यम् । ४८ सुदर्शना - अणन्तरं अय्याए वश्चिदाए चळदी विअ मे हिअअं, कोहळेण तुम्सदि । भअवं ! एसु दिअसेसु कुरङ्गी जअवम्मणो भय्यत्ति पुच्छदि । अज्जप्पहृदि तम्स वन्दणीआ संवृत्ता । अन- ५१ न्तरमार्यया वञ्चितया चलतीव मे हृदयं, कौतूहलेन तुष्यति । भगवन् एषु दिवसेषु कुरङ्गी जयवर्मणो भार्येति पृच्छयते । अद्यप्रभृति तस्य वन्दनीय संवृत्ता । ] ५४ नारदः- अभिजनयुक्तमेवाभिहितं भवत्या । कथमिदानीं ज्येष्ठपत्नी कनीयसे दीयते । सुदर्शने ! अभिधीयतां काशिराजाय जयवर्मणः कुरङ्गी वयसाधिकेति । नन्वस्ति कुरङ्गयाः कनीयसी सुमित्रा ५७ नाम । सा जयवर्मणो भार्या भविष्यति । १ समुत्थमदनाभिलाषः । i.17.] षष्ठोऽङ्कः । सुदर्शना - डिग्गहिदं इसिवअणं । [ प्रतिगृहीतमृषिवचनम् । ] नारद: - गच्छ कुन्तिभोजमनुवर्तस्व । सुदर्शना - जं भअवं आणवेदि । [ यद् भगवानाज्ञापयति । ] ( ततः प्रविशति वरवेषेणाविमारकः कुरङ्गी भूतिकश्च ) अविमारकः - भोः ! लज्जित इवास्म्यनेन वृत्तान्तेन । दृष्ट्वा तदानीं गजसम्भ्रमे मां मद्विक्रमं ये परिकीर्तयन्ति । ते किन्नु वृत्तान्तमिमं विदित्वा चारित्रदोषं मयि पातयन्ति ॥ १५ ॥ ( परिक्रम्य दृष्ट्वा ) अये अयं खलु भगवान् नारदः । य एषः, शापे प्रसादेषु च सक्तबुद्धि- र्वेदेषु गीतेषु च रक्तकण्ठः । स्निग्धेषु वैराण्युपपाद्य यत्ना- नष्टानि कार्याणि शमीकरोति ॥ १६ ॥ कुन्तिभोजः - इत इतः कुमारः । अभिवादयस्वात्मकुलदैवतं देवर्षिम् । अविमारकः - भगवन् ! अभिवादये । नारद: - स्वस्ति भवते सपत्नीकाय । अविमारकः- अनुगृहीतोऽस्मि । मातुल ! अभिवादये । कुन्तिभोजः - एह्येहि वत्स ! क्षमया जय विप्रेन्द्रान् दयया जय संश्रितान् । तत्त्वबुद्धया जयात्मानं तेजसा जय पार्थिवान् ॥ १७॥ अविमारकः- अनुगृहीतोऽस्मि । कुन्तिभोजः - वत्स ! इत इतः पितरमभिवादयस्व । अविमारकः - भोस्तात ! अभिवादये । . मा. ९ अविमारके [vi. 17. सौवीरराज:- एह्येहि वत्स ! विरचितवर वेषदर्शनीयो गुरुजनवन्दनमिश्रशुभ्रवक्त्रः । वयमिव भव हर्षवाष्पनेत्र- स्त्वमिह भवत्तनयं समीक्षमाणः ॥ १८ ॥ पुत्र ! अभिवादयस्व मातुलम् । अविमारक:- मातुल ! अभिवादये । ३ कुन्तिभोजः - एह्येहि वत्स ! यज्ञैः शुभैईरिसमो भव नित्ययुक्तः सत्यैर्दृढैर्दशरथप्रतिमो भव त्वम् । नित्यार्पितैः पितृसमो भव सम्प्रदानैः स्वेनात्मना सुसदृशेन पराक्रमेण ॥ १९ ॥ सौवीरराज:- पुत्र ! सुदर्शनामभिवादयस्व । कुन्तिभोजः - अयुक्तमिव सुचेतनामनभिवाद्य सुदर्शनामभिवादयितुम् । ३ नारदः - अस्ति कारणम् । अभिवाद्यतां सुदर्शना । उभौ - एवं क्रियताम् । अविमारकः - भवति ! अभिवादये । ६ सुदर्शना - पुत्र ! चिरं जीव एदाए सह । (परिष्वज्य ) चिरेण दिट्ठसि । अज्ज मए अणुभूदो पुत्तसम्पत्तिरसो । [ पुत्र ! चिरं जीवैतया सह । चिरेण दृष्टोऽसि । अद्य मयानुभूतः पुत्र- ९ संपत्ति रस: । ] ( रोदिति ) कुन्तिभोज:- इमां तु बाष्पाकुतूहलाक्षीं सम्प्रस्स्रवद्द्ग्धपयोदयुग्माम् । १. इत्येपिते (?) अवेक्षितां मातरमप्रकाश्य धात्रीत्वमेवैति सुचेतना मे ॥ २० ॥ नारदः-अलमतिस्नेहेन । प्रविशतु कन्यापुरं सुचेतना सुचेतना सुदर्शना सुदर्शना च सभार्येण पुत्रेण । कुन्तिभोजः - यदाज्ञापयति भगवान् । सुदर्शना - जं भअवं आणवेदि । [ यद् भगवानाज्ञापयति । ] नारदः - अचिरेण सौवीरराजो विसृज्यतां स्वदेशगमनाय । जयवर्मणे सुमित्रा प्रदीयतां काशिराज्ञे । त्वमपि सन्निहितो भव । कुन्तिभोजः - अनुगृहीतोऽस्मि । नारद: - कुन्तिभोज ! किमन्यत् ते प्रियमुपहरामि । कुन्तिभोजः - भगवान् यदि मे प्रसन्नः, किमतः परमहमिच्छामि । गोब्राह्मणानां हितमस्तु नित्यं सर्वप्रजानां सुखमस्तु लोके । नारदः - सौवीरराज ! किं ते भूयः प्रियमुपहरामि । सौवीरराजः - यदि मे भगवान् प्रसन्नः, किमतः परमहमिच्छामि । इमामुदीर्णार्णवनीलवस्त्रां नरेश्वरो नः पृथिवीं प्रशास्तु ॥ २१ ॥ ( भरतवाक्यम् ) भवन्त्वरजसो गावः परचक्रं प्रशाम्यतु । इमामपि महीं कृत्स्नां राजसिंहः प्रशास्तु नः ॥ २२ ॥ ( निष्क्रान्ताः सर्वे ) षष्ठोऽङ्कः । श्रीगणेशाय नमः । भासनाटकचक्रे चारुदत्तम् ( नान्द्यन्ते ततः प्रविशति सूत्रधारः । ) सूत्रधारः - किण्णुखु अज्ज पच्चूस एव्व गेहादो णिक्खन्तस्स बुभुक्खाए पुक्खरपत्तपडिदजळविन्दू विअ चञ्चळाअन्ति विअ मे अक्खाणि । (परिक्रम्य ) जाव गेहं गच्छिअ जाणामि किण्णुहु संविधा विहिदा वेत्ति । ( परिक्रम्य) एवं अम्हाणं गेहं । जाव पविसामि । ( प्रविश्यावलोक्य) जह ळोहीपरिवट्टणकाळसारा भूमी, णेउब्भामणसुगन्धो विअ गन्धो, सुणिमित्तं विअ परिब्भमन्तो वडिवस्सअजणो, किण्णुखु संविधा विहिदा । आदु बुभुक्खाए ओदणमअं विअ जीवळोअं पेक्खामि । जाव अय्यं सद्दावेमि । अय्ये ! इदो दा । [ किन्नुखल्वद्य प्रत्यूष एव गेहान्निष्क्रान्तस्य बुभुक्षया पुष्करपत्रपतितजलबिन्दू इव चञ्चलायेते इव मेऽक्षिणी । यावद् गेहं गत्वा जानामि किन्नुखलु संविधा विहिता न वेति । एतदस्माकं गेहम् । यावत् प्रविशामि । यथा लौहीपरिवर्तनकालसारा भूमिः, स्नेहोद्भावनसुगन्ध इव गन्धः, सुनिमित्तमिव परिभ्रमन् वरि- वस्यकजनः, किन्नुखलु संविधा विहिता । अथवा बुभुक्षयौदनमयमिव जीवलोकं पश्यामि । यावदार्यां शब्दापयामि । आयें ! इतस्तावत् । ] नटी - अय्य! इअम्हि । अय्य! दिट्टिआ खु सि आअदो । [आर्य ! इयमस्मि । आर्य ! दिष्टया खल्वस्यागतः । ] सूत्रधारः - अय्ये ! किं अत्थि अम्हाणं गेहे को वि पादरासो । [ आयें ! किमस्त्यस्माकं गेहे कोऽपि प्रातराशः । ] २१ नटी - अत्थि । [ अस्ति । ] चारुदत्ते [i. 1 सूत्रधारः - चिरं जीव । एवं सोभणाणि भोअणाणि दत्तिआ होहि । [ चिरं जीव । एवं शोभनानि भोजनानि दात्री भव । ] २४ नटी - अय्य! तुवं एव पडिवाळती चिट्ठामि । [ आर्य ! त्वामेव प्रतीपालयन्ती तिष्ठामि । ] सूत्रधारः - अय्ये ! किं अस्थि अभत्थिदं । [ आयें ! किमस्त्यभ्य- २७ र्थितम् । ] नटी - अत्थि । [ अस्ति । ] सूत्रधारः - एवं देवा तुमं अस्सासअन्तु । अय्ये ! किं किं । [ एवं ३० देवास्त्वामाश्वासयन्तु । आर्ये ! किं किम् । ] नटी - घिदं गुळं दहिं तण्डुला अ अत्थि । [ घृतं गुडो दण्डु- लाश्चास्ति । ] ३३ सूत्रधारः - एदं सव्वं अम्हाणं गेहे अत्थि । [ एतत् सर्वमस्माकं गेहेऽस्ति । ] नटी - हि हि । अन्तळावणे । [ नहि नहि । अन्तरापणे । ] ३६ सूत्रधारः - ( सरोपम् ) आः अणय्ये ! एवं दे आसा हिन्दी- अदु । अभावं च गमिस्ससि । अहं चण्डप्पवादळण्डुओ विअ वरण्डी पव्वदादो दूरं आरोविअ पाडिदो म्हि । [ आः अनायें ! ३९ एवं ते आशा छिद्यताम् । अभावं च गमिष्यसि । अहं चण्डप्रवात- लण्डत इव वरण्डः पर्वताद् दूरमारोप्य पातितोऽस्मि । ] नटी - मा भाआहि मा भाआहि । मुहुत्तअं पडिवाळेदु अय्यो । ४२ सव्वं सज्जं भविस्सदि । ळद्धं णाम एदं । अज्ज मम उववासरस असहाय हो । [ मा बिभीहि मा बिभीहि । मुहूर्त प्रति- पालयत्वार्यः । सर्व सज्जं भविष्यति । लब्धं नामैतत् । अद्य ममोप- ४५ वासस्यार्यः सहायो भवतु । ] -i. " ] प्रथमोऽङ्कः सूत्रधारः - किण्णामहेओ अय्याए उववासो । [ किन्नामधेय आर्याया उपवासः । ] ४८ नटी - अभिरुववदी णाम । [ अभिरूपपतिर्नाम । ] सूत्रधारः - किं अण्णजादीए । [ किमन्यजात्याम् । नटी - आम । [ आम । ] ५१ सूत्रधारः - सव्वं दाव चिठ्ठदु । को णु दाणि अय्याए उववासस्स वदेओ । [ सर्व तावत् तिष्ठतु । कोन्विदानीमार्याया उपवास- स्योपदेशिकः । ] ५४ नटी - इमिणा वडिवम्सएण चुण्णगोद्वेण । [ अनेन वरिवस्यकेन चूर्ण- गोष्टेन । ] सूत्रधारः - साहु चुण्णगोटू ! साहु । [ साधु चूर्णगोष्ट ! साधु । ] ५७ नटी - जइ अय्यस्य अणुग्गहो, तढ़ो इच्छेअं अम्हारिसजणजोग्गं कञ्च म्हणं निमन्तेढुं । [ यद्यार्यस्यानुग्रहः, तत इच्छेयमस्मादृशजन- योग्यं कञ्चिद् ब्राह्मणं निमन्त्रयितुम् । ] ६० सूत्रधारः - धम्मिट्ठो खु णिओओ । तेण पादरासो वि मे भव- स्सदि । जइ एवं पविसदु अय्या । अहं वि अम्हारिसजणजोगं काञ्च म्हणं अण्णेसामि । [ धर्मिष्टः खलु नियोगः । तेन प्रातरा- ६३ शोऽपि मे भविष्यति । यद्येवं प्रविशत्वार्या । अहमप्यस्मादृशजनयोग्यं कञ्चिद् ब्राह्मणमन्वेषे । ] नटी - जं अय्यो आणवेदि । (निष्क्रान्ता । ) [ यदार्य आज्ञापयति । ] ६६ सूत्रधारः - कहिष्णुखु दरिद्दबम्हणं क्रभे । ( विलोक्य) एसो अय्य- चारुदत्तस्स वअस्सो अय्यमेत्तेओ णाम बम्हणो इदो एव आअ- च्छदि । जाव उवणिवन्तेमि । (परिक्रम्य) अय्य! णिमन्तिदो सि । ६ ९ आमन्तणस्स मा दरिह त्ति मं अवमण्णेहि । सम्पणं अहूणिदव्वं भविस्सदि । धिदं गुळं दहिं तण्डुला अ सव्वं अस्थि । अविअ चारुदत्ते [im दक्खिणामास आणि भविस्सन्ति । [ कुत्रनुखलु दरिद्रब्राह्मणं लभेय । ७२ एप आर्यचारुदत्तस्य वयस्य आर्यमैत्रेयो नाम ब्राह्मण इत एवा- गच्छति । यावदुपनिमन्त्रयामि । आर्य ! निमन्त्रितोऽसि । आमन्त्रणस्य मा दरिद्र इति मामवमन्यस्व । सम्पन्नमशितव्यं भविष्यति । घृतं ७५ गुडो दधि तण्डुलाश्च सर्वमस्ति । अपिच दक्षिणामापका भविष्यन्ति । ] ( नेपथ्ये ) ( निष्क्रान्तः । ) ( ततः प्रविशति विदूषकः । ) अण्णं अण्णं णिमन्तेदु दाव भवं । अरित्तओ दाव अहं । [ अन्य- ७८ मन्यं निमन्त्रयतु तावद् भवान् । अरिक्त कस्तावदहम् । ] सूत्रधारः- घिगुळदहिसुसमिद्धं धूविअसूवोवदंससम्भिणं । सक्कारदत्तमिट्ठे भुञ्जीअदु भत्तमय्येण ॥ १ ॥ [ घृतगुडदधिसुसमृद्धं धूपितसूपोपदंशसम्भिन्नम् । सत्कारदत्तमिष्टं भुज्यतां भक्तमार्येण ॥ १ ॥ ] स्थापना । ३ विदूषकः- अण्णं अण्णं णिमन्तेदु दाव भवं । अरित्तओ दाव अहं । णं भणामि अहं अरित्तओ त्ति । किं भणासि - सम्पणं असणं अणिदव्वं भविस्सदि त्ति । अहं पुण जाणामि । अहिअमहुरस्स ६ अम्बस्स अजोग्गदाए अण्ठी ण भक्खीअदित्ति । किं दाणि मं उळ्ळालिअ उळ्ळाळिअ भणासि । भणामि वावुदो ति । किं भणासि - दक्खिणमासआणि भविस्सदित्ति । एसो वाआ पच्चा- ९ चक्खिदो हिअएण अणुबन्धीअमाणो गच्छीअदि । अहो अच्चा- ર -i. 1.34] प्रथमोऽङ्कः । हिदं । अहं वि णाम परस्स आमन्तआणि त्ति तक्केमि । जो अहं तत्तहोदो चारुदत्तस्स गेहे अहोरत्तपय्यत्तसिद्धेहि णाणाविधेहि १२ हिङ्गुविद्धेहि ओम्मारणसुगन्धेहि भूक्खेवमत्तपडिच्छिदेहि अन्त- रन्तरपाणीएहि असणप्पआरेहि चित्तअरो विअ बहुमळएहि परिवुदो आअण्ठमत्तं अहणिअ चच्चरवुसहो विअ मोदअख- १५ ज्जएहि रोमन्था अमाणो दिवसं खेवेमि, सो एव्व दाणि अहं तत्तहोदो चारुदत्तस्स दरिदाए समं पारावदेहि साहारणवृत्तिं उवजीवन्तो अण्णाहं चरिअ चरिअ तस्स आवास एव्व १८ गच्छामि । अण्णं च अच्छरिअं । मम उदरं अवत्थाविसेसं जाणादि । अप्पेणावि तुस्सदि । बहुअं वि ओदणभरं भरिस्सदि दीअमाणं । ण आदि अदीअमाणं, ण पच्चाचिक्खदि । ण खु २१ अहं एरिसेण ण सन्तुट्ठो । ता सट्टीकिददेवकय्यस्स तत्तहोदो चारुदत्तस्स कारणादो गहीदो सुमणो अन्तक्खिवासो अ । जाव से परसपरिवत्ती होमि । ( परिक्रम्यावलोक्य) एसो तत्तभवं २४ चारुदत्तो पभादचन्दो विअ सकरुणपिअदंसणो जहाविभवेण गिहदेवदाणि अच्चअन्तो इदो एव्व आअच्छदि । जाव णं उवसप्पामि । (निष्क्रान्तः । ) [ अन्यमन्यं निमंत्रयतु तावद् भवान् । २७ अरिक्तकस्तावदहम् । ननु भणाम्यहमरिक्तक इति । किं भणसि - सम्पन्नमशनमशितव्यं भविष्यतीति । अहं पुनर्जानामि । अधिकमधुरस्य आम्रस्य अयोग्यतया अस्थि न भक्ष्यत इति । किमिदानीं मामुल्लाल्यो- ३० ल्लाल्य भणसि । भणामि व्यापृत इति । किं भणसि – दक्षिणाभाषका भविष्यन्तीति । एष वाचा प्रत्याख्यातो हृदयेनानुबध्यमानो गम्यते । अहो अत्याहितम् । अहमपि नाम परस्यामन्त्रणानीति तर्कयामि । योऽहं तत्र- ३३ भवतश्चारुदत्तस्य गेहेऽहोरात्रपर्याप्तसिद्धैर्नानाविधैर्हिङ्गुविद्धैरुगारणसुग- न्धिभिः भ्रूक्षेपमात्रप्रती टैरन्तरान्तरपानीयैरशनप्रकारैश्वित्रकर इव बहु- 1 1 चारुदत्ते [i. 1.35 मल्लकैः परिवृत आकण्ठमात्रमशित्वा चत्वरवृषभ इव मोदकखाद्यै रोमन्था- ३६ यमानो दिवसं क्षिपामि स एवेदानीमहं तत्रभवतश्चारुदत्तस्य दरिद्रतया समं पारावतैः साधारणवृत्तिमुपजीवन् अन्यत्र चरित्वा चरित्वा तस्या- वासमेव गच्छामि । अन्यच्चाश्चर्यम् । ममोदरमवस्थाविशेषं जानाति । ३९ अल्पेनापि तुप्यति । बहुकमप्योदनभरं भरिष्यति दीयमानम् । न याचते अदीयमानं, न प्रत्याचष्टे । न खल्वहमीदृशेन न सन्तुष्टः । तत् पष्टीकृत देवकार्यस्य तत्रभवतश्चारुदत्तस्य कारणाद् गृहीतानि सुम- ४२ नसोऽन्तरीयवासश्च । यावदस्य पार्श्वपरिवर्ती भवामि । एष तत्रभवां- श्वारुदत्तः प्रभातचन्द्र इव सकरुणप्रियदर्शनो यथाविभवेन गृहदेवता- न्यर्चयन् इत एवागच्छति । यावदेनमुपसर्पामि । ] ४५ ( ततः प्रविशति बलिमुपहरन्नायको विदूपकश्चाङ्गेरिका हस्ता चेटी च । ) नायकः - ( दीर्घ निःश्वस्य ) भोः ! दारिद्र्यं खलु नाम मनस्विनः पुरु- षम्य सोच्छ्रासं मरणम् । कुतः, यासां बलिर्भवति मद्गृहदेहलीनां हंसैश्च सारसगणैश्च विभक्तपुष्पः । ताम्वेव पूर्वबलिरूढयवाङ्कुरासु बीजाञ्जलिः पतति कीटमुखावलीढः ॥ २ ॥ विदूषकः - अळं दाणि भवं अदिमतं सन्तप्पिदुं । पुरुस जोव्वणाणि विअ गिजोन्वणाणि खु दसाविसेसं अणुहोन्ति । आसमुद्दआण- ३ विपणविभवस्स बहुळपक्खचन्दस्य जोहूणापरिक्खओ विअ भवदो एव्व रमणीओ अअं दरिद्दभावो । [ अलमिदानीं भवान- तिमात्रं सन्तप्तुम् । पुरुषयौवनानीव गृहयौवनानि खलु दशाविशेष- ६ मनुवभवन्ति । आसमुद्रदानविपन्नविभवस्य बहुलपक्षचन्द्रस्य ज्योत्स्ना- परिक्षय इव भवत एव रमणीयोऽयं दरिद्रभाव: । ] -i. 5] प्रथमोऽङ्कः । नायकः- न खल्वहं नष्टां श्रियमनुशोचामि । गुणरसज्ञस्य तु पुरु- ९ षस्य व्यसनं दारुणतरं मां प्रति भाति । कुतः, सुखं हि दुःखान्यनुभूय शोभते यथान्धकारादिव दीपदर्शनम् । सुखात्तु यो याति दशां दरिद्रतां स्थितः शरीरेण मृतः स जीवति ॥ ३ ॥ विदूषकः - भो वअस्स ! समुहपट्टणसारभूदो तादिसो अत्थसओ कहिं गओ । [ भो वयस्य ! समुद्रपत्तनसारभूतस्तादृशोऽर्थसञ्चयः ३ क्व गतः । ] नायक:- - ( निःश्वस्य ) वयस्य ! यत्र गतानि मे भागधेयानि । पश्य, क्षीणा ममार्थाः प्रणयिक्रियासु विमानितं नैव परं स्मरामि । एतत्तु मे प्रत्ययदत्तमूल्यं सत्त्वं सखे ! न क्षयमभ्युपैति ॥ ४ ॥ ( चिन्तां नाटयति । ) विदूषकः - किं भवं अत्थविभवं चिन्तेदि । [ किं भवानर्थविभवं ३ चिन्तयति । ] नायक:- सत्यं न मे धनविनाशगता विचिन्ता भाग्यक्रमेण हि धनानि पुनर्भवन्ति । एततु मां दहति नष्टधनश्रियो मे यत् सौहृदानि सुजने शिथिलीभवन्ति ॥ ५ ॥ の अपिच, चारुदत्ते [ i. 5.- दारिद्र्यात् पुरुषस्य बान्धवजनो वाक्ये न सन्तिष्ठते सत्त्वं हास्यमुपैति शीलशशिनः कान्तिः परिम्लायते । निर्वैरा विमुखीभवन्ति सुहृदः स्फीता भवन्त्यापदः पापं कर्म च यत् परैरपि कृतं तत्तस्य सम्भाव्यते ॥ ६ ॥ विदूषकः - एदे दाणि दासीएवुत्ता अत्थवावारा गोवदारआ विअ मसअभीदा गिहादो णिग्गच्छन्ति । धणविणासदुःखस्स उण ३ चिन्तिअमाणस्स वसन्ते बुढ्ढुस्स सरत्थम्बस्स विअ अङ्कुर- कुरा उब्भमन्ति । ता अळं भवदो सन्दावेण । [ एत इदानीं दास्या:- पुत्रा अर्थव्यापारा गोपदारका इव मशकभिता गृहाद् निर्गच्छन्ति । ६ धनविनाशदुःखस्य पुनश्चिन्त्यमानस्य वसन्ते वृद्धस्य शरस्तम्बस्ये- वाङ्कुराङ्कुरा उद्भ्रमन्ति । तदलं भवतः सन्तापेन । ] नायक : - वयस्य ! किमर्थं सन्तापं करिष्ये । किवाहं दरिद्रः, ९ यस्व मम, विभवानुवशा भार्या समदुःखसुखो भवान् । सत्त्वं च न परिभ्रष्टं यद् दरिद्रेषु दुर्लभम् ॥ ७ ॥ ( ततः प्रविशति गणिका सम्भ्रान्ता विटेन शकारेण चानुगम्यमाना । ) : - चिट्ठ चिट्ठ वशवशेणिए ! चिट्ठ शकार:- किं याशि धावाश पधावशि पक्खळती शाहु पशीद ण मळीअशि चिट्ठ दाव । कामेण शम्पदि हि जज्झइ मे शळीळं अङ्गाळमज्झपडदे विअ चम्मखण्डे ॥ ८ ॥ ३ [ तिष्ठ तिष्ठ वसन्तसेने तिष्ठ, -i.11.3:] प्रथमोऽङ्कः । किं यासि धावसि प्रधावसि प्रस्खलन्ती साधु प्रसीद न मासे तिष्ठ तावत् । कामेन सम्प्रति हि दद्यते मे शरीर- मङ्गारमध्यपतितमिव चर्मखण्डम् ॥ ८ ॥ ] विटः- वसन्तसेने ! किं त्वं भयेन परिवर्तित सौकुमार्या नृत्तोपदेशविशदौ चरणौ क्षिपन्ती । उद्विचञ्चलकटाक्षनिविष्टदृष्टि- व्र्व्याघ्रानुसारच किता हरिणीव यासि ॥ ९ ॥ शकार:- भावे ! एशा गच्छइ वशवशेणिआ, दुवेह अम्हेहि अणुबन्धअन्ती जहा शिगाळी विअ कुक्कुळेहि । शणूपुळा मेहळणादहाशा शवेट्टणं मे हळअं हळन्ती ॥ १० ॥ [ भाव ! एषा गच्छति वसन्तसेना, द्वाभ्यामावाभ्यामनुबध्यमाना यथा शृगालीव कुक्कुराभ्याम् । सनूपुरा मेखलानादहाला सवेष्टनं मे हृदयं हरन्ती ॥ १० ॥ ] विटः–वसन्तसेने ! किं त्वं पदात् पदशतानि निवेशयन्ती नागीव यासि पतगेन्द्रभयाभिभूता । वेगादहं प्रचलितः पवनोपमेयः किं त्वां ग्रहीतुमथवा न हि मेऽस्ति शक्तिः ॥ ११ ॥ गणिका - ( समन्तादवलोक्य) पळवअ ! पळवअ ! परहुदिए ! परहुदिए ! महुअरअ ! महुअरअ ! सारिए ! सारिए ! हद्धि, ३ णट्टो मे परिजणो । एत्थ सअं एव अप्पा रक्खिदव्वो । [ पल्लवक ! चारुदत्ते [i. 11. - पल्लवक ! परभृतिके ! परभृतिके! मधुकरक ! मधुकरक ! शारिके ! शारिके ! । हा धिक्, नष्टो मे परिजनः । अत्र स्वयमेवात्मा रक्षितव्यः । ६ शकारः - विळव विळव णाए ! विळव पळवं वा, महुअरं वा, शाळिअं वा, शव्वं वशश्वमाशं वा । परित्तअशि । किं वा जेवे शवपट्टणेशे कुन्तीशुदे वा जणमेजए वा । अहं तुमं गणिअ केशहत्थे दुःशाशळे शीदमिवाहुळामि ॥ १२ ॥ परहुदिअं वा, के के तुमं [ विलप विलप ज्ञाते ! विलप पल्लवं वा, परभृतिकां वा, मधुकरं वा, शारिकां वा, सर्वं वसन्तमासं वा । कः कस्त्वां परित्रास्यते । किं वासुदेवः शवपत्तनेशः कुन्तीसुतो वा जनमेजयो वा । अहं त्वां गृहीत्वा केशहस्ते दुःशासनः सीतामिवाहरामि ॥ १२ ॥ ] विट: - वसन्तसेने ! सर्वत्र भयानभिज्ञहृदयं मां कुरु । पश्य, परिचिततिमिरा मे शीलदोषेण रात्रि- बहुलतिमिरकालास्तीर्ण पूर्वा विघट्टाः । युवतिजनसमक्षं काममेतन्न वाच्यं विपणिषु हतशेषा रक्षिणः साक्षिणो मे ॥ १३ ॥ 1 गणिका - हं इदाणिं संसइदा संवुत्ता, जो अप्पगुणाणि सअं एव्व मन्तेदि । कहं एदे अकय्यं ण करिस्सन्दि । [ अहम् इदानीं संश- ३ यिता संवृत्ता य आत्मगुणान् स्वयमेव मन्त्रयते । कथमेतेऽकार्य न करिष्यन्ति । ] विटः - भवति ! क्रियतामस्माकमनुनयप्रग्रहः । पश्य, -i. 15.8] प्रथमोऽङ्कः । जनयति खलु रोषं प्रश्रयो भिद्यमानः किमिव च रुषितानां दुष्करं मद्विधानाम् । अनुनयति समर्थः खङ्गदीर्घः करोऽयं युवतिवधघृणाया मां शरीरं च रक्ष ॥ १४ । गणिका - अणुओ वि भाययति । ] खु २.०१ से भाएदि । [ अनुनयोऽपि खल्वस्य ३ शकारः -वशवशेणिए ! शुट्टु भावे भणाशि । बहुमणिअदि खु दाव बळिअजगदुळ हे अणुणए । पेक्ख • वाशु ! अशिक्खु तिक्खे शिहिगीवमेअए खिवेमि शीशं सव माळए हवा । अळं तु अम्हाळिशकाणि कोशिअ डे खु जो होइ ण णाम जीवइ ॥ १५ ॥ [ वसन्तसेने ! सुष्टु भावो भणति । बहुमान्यते खलु तावद् बलवज्ज- नदुर्लभोऽनुनयः । पश्य वासु ! असिः खलु तीक्ष्णः शिखिग्रीवामेचकः क्षिपामि शीर्षं तव मारयेऽथवा । अलं त्वस्मादृशकान् रोषयित्वा मृतः खलु यो भवति न नाम जीवति ॥ १५] गणिका - अय्य! कुळ उत्तजणस्स सीळपरितोसोवजीविणी गणिआ खु अहं । [ आर्य ! कुलपुत्रजनस्य शीलपरितोषोपजीविनी गणिका ३ खल्वहम् । ] विट: - अतः खलु प्रार्ध्यसे । गणिका - अय्य ! इमादो जणादो किं इच्छीअदि सरीरं वा आदु ६ अळङ्कारो वा । [ आर्य ! अस्माज्जनात् किमिष्यते शरीरं वाथवा- लङ्कारो वा । ] विट:- न पुष्पमोक्षणमईति लता । कृतमलङ्कारेण । चा. द. १० चारुदत्ते [ i. 15.9— ९ गणिका - अहं खु दाणि अत्ताणं ण सन्दावेअं । [ अहं खल्विदा- नीमात्मानं न सन्तापयेयम् । ] १२ शकारः - :-वशवशेणिए ! अहं भट्टिपुत्ते कामइदव्वे । [ वसन्तसेने अहं भर्तृपुत्रः कामयितव्यः । ] गणिका - सन्तोस । [ शान्तोऽसि । ] १५ शकारः - शुणाहि भावे ! शुणाहि । एशा वशञ्चशेणिआ मं शन्तो शित्ति भणादि । [श्रृणु भाव ! श्रृणु । एषा वसन्तसेना मां श्रान्तोऽ- सीति भणति । ] १८ विट:- ( आत्मगतम् ) आक्रुष्टमात्मानं न जानाति मूर्खः । ध्वंस इत्युक्ते श्रान्त इत्यवगच्छति । अपिच, अभिनयति वचांसि सर्वगात्रैः किमपि किमप्यनवेक्षितार्थमाह । अनुचितगतिर प्रगल्भवाक्यः पुरुषमयस्य पशोर्नवावतारः ॥ १६ ॥ ( प्रकाशम्) वसंतसेने ! किमिदं मत्सन्निधौ वशवास विरुद्धम- भिहितम् । पश्य, तरुणजनसहायश्चिन्त्यतां वेशवासो विगणय गणिका त्वं मार्गजाता लतेव । वहसि हि धनहार्यं पण्यभूतं शरीरं सममुपचर भद्रे ! सुप्रियं चाप्रियं च ॥ १७ ॥ गणिका - एसो मे अभिणिवेसो अभिजणेण तुळीअदि । [ एष मेऽभिनिवेशोभिजनेन तोल्यते । ] २१ शकारः - भावे ! एशा अन्धआळपूळिशगम्भीळा लच्छा दीशइ । मा खुणाए एत्थ भंशइदव्वा । आ कामदेवाणुआणप्पहु दिन अण- ―i. 20.] प्रथमोऽङ्कः । मत्तशत्थुळे दरिद्दशत्थवाहवुत्तं चालुदत्तवडुअं कामेदि एशा । इदं २४ तश्श गेहश्श पक्खदुवाळं । [ भाव ! एषान्धकारपूरुषगम्भीरा रथ्या दृश्यते । मा खलु ज्ञाता अत्र भ्रंशयितव्या । आ कामदेवानुयानात् प्रभृति नयनमात्रसंस्थुलं दरिद्वसार्थवाहपुत्रं चारुदत्तबटुकं कामयत २७ एषा । इदं तस्य गृहस्य पक्षद्वारम् । ] गणिका - ( सहर्षमात्मगतम् ) एदं तस्स गेहं । दिट्ठिआ दाणि अम- तजणणिरोहेण पिअजणसमीवं उवणीदम्हि । भोदु, एवं दाव ३० करिस्सं ( अपसरति । ) [ एतत् तस्य गेहम् । दिष्टयेदानीममित्रजन- निरोधेन प्रियजनसमीपमुपनीतास्मि । भवतु, एवं तावत् करिष्यामि । ] शकार: - ( विलोक्य) भावे ! णट्ठा णाए णट्ठा। [ भाव ! नष्टा ३३ ज्ञाता नष्टा । ] विटः- कथं नष्टा । अन्विष्यतामन्विष्यताम् । शकारः -भावे ! ण दिश्शदि । [ भाव ! न दृश्यते । ] ३६ विटः- हन्त वञ्चिताः स्मः । वसन्तसेने ! उपलब्धेदानीमसि । कामं प्रदोषतिमिरेण न दृश्यसे त्वं सौदामनीव जलदोदरसन्निरुद्धा । १८ ॥ त्वां सूचयिष्यति हि वायुवशोपनीतो गन्धश्व शब्दमुखराणि च भूषणानि ॥ ( गणिका मालामपनीय भूषणानि चोत्सारयति । ) विट: - अहो बलवांश्चायमन्धकारः । सम्प्रति हि, लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः । असत्पुरुषसेवेव दृष्टिर्निष्फलतां गता ॥ १९ ॥ अपिच, सुलभशरणमाश्रयो भयानां वनगहनं तिमिरं च तुल्यमेव । उभयमपि हि रक्षतेऽन्धकारो जनयति यश्च भयानि यश्च भीतः ॥ २० तथाहि- चारुदत्ते आलोकविशाला मे सहसा तिमिर प्रवेशसञ्छन्ना । उन्मीलितापि दृष्टिर्निमीलितेवान्धकारेण ॥ २१ ॥ [ i. 20. - गणिका - अम्महे भित्तिपरिणामसूइदं पक्खदुवाळं । असम्भो- अमळिणदार इह अहिअं अन्धआरो । ता इह एव चिट्ठिस्सं । ३ ( स्थिता । ) [ अहो भित्तिपरिणाम सूचितं पक्षद्वारम् । असम्भोगमलि- नतयेहाधिकमन्धकारः । तद् इहैव स्थास्यामि । ] नायक:- - मैत्रेय ! गच्छ, चतुष्पथे बलिमुपहर मातृभ्यः । :-ण मे सद्धा, अण्णो गच्छदु । [ न मे श्रद्धा, अन्यो ६ विदूषकः- गच्छतु । ] : - किमर्थम् । नायक:- ९ विदूषकः - मम बुद्धी आदंसमण्डळगआ विअ छा वामेसु दक्खिणा दक्खिसुवामा होइ । [ मम बुद्धिरादर्शमण्डलगतेव च्छाया वामेषु दक्षिणा दक्षिणेषु वामा भवति । ] १२ नायकः - मूर्ख ! यथाविभवेनार्च्यताम् । भक्त्या तुष्यन्ति दैवतानि । तद् गम्यताम् । विदूषकः - एआई अहं कहं गमिस्सं । [ एकाक्यहं कथं गमिष्यामि । ] १५ नायकः - - रदनिके ! अनुगच्छात्रभवन्तम् । रदनिका -जं भट्टा आणवेदी । [ यद् भर्ताज्ञापयति । ] विदूषकः - भोदि ! दीवं अहं णइस्सं । [ भवति ! दीपमहं नेष्यामि । ] १८ नायकः - यथा भवान् मन्यते, तथास्तु । विदूषकः - ( दीपं गृहीत्वा ) भो रदणिए ! अवावुद पक्खदुवाळं । [ भो रदनिके! अपावृणु पक्षद्वारम् । ] २१ रदनिका - तह । ( नाटयेन द्वारमपावृणोति ) [ तथा । ] -i. 21.46] प्रथमोऽङ्कः । ( गणिका वस्त्रान्तेन दीपं निर्वापयति । ) विदूषकः - अविहा अविहा । [ अविहाविहा । ] २४ नायकः - वयस्य ! किमेतत् । विदूषकः- अवावुदपक्खदुवारपिण्डीकिदप्पविट्टेण राअमग्गसङ्किणेण वादेण सहसा णिग्गच्छन्तस्स मम हत्थे णिवावुदो दीवो । [ अपा- २७ वृतपक्षद्वार पिण्डीकृतप्रविष्टेन राजमार्गसङ्कीर्णेन वातेन सहसा निर्गच्छतो मम हस्ते निर्वापितो दीपः । ] नायक : - मूर्ख ! धिक त्वाम् । ३० विदूषकः - अप्पं खु मे अवरद्धं । रदणिए ! गच्छ, चउप्पहे मं पडि- वाळेहि । जाव अहं वि अब्भन्तरचउस्सालादो दीवं गणिअ आअच्छामि । (निष्क्रान्तः । ) [ अल्पं खलु मेऽपराद्धम् । रदनिके! ३३ गच्छ, चतुष्पथे मां प्रतिपालय । यावदहमप्यभ्यन्तरचतुरशालाद् दीपं गृहीत्वा गच्छामि । ] चेटी - अय्य ! तह । ( परिक्रामति । ) [ आर्य ! तथा । ] ३६ गणिका - दिट्टिआ मम पवेसणिमित्तं अवावुदं पक्खदुवाळं । अळं चारित्तभरण । जाव पविसामि । ( अभ्यन्तरं प्रविश्य तिष्ठति ।) [ दिष्ट्या मम प्रवेशनिमित्तमपावृतं पक्षद्वारम् । अलं चारित्रभयेन । ३९ यावत् प्रविशामि । ] विटः-( विलोक्यात्मगतम् ) भवनान्निर्गत्य काचिदियमागच्छति । भवतु, अनया वराकं वञ्चयामि । ( प्रकाशम् ) सुरभिस्नानधूपानु - ४२ विद्ध इव गन्धः । शकार: - आम भावे ! शुणामि गन्धं शवणेहिं । अन्धआळपूळि - देहिं णाशापुडेहिं शुट्टु ण पेक्खामि । [ आम भाव ! शृणोमि गन्धं ४५ श्रवणाभ्याम् । अन्धकारपूरिताभ्यां नासापुटाभ्यां सुष्ठु न पश्यामि । ] विटः- तिष्ठ तिष्ठ । क्व यास्यसि । ( चेटीं गृह्णाति ) चारुदत्ते [i. 21.7 ( चेटी समयं भूमौ पतिता । ) (चेटीं बलादाकर्षति । ) ( प्रविश्य ) ४८ शकार:--गहूण भावे ! गण । [ गृहाण भाव ! गृहाण । ] विट:- एषा हि वयसो दर्पात् कुलपुत्रावमानिनी । केशेषु कुसुमन्यासैः सेवितव्येषु धर्षिता ॥ २२ । शकार : - भावे ! किं गहीदा । [ भाव ! किं गृहीता । ] विटः-अथ किम् । एषा गन्धानुसारेण गृहीता । ३ शकारः - र:- दाशीपुत्तीए शीशं दाव छिन्दिअ पच्चा माळइश्शं । [ दास्याः पुत्र्याः शीर्षं तावच्छित्वा पश्चान्मारयिष्यामि । ] विटः- गृह्यतां तावन् 1 - ( चेटीं गृहीत्वा ) ६ शकारः- एशा हि वारा शिळाशि गहीदा केशेशु वाळेशु शिळोळुहेशु । कूजाहि कन्दाहि वाहि वात्तं महेश्शळं शङ्कळमिश्शळं वा ॥ २३ [ एषा हि वासूः शिरसि गृहीता केशेषु बालेषु शिरोरुहेषु । कूज क्रन्द लप वार्तं महेश्वरं शङ्करमीश्वरं वा ॥ २३ ॥ ] चेटी - किं अय्यमिस्सेहि ववसिदं । [ किमार्यमिश्रैर्व्यवसितम् । ] ३ शकारः - भावे ! जाणामि शळयोगेण ण होइ वशश्वशेणिआ ॥ [ भाव ! जानामि स्वरयोगेन न भवति वसन्तसेना । ] विट:- न मोक्तव्या । वसन्तसेनैवैषा । एषा रङ्गप्रवेशेन कलानां चैव शिक्षया । स्वरान्तरेण दक्षा हि व्याहर्तुं तन्न मुच्यताम् ॥ २४ ॥ विदूषकः - ( दीपं गृहीत्वा ) राअममासङ्किणेण सीअसुउमारेण ३ वादेण पदे पदे विक्खोहि अमाणजणिअतरङ्गवेळ पुण्णभाअणं दीवं -i. 25.12] प्रथमोऽङ्कः । कहं वि रक्खि गणिअ आअदो म्हि । [ राजमार्गसङ्कीर्णेन शीत- सुकुमारेण वातेन पदे पदे विक्षोभ्यमाणजनिततरङ्गतैलपूर्णभाजनं दीपं ६ कथमपि रक्षित्वा गृहीत्वागतोऽस्मि । ] चेटी - ( शकारं पादेन ताडयन्ती रुदित्वा ) अय्य! मेत्तेअ ! अयं परिभवो आदु अवळेवो । [ आर्य ! मैत्रेय ! अर्थ परिभवोऽथवा- ९ वलेपः । ] विदूषकः - मा दाव मा दाव ( सखङ्गं विटं शकारं च दृष्ट्वा शङ्कित- स्तिष्ठति । ) [ मा तावद् मा तावत् । ] १२ विट:- अये आर्यचारुदत्तस्य वयस्यो मैत्रेयः खल्वयम् । नेयमपि वसन्तसेना । महाब्राह्मण ! अन्यशङ्कया खल्विदमस्माभिरनुष्ठितं, न दर्पात् । पश्यतु भवान्, अकामा ह्रियतेऽस्माभिः काचित् स्वाधीनयोवना । सा भ्रष्टा शङ्कया तस्याः प्राप्तेयं शीलवचना ॥ २५ ॥ शकार:- - अविहा दळिद्दशत्थवाहपुत्तरश चालुदत्तवडुअश्श चेडी खु इअं, ण होइ वशञ्चशेणिआ । शाहु, वशञ्चशेणिए ! शाहु । ३ अन्धआळं कळिअ अन्तळा वञ्चिदे भावे, अहके दाव वञ्चिदे कूडकावडशीळ । शौवहा दुक्खडे कडे । [ अविहा दरिद्वसार्थवाह- पुत्रस्य चारुदत्तबटुकस्य चेटी खल्वियं, न भवति वसन्तसेना । साधु ६ वसन्तसेने ! साधु । अन्धकारं कृत्वान्तरा वञ्चितो भावः । अहं तावद् वञ्चितः कूटकपटशीलया । सर्वथा दुष्करं कृतम् । ] विदूषकः -मा दाव । ण जुत्तमिदं । [ मा तावत् । न युक्तमिदम् । ] ९ विटः - भो महाब्राह्मण ! अयमनुनय सर्वस्वमञ्जलिः । विदूषकः - भोदु भोदु । अणवरुद्धो भवं । अणुणीदो अहं एव्व एत्थ अवरद्धो । [ भवतु भवतु । अनपराद्धो भवान् । अनुनीतोऽहमे- १२ वात्रापराद्धः । ] चारुदत्ते [i. 25.13_ शकारः - भावे ! दिढं खु भाआशि तं दळिद्दशत्थवाह पुत्तं चालुदत्तवडुअं । [ भाव ! दृढं खलु बिभेषि तं दरिद्वसार्थवाहपुत्रं १५ चारुदत्तबटुकम् । ] विः - सत्यं भीतोऽस्मि । शकारः - किश्श भावे ! किश्श । [ कस्माद् भाव ! कस्मात् । ] १८ विटः - तम्य गुणेभ्यः । पश्यतु भवान, स मद्विधानां प्रणयैः कृशीकृतो न तस्य कश्चिद् विभवैरमण्डितः । निदाघसंशुष्क इव हृदो महान नृणां तु तृष्णामपनीय शुष्यति ॥ २६ ॥ महाब्राह्मण ! अयमर्थः सार्थवाहपुत्रस्य न कथयितव्यः । ( निष्क्रान्तो विटः । ) शकार:- माळिश! वडुअ ! मालिश ! भणेहि तं दळिद्दशत्थवाह- ३ पुत्तं चाळुदत्तवडुअं मम वअणेण -ळाअशाळे शण्ठाणे शवट्टेण शीशेण अणुवन्द्य भणादि - णाडअइत्थिआ वशवशेणिआ णाम गणिकादारिआ वणवण्णा दुवेहि अम्मेहि बलक्कारेण णीअमाणा ६ महन्तेण शुवण्णाळङ्कारेण तव गेहं पविट्ठा । शा शुवे णिय्याअइ- दव्वा । मा दाव तव अ मम अ दाळुणो खोहो होदिति । वडुअ ! मालिश ! इदं च भणाहि मा दाशीएपुत्त ! वारावद्गळप्पविट्ठ ९ विअ मूलकन्दं शीशकवाळं मडमडाइश्शं । मा खु कवाडशम्पुडप्प- विट्टं विअ पक्ककवित्थं शीशं दे चुणचुण्णं मडमडाइश्शं ति । [ मारिष ! बटुक ! मारिष ! भण तं दरिद्वसार्थवाहपुत्रं चारुदत्तबटुकं १२ मम वचनेन -राजस्याल : संस्थानकः सपट्टेन शीर्षेणानुवन्द्य भणति - नाटकस्त्री वसन्तसेना नाम गणिकादारिका सुवर्णवर्णा द्वाभ्यामावाभ्यां बलात्कारेण नीयमाना महता सुवर्णालङ्कारेण तव गेहं प्रविष्टा । सा -i. 26.39] प्रथमोऽङ्कः । १५ श्वो निर्यातयितव्या । मा तावत् तव च मम च दारुणः क्षोभो भवतीति । बटुक ! मारिष ! इदं च भण - मा दास्याः पुत्र ! पारा- वतगलप्रविष्टमिव मूलकन्दं शीर्षकपालं मडमडायिष्यामि । मा खलु १८ कवाटसम्पुटप्रविष्टमिव पक्ककपित्थं शीर्ष ते चूर्णचूर्णं मडमडायिष्यामि इति । ] विदूषकः - भो ! तह । ( शकारं दीपनोद्वे जयति । ) [ भोः ! तथा । ] २१ शकारः - ( सर्वतो विलोक्य ) कहिं भावे । गढ़े भावे । अविहा भावे ! । [ कभावः । गतो भावः । अविहा भाव ! । ] ( निष्क्रान्तः शकारः । ) ( उभौ परिक्रामतः । ) २४ विदूषकः - किदं देवकय्यं त्ति तत्तहोदो णिवेदइम्सामो । भोदि ! अवणीअदु दे हि अमण्णू । अअं वुत्तन्तो अब्भन्तरं ण पेस- दव्वो । [ कृतं देवकार्यमिति तत्रभवतो निवेदयिष्यावः । भवति ! २७ अपनीयतां ते हृदयमन्युः । अयं वृत्तान्तोऽभ्यन्तरं न प्रेपयितव्यः । ] चेटी - अय्य! रदणिआ खु अहं । [ आर्य ! रदनिका खल्वहम् । ] विदूषकः - एहि गच्छामों । [ एहि गच्छावः । ] -भद्रे ! कृतं देवकार्यम् । नायकः-२ गणिका - ( आत्मगतम् ) परिजणत्ति मं सदावेदि । भोदु, रक्ख- ३३ दहि । [ परिजन इति मां शब्दापयति । भवतु, रक्षितास्मि । ] नायकः - मारुताभिलाषी प्रदोषः । तद् गृह्यतां प्रावारकम् । गणिका-( प्रावारकं गृहीत्वा सहर्षम् ) अणुदासीणं जोवणं से पड- ३६ वासगन्धो सूएदि । [ अनुदासीनं यौवनमस्य पटवासगन्धः सूचयति । ] कः - रदनिके ! प्रवेश्यतामभ्यन्तरचतुःशालम् । नायक:- गणिका - ( आत्मगतम् ) अभाइणी अहं अब्भन्तरष्पवेसस्स । ३९ [ अभागिन्यहमभ्यन्तरप्रवेशस्य । ] चारुदत्ते नायक : :- किमिदानीं न प्रविशसि । [ i. 26.4° गणिका - इदाणिं अहं किं भणिस्सं । [ इदानीमहं किं भणिष्यामि । ] ४२ नायक : - रदनिके ! किं विलम्बसे । ( रदनिका विदूपकावुपसृत्य ) चटी - भट्टिदार ! इअ म्हि । [ भर्तृदारक ! इयमस्मि । ] ४५ नायकः - इयमिदानीं का, अविज्ञातप्रयुक्तेन धर्षिता मम वाससा । संवृता शरदभ्रेण चन्द्रलेखेव शोभते ॥। २७ ॥ गणिका - ( आत्मगतम् ) दीवाळीअसूइदरूवो सो एव्व दाणि एसो, जस्स कि अहं णिस्सासमत्तलक्खिदं सरीरं उव्वहामि । ३ [ दीपालोकसूचितरूपः स एवेदानीमेपः यस्य कृतेऽहं निःश्वासमात्र- रक्षितं शरीरमुद्वहामि । ] " विदूषकः - भो चारुदत्त ! राअसाळो सण्ठाणो सवट्टेण सीसेण ६ अणुवन्दिअ विष्णवेदि - गाडअइत्थिआ वसन्त सेणिआ णाम गणि- आदारिआ अम्हेहि बळकारण णीअमाणा महन्तेण सुवण्णाळङ्कारेण तुम्हाणं गेहं पविट्ठा । सा सुवे गिय्याअइदव्वत्ति । [ भोः चारुदत्त ! ९ राजस्यालः संस्थानः सपट्टेन शीर्षेणानुवन्ध विज्ञापयति-नाटकस्त्री वसन्तसेना नाम गणिकादारिकास्माभिर्बलात्कारेण नीयमाना महता सुवर्णालङ्कारेण युष्माकं गेहं प्रविष्टा । सा वो निर्यातयितव्येति । ] १२ गणिका - हं बळक्कारेण णीअमाणत्ति णं भणादि । भोदु, अअं पत्त- काळो । ( प्रकाशम् ) अय्य! सरणागदम्हि । [ हं बलात्कारेण नीय- मानेति ननु भणति । भवतु, अयं प्राप्तकालः । आर्य ! शरणागतास्मि । ] १५ नायकः - न भेतव्यं न भेतव्यम् । किं वसन्तसेनैषा । विदूषकः - अविहा वसन्तसेणा । ( अपवार्य) भो चारुदत्त ! वसन्तसेना खु इअं जा भवदा कामदेवाणुआणप्पहुदि णअण- ' -i. 28.19] प्रथमोऽङ्कः । १८ मन्तसंत्थुदा सणिहिदमणोभवेण हिअएण उव्वहीअदि । ता पेक्खदु इअं । [ अविहा वसन्तसेना । भोः चारुदत्त ! वसन्त- सेना खल्वियं, या भवता कामदेवानुयानप्रभृति नयनमात्रसंस्तुता २१ सन्निहितमनोभवेन हृदयेनोदुह्यते । तत् पश्यत्विमाम् । ] नायकः – वयस्य ! पश्याम्येनां, यत्र मे पतितः कामः क्षीणे विभवसनये । रोषः कुपुरुषस्येव स्वाङ्गेष्वेवावसीदति ॥ २८॥ गणिका - अदिण्णभूमिप्पवेसपधरिसणेण अवरद्धा अहं अय्यं सीसेण पसादेमि । [ अदत्तभूमिप्रवेशप्रधर्षणेनापराद्धाहमार्थं शीर्षेण प्रसादयमि । ] ३ नायकः - यद्येवमहमपि तवादविज्ञात प्रयुक्तेन प्रेष्यसमुदाचारेण सापराधो भवतीं प्रसादयामि । विदूषकः - भो ! विवहन्ता इव सअडिअं दुव्विणीदबळीवद्दा ६ अण्णोष्णं सङ्किळेसन्ति । अहं दाणि कं पसादेमि । भोदु, दाणि रणिअं सामि । रणिए ! पसीददु पसीददु होदी । [ भोः ! विवहन्ताविव शकटिकां दुर्विनीतबलीवर्दावन्योन्यं क्लेशयतः । अह- ९ मिदानीं कं प्रसादयामि । भवतु, इदानीं रदनिकां प्रसादयामि । रदनिके ! प्रसीदतु प्रसीदतु भवती । ] नायकः-२ - भवति ! परवानस्मि । किमनुतिष्ठति स्नेहः । १२ गणिका - (आत्मगतम् ) महुरं खु इच्छिदव्वं । अदक्खिणं खु पठम- दंसणे जइच्छागदाए इह वसिदुं । ता एवं करिस्सं । ( प्रकाशम् ) जइ मे अय्योपसण्णो, अअं मे अळङ्कारो इह एव चिट्ठदु । १५ अळङ्कारणिमित्तं पावा मं अणुसरन्ति । अहं पि अय्येण रक्खिदा गेहूं गन्तुमिच्छामि । [ मधुरं खल्वेष्टव्यम् । अदक्षिणं खलु प्रथम- दर्शने यदृच्छागतयेह वस्तुम् । तदेवं करिष्यामि । यदि मे आर्यः १८] प्रसन्नः, अयं मेऽलङ्कार इहैव तिष्ठतु । अलङ्कारनिमित्तं पापा मामनु- सरन्ति । अहमप्यार्येण रक्षिता गेहं गन्तुमिच्छामि । ] नायक:- २१ विदूषकः- चारुदत्ते 1 :- अन्वर्थमुपदिशति । मैत्रेय ! गृह्यताम् । :- ण मे सद्धा । [ न मे श्रद्धा । ] :- मूर्ख ! गृह्यताम् । नायक:- [i. 28.20 विदूषकः - जं भवं आणवेदि । आणेदु मोदी । [ यद् भवानाज्ञा- २४ पयति । आनयतु भवती । ] ( गणिका विमुच्यालङ्कारं प्रयच्छति । ) विदूषकः - ( गृहीत्वा ) रदणिए ! गहूण एदं सुवण्णालङ्कारं तुवं । २७ सट्ठी सत्तमीए अ धारेहि । अहं अट्ठमीए अणद्धार धारइस्सं । [ रदनिके ! गृहाणैतं सुवर्णालङ्कारं त्वम् । षष्टयां सप्तम्यां च धारय । अहमष्टम्यामनध्याये धारयिष्यामि । ] ३० चेटी - ( विहस्य ) सत्थं वक्खाणअन्तस्स भट्टिपुत्तस्स तदाणिं अवसरो होदि । आणेदु अय्यो । ( गृहीत्वा । निष्कान्ता ) [शास्त्रं व्याचक्षाणस्य भर्तृपुत्रस्य तदानीमवसरो भवति । आनयत्वार्यः । ] ३३ नायकः - कोऽत्र भोः ! । दीपिका तावन् । विदूषकः - भोः ! दीविआ गणिका विअ णिम्सिनेहा संवृत्ता । [ भोः ! दीपिका गणिकेत्र निःस्नेहा संवृत्ता । ] ३६ नायकः–कृतं दीपिकया । ( विलोक्य ) उदितो भगवान् सर्वजन - सामान्यप्रदीपश्चन्द्रः । अतः खलु, उदयति हि शशाङ्कः क्लिन्नखर्जूरपाण्डु- युवतिजनसहायो राजमार्गप्रदीपः । तिमिरनिचयमध्ये रश्मयो यस्य गौरा हृतजल इव पङ्के क्षीरधाराः पतन्ति ॥ २९ ॥ भवति ! राजमार्गे निष्क्रमणः क्रियताम् । सखे ! अनुगच्छात्र- भवतीम् । ३ विदूषकः - जं भवं आणवेदि । एदु एदु भोदी । [ यद् भवानाज्ञा- पयति । एत्वेतु भवती । ] (निष्क्रान्ताः सर्वे । ) प्रथमोऽङ्कः । अथ द्वितीयोऽङ्कः । ( ततः प्रविशति गणिका चेटी च । ) ३ गणिका - तदो तो । [ ततस्ततः । ] चेटी - अम्महे कि मए भणिदं । किं तदो तदो त्ति । [ अम्महे न किञ्चिन्मया भणितम् । किं ततस्तत इति । ] ६ गणिका -हजे ! किं मए मन्तिदं । हजे ! किं मया मन्त्रितम् । ] चेटी - अज्जु ! सिणेहो पुच्छदि, ण पुरोभाइदा । किं चिन्तीअदि । [ अज्जुके ! स्नेहः पृच्छति, न पुरोभागिता । किं चिन्त्यते । ] ९ गणिका - हजे ! तुमं दाव किंत्ति तक्केसि । [ हजे ! त्वं तावत् किमिति तर्कयसि । ] चेटी - अप्पओअणदाए गणिआभावस्स अज्जुआ कंपि कामेदिति १२ तक्केमि । [ अप्रयोजनतया गणिकाभावस्याज्जुका कमपि कामयत इति तर्कयामि । ] गणिका - सुट्टु तुए किदं । अवचिदा दे दिट्ठी । ईदिसवण्णय्येव । १५ [ सुष्ठु त्वया कृतम् । अवचिता ते दृष्टिः । ईदृशवर्णैव । ] चेटी - अणळं किदं पि अज्जुअं मण्डिदं विअ पेक्खामि । कामो हि भअवं अणवगीदो उसुवो तरुणजणस्स । [ अनलङ्कृतामध्यज्जुकां १८ मण्डितामिव पश्यामि । कामो हि भगवाननवगीत उत्सवस्तरुणजन- स्थ । ] गणिका - हदासे ! उक्कण्ठिदव्वे का दे रदी । [ हताशे ! उत्कण्ठितव्ये २१ का ते रतिः । ] चेटी - अज्जुए ! इच्छामि पुच्छिदुं बहुमाणो विअ रमणीओ कोच्चि अकुमारो । [ अज्जुके ! इच्छामि प्रष्टुं बहुमान इव रमणीयः कश्चिद् २४ राजकुमारः । ] १. पुरोभाइदाए. चारुदत्ते [ii. 35_ गणिका - रमितुं इच्छामि, ण सेविदुं । [ रन्तुमिच्छामि, न सेवितुम् । ] चेटी - किण्णुखु विज्जाविसेसरमणीओ कोश्चि म्हणाओ । २७ [ किन्नुखलु विद्याविशेषरमणीयः कश्चिद् ब्राह्मणदारकः । ] गणिका - अत्थि अदिबहुमदो विस्संभो । पूअणीओ खु सो जणो । [ अस्यतिबहुमतो विस्रम्भः । पूजनीयः खलु स जन: । ] ३० चेटी - किण्णुहु वणिजदारओ कोच्चि आगन्तुओ । [ किन्नुखलु वणिग्दारकः कश्चिदागन्तुक: । ] गणिका - उम्मत्तिए ! आसाच्छेदं उक्कण्ठन्ता का सहेदि । [ उन्म- ३३ तिके ! आशाच्छेदमुत्कण्ठमाना का सहते । ] चेटी - किं ण सक्कं सोढुं । को अम्हाणं मणोरहाउत्तो । [ किं न शक्यं श्रोतुम् । कोऽस्माकं मनोरथावुत्तः । ] ३६ गणिका - किं तुव कामदेवाणुयाणे ण आअदा सि । [ किं त्वं काम- देवानुयाने नायतासि । ] टी- आअदम्हि । [ नन्वागतास्मि । ] ३९ गणिका - केण उदासीणं मन्तसि । [ केनोदासीनं मन्त्रयसे । ] चेटी-भणादु भणादु अज्जुआ भणादु । [ भणतु भणत्वज्जुका भणतु । ] ४२ गणिका - हजे ! सुणाहि दाव । अस्थि सत्थवाहपुत्तो चारुदत्तो णाम । [ हजे ! श्टणु तावत् । अस्ति सार्थवाहपुत्रश्चारुदत्तो नाम । ] चेटी - जेण सरणागढ़ा तुवं रक्खिदा । [ येन शरणागता त्वं रक्षिता ।] ४५ गणिका - सो एव्व । [ स एव । ] चेटी-हद्धि, दरिदो खु सो । [ हा धिक्, दरिद्रः खलुः सः ] गणिका - अदो खु कामीअदि । अदिदरिहपुरुससत्ता गणिआ ४८ अवअणी होइ । [ अतः खलु काम्यते । अतिदरिद्वपुरुषसक्ता गणिका अवचनीया भवति । ] —ii.75] द्वितीयोऽङ्कः । चेटी - अज्जुए ! उद्भूदपुष्कं सहआरं महुअराओ उवासन्ति । ५१ [ अज्जुके ! उद्धूतपुष्पं सहकारं मधुकरा उपासते । ] गणिका - हञ्जे ! एवं, उवासन्ति । दे महुअरा त्ति पुच्छीअन्ति । [ हजे ! एवम् उपासते । ते मधुकरा इति पृच्छयन्ते । ] ५४ चेटी - किं, विहवमन्ददाए वेसवासप्पसङ्गकादरो दुक्खं त्ति जइण आअच्छे । [ किं, विभवमन्दतया वेशवासप्रसङ्गकातरो दुःखमिति यदि नागच्छेत् । ] ५७ गणिका - णं अहं तं कामेमि । [ नन्वहं तं कामये । ] चेटी - जइ एत्त बहुमाणो, किं णाभिसरीअदि । [ यद्येतावान बहुमानः, किं नाभिस्त्रियते । ] ६० गणिका - ण हुण गच्छामि । किन्तु सहसा अभिसरिदो पच्चुअआर- दुळभदाए पुणो मे दुळभो भवे त्ति विळम्ब्रेमि । [ न खलु न गच्छामि । किन्तु सहसाभिसृतः प्रत्युपकारदुर्लभतया पुनमें दुर्लभो ६३ भवेदिति विलम्बे । ] चेटी हूं, किं एतणिमित्तं तहिं एव सो अळङ्कारो द्वाविदो । [ हं, किमेतन्निमित्तं तत्रैव सोऽलङ्कारः स्थापितः । ] ६६ गणिका - ईदिसं एव्व । [ ईदृशमेव । ] ( ततः प्रविशत्यपटाक्षेपेण संवाहकः । ) संवाहक:- अय्ये ! सरणागदो म्हि । [ आयें ! शरणागतोऽस्मि । ] ६९ गणिका - अळं अय्यस्स सम्भमेण । [ अलमार्यस्य सम्भ्रमेण । ] चेटी - हं, को दाणि एसो । [ हं, क इदानीमेष: । ] गणिका-उम्मत्तिए ! किं सरणाअदो पुच्छीअदि । [ उन्मत्तिके ! ७२ किं शरणागतः पृच्छयते । ] चेटी - अवि णाम साहसिओ भवे । [ अपि नाम साहसिको भवेत् । ] गणिका - उम्मत्तिए ! गुणवन्तो रक्खिदव्वो होदि । [ उन्मत्तिके ! ७५ गुणवान् रक्षितव्यो भवति । ] चारुदत्ते [ ii. संवाहकः-अय्ये ! णं भएण उवआरो विस्सरिदो, ण परिभवेण । पेक्खदु अय्या, भीदाहवा पधरिसिदाहवा आवण्णाहवा सुळभचा- ७८ रित्तवचणाहवा अवराहेदुं समत्था होन्ति । [आयें ! ननु भयेनोपचारो विस्मृतः, न परिभवेन । पश्यत्वार्या, भीता अथवा प्रधर्षिता अथवा आपन्ना अथवा सुलभचारित्रवञ्चना वा अपराधयितुं समर्था भवन्ति । ] ८१ गणिका - भो भो । विस्सत्थो भादु अय्यो । गणिआ खु अहं । [ भवतु भवतु । विश्वस्तो भवत्वार्यः । गणिका खल्वहम् । ] संवाहक :- अभिजणेण, ण सीक्रेण । [ अभिजनेन, न शीलेन । ] ८४ गणिका - हजे ! एवं विअ । [ हजे ! एवमिव । ] चेटी- अज्जुआ अग्र्यं पुच्छदि, कुदो अय्यरस भअं ति । [ अज्जु- कार्यं पृच्छति, कुत आर्यस्य भयमिति । ] ८७ संवाहक : - अय्ये ! धणिआदो । [ आयें ! धनिकात् । ] , गणिका - जइ एवं आसणं देदु अय्यस्स । [ यद्येवम्, आसनं दीयतामार्यस्य । ] ९० चेटी - तह । ( आसनं ददाति । ) [ तथा । ] गणिका - उवविसदु अय्यो । [ उपविशत्वार्यः । ] संवाहक:-( स्वगतम् ) पूआविसेसेण जाणामि कथ्यं ति । (उप- ९३ विशति । ) [ पूजाविशेषेण जानामि कार्यमिति । ] गणिका -हजे ! एवं विअ । [ हजे ! एवमिव । ] चेटी - अज्जुए ! तह । अय्य ! राअमग्गे विस्सत्थसम्पादं अय्यं कार्टु ९६ इच्छदि अज्जुआ । कस्स किं कत्तव्वं । [ अज्जुके ! तथा । आर्य ! राजमार्गे विश्वस्तसम्पातमार्य कर्तुमिच्छत्यज्जुका । कस्य किं कर्तव्यम् । ] संवाहकः – सुणादु अय्या । [ शृणोत्वार्या । ] ९९ गणिका - अवहिदम्हि । [ अवहितास्मि । ] संवाहकः–पाडळिपुत्तं मे जम्मभूमी । पकिदीए वाणिजओ अहं । —ii.125 ] द्वितीयोऽङ्कः । तदो भाअधेअपरिवृत्तदाए दसाए संवाह अवृत्ति उवजीवामि । १०२ [ पाटलिपुत्रं मे जन्मभूमिः । प्रकृया वणिगहम् । ततो भागधेयपरिवृत्त तया दशया संवाहकवृत्तिमुपजीवामि । ] गणिका-संवाहओ अय्यो । सुउमारा कळा सिक्खिदा अय्येण । १०५ [ संवाहक आर्यः । सुकुमारा कला शिक्षितायेंण ।] संवाहकः - कळेत्ति सिक्खिदा । आजीविअं दाणि संवृत्तम् । [ कलेति शिक्षिता । आजीवितमिदानीं संवृत्तम् । ] १०८गणिका - णिव्वेदमूअअं विअ वअणं अय्यस्स । तदो तदो । [ निर्वेदसूचकमिव वचनमार्यस्य । ततस्ततः । ] संवाहक :- अज्जुए ! सो दाणि अहं आअन्तुआणं सुणिअ पुरुस- १११ विसेसकोदृहळेण आअदो म्हि इमं उज्जअणिं । [ अज्जुके ! स इदानीमहमागन्तुकानां श्रुत्वा पुरुषविशेषकौतूहलेनागतोऽस्मीमा मुज्जय- नीम् । ] ११४ गणिका - तदो तदो [ ततस्ततः । ] संवाहकः–तढ़ो इह आअदमत्त एव कोच्चि सत्थवाहपुत्तो समासा- दिढ़ो। [ तत इहागतमात्र एव कश्चित् सार्थवाहपुत्रः समासादितः । ] ११७गणिका – केरिसो । [ कीदृशः । ] संवाहक:- आइदिमन्तो अविब्भमन्तो अणुच्छित्तो ळलिदो ळळिद- दाए अविम्हओ चउरो महुरो दक्खो सदक्खिनो अभिमदो १२० आइदो तुट्टो होदि । दय्य ण विकत्थेदि । अप्पं वि सुमरदि, बहुअं पि अवइदं विसुमरदि । अज्जुए ! किं बहुणा, तस्स कुळवुत्तस्स गुणाणं चउभाअं पि सुदिग्घेण वि गिम्हदिअहेण १२३वण्णिदुं ण सक्कं । किं बहुणा, दक्खिज्ञदाए परकेरअं विअ अत्तणो सरीरं धारेदि । [ आकृतिमान् अविभ्रमन् अनुत्सिक्तो ललितो ललिततया विस्मयश्चतुरो मधुरो दक्षः सदाक्षिण्योऽभिमत आचितस्तुष्टो चा. द. ११ चारुदत्ते [ ii. 196_ १२६ भवति । दवा न विकत्थते । अल्पमपि स्मरति, बहुकमप्यपकृतं विस्मरति । अज्जुके ! किं बहुना, तस्य कुलपुत्रस्य गुणानां चतुर्भाग- मपि सुदीर्घेणापि ग्रीष्मदिवसेन वर्णयितुं न शक्यम् । किं बहुना, १२९ दक्षिणतया परकीयमिवात्मनः शरीरं धारयति । ] गणिका - ( अपवार्य) हजे ! कोणुख सो अय्यचारुदत्तस्स गुणाणं अणुकरेदि । [ हजे ! कोनुखलु स आर्यचारुदत्तस्य गुणाना- १३२ मनुकरोति । ] चेटी - ममवि कोहळं सोढुं । कोणुहु उज्जअणि अत्तणो गुणेहि मण्डेदि । [ ममापि कौतूहलं श्रोतुम् । कोनुखलुज्जयनीमात्मनो गुणै- १३५ मंण्डयति । ] गणिका - तदो तदो । [ ततस्ततः । ] संवाहकः - तदो तस्स गुणविक्किणिदसरीरो विस्सरिदकळत्तो उव- १३८जीविओ संवुत्तो । [ ततस्तस्य गुणविक्रीतशरीरो विस्मृतकलत्र उपजीवी संवृत्तः ।] गणिका - किं सो दरिहो । [ किं स दरिद्रः । ] १४१संवाहकः-कहं अणाचिक्खिदे अय्या जाणादि । [ कथमनाख्यात आर्या जानाति । ] गणिका - एअस्सि दुळहो गुणविभवो त्ति । तदो तदो । [ एक- १४४स्मिन् दुर्लभो गुणविभव इति । ततस्ततः । ] चेटी - को णाम सो अय्यो । [ को नाम स आर्यः । ] संवाहक:- अय्यचारुदत्तो णाम । [ आर्यचारुदत्तो नाम । ] १४७गणिका-जुज्जइ । तदो तदो । [ युज्यते । ततस्तत: । ] संवाहकः - तदो सो विभवमन्ददाए अस्साहीणपरिजनो विसज्जि- अकुडुम्बभरणो चारित्तमत्तावसेसो सत्थवाहकुळे पडिवसदि । १५०अहं पि तेण अय्येण अब्भणुज्ञादो - अण्णं उवाचदु त्ति । कह -ii.175] द्वितीयोऽङ्कः । अणं एरिसं मणुस्सर अणं क्रभेअन्ति, कहं च तस्स कोमळळ- ळिदमहुर सरीर परिसकिदत्थं मे हत्थं साहारणसरीरसम्मद्देण सो- १५ ३ अणीअं करिस्सं ति जाणिवेदो दद्धसरीररक्खणत्थं जूदोवजीवी संवृत्त । [ ततः स विभवमन्दतयास्वाधीनपरिजनो विसर्जित कुटुम्ब - भरणश्वामित्रावशेषः सार्थवाहकुले प्रतिवसति । अहमपि तेनार्येणा- १५ ६ भ्यनुज्ञातोऽन्यमुपतिष्ठतामिति । कथमन्यमीदृशं मनुष्यरत्नं लभेयेति, कथं च तस्य कोमलललितमधुरशरीरस्पर्शकृतार्थं मे हस्तं साधारणगरी रसंमर्देन शोचनीयं करिष्यामीति जातनिर्वेदो दुग्धशरीररक्षणार्थं द्यूतो- १५९पजीवी संवृत्तः । ] ( गणिका सहर्षवाष्पं चेटीमवलोकयति । ) चेटी-तदो तदो । [ ततस्तत: । ] १६ २संवाहकः - तदा बहूणि दिणाणि मए पराइदेण पुरुसेण कदाइ अहं पि दहसु सुवणेसु पराइदो म्हि । [ ततो बहूनि दिनानि मया पराजितेन पुरुषेण कदाचिदहमपि दशसु सुवर्णेषु पराजितोऽस्मि । ] १६५ गणिका - तदो तदो । [ ततस्तत: । ] संवाहकः - तदो अज्ज वेसमग्गे जइच्छोवणदो समासादिदो हि । तस्स भएण इह पविट्ठो । एवं अय्या जाणादु । [ ततोऽद्य १६८वेशमार्गे यदृच्छोपनतः समासादितोऽस्मि । तस्य भयेनेह प्रविष्टः । एवमार्या जानातु । ] गणिका - ( आत्मगतम् ) अहो अचाहिदं । एवं खु मण्णे वासपाद- १७१ पविणासेण पक्खिणो आहिण्डन्ति त्ति । ( प्रकाशम् ) एवं गढ़े अत्तरओ अय्यो । हळा ! एहि तं जणं विसज्जेहि । [ अहो अत्याहितम् । एवं खलु मन्ये वासपादपविनाशेन पक्षिण आहिण्डन्त १७४इति । एवं गत आत्मीय आर्यः । हला ! एहि तं जनं विसर्जय । ] चेटी - तह । (निष्क्रान्ता । ) [ तथा । ] चारुदत्ते [ii. 176 गणिका-ण खु अय्येण अत्थणिमित्ता चिन्ता कादव्वा । अय्यचारु- १७७दत्त एव देदिति अय्यो जाणादु । [ न खल्वार्येणार्थनिमित्ता चिन्ता कर्तव्या । आर्यचारुदत्त एव ददातीत्यायों जानातु । ] ( प्रविश्य ) चेटी - अज्जुए ! विसज्जिदो सो जणो, परितुट्ठो गदो १८०अ । [ अज्जुके ! विसर्जितः स जनः, परितुष्टो गतश्च । ] संवाहक :- अणुग्गहिदो म्हि । [ अनुगृहीतोऽस्मि । ] गणिका-गच्छदु अय्यो सुहिजणदंसणेण पीदिं णिव्वत्तेढुं । १८३ [ गच्छत्वार्यः सुहृज्जनदर्शनेन प्रीतिं निर्वर्तयितुम् । ] संवाहक:- अज्ज एव कदाइ णिवेदेण पञ्वजे । जइ इअं परिअणे सङ्कन्ता कळा भवे, तढ़ो अय्याए अणुग्गहिदो भवेअं । [ अधैव १८६ कदाचिन्निर्वेदेन प्रव्रजेयम् । यदीयं परिजने सङ्क्रान्ता कला भवेत्, तत आर्ययानुगृहीतो भवेयम् । ] गणिका - जम्स किदे इअं कळा सिक्खिदा, सो एव्व अय्येण १८९उवचिट्टिदव्वा भविस्सदि । [ यस्य कृते इयं कला शिक्षिता, स एवायेणोपस्थातव्यो भविष्यति । ] संवाहकः- ( स्वगतम् ) णिउणं खुपश्चाचक्खिदो म्हि । को हि णाम १९२ अप्पणा किदं पच्चुअआरेण विणासेदि । ( प्रकाशम्) अय्ये ! गच्छामि दाव अहं । [ निपुणं खलु प्रत्याख्यातोऽस्मि । को हि नामात्मना कृतं प्रत्युपकारेण विनाशयति । आयें ! गच्छामि तावदहम् । ] १९५गणिका-गच्छदु अय्यो पुणो दंसणा । । गच्छत्वार्यः पुनर्दर्श- नाय । ] संवाहकः-अय्ये ! तह । (निष्क्रान्तः । ) [ आयें ! तथा । ] १९८ गणिका - हं, सद्दो विअ । [ हं शब्द इव । ] ( प्रविश्य ) चेट: - विच्छित्तिए ! विच्छित्तिए ! कहिं कहिं अज्जुआ । [ विच्छि- २०१त्तिके ! विच्छित्तिके ! कुत्र कुत्राज्जुका । ] 226 ―ii. ] द्वितीयोऽङ्कः । गणिका - हजे ! किं एदं । [ हजे ! किमेतत् । ] चेट:- हं, विप्पळद्धो म्हि, वादाअणणिक्खामिदपुव्वकाआए ओण- २०४मिअपओहराए कण्णउरस्स परिप्फन्दो अज्जुआए जेण ण दिट्ठो । [ हं, विप्रलब्धोऽस्मि, वातायननिष्क्रामितपूर्वकाययावनमितपयोधरया कर्णपूरस्य परिस्पन्दोऽज्जुकया येन न दृष्टः । ] २०७ गणिका - ळहुजणस्स सुळहो विम्हओ । किं दे उस्सेअस्स कारणम् । [ लघुजनस्य सुलभो विस्मयः । किं ते उत्सेकस्य कारणम् । ] चेट:- सुणादु अज्जुआ - एसो उग्गवेगेण ओगाहणणिव्वत्तिदेण २१० पम्सुदमदगन्धं राअमग्गं करतंण मङ्गळहत्थिणा भद्दकवोदएण अणेअपुरुससङ्कुळेसु राअमग्गेसु उत्तरि अपडविराअदाए अहि- अळक्खणीओ कोच्चि पव्वइदो समासादिदो । [ शृणोत्वज्जुका - २१३एष उग्रवेगेनावगाहननिवर्तितेन प्रस्रुतमदगन्धं राजमार्गं कुर्वता मङ्ग- लहस्तिना भट्टकपोतकेंनानेकपुरुपसङ्कुलेषु राजमार्गेषूत्तरीयपटविरागत- याधिकलक्षणीयः कश्चित् प्रव्रजितः समासादितः । ] २१६ गणिका - हं, तदो तदो । [ हं, ततस्ततः । ] चेट: - तदो मए हत्थित्थामिद्दताडिअमाणो दन्तन्तरपरिवत्तमाणो हत्थित्थपडिदचरणो तदो हा हा विपाडिदो हा हा हदो तिजणवादे २१९ संवृत्ते तदो दिण्णकरप्पहारेण परिवत्तिदं हत्थि करिअ मोइदो सो परिव्वाजो । [ ततो मया हस्तिहस्तामर्दताड्यमानो दन्तान्तरपरिवर्त- मानो हस्तिहस्तपतितचरणः ततो हा हा विपाटितो हा हा हत इति २२२ जनवादे संवृत्ते ततो दत्तकरप्रहारेण परिवर्तितं हस्तिनं कृत्वा मोचितः सपरिव्राट् । ] गणिका - पिअं मे । तदो तदो । [ प्रियं मे । ततस्ततः । ] २२५ चेट: - तदो सव्वो जणो भणादि - अहो चेडस्स कम्म त्ति । उण कोच्चि किं पि इच्छइ दाउँ । तदो अज्जुए ! केण वि कुळवत्तेण चारुदत्ते [ ii.7. उइदाणि आभरणट्टाणाणि विळोइअ अङ्गुट्टेणाणिअ वि २२८अळद्धं पेक्खिअ दव्वं उवाळभिअ दिग्धं णिस्ससिअ एत्तओ मे विभवोति करिअ परिजणहत्थे अअं पावरओ पेसिदो । [ ततः सर्वो जनो भणति - अहो चेटस्य कर्मेति । न पुनः कश्चित् किमपीच्छति २३१ दातुम् । ततोऽज्जुके ! केनापि कुलपुत्रेणोचितान्याभरणस्थानानि विलोक्याङ्गुष्टेनानीयापि पुनरलब्धं प्रेक्ष्य दैवमुपालभ्य दीर्घं निःश्वस्यै- तावान् मे विभव इति कृत्वा परिजनहस्तेऽयं प्रावारकः प्रेषितः । ] २३४ गणिका - कोणुखु अय्यचारुदत्तस्स गुणाणं अणुकरेदि । [ कोनुखल्वा- fareत्तस्य गुणाननुकरोति । ] चेटी - अज्जुए ! मम वि कोहळं अत्थि । कोणुखु एसो । २३७ [ अज्जुके ! ममापि कौतूहलमस्ति । कोनुखल्वेषः । ] गणिका - केण वि साहुणा पुरुसेण होदव्वं । [ केनापि साधुना पुरुपेण भवितव्यम् । ] २४० चेटी- साहु पुच्छीअदु दाव । [ साधु पृच्छयतां तावत् । ] गणिका-हञ्जे ! एकपुरुसपक्खवादिदा सव्वगुणाणं हन्ति । [ हजे ! एकपुरुषपक्षपातिता सर्वगुणान् हन्ति । ] २४३चेटी-भद्द ! से णाम तुवं जाणासि । [ भट्ट ! अस्य नाम त्वं जानासि । ] :- हु जाणामि । [ न खलु जानामि । ] २४६ गणिका - अदिळहु तुए किदं । [ अतिलघु त्वया कृतम् । ] चेटी - जइ एवं, इह तु कोत्ति मन्तिदं । [ यद्येवम्, इह त्वया asia मन्त्रिम् । ] २४९चेटः-अहं एत्तअं तु जाणामि-भद्दओ अविम्हओ त्ति । [ अह- मेतावत् तु जानामि — भद्रको विस्मय इति । ] १. किंति. -iii. 1.] तृतीयोऽङ्कः । गणिक - एहि दाव तं पेक्खामो । [ एहि तावत् तं पश्यामः । ] २५२ चेट: - पेक्खदु पेक्खदु अज्जुआ । एसो गच्छइ । [ पश्यतुं पश्य- स्वज्जुका । एष गच्छति । ] गणिका - (प्रासादाद् विलोक्य ) हजे ! एसो हि सो अय्यचारुदत्तो २५५ एव्व जण्णोबवीदमत्तपावरओ गच्छइ । ता जाव दूरं गओ ण भविस्सदि एसो, पेक्खम्ह दाव णं । [ हओ ! एष हि स आर्यचारु- दत्त एव यज्ञोपवीतमात्रप्रावारको गच्छति । तद् यावद् दूरं गतो न २५८ भविष्यत्येष, पश्यामस्तावदेनम् । ] (निष्क्रान्ताः सर्वे । ) ( तत प्रविशति नायको विदूषकश्च । ) द्वितीयोऽङ्कः । अथ तृतीयोऽङ्कः । ३ नायकः - वयस्य ! वीणा नामासमुद्रोत्थितं रत्नम् । कुतः, उत्कण्ठितस्य हृदयानुगता सखीव सङ्कीर्णदोषरहिता विषयेषु गोष्ठी । क्रीडारसेषु मदनव्यसनेषु कान्ता atri तुकान्तरतिविघ्नकरी सपत्नी ॥ १ ॥ विदूषकः - भो वयस्स ! को कालो किदपरिघोसणढ़ाए णिस्सम्पादा अमग्गा । कुक्कुरा वि ओसुत्ता । वअं णिद्दं ण क्रभामो । अण्णं ३ च दाणि अच्छरीअं । इमं हदवीणं ण रमामि । अहिअदित्थाणे विच्छिन्ति हो । [ भी वयस्य ! कः कालः कृतपरिघोषण- तया निःसम्पाता राजमार्गाः । कुक्कुरा अप्यवसुप्ताः । वयं निद्रां न ६ लभामहे । अन्यच्चेदानीमाश्चर्यम् । इमां हतवीणां न रमे । अधिकदृढ- स्थाने विच्छिन्नतन्त्रीका भवतु । ] चारुदत्ते [ iii. 1. नायकः--वयस्य ! भावशाबलेन बहुशः खल्वद्य मधुरं गीतम् । न ९ च भवान् रमते । विदूषकः - अदो एव्व एवं अहं ण रमामि । महुरं पि बहु खादिअं अजिणं होई । [ अत एवैतामहं न रमे । मधुरमपि बहु खादितम- १२ जीर्णं भवति । ] नायकः - सर्वथा सुव्यक्तं गीतम् । कुतः, रक्तं च तारमधुरं च समं स्फुटं च भावार्पितं च न च साभिनयप्रयोगम् । किं वा प्रशस्य विविधैर्बहु तत्तदुक्त्वा भित्त्यन्तरं यदि भवेद् युवतीति विद्याम् ॥ २ ॥ विदूषकः–कामं पसंसेदु भवं । मम खुदाव गाअन्तो मस्सो इत्थिवि पठन्ती उभअं आदरं ण देदि । गाअन्तो दाव ३ मस्सो रत्तसुमणावेोट्टदो विअ पुरोहिदो दिढं ण सोहइ । इत्थआ विपठन्ती छिण्णणासिआ विअ घेणुआ अदिविरुवा होइ । [ काम प्रशंसतु भवान् । मम खलु तावद् गायन् मनुष्यः स्त्र्यपि पठन्त्यु- ६ भयमादरं न ददाति । गायंस्तावन्मनुध्यो रक्तसुमनोवेष्टित इव पुरोहितो दृढं न शोभते । स्यपि पठन्ती छिन्ननासिकेव धेनुरतिविरूपा भवति । ] ९ नायकः - सखें ! उपारूढोऽर्धरात्रः । स्थिर तिमिरा राजमार्गाः । निस्सम्पात पुरुषत्वात् प्रसुप्तेवाज्जयनी प्रतिभाति । कुतः, असौ हि दत्त्वा तिमिरावकाशमस्तं गतो ह्यष्टमपक्षचन्द्रः । तोयावगाढस्य वनद्विपस्य विषाणकोटीव निमज्जमाना ॥ ३ ॥ विदूषकः-सुट्टु भवं भणादि । अन्तद्धिअमाणचन्द्ळद्धावआसो ओदरदी विअ पासादादो अन्धआरो। [ सुष्ठु भवान् भणति । ३ अन्तर्दधानचन्द्रलब्धावकाशोऽवतरतीव प्रासादादन्धकारः । ] -iii. 4.2 '] तृतीयोऽङ्कः । नायक:- ( - (परिक्रम्य) इदमस्मदीयं गृहम् । वर्धमानवक ! वर्धमानवक ! विदूषकः - वद्धमाणवअ ! वद्धमाणवअ ! दुवारं अवावुद । [ वर्ध- ६ मानवक ! वर्धमानवक ! द्वारमपावृणु । ] ( प्रविश्य ) ( निष्क्रान्तश्चेष्टः । ) चेटः - अम्मो अय्यमत्तेओ । [ अम्मो अर्यमैत्रेयः । ] ९ नायक : - वर्धमानवक ! चेट:- अम्मो भट्टिदारओ । भट्टिदारअ ! वन्दामि । [ अम्मो भर्तृदा- रकः । भर्तृदारक ! वन्दे । ] १२ नायक:- - पादोदकमानय । चेट: - ( परिक्रम्य ) इदं पादोदअं । ( नायकस्य पाद प्रक्षालयति । ) इदं पादोदकम् । ] १५ विदूषकः - वड्ढमाणवअ ! मम वि पादं पक्खाळेहि । [ वर्धमानवक ! ममापि पादं प्रक्षालय । ] :- सुहौदे पादे भूमीए पळोट्ठिदव्वं । उदअं विणासेहि । १८ अहव आहि । पक्खाळइस्सं । ( नाटयेन विदूपकस्य पाद प्रक्षा- यति । ) [ सुधौतयोः पादयोर्भूम्यां प्रलोठितव्यम् । उदकं विनाशय । अथवानय । प्रक्षालयिष्यामि । ] २१ विदूषकः- केवळं दासीपुत्त्रेण पाढ़ा धोदा, मुहं विधादे । [ न केवलं दास्याः पुत्रेण पादौ धौतौ, मुखमपि धौतम् । ] नायकः - वयस्य ! इयं हि निद्रा नयनावलम्बिनी ललाटदेशादुपसर्पतीव माम् । अदृश्यमाना चपला जरेव या मनुष्यवीर्यं परिभूय वर्धते ॥४॥ मैत्रेय ! सुप्यताम् । चारुदत्ते ( प्रविश्याभरणसमुद्गहस्ता ) ( चेटी दत्त्वा निष्क्रान्ता । ) [ iii. 4. 3 चेटी- अय्यमेत्तेअ ! उट्ठेहि उट्ठेहि । [ आर्यमैत्रेय ! उत्तिष्ठोतिष्ठ । ] विदूषकः - भोदि ! किं एदं । [ भवति ! किमेतत् । ] ६ चेटी - इअं सुवण्णभण्डं सट्ठीए सत्तमीए परिवेट्टामि । अट्ठमी खु अज्ज । [ इदं सुवर्णभाण्डं पष्ठयां सप्तम्यां परिवर्तयामि । अष्टमी खल्वद्य । ] ९ नायकः - इदं तद् वसन्तसेनायाः स्वकम् । 1 चेटी- आम । भणादु भणादु भट्टिदारओ, गहूणदु त्ति । [ आम । भणतु भणतु भर्तृदारकः गृह्णात्विति । ] १२ नायकः - मैत्रेय ! गृह्यताम् । विदूषकः - किं णिमित्तं अअं अलङ्कारो अव्भन्तरच उस्साळं ण पवेसीअदि । [किन्निमित्तमयमलङ्कारोऽभ्यन्तरचतुःशालं न प्रवेश्यते । ] १५ नायकः - मूर्ख ! बाह्यजनधारितमलङ्कारं गृहजनो न द्रक्ष्यति । विदूषकः - का गई । आणेहि गह्णामि चोरेहिं गहूणिअमाणं । [ का गतिः । आनय गृह्णामि चोरैर्गृह्यमाणम् । ] विदूषकः - भो ! किंणिमित्तं सो पावरओ तस्स गणिआपरिआर- अस्स दिण्णो । [ भोः ! किन्निमित्तं स प्रावारकस्तस्मै गणिकापरिचा- २१ रकाय दत्त: । ] कः - सानुक्रोशतया । नायकः विदूषकः - इह विसाणुकोसदा । [ इहापि सानुक्रोशता । ] २४ नायकः–वयस्व ! मा मैवम् । विदूषकः-अहं भरिदगद्दभो विअ भूमीए पळोट्ठामि । [ अहं भरि- तगर्दभ इव भूम्यां प्रलुठामि । ] iii. 8 ] तृतीयोऽङ्कः । २७ नायकः - निद्रा मां बाधते । तूष्णीं भव । विदूषकः- सअदु भवं सुहष्पबोहाअ । जाव अहं वि सुविस्सं । [ शेतां भवान् सुखप्रबोधाय । यावदहमपि स्वप्स्यामि । ] ( द्वावपि स्वपित: । ) ( ततः प्रविशति सज्जलकः । ) ( विचिन्त्य ) सज्जलक: - एष भोः ! कृत्वा शरीरपरि णाहसुखप्रवेशं शिक्षाबलेन च बलेन च कर्ममार्गम् । गच्छामि भूमिपरिसर्पण घृष्टपार्श्वो निर्मुच्यमान इव जीर्णेतनुर्भुजङ्गः ॥ ५ ॥ भोः ! वृक्षवाटिकापक्षद्वारे सन्धि छित्वा प्रविष्टोऽस्मि । यावदि- दानीं चतुःशालमुपसर्पामि । ( सनिर्वेदं विचिन्त्य ) भोः कामं नीचमिदं वदन्तु विबुधाः सुप्तेषु यद्वर्तते विश्वस्तेषु हि वञ्चनापरिभवः शौर्यं न कार्कश्यता । स्वाधीना वचनीयतापि तु वरं बद्धो न सेवाञ्जलि - मार्गश्ष नरेन्द्रसौप्तिकवधे पूर्वं कृतो द्रौणिना ॥ ६ ॥ लुब्धोऽर्थवान् साधुजनावमानी वणिक् स्ववृत्तावतिकर्कशश्च । यस्तस्य गेहं यदि नाम लप्स्ये भवामि दुःखोपहतो न चित्ते ॥ ७ ॥ यद्वा तद्वा भवतु । किंवा न कारयति मन्मथः । यावदारभे कर्म । भोः ! देशः कोनु जलावसेकशिथिलइछेदादशब्दो भवेद् भित्तीनां कनु दर्शितान्तरसुखः सन्धिः करालो भवेत् । क्षारक्षीणतया चलेष्टककुशं हर्म्यं व जीर्णं भवेत् कुत्र स्त्रीजनदर्शनं च न भवेत् स्वन्तश्च यत्नो भवेत् ॥ ८ ॥ चारुदत्ते [ iii. 8. ( परिक्रम्य ) इयं वास्तुविभागक्रिया । सोपस्नेहतया गृहविशिष्ट इवायं भवनविन्यासः । इह तावत् प्रवेशावकाशं करिष्ये । भोः ! ३ कीदृश इदानीं सन्धिच्छेदः कर्तव्यः स्यात् । सिंहाक्रान्तं पूर्णचन्द्रं झपाम्यं चन्द्रार्धं वा व्याघ्रवक्त्रं त्रिकोणम् । सन्धिच्छेदः पीठिका वा गजास्यमस्मत्पक्ष्या विस्मितास्ते कथं स्युः ॥ ९ ॥ भवतु, सिंहाक्रान्तमेव च्छेदयिष्ये । विदूषकः - भो ! जागत्ति खु भवं, णहि । [ भोः ! जागर्ति खलु ३ भवान्, नहि । ] नायकः - किमर्थम् । विदूषकः - अहं खुदाव कत्तव्वकरत्थीकिदसङ्केदो विअ सक्किअस- ६ मणओ णि ण ळभामि । वामं खु मे अक्ख फन्देदि । चोरो सन्धि छिन्ददी विअ पेक्खामि । जइ ईदिसी अवस्था अत्थाणं, जादीए दरिहो एव्व होमि । [ अहं खलु तावत् कर्तव्यकरस्त्रीकृतसङ्केत ९ इव शाक्यश्रमणको निद्रां न लभे । वामं खलु मेऽक्षि स्पन्दते । चोरः सन्धि छिनत्तीव पश्यामि । यदीदृश्यवस्थार्थानां जात्या दरिद्र एव भवामि । ] १२ नायक : - मूर्ख ! धिक् त्वाम् । दारिद्र्यमभिलपसि । , सज्जलकः - अथ केनेदानीं सन्धिच्छेदमार्गः सूचयितव्यः स्यात् । नन्विदं दिवा ब्रह्मसूत्रं रात्रौ कर्मसूत्रं भविष्यति । अद्यास्य भित्तिषु मया निशि पाटितासु च्छेदात् समासु सकृदर्पितकाकलीपु । काल्यं विषादविमुखः प्रतिवेशवर्गो दोषांश्च मे वदतु कर्मसु कौशलं च ॥ १० ॥ नमः खरपटाय । नमो रात्रिगोचरेभ्यो देवेभ्यः । ( तथा करोति । ) -iii. 13.] तृतीयोऽङ्कः । हन्त अवसितं कर्म । प्रविशामस्तावत् । ( प्रविश्य ) अये ! ज्वलति दीपः । अपसरामि तावन् । धिक्, सज्जलकः खल्वहम् । मार्जारः वने वृकोऽपसरणे श्येनो गृहालोकने निद्रा सुप्त मनुष्यवीर्यतुलने संसर्पणे पन्नगः । माया वर्णशरीरभेदकरणे वागू देशभाषान्तरे दीपो रात्रिपु सङ्कटे च तिमिरं वायुः स्थले नौर्जले ॥ ११ ॥ ( सर्वतो विलोक्य) आगन्तुकत्वादविदितसमृद्धिविस्तरः केवलं भवन- प्रत्ययादिह प्रविष्टोऽस्मि । न चेदानीं कश्चित् परिच्छदविशेषं पश्यामि । किन्नुखलु दरिद्र एवायम् । उताहो अयं संयमन- निरर्थकं द्रष्टव्यं धारयति । अथवा, अभिजातोऽयं भवनविन्यासः । उपभुक्तप्रनष्टविभवेनानेन भवितव्यम् । तथा विभवमन्दोऽपि जन्मभूमित्र्यपेक्षया । गृहं विक्रयकालेऽपि नीलस्नेहेन रक्षति ॥ १२ ॥ भवतु पश्यामस्तावत् । अथवा, न खलु मे तुल्यावस्थः कुलपुत्रः पीडयितव्यः । गच्छामि तावत् । ३ विदूषकः - भो ! गण एवं सुवण्णभण्डअं । [ भो गृहाणैतत् सुवर्ण- भाण्डम् ।] सज्जलक:- कथं सुवर्णभाण्डमित्याह । किं मां दृष्ट्राभिभाषते । ६ आहोस्वित् सत्त्वलाघवात् स्वप्नायते । भवतु पश्यामस्तावत् । ( दृष्ट्वा ) भूतार्थं सुप्त एवायम् । तथाहि, निःश्वासोऽस्य न शङ्कितो न विषमस्तुल्यान्तरं जायते गात्रं सन्धिषु दीर्घतामुपगतं शय्याप्रमाणाधिकम् । दृष्टिर्गाढ निमीलिता न चपलं पक्ष्मान्तरं जायते दीपं चैव न मर्षयेदभिमुखः स्यालक्षसुप्तो यदि ॥ १३॥ । चारुदत्ते [ iii. 13.—— कनुखलु तत् । अये जर्जरप्रावरणैकदेशे दीपप्रभाव्यक्तीकृतरूपं दृश्यते । सुपरिगृहीतमनेन । अयमत्र प्राप्तकालः । इमे मया गृहीताः ३ शलभाः । दीपनिर्वापणार्थमेकं मुचामि । (भ्रमरकरण्डकादेकं मुञ्चति ।) अये एष दीपं निर्वाप्य पतति । विदूषकः - अविहा णिव्वाविदो दीवो दाणिं । मुसिदो म्हि । भो ६ चारुदत्त ! गण एवं सुवण्णाळङ्कारं । अहं खु भीदीए उप्पहष्पवृत्तो विअ वणिजो णि ण भाभि । मम बम्हत्तणेण साविदो सि, जण गहूणसि । [ अविहा निर्वापितो दीप इदानीम् । मुषितोऽस्मि । ९ भोश्वारुदत्त ! गृहाणेमं सुवर्णालङ्कारम् । अहं खलु भीत्योत्पथप्रवृत्त इव वणिग् निद्रां न लभे । मम ब्रह्मत्वेन शापितोऽसि यदि न गृहणासि । ] १२ सज्जलकः-किमत्र शपथपरिग्रहेण । एष प्रतिगृह्णामि । ( गृह्णाति । ) विदूषकः-(दत्त्वा) अहं विक्किणिदभण्डओ विअ वणिजओ सुहं सइस्सं । [ अहं विक्रीतभाण्डक इव वणिक् सुखं शयिष्ये । ] १५ सज्जलकः - सुखं स्वपिहि महाब्राह्मण ! । ( विचिन्त्य ) भोः ! ब्राह्म- न विश्वासाद् दीयमानं मया हर्तव्यमासीत् । धिगस्तु खलु दारिद्र्यमनिर्वेदं च यौवनम् । यदि दारुणं कर्म निन्दामि च करोमि च ॥ १४ ॥ ( नेपथ्ये पटहशब्दः क्रियते । ) ( निष्क्रान्तः सबलकः । ) ( प्रविश्य ) : - ( कर्णे दत्त्वा ) अये प्रभातसमयः संवृत्तः । अपसरामि सज्जलक:- ३ तावत् । ६ चेटी - ( साक्रन्दम् ) अय्यमेत्तेअ ! अम्हाणं रुक्खवाडिआपक्ख- दुवाळे सन्धि छिन्दिअ चारो पविट्ठो । [ आर्यमैत्रेय ! अस्माकं —iii. 14.3' ] तृतीयोऽङ्कः । वृक्षवाटिकापक्षद्वारे सन्धि छित्वा चोरः प्रविष्टः । ] ९ विदूषकः - ( सहसोत्थाय ) किं भणादि होदी । [किं भणति भवती ।] ( चेटी रुक्खवाडिअत्ति पठति । ) (उभावुपगम्य ) विदूषकः - चोरं छिन्दिअ सन्धी पविट्ठो । [ चोरं छित्वा सन्धिः प्रविष्टः । ] १२ चेटी - हदास ! सन्धिं छिन्दिअ चोरो पविट्ठो । [ हताश ! सन्धि छित्वा चोर : प्रविष्ट: । ] विदूषकः - आअच्छ णं दंसेहि । [ आगच्छ ननु दर्शय । ] १५ चेटी - (परिक्रम्य ) एदं । [ एतत् । ] विदूषकः - अविहा दासीएवुत्तेण कुक्कुरेण पवेसो किदो । भोदि ! आअच्छ, चारुदत्तस्स पिअं णिवेदेमि । भो चारुदत्त ! पिअं दे णिवेदेमि । [ अविहा दास्या: पुत्रेण कुक्कुरेण प्रवेशः कृतः । भवति ! आगच्छ २१ चारुदत्तस्य प्रियं निवेदयामि । भोश्चारुदत्त ! प्रियं ते निवेदयामि । ] नायक:-( बुद्धा ) किं मे प्रियम् । नतु वसन्तसेना प्राप्ता । विदूषक:- :-ण खु वसन्तसेना, वसन्तसेणो पत्तो । [ न खलु वसन्त- २४ सेना, वसन्तसेनः प्राप्तः । ] नायक : - रदनिके ! किमेतत् । चेटी- भट्टिदारअ ! अम्हाणं रुक्खवाढिआपक्खदुवारे सन्धि २७ छिन्दिअ चोरो पविट्ठो । [ भर्तृदारक ! अस्माकं वृक्षवाटिकापक्षद्वारे सन्धि छित्वा चोरः प्रविष्टः । ] नायक:- :- किं चोरः प्रविष्टः । ३० विदूषकः - भो वअस्स ! सव्वहा तुवं भणासि, मुक्खो मेत्तेओ अपण्डदो मेत्तेओत्ति । णं मए सोभणं किदं तं सुवण्णभण्डअं तव हत्थं समप्पअन्तेण । [ भो वयस्य ! सर्वथा त्वं भणसि, मूर्खो चारुदत्ते [iii. 14.33 ३३ मैत्रेयोऽपण्डितो मैत्रेय इति । ननु मया शोभनं कृतं तत् सुवर्णभाण्डकं तव हस्ते समर्पयता । ] नायकः - किं भवता दत्तम् । ३६ विदूषकः - अहई । [ अथकिम् । ] नायकः - कस्यां वेलायाम् । विदूषकः-अद्धरत्ते । [ अर्धरात्रे । ] ३९ नायकः - किमर्धरात्रे । बाढं दत्तम् । विदूषकः- भो चारुदत्त ! जं वेळं पडिवुद्धो आसि, तस्सि वेळा खु दिण्णं । [ भोश्चारुदत्त ! यस्यां वेलायां प्रतिबुद्ध आसीः, तस्यां ४२ वेलायां खलु दत्तम् । ] नायकः-हन्त हृतं सुवर्णभाण्डकम् । विदूषकः - दाणिं मे हत्थे पडिच्छिदु अत्तभवं । [ इदानीं मम हस्ते ४५ प्रयच्छत्वत्रभवान् । ] नायकः - ( आत्मगतम् ) कः श्रद्धास्यति भूतार्थं सर्वो मां तुलयिष्यति । शङ्कनीया हि दोषy निष्प्रभावा दरिद्रता ॥ १५ ॥ ( प्रविश्य ) ब्राह्मणी - रदणिए ! रदणिए ! आअच्छ । गहि सुणादि । कवाडस हं ३ दाव करिम्स । ( तथा करोति । ) [ रदनिके ! रदनिके ! आगच्छ । नहि शृणोति । कवाटशब्दं तावत् करिष्यामि । ] चेटी-हं, कवाडस हो विअ । भट्टिदारिआ मं सहावेदि । (परिक्रम्य ) ६ भट्टिदारिए ! इअम्हि । [ हं, कवाटशब्द इव । भर्तृदारिका मां शब्दापयति । भर्तृदारिके ! इयमस्मि । ] ब्राह्मणी- परिक्खदो ण वावादिदो अय्यउत्तो अय्यमेत्तेओ वा । ९ [ न परिक्षतो न व्यापादित आर्यपुत्र आर्यमैत्रेयो वा । ] -iii. 16.2] तृतीयोऽङ्कः । चेटी - कुसळी भट्टिदारओ अय्यमेत्तेओ अ । जो तस्स जणस्स अळङ्कारो चोरेण गहीदो । [ कुशली भर्तृदारक आर्यमैत्रेयश्च । १२ यस्तस्य जनस्यालङ्कारश्चोरेण गृहीतः । ] ब्राह्मणी-किं भणासि चोरेण गहीदत्ति । [ किं भणासि चोरेण गृहीत इति । ] १५ चेटी- अहई । [ अथकिं । ] ब्राह्मणी - किंणुखु तस्स जणस्स दादव्वं भविस्सदि । अव एवं दइस्सं । ( कर्णौ स्पृष्ट्वा ) हद्धि ताळीपत्तं खु एदं । सो दाणि परि- १८ अओ मं विळम्बेदि । किं दाणि करिस्सं । ( विचिन्त्य ) भोदु, दिट्ठे । मम ज्ञादिकुळादो ळद्धा सदसहस्समुळा मुत्तावळी । तंपि अय्यउत्तो सोढीरदाए पडिच्छदि । भोदु, एवं दाव २४ करिस्सं । (निष्क्रान्ता । ) [ किन्नुखलु तस्मै जनाय दातव्यं भवि- प्यति । अथवैतद् दास्यामि । हा धिक् तालीपत्रं खल्वेतत् । स इदानीं परिचय मां विडम्बयति । किमिदानीं करिष्यामि । भवतु, दृष्टम् 1 २४ मम ज्ञातिकुलाद् लब्धा शतसहस्रमूल्या मुक्तावली । तामप्यार्यपुत्रः शौटीरतया प्रतीच्छति । भवतु, एवं तावत् करिष्यामि । ] विदूषकः - इमरस अन्धआरुप्पादिदस्स अवराहस्स किदे भवन्तं २७ सीसेण पसादेमि । दाणिं मे हत्थे पडिच्छदु अत्तभवं । [ अस्यान्ध- कारोत्पादितस्यापराधस्य कृते भवन्तं शीर्षेण प्रसादयामि । इदानीं मे हस्ते प्रयच्छत्वत्रभवान् । ] ३० नायकः - किं भवानिदानीं मां बाधते । भवांस्तावदविश्वासी शीलज्ञो मम नित्यशः । किं पुनः स कलाजीवी वञ्चनापण्डितो जनः ॥ १६ ॥ विदूषकः - मण्णे मए मन्दभाग्गेण कुम्भीळस्स हत्थे दिणं । (विषण्णस्तिष्ठति । ) [ मन्ये मया मन्दभाग्येन कुम्भीलस्य हस्ते दत्तम् । ] चा. द. १२ चारुदत्ते ( प्रविश्य ) [ iii. 16.3 ब्राह्मणी - रदणिए ! अय्यमेत्तेअं सहावेहि । [ रदनिके ! आर्यमैत्रेयं शब्दापय । ] ६ चेटी - अय्यमेत्तेअ ! भट्टिदारिआ तुमं सहावेदि । [ आर्यमैत्रेय ! भर्तृदरिका त्वां शब्दापयति । ] विदूषकः - भोदि ! किं मं । [ भवति ! किं माम् । ] ९ चेटी- आम । [ आम । ] विदूषकः - एस आअच्छामि । ( उपसर्पति । ) [ एप आगच्छामि । ] ब्राह्मणी- अय्यमेत्तेअ ! इमं पडिग्गहं पडिगहूण । [ आर्यमैत्रेय ! १२ इमं प्रतिग्रहं प्रतिगृहाण । ] विदूषकः - अवत्थाविरुद्धो खु अअं पदाणविभवो । कुदो दस्स आगम । [ अवस्थाविरुद्धः खल्वयं प्रदानविभवः । कुत एतस्या- १५ गमः । ] ब्राह्मणी - णं सट्ठि उववसामि । सव्वसारविभवेण बम्हणेण सोत्थि वाइव्वं त्ति एसो इमस्स आगमो । [ ननु षष्टीमुपवसामि । १८ सर्वसारविभवेन ब्राह्मणेन स्वस्ति वाचयितव्यमित्येषोऽस्यागमः । ] विदूषक:- अट्टमी खु अज्ज । [ अष्टमी खल्वद्य । ] ब्राह्मणी- पमादादो अदिकमो किदो । अज्ज पूआ णिव्वत्ती- २१ अदि । [ प्रमादाद् अतिक्रमः कृतः । अद्य पूजा निर्वर्त्यते । ] विदूषकः - अणणुरुवदाए पदाणस्स अणुक्कोसो विअ पडिभादि । ( जना न्तिकम् ) रदणिए ! किं करिस्सं । [ अननुरूपतया २४ प्रदानस्यानुक्रोश इव प्रतिभाति । रदनिके ! किं करिष्यामि । ] चेटी - ( अपवार्य) किंणुखु तस्स जणस्स दादव्वं भविस्सदित्ति एदणिमित्तं भट्टिदारओ सन्तप्पदित्ति भट्टिदारिआ तव हत्थे २७ दइअ अय्यवत्तं अणिरिणं करिस्सामि त्ति एवं करेदि । ता गहूण iii. 17.3 ] तृतीयोऽङ्कः । एदं । [किन्नुखलु तस्मै जनाय दातव्यं भविष्यतीत्येतन्निमित्तं भर्तृदारकः संतप्यत इति भर्तृदारिका तव हस्ते दरवार्यपुत्रमनृणं करिष्यामीत्येवं ३० करोति । तद् गृहाणैतत् । ] ब्राह्मणी- उदअसम्भवदाए मुत्तावळीए तव अ दुळहदाए उवआरो विसरिदो । गण एवं । ( ददाति । ) [ उदकसम्भवतया मुक्ता- ३३ वल्यास्तव च दुर्लभतयोपचारो विस्मृतः । गृहाणैतत् । ] विदूषकः - ( गृहीत्वा ) सव्वं दाव चिट्ठदु । रोदिदी विअ होदीए दिट्ठी । [ सर्व तावत् तिष्ठतु । रोदितीव भवत्या दृष्टि: । ] ३६ ब्राह्मणी - देवउळधूमेण रोदाविदा । [ देवकुलधूमेन रोदिता । ] विदूषकः - साविदासि तत्तहोदा चारुदत्तेण, जइ अळिअं भणासि । [ शापितासि तत्रभवता चारुदत्तेन, यद्यलीकं भणसि । ] ३९ ब्राह्मणी-हद्धि । (निष्क्रान्ता । ) [ हा धिक् । ] विदूषकः - एसा वाआए दुक्खं रक्खिअ अस्सूहि सूइअ गआ । ( उपगम्य ) भो ! इदं । [ एषा वाचा दुःखं रक्षित्वाश्रुभिः सूचयित्वा ४२ गता । भोः ! इदम् । ] नायक:- : - किमेतत् । विदूषकः - सरिसकुळदारसङ्गहस्स ४५ फलम् । ] नायक - किं ब्राह्मणी मामनुकम्पते । विदूषकः - एवं विअ । [ एवमिव । ] ४८ नायक:- फळं । [ सदृशकुलदारसंग्रहस्थ : - धिगात्मानम् । अद्य हतोऽस्मि । मयि द्रव्ययक्षीणे स्त्रीद्रव्येणानुकम्पितः । अर्थतः पुरुषो नारी या नारी सार्थतः पुमान् ॥ १७॥ विदूषकः- तत्तहोदी हिअएण तुमं याचेदि । अहं सीसेण याचेमि । गण एदं । [ तत्रभवती हृदयेन त्वां याचते । अहं शीर्षेण याचे । ३ गृहाणैतत् । ] चारुदत्ते [iii. 17. - नायकः - तथा । (गृहीत्वा ) वयस्य ! इमां मुक्तावलीं गृहीत्वा वसन्त- सेनायाः सकाशं गच्छ । अर्थेषु काममुपलभ्य मनोरथो मे स्त्रीणां धनेष्वनुचितं प्रणयं करोति । माने च कार्यकरणे च विलम्बमानो धिग् भोः ! कुलं च पुरुषस्य दरिद्रतां च ॥ १८ ॥ विदूषकः - अहो अप्पमुळस्स सुवण्णभण्डअस्स किदे सदसहस्स- मुळा मुत्तावळी णीआदइदव्वा । [ अहो अल्पमूल्यस्य सुवर्ण- ३ भाण्डकस्य कृते शतसहस्रमूल्या मुक्तावली निर्यातयितव्या । ] नायक : - वयस्य ! मा मैवम् । यं समालक्ष्य विश्वासं न्यासोऽस्मासु कृतस्तया । तम्यैतन्महतो मूल्यं प्रत्ययस्य प्रदीयताम् ॥ १९ ॥ (निष्क्रान्ताः सर्वे । ) तृतीयोऽङ्कः । अथ चतुर्थोऽङ्कः । ( ततः प्रविशति सोत्कण्डा वसन्तसेना, चित्रफलकामादाय वर्तिकारण्डहस्ता चेटी च । ) ३ गणिका - हञ्जे ! पेक्खसि सरिसो तम्स जणस्स । [ हजे ! पश्यसि सदृशस्तस्य जनस्य । ] चेटी - अज्जुए ! तस्सि हत्थिविमहकोळाहळे बहुमाणपय्यत्थाए ६ दिट्ठीए दूरदो दिट्ठो सो भट्टिदारओ ईदिसो एव्व । [ अज्जुके ! तस्मिन् हस्तिविमर्दकोलाहले बहुमानपर्यस्तया दृष्टया दूरतो दृष्टः स भर्तृदारक ईदृश एव । ] -iv. 32 ] चतुर्थोऽङ्कः । ९ गणिका - तुमं दाव दक्खो वेसवासजणो त्ति जणवादं पूरअन्ती अळिअं भणासि । [त्वं तावद् दक्षो वेशवासजन इति जनवादं पूरयन्त्यलीकं भणसि । ] १२ चेटी - किं एदं वेसवासजणो सव्वो दक्खिणो होइ ति । पेक्खदु अज्जुआ चम्पआरामे पिचुमन्दा जाअन्ति । अदिसरिस त्ति मम हिअअं अहिरमदि । परमत्थदो एव्व पसंसीअदि, णं कामदेवो । १५ [ किमेतद् वैशवासजनः सर्वो दक्षिणो भवतीति । पश्यत्वज्जुका चम्पकारामे पिचुमन्दा जायन्ते । अतिसदृश इति मम हृदयमभिरमते । परमार्थत एव प्रशस्यते, ननु कामदेवः । ] १८ गणिका -हजे ! सहीजणेण अवहसणीअत्तणं अत्तणो परिहरामि । [हजे ! सखीजनेनापहसनीयत्वमात्मनः परिहरामि । ] चेटी - एदं जुज्जइ । सहीजणसपत्तिओ गणिआजणो णाम । [ एतद् २१ युज्यते । सखजिनसपत्नीको गणिकाजनो नाम । ] ( ततः प्रविशत्याभरणहस्तापरा चेटी । ) चेटी - सुहं अज्जुआए । [ सुखमज्जुकायाः । ] २४ गणिका-हजे ! साअढं दे । [ हजे ! स्वागतं ते । ] चेटी- अज्जुए ! अत्ता आणवेदि - इदं दुवारं पविट्ठ पोक्खरं वावत्ति पहवणं ! ता तुवरमाणमण्डणा गहीदावउण्ठणा आअ- २७ च्छति । इह अळङ्कारं अळङ्करेदु अज्जुआ । [ अज्जुके ! अम्बाज्ञापयति-- इदं द्वारं प्रविष्टं पौष्करमुपावर्तितं प्रवहणम् । तत् त्वरमाणमण्डना गृहीता वगुण्ठनागच्छत्विति । इहालङ्कारमलङ्करो - ३० त्वज्जुका । ] गणिका-किं अय्यचारुदत्तो मण्डइस्सिदि । [ किमार्यचारुदत्तो मण्डयिष्यति । ] चारुदत्ते [iv. 33_ ३३ चेटी - णहि, जेण अळङ्कारो पेसिदो सो राअसाळो सण्ठाणो । [ नहि, येनालङ्कारः प्रेषितः स राजस्यालः संस्थान: । ] गणिका - अवेहि अविणीदे ! । [ अपेह्यविनीते । ] ३६ चेटी - पसीदु पसीदु अज्जुआ । सन्देसं खु अहं मन्तेमि । ( पादयोः पतति । ) [ प्रसीदतु प्रसीदत्वज्जुका । सन्देशं खल्वहं मन्त्रये । ] गणिका - उट्ठेहि उट्ठेहि । कुसन्देसं असृआमि, ण तुवं । [ उत्तिष्ठो- ३९ तिष्ठ । कुसन्देशमसूयामि, न त्वाम् । ] चेटी- किं अहं अत्तं भणामि । [ किमहमम्बां भणामि । ] गणिका -भणेहि अत्तं - जढ़ा अय्यचारुदत्तो अभिसारइदव्वो ४२ तदा मण्डेमित्ति । [ भणाम्बां - - यदार्यचारुदत्तोऽभिसारयितव्य- स्तदा मण्डयामीति । ] चेटी - तह । ( निष्क्रान्ता । ) [ तथा । ] सज्जलक:- ( ततः प्रविशति सज्जलकः । ) कृत्वा निशायां वचनीयदोषं निद्रां च हित्वा तििमरं भयं च । स एव सूर्योदयमन्दवीर्यः शनैर्दिवाचन्द्र इवास्मि भीतः ॥ १ ॥ दिष्ट्या कर्मान्ते प्रभातम् । यावदिदानीं वसन्तसेनायाः परिचारि- काया मदनिकाया निष्क्रयार्थं मयेदं कृतम् । ( परिक्रम्य ) इदं ३ वसन्तसेनाया गृहम् । यावत् प्रविशामि । ( प्रविश्य) किन्नु - खल्वभ्यन्तरस्था मदनिका । अथवा, पूर्वाह्णे गणिकानामभ्यन्तरे सान्निध्यम् । अतस्तत्रैव तया भवितव्यम् । यावच्छब्दापयामि । ६ मदनिके ! मदनिके ! । चेटी - ( आकर्ण्य ) सज्जळअस्स विअ सरो । वावुदा अज्जुआ । ता उवसप्पिस्सं । (उपगभ्य) इअम्हि । [ सज्जलकस्येव स्वर: । व्यापृता- ९ ज्जुका । तदुपसर्पिप्यामि । इयमस्मि । ] —iv. 1.34 ] सज्जलकः- इतस्तावत् । चतुर्थोऽङ्कः । चेटी - किं तुवं सङ्किदवण्णो विअ । [ किं स्वं शङ्कितवर्ण इव । ] १२ सज्जलकः- न खलु, किश्चित् कथयितुकामः । गणिका-हञ्जे ! इमं चित्तफळअं सअणीए द्वावेहि । ( विलोक्य ) कहिं गआ हदासा । अहव अदूरगआए होदव्वं । जाव णं १५ पेक्खिस्सं । (परिक्रम्यावलोक्य) अम्मो इअं सा अदिसिणिद्धाए दिट्ठीए केवि मणुस्सेण पिबन्ती विअ सह मन्तअन्ती चिट्ठा । तमि एसो जोकोवि कारण मं याचेदि । [ ह । इदं चित्रफलकं १८ शयनीये स्थापय । कुत्र गता हताशा । अथवा अदूरगतया भवित व्यम् । यावदेनां प्रेक्षिष्ये । अम्मो इयं सातिस्निग्धया दृष्टया केनापि मनुष्येण पिबन्तीव सह मन्त्रयमाणा तिष्टति । तर्कयाम्येष यः कोऽपि २१ क्रयेण मां याचते । ] सज्जलक:- कः - श्रूयतां रहस्यम् । गणिका-अजुत्तं पररहस्सं सोढुं, अहं गमिस्सं । [ अयुक्तं पररहस्यं २४ श्रोतुम्, अहं गमिष्यामि । ] सज्जलक:-अपि वसन्तसेना ( इत्यर्धोक्ते ) गणिका - अहं अहिइदा एदाअं कहाअं । होदु, सुणिस्सं दाव २७ भविस्सदि । (पुनः प्रतिनिनृत्य स्थिता । ) [ अहमधिकृतैतस्यां कथा- याम् । भवतु, श्रोष्यामि तावद् भविष्यति । ] सज्जलक :- किं दास्यति त्वां निष्क्रयेण । ३० गणिका - सो एव्व एसो । होदु, सुणिस्सं । [ स एवैष: । भवतु, श्रोष्यामि । ] चेटी - सज्जळअ ! ममप्पदाणं पुढमं एव अज्जुआए उत्तं । [ सज्ज - ३३ लक ! मम प्रदानं प्रथममेवाज्जुकयोक्तम् । ] सज्जलकः - तेन हीममस्यै प्रयच्छ, एवं वक्तव्या च- चारुदत्ते [ iv. 2. - अयं तव शरीरस्य प्रमाणादिव निर्मितः । अप्रकाश्यो ह्यलङ्कारो मत्स्नेहाद् धार्यतामिति ॥ २ ॥ चेटी - पेक्खामि दाव । [ पश्यामि तावत् । ] सज्जलकः-गृह्यताम् । ( दर्शयति । ) ३ चेटी - दिपुरुवो विअ अअं अलङ्कारो । [ दृष्टपूर्व इवायमलङ्कारः । ] गणिका-ममकेरओ विअ अअं अलङ्कारो । [ मदीय इवायमलङ्कारः । ] चेटी - भणाहि भणाहि । को इमस्स आअमो । [ भण भण । ६ कोsस्यागमः । ] सज्जलक:- त्वत्स्नेहान् साहसं कृतम् उभे-हं, साहसिओ । [ हं, साहसिकः । ] ९ चेटी - (आत्मगतम् ) आ, अज्जुआए खु इमम्स आइदी कम्मदारुणदाए उव्वेअणीआ संवृत्ता । ( प्रकाशम्) हद्धि मम किदे उभअं संसइदं संवृत्तं -- तव सरीरं चारितं च । [आ, १२ अज्जुकायाः खल्वस्याकृतिः कर्मदारुणतयोद्वेजनीया संवृत्ता । हा धिग् मम कृते उभयं संशयितं संवृत्तं -- -- तव शरीरं चारित्रं च ! ] : - उन्मत्तिके ! साहसे खलु श्रीर्वसति । सज्जलक:- १५ चेटी - अपण्डदो खुसि । को हि णाम जीविदेण सरीरं विक्कीणि- स्सदि । अह कस्स गेहे इअं विस्सासवञ्चणा किढ़ा । [ अपण्डितः खल्वसि । कोहि नाम जीवितेन शरीरं विक्रेप्यति । अथ कस्य गेहे १८ इयं विश्वासवञ्चना कृता । ] सज्जलकः - यथा प्रभाते मया श्रुतं -- श्रेष्ठचत्वरे प्रतिवसति सार्थ- वाहपुत्रश्चारुदत्तो नाम । २१ उभे- हुम् । सज्जलकः - अयि, ―iv. 5.] चतुर्थोऽङ्कः । विषादस्रस्तसर्वाङ्गी सम्भ्रमोत्फुल्ललोचना । मृगीव शरविद्धाङ्गी कम्पसे चानुकम्पसे ॥ ३ ॥ चेटी - सच्चं भणाहि । सत्थवाहकुळे साहसं करन्तेण तुए कोच्चि कुळवतो सत्थेण अत्थि परिक्खदो वावादिदो वा । [ सत्यं भण । ३ सार्थवाहकुले साहसं कुर्वता स्वया कश्चित् कुलपुत्रः शस्त्रेणास्ति परिक्षतो व्यापादितो वा । ] गणिका - सुट्टु, मए विपुच्छदव्वं एदाए पुच्छिदं । [ सुष्ठु, मयापि ६ प्रष्टव्यमेतया पृष्टम् । ] सज्जलक:- - मदनिके! एतावत् किं न पर्याप्तं, द्वितीयमप्यकार्यं करिष्यामि । न खल्वत्र शस्त्रेण कश्चित् परिक्षतो व्यापादितो वा । ९ चेटी - सज्जळअ ! सच्चं । [ सज्जलक ! सत्यम् ] सज्जलकः-सत्यम् । चेटी - साहु सज्जलअ ! पिअं मे । [ साधु सज्जलक ! प्रियं मे । ] १२ सज्जलकः-किं किं प्रियमित्याह । ईदृशं मदनिके ! त्वत्स्नेहबद्धहृदयो हि करोम्यकार्यं सन्तुष्टपूर्वपुरुषेऽपि कुले प्रसूतः । रक्षामि मन्मथगृहीतमिदं शरीरं मित्रं च मां व्यपदिशस्यपरं च यासि ॥ ४ ॥ चेटी - सज्जळअ ! सुणाहि । अज्जुआए अअं अळङ्कारो । ( कर्णे ) एवं विअ । [ सज्जलक ! भ्टणु । अज्जुकाया अयमलङ्कारः । ३ एवमिव । ] सज्जलकः–एवम् । अज्ञानाद् या मया पूर्वं शाखा पत्रैर्वियोजिता । छायार्थी ग्रीष्मसन्तप्तस्तामेव पुनराश्रितः ॥ ५॥ चारुदत्ते [iv. 5. गणिका - सन्तप्पदित्ति तक्केमि एदेण अकय्यं किदं त्ति । [ संत- प्यत इति तर्कयामि एतेनाकार्यं कृतमिति । ] ३ सज्जलकः - मदनिके ! एवं गते किं कर्तव्यम् । चेटी - तहिं एव णिय्यादेहि, णहि मण्डइस्सदि अज्जुआ । [ तत्रैव निर्यातय, नहि मण्डयिष्यत्यज्जुका । ] ६ सज्जलकः - अथेदानीं सोऽमर्षान्मां चोर इति रक्षिपुरुषैर्ब्राहयिष्यति चेदत्र किं करिष्यामि । चेटी- - मा भाआहि भाआहि । कुळवुत्तो खु सो गुणाणं परितुस्सदि । ९ [ मा बिभीहि बिभीहि । कुलपुत्रः खलु स गुणानां परितुष्यति । ] गणिका - साहु भद्दे ! अवत्तव्वासि, अळङ्किदा विअ एदेण वअ- णेण । [ साधु भद्रे ! अवक्तव्यासि, अलङ्कृतेवैतेन वचनेन । ] १२ सज्जलकः - सर्वथा न शक्ष्याम्यहं तत्र गन्तुम् । चेटी - अअं अण्णो उवाओ । [ अयमन्य उपायः । ] गणिका - एदे गुणा वेसवासस्स । [ एते गुणा वेशवासस्य । ] १५ सज्जलकः - कोsन्य उपायः । चेटी-णं तव रूपञ्ञा अज्जुआ अवि सत्थवाहपुत्तो अ । [ ननु तव रूपज्ञाज्जुकापि सार्थवाहपुत्रश्च । ] १८ सज्जलकः - न खलु । चेटी - तेण हि इमं दाव अळङ्कारं तस्स सत्थवाहपुत्तस्स वअणादो अज्जुआएं देहि । एवं च किदे तुवं रक्खिदो, सो अय्यो २१ अ अणिव्विण्णो भविस्सदि । अहं च पीडिदा ण भविस्सं । आदु 1 अज्जुअं च पुणो वचिअ पुणो एव्व दासभावो भवे । [ तेन हीमं तावदलङ्कारं तस्य सार्थवाहपुत्रस्य वचनादज्जुकायै निर्यातय । एवं च २४ कृते त्वं रक्षितः, स आर्यश्चानिर्विष्णो भविष्यति । अहं च पीडिता न भविष्यामि । अथवा अज्जुकां च पुनर्वञ्चयित्वा पुनरेव दासभावो भवेत् । ] -iv. 5.50] चतुर्थोऽङ्कः । सज्जलक :- मदनिके ! प्रीतोऽस्मि । २७ गणिका - भोदु अब्भन्तरं पविसिअ उवविसामि । ( तथा करोति । ) [ भवत्वभ्यन्तरं प्रविश्योपविशामि । ] चेटी - सज्जळअ ! आअच्छ, कामदेवउळे मं पडिवाळेहि । अहं ३० ओसरं जाणिअ अज्जुआए णिवेदेमि । [ सज्जलक ! आगच्छ, कामदेवकुले मां प्रतिपालय । अहमवसरं ज्ञात्वाज्जुकायै निवेदयामि । ] सज्जलक:-बाढम् । (निष्क्रान्तः । ) ( ततः प्रविशत्यपरा चेटी । ) ( प्रविश्य ) चेटी - सुहं अज्जुआए । एसो सत्थवाहपुत्तम्स सआसादो कोच्चि म्हणो आउदो अज्जुअं पेक्खिदुं । [ सुखमज्जुकायाः । एष ३६ सार्थवाहपुत्रस्य सकाशात् कश्चिद् ब्राह्मण आगतोऽज्जुकां द्रष्टुम् । ] गणिका- ( सादरम् ) गच्छ, सिग्धं पवेसेहि णं । [ गच्छ, प्रवेशयैनम् । ] शीघ्रं ३९ चेटी-तह । ( उपसृत्य ) एदु एदु अय्यो । [ तथा । एत्वेत्वार्यः । ] विदूषकः - ( सर्वतो विलोक्य) अहो गणिआवाडस्स सस्सिरीअदा । ४२ णाणापट्टणसमागदेहि आअमिएहि पुत्थआ वाईअन्ति । संओज- अन्ति अ आहारप्पआराणि । वीणा वादीअन्ति । सुवण्णआरा - अळङ्कारप्पआराणि आदरेण जोजअन्ति । [ अहो गणिकावाटस्य ४५ सश्रीकता । नानापट्टणसमागतैरागमिकैः पुस्तकानि वाच्यन्ते । संयोज्यन्ते चाहारप्रकाराः । वीणा वाद्यन्ते । सुवर्णकारा अलङ्कारप्रका- रानादरेण योजयन्ति । ] ४८ चेटी - एसा अज्जुआ । उवसप्पदु अय्यो । [ एषाज्जुका । उपसर्प- स्वार्यः । ] विदूषकः - (उपगम्य) सोत्थि होदीए । [ स्वस्ति भवत्यै । ] चारुदत्ते [iv. 5.51 ५१ गणिका - साअं अय्यरस । हजे ! आसणं अय्यस्स पादोदअं च । [ स्वागतमार्यस्य । हजे ! आसनमार्यस्य पादोदकं च । ] विदूषकः - (आत्मगतम्) सव्वं आणेदु वज्जिअ भोअणं । ५४ मानयतु वर्जयित्वा भोजनम् । ] [ सर्व- चेटी - जं अज्जुआ आणवेदि । ( आसनं ददाति पादोदकं च । ) उवविसदु अय्यो । [ यदज्जुकाज्ञापयति । उपविशत्वार्य: । ] ५७ विदूषकः - ( उपविश्य) पडिच्छदु आसणं भोदी । अहं किश्चि भणिदु आउदो । [ प्रतीच्छत्वासनं भवती । अहं किञ्चिद् भणितु- मागतः । ] ६० गणिका - (उपविश्य) अवहिदम्हि । [ अवहितास्मि । ] विदूषकः – के त्तिअमत्तं खु तस्स अळङ्कारस्स मुळप्पमाणं । [ किय- न्मात्रं खलु तस्यालङ्कारस्य मूल्यप्रमाणम् । ] ६३ गणिका - किंणिमित्तं पृच्छति । ] खु अय्यो पुच्छदि । [ किन्निमित्तं खल्वार्यः विदूषकः - सुणादु भोदी । तत्तहोदो चारुदत्तस्स गुणप्पच्चा- ६६ अणणिमित्तं खु तुए अळङ्कारो तहिं णिक्खित्तो । सो तेण जूदे हारिदो । [ शृणोतु भवती । तत्रभवतश्चारुदत्तस्य गुणप्रत्यायननिमित्तं खलु त्वयालङ्कारस्तस्मिन् निक्षिप्त: । स तेन द्यूते हारितः । ] ६९ गणिका - जूदे । जुज्जइ । तदो तदो । [ द्यूते । युज्यते । ततस्ततः । ] विदूषकः - तदो तस्स अलङ्कारस्स मुक्रभूदं इमं मुत्तावळिं पाड- च्छदु भोदी । [ ततस्तस्यालङ्कारस्य मूल्यभूतामिमां मुक्तावलीं प्रतीच्छतु ७२ भवती । ] गणिका - ( आत्मगतम्) धिक् खु गणिआभावं । क्रुद्धत्ति मं तुल- अदि । जइ ण पडिच्छे, सो एव्व दोसो भविस्सदि । ( प्रकाशम् ) —iv. 6. ] चतुर्थोऽङ्कः । ७५ आणेदु अय्यो । [ धिक् खलु गणिकाभावम् । लुब्धेति मां तुलयति । यदि न प्रतीच्छामि, स एव दोषो भविष्यति । आनयत्वार्यः । ] विदूषकः - इदं गहूणदु भोदी । [ इदं गृह्णातु भवती । ] ७८ गणिका - ( गृहीत्वा ) पडिच्छिदं तए त्ति अय्यो णिवेदेदु । [ प्रतीष्टं तयेत्या निवेदयतु । ] विदूषकः - ( आत्मगतम्) कोवि उवआरो वि ण एढ़ाए भणिदो । ८१ (प्रकाशम् । ) एवं होदु । ( दत्त्वा निष्क्रान्तः । ) [ कोऽप्युपचारोऽपि नैतया भणितः । एवं भवतु । ] गणिका - साहु चारुदत्त ! साहु । भाअधेअपरिवृत्तदाए दसाए ८४ माणायमाणं रक्खिदं । [ साधु चारुदत्त ! साधु । भागधेयपरिवृत्त - तायां दशायां मानावमानं रक्षितम् । ] ( प्रविश्य ) (ततः प्रविशति मदनिका सज्जलकेन सह । ) ८७ मदनिका - अज्जु ! सत्थवाहपुत्तस्स सआसादो कोच्चि मस्सो आअदो इच्छइ अज्जु पेक्खिउं । [ अज्जुके ! सार्थवाहपुत्रस्य सकाशात् कश्चिद् मनुष्य आगत इच्छत्यज्जुकां द्रष्टुम् । ] ९० गणिका - किं दिट्ठपुरुवो णवदंसणो वा । [किं दृष्टपूर्वो नवदर्शनो वा । ] मदनिका - अज्जुए ! हि, तस्सकेरओ त्ति मे पडिभादि । [ अज्जुके ! हि तदीय इति मे प्रतिभाति । ] " ९३ गणिका - गच्छ, पवेसेहि णं । [ गच्छ, प्रवेशयैनम् । ] मदनिका - तह । (निष्क्रान्ता । ) [ तथा । ] गणिका - अहो रमणिजढ़ा अज्ज दिवसस्स । [ अहो रमणीयताद्य ९६ दिवसस्य । ] सज्जलकः--कष्टा खल्वात्मशङ्का नाम, यः कश्चिच्चकितगतिर्निरीक्षते मां सम्भ्रान्तो द्रुतमुपसर्पति स्थितो वा । सर्वांस्तांस्तुलयति दोषतो मनो मे स्वैर्दोषैर्भवति हि शङ्कितो मनुष्यः ॥ ६ ॥ चारुदत्ते [ iv. 6.2~~ मदनिका - एसा अज्जुआ । उवसप्पदु अय्यो । [ एषाज्जुका । उपसर्पत्वार्यः । ] ३ सज्जलकः-( उपसृत्य ) सुखं भवत्यै । गणिका - साअदं अय्यस्स । हो ! आसणं देदुं अय्यरस । [ स्वागतमार्यस्य । हजे ! आसनं दीयतामार्याय । ] ६ सज्जलकः - भवतु भवतु । गृहीतमासनम् । त्वरिततरमनुष्ठेयं चित् कार्यमस्ति । गणिका - एवं भणादु अय्यो । [ एवं भणत्वार्यः । ] ९ सज्जलक : - आर्यचारुदत्तेनास्मि प्रेषितः -- यस्तावदलङ्कारो मम हस्ते निक्षिप्तः, स त्वसंभोगमलिनतया गृहस्यासान्निध्यात् कौटुम्बिकानां दुरारक्षः । तद् गृह्यताम् इति । १२ गणिका - इमं तस्स चारुदत्तस्स देदु अय्यो । [ इमं तस्मै चारु- दत्ताय ददात्वार्यः । ] सज्जलकः - भवति ! न खल्वहं गच्छामि । १५ गणिका - अहं जाणामि तस्स गेहे साहसं करिअ आणीदो अअं अळङ्कारो । तस्स गुणाणि अणुकम्पेदु अय्यो । [ अहं जानामि तस्य गेहे साहसं कृत्वानीतोऽयमलङ्कारः । तस्य गुणाननुकम्पतामार्यः । ] १८ सज्जलकः - ( आत्मगतम् ) कथं विदितोऽस्म्यनया । गणिका – को एत्थ, पवहणं दाव अय्यस्स । [ कोऽत्र, प्रवहणं तावदार्यस्य । ] २१ मदनिका - मिस हो विअ सुणीअदि । आअदेण पवहणेण होदव्वं । [ नेमिशब्द इव श्रूयते । आगतेन प्रवहणेन भवितव्यम् । ] गणिका–( स्वैराभरणैर्मदनिकामलङ्कृत्य ) आरुहदु अय्यो अय्याए २४ सह पवहणं । [ आरोहत्वार्य आर्यया सह प्रवहणम् । ] मदनिका - अज्जुए ! किं एदं । [ अज्जुके ! किमेतत् । ] iv. 7." ] चतुर्थोऽङ्कः । गणिका - माखु माखु एवं मन्तिअ । अय्या खु सि दाणिं संवृत्ता । २७ गहूणदु अय्यो । ( मदनिकां गृहीत्वा सज्जलकाय प्रयच्छति । ) [ माखलु माखल्वेवं मन्त्रयित्वा । आर्या खल्वसीदानीं संवृत्ता । गृह्णात्वार्य: । ] ३० सज्जलकः - ( आत्मगतम्) भोः ! कदा खल्वस्याः प्रतिकर्तव्यं भवि- व्यति । अथवा, शान्तं शान्तं पापम् । नरः प्रत्युपकारार्थी विपत्तौ लभते फलम् । द्विषतामेव कालोऽस्तु योऽस्या भवतु तस्य वा ॥ ७ ॥ ( तया सह निष्क्रान्तः सज्जलकः । ) ( प्रविश्य ) ( निष्क्रान्ते । ) गणिका - चउरिए ! । [ चतुरिके ! । ] चेटी - अज्जुए ! इअम्हि । [ अज्जुके ! इयमस्मि । ] गणिका - हञ्जे ! पेक्ख जागरन्तीए मए सिविणो दिट्ठो एवं । [ हजे ! ६ पश्य जाग्रत्या मया स्वप्नो दृष्ट एवम् । ] चेटी - पिअं मे, अमुकणाअं संवृत्तं । [ प्रियं मे, अमृताङ्कनाटकं संवृत्तम् । ] ९ गणिका - एहि इमं अळङ्कारं गणिअ अय्यचारुदत्तं अभिसरि- स्सामो । [ एहीममलंकारं गृहीत्वार्यचारुदत्तमभिसरिष्यावः । ] चेटी - अज्जुए ! तह । एदं पुण अभिसारिआसहाअभूदं दुद्दिणं १२ उण्णमिदं । [ अज्जुके ! तथा । एतत् पुनरभिसारिकासहायभूतं दुर्दिन- मुन्नमितम् । ] गणिका -हदासे ! मा हु वढावेहि । [ हताशे ! माखलु वर्धय । ] १५ चेटी - एदु एदु अज्जुआ । [ एवेत्वज्जुका । ] चतुर्थोऽङ्कः । श्लोकानुक्रमणिका । अकामा हि I. 25 तथा विभव III. अज्ञानाद् या IV. 5 तरुणजन I. 17 अद्यास्य भित्तिषु III. 10 वस्नेहबद्ध IV. अभिनयति I. 16 दारिद्र्यात् पुरु I. अयं तव शरीर IV. 2 दुवेहि अम्हेहि I. 10 22460 12 III. 18 देशः को नु जला III. 8 अविज्ञातप्रयुक्तेन अशक् तीखे I. 27 धिगस्तु खलु III. 14 1. 15 नरः प्रत्युपका IV. 7 असौ हि दवा III. 3 निःश्वासोऽस्य III. 13 आलोकविशाला I. 21 परिचिततिमिरा I. 13 इयं हि निद्रा III. 4 भवांस्तावद् III. 16 उत्कण्ठितस्य III. 1 मयि द्रव्यक्ष III. 17 उदयति हि शशा I. 29 मार्जारः प्लवने III. 11 एशा हि वाशू I. 23 यं समालक्ष्य III. 19 एषा रङ्ग प्रवेशेन 1. 24 यः कश्चिचकि IV. 6 एषा हि वयसो I. 22 यत्र मे पतितः I. 28 क: श्रद्धास्यति III. 15 यासां बलिर्भ 1. 2 III. 6 रक्तं च तार III. 2 कामं प्रदोष I. 18 लिम्पतीव तमो I. 19 किं त्वं पदात् I. 11 किं त्वं भयेन I. (9) लुब्धोऽर्थवान् विभवानुवशा III. 7 I. 7 किं याशि धाव I. 8 विषादवस्त IV. 3 किं वाशजेव I. 12 सत्यं न मे I. 5 कृत्वा निशायां IV. 1 समहिधानां I. 26 कृत्वा शरीर III. 5 क्षीणा ममाथी सिंहाक्रान्तं III. 9 1. 4 घिगुळदहि I. 1 सुखं हि दुःखा I. 3 जनयति खलु I. 14 सुलभशरण I. 20 प्रतिमायाः कथावस्तु । अत्र कथावस्तु प्रायः सर्व रामायणाद् गृहीतम् । तत्र प्रथमं श्रीरामस्या- भिषेके प्रवृत्ते सति राज्ञः कर्णे मन्थरया किमप्यभिहितम् । ततश्च विच्छिनis- भिषेकः । रामश्च कैकेयीवचनाद् राज्ञा निर्वासितः । ततः पुत्रशोकाद् राजा दशरथो विपन्नः । अथ मातुलगृहनिवासात् प्रतिनिवृत्तो भरतः प्रतिमा- गृहे पितामहादिप्रतिमाभिः सह स्थापितां दशरथस्य प्रतिमां दृष्ट्वा विदित- पितृव्यापत्तिः कैकेयीं निर्भत्सयांचक्रे । स्वयं च सुमन्त्रसहितो रामं द्रष्टुमरण्ये गत्वा तस्मात् तत्पादुके गृहीत्वाभिषेकजलं तयोरेवावर्जयितुमभ्यनुज्ञामादाय नगरं प्रत्याजगाम । तत्र चारण्यवासमनुभवति रामे मायाभिक्षुणा रावणेन सीतापहृता । तामभ्यवपत्तुंमागतो जटायुर्हतो रावणेन । सुमन्त्रनिवेदित- मीतापहारो भरतो राम साहाय्यार्थ लङ्कां गन्तुं विनिश्विकाय । ततो वानर- महायो लङ्केश्वरं निहत्य सीतामादाय रामः पुनरप्याश्रमं प्राप्त इति उदन्त- मुपलभ्य मातृभिः सह सप्रकृतिको भरतस्तत्रैव रामं प्रत्युद्गतः । तदनन्तरं भरतात् प्रतिगृहीतराज्यो रामो राज्येऽभिषिषिचे । पुरुषा:- पात्राणि । राजा दशरथः कोसलाधिपः । रामः लक्ष्मणः -दशरथस्य पुत्राः । भरतः शत्रुघ्नः सुमन्त्रः - दशरथस्य सारथिः । रावणः -- राक्षसाधिपः परिव्राजकवेपः । काञ्चुकीयः सूतः देवकुलिकः - प्रतिमा गृहरक्षकः । भटः सुधाकारः वृद्धतापमा तापसः नन्दिकः स्त्रियः-- मीता -रामस्य पत्नी । सुमित्रा - राममातरः । कैकेयी (२) अवदातिका - चेटी सीतायाः । विजया - प्रतीहारी । नन्दिनिका - चेटी । तापसी Errata Page Act, verse, line Incorrect Correct 275. iii. 4 काsभिधास्यति कोऽभिधास्यति । सूत्रधारः । भासनाटकचक्रे प्रतिमा । (नान्द्यन्ते ततः प्रविशति सूत्रधारः । ) (नेपथ्याभिमुखमवलोक्य । ) ( प्रविश्य । ) ( नेपथ्ये ) ( आकर्ण्य ) (निष्क्रान्तौ । ) सीताभवः पातु सुमन्त्रतुष्टः सुग्रीवरामः सहलक्ष्मणश्च । यो रावणार्यप्रतिमश्च देव्या विभीषणात्मा भरतोऽनुसर्गम् ॥ १ ॥ आर्ये, इतस्तावत् । नटी - अय्य इअम्हि । [ आर्य, इयमस्मि । ] सूत्रधारः - आर्ये, इदमेवेदानीं शरत्कालमधिकृत्य गीयतां तावत् । ६ नटी - अय्य, तह । ( गायति । ) [ आर्य, तथा । ] सूत्रधारः - अस्मिन् हि काले चरति पुलिनेषु हंसी काशांशुकवासिनी सुसंहृष्टा । अय्य, अय्य । [ आर्य, आर्य । ] सूत्रधारः - भवतु विज्ञातम् मुदिता नरेन्द्रभवने त्वरिता प्रतिहाररक्षीव ॥ २ ॥ स्थापना । प्र. १३ प्रतिमानाटके ( प्रविश्य । ) ( प्रविश्य । ) [ i. 2.3_ प्रतिहारी- अय्य को इह कञ्चुईआणं संणिहिदो । [ आर्य क इह काञ्चुकीयानां संनिहितः । ] काम्चुकीयः - भवति, अयमस्मि । किं क्रियताम् । प्रतिहारी- अय्य! महाराओ देवासुरसङ्गामेसु अप्पडिहदमहारहो ९ दसरहो आणवेदि - सिग्धं भट्टिदारअस्स रामरस रज्जप्पहावस- जोअकारआ अहिसेअसम्भारा आणीअन्तु त्ति । [ आर्य, महाराजो देवासुरसङ्ग्रामेष्वप्रतिहतमहारथो दशरथ आज्ञापयति । १२ शीघ्रं भर्तृदारकस्य रामस्य राज्यप्रभावसंयोगकारका अभिषेकसंभारा आनीयन्तामिति । ] काञ्चुकीयः - भवति, यद्यदाज्ञप्तं महाराजेन, तत् सर्वमुपस्थापितम् । १५ पश्य । छत्रं सव्यजनं सनन्दिपटहं भद्रासनं कल्पितं न्यस्ता हेममयाः सदर्भकुसुमास्तीर्थाम्बुपूर्णा घटाः । युक्तः पुष्यरथश्च मन्त्रिसहिताः पौराः समभ्यागताः सर्वस्यास्य हि मङ्गलं स भगवान् वेद्यां वसिष्ठः स्थितः ॥ ३ ॥ प्रतिहारी - जइ एव्वं, सोहणं किदं । [ यद्येवं, शोभनं कृतम् । ] काञ्चुकीयः- हन्त भोः इदानीं भूमिपालेन कृतकृत्याः कृताः प्रजाः । रामाभिधानं मेदिन्यां शशाङ्कमभिषिचता ॥ ४ ॥ प्रतिहारी - तुवरदु तुवरदु दाणि अय्यो । [ स्वरतां स्वरतामिदानी- मार्यः । ] ३ काम्चुकीयः - भवति ! इदं त्वर्यते । —i॰ 4.26 ] प्रथमोऽङ्कः । ( निष्क्रान्तः । ) ( ततः प्रविशत्यवदातिका वल्कलं गृहीत्वा । ) ( तत: प्रविशति सीता सपरिवारा ) प्रतिहारी- ( परिक्रम्यावलोक्य) अय्य! संभवअ ! संभवअ ! गच्छ तुप महाराअवअणेण अय्यपुरोहिदं जहोपआरेण तुवारेहि । ६ ( अन्यतो गत्वा । ) सारसिए ! सारसिए ! सङ्गीदसाळं गच्छिअ नाईआणं विण्णवेहि-काळसंवादिणा णाडएण सज्जा होह त्ति । जाव अहं वि सव्वं किदं त्ति महाराअस्स णिवेदेमि । (निष्क्रान्ता । ) ९ [ आर्य ! संभवक ! संभवक ! गच्छ त्वमपि महाराजवचनेनार्य- पुरोहितं यथोपचारेण त्वरय । सारसिके ! सारसिके ! सङ्गीतशालां गत्वा नाटकीयानां विज्ञापय - कालसंवादिना नाटकेन सज्जा भवतेति । १२ यावदहमपि सर्वं कृतमिति महाराजाय निवेदयामि । ] अवदातिका - अहो अच्चाहिदं । परिहासेण वि इमं वक्कळं उवण- १५ अन्तीए मम एत्तिअं भअं आसी, किं पुण ळोभेण परधणं हरन्तस्स । हसितुं विअ इच्छामि । ण खु एआइणीए हसिदव्वं । [ अहो अत्याहितम् । परिहासेनापीमं वल्कलमुपनयन्त्या ममैतावद् १८ भयमासीत् किं पुनर्लोभेन परधनं हरतः । हसितुमिवेच्छामि । न खल्वेकाकिन्या हसितव्यम् । ] " २१ सीता-हजे, ओदादिआ परिसकिदवणा विअ दिस्सर । किंणुहु विअ एदं । [ हन्जे, अवदातिका परिशङ्कितवर्णेव दृश्यते । किन्नु- खल्विवैतत् । ] २४ चेटी - भट्टिणि ! सुळहावराहो परिअणो णाम । अवरज्झा भवि- स्सदि । [ भट्टिनि ! सुलभापराधः परिजनो नाम । अपराद्धा भविष्यति । ] प्रतिमानाटके [i. 4.27 २७ सीता - हि हि । हसितुं विअ इच्छदि । [ नहि नहि, हसितु- मिवेच्छति । ] अवदातिका - ( उपसृत्य । ) जेदु भट्टिणी ! भट्टिणि ण खु अहं ३० अवरज्झा । [ जयतु भट्टिनी ! भट्टिनि न खल्वहमपराद्धा । ] सीता - का तुमं पुच्छदि । ओदांदिए ! किं एदं वामहत्थपरिगहिदं । [ का त्वां पृच्छति । अवदातिके ! किमेतद् वामहस्तपरिगृहीतम् । ] ३३ अवदातिका-भट्टिणि ! इदं वक्कलं । [ भट्टिनि ! इदं वल्कलम् । ] सीता - वक्कळं किस्स आणीदं । [ वल्कलं कस्मादानीतम् । ] अवदातिका-सुणादु भट्टिणी । णेवच्छपाळिणी अय्यरेवा निव ३६ त्तरङ्गप्पओअणं असोअरुक्खम्स एवं किसळअं अम्हेहि जाइदा आसि । ण अताए दिष्णं । तदो अरिहृदि अवराहो ति इदं गहिदं । [ शृणोतु भट्टिनी । नेपथ्यपालिन्यार्यरेवा निवृत्तरङ्गप्रयोजनम- ३९ शोकवृक्षस्यैकं किसलयमस्माभिर्याचितासीत् । न च तया दत्तम् । ततोऽर्हत्यपराध इतीदं गृहीतम् । ] सीता - पावअं किं । गच्छ, णिय्यादेहि । [ पापकं कृतम् । गच्छ, ४२ निर्यातय । ] अवदातिका-भट्टिणि ! परिहासणिमित्तं खु मए एदं आणीदं । [ भट्टिनि ! परिहासनिमित्तं खलु मयैतदानीतम् । ] ४५ सीता - उम्मत्तिए ! एवं दोसो वढइ । गच्छ णिय्यादेहि, णिय्या- देहि । [ उन्मत्तिके ! एवं दोषो वर्धते । गच्छ, निर्यातय, निर्यातय । ] अवदातिका - जं भट्टिणी आणवेदि । ( प्रस्थातुमिच्छति । ) [ यद् ४८ भट्टिन्याज्ञापयति । ] सीता- -हळा ! एहि दाव । [ हला ! एहि तावत् । ] अवदातिका - भट्टिणि ! इअम्हि । [ भट्टिनि ! इयमस्मि । ] -i. 4.75] प्रथमोऽङ्कः । २.५३ ( प्रविश्यापरा ) ५१ सीता - हळा ! किंणुहु मम वि दाव सोहदि । [ हला ! किन्नुखलु ममापि तावच् शोभते । ] अवदातिका - भट्टिणि ! सव्वसोहणीअं सुरूवं णाम । अळङ्करोदु ५४ भट्टिणी [ भट्टिनि ! सर्वशोभनीयं सुरूपं नाम । अलङ्करोतु भट्टिनी । ] सीता-आहि दाव । ( गृहीत्वालंकृत्य । ) हला ! पेक्ख, किं दाणिं सोहदि । [ आनय तावत् । हला ! पश्य, किमिदानीं शोभते । ] ५७ अवदातिका - तव खु सोहदि णाम । सोवणिअं विअ वक्कळं संवृत्तं । [ तव खलु शोभते नाम । सौवर्णिकमिव वल्कलं संवृत्तम् । ] सीता-हजे ! तुवं किचि ण भणासि । [हजे ! त्वं किञ्चिन्न भणसि । ] ६० चेटी- णत्थि वाआए पओअणं । इमे पहरिसिदा तनूरुहा मन्तेन्ति । ( पुलकं दर्शयति । ) [ नास्ति वाचा प्रयोजनम् । इमानि प्रहृषितानि तनूरुहाणि मन्त्रयन्ते । ] ६३ सीता - हञ्जे ! आदंसअं दाव आणेहि । [ हजे ! आदर्श ताव- दानय । ] चेटी - जं भट्टिणी आणवेदि । (निष्क्रम्य प्रविश्य । ) भट्टिणि ! अअं ६६ आदंसओ । [ यद् भट्टिन्याज्ञापयति । भट्टिनि ! अयमादर्शः । ] सीता-( चेटीमुखं विलोक्य । ) चिठ्ठदु दाव आसओ ! तुवं किं विवतुकामा विअ । [ तिष्ठतु तावदादर्शः । त्वं किमपि वक्तुकामेव । ] ६ ९ चेटी- भट्टिणि, एवं मए सुदं । अय्यबालाई कञ्चुई भणादि - अहिसेओ अहिसेओ त्ति । [ भट्टिनि ! एवं मया श्रुतम् । आर्य- बालाकि : कचुकी भणति - अभिषेकोऽभिषेक इति । ] पिअक्खाणिअं पिअक्खाणिअं । चेटी- भट्टिणि ! प्रियाख्यानिकं प्रियाख्यानिकम् । ] . [ भट्टिनि, ७५ सीता - किं किं पडिच्छिअ मन्तेसि । [किं किं प्रतीष्य मन्त्रयसे । ] प्रतिमानाटके [ i 4.76 चेटी - भट्टिदारओ किळ अहिसिनीअदि । [ भर्तृदारकः किलाभि- पिच्यते । ] ७८ सीता - अवि तादो कुसळी । [ अपि तातः कुशली । ] चेटी - महाराएण एव्व अहिसिनी अदि । [महाराजेनैवाभिषिच्यते । ] सीता - जइ एव्वं, दुदीअं मे पिअं सुदं । विसाळदरं उच्छ ८१ करेहि । [ यद्येवं, द्वितीयं मे प्रियं श्रुतम् । विशालतरमुत्सङ्गं कुरु । चेटी - भट्टिणि ! तह । ( तथा करोति । ) [ भट्टिनि ! तथा । ] ( सीता आभरणान्यवमुच्य ददाति । ) ( ततः प्रविशति राम: । ) 1] ८४ चेटी - भट्टिणि ! पटहसदो विअ । [ भट्टिनि ! पटहशब्द इव । ] सीता - सो एव्व । [ स एव । ] चेटी - एकपदे ओघट्टीअ तुह्णीओ पटहसो संवृत्तो । [ एकपदे ८७ अवघट्य तूष्णीकः पटहशब्दः संवृत्तः । ] सीता - कोखु उग्घादो अहिसेअस्स । अहव बहुवुत्तन्ताणि राउळाणि णाम । [ को नुखलुद्धातोऽभिषेकस्य । अथवा बहुवृत्तान्तानि ९० राजकुलानि नाम । ] चेटी- भट्टिणि, एवं मए सुदं भट्टिदारअं अहिसिञ्चिअ महा- राओ व गमिस्सदि त्ति । [ भट्टिनि ! एवं मया श्रुतं - भर्तृदारक- ९३ मभिषिच्य महाराजो वनं गमिष्यतीति । ] सीता - जइ एव्वं, ण सो अहिसेओदओ, मुहोदअं णाम । [ यद्येवं, न तदभिषेकोदकं, मुखोदकं नाम । ] राम: - हन्त भोः ! आरब्धे पटहे स्थिते गुरुजने भद्रासने लङ्घिते स्कन्धोच्चारणनम्यमानवदनप्रच्योतितोये घटे । -i. 5."] प्रथमोऽङ्कः । राज्ञाहूय विसर्जिते मयि जनो धैर्येण मे विस्मितः स्वः पुत्रः कुरुते पितुर्यदि वचः कस्तत्र भो ! विस्मयः ॥ ५ ॥ विश्रम्यतामिदानीं पुत्रेति स्वयं राज्ञा विसर्जितस्थापनीतभारो- च्छूसितमिव मे मनः । दिष्टया स एवास्मि रामः महाराज एव ३ महाराजः । यावदिदानीं मैथिलीं पश्यामि । अवदातिका - भट्टिणि ! भट्टिदारओ खु आअच्छइ । णावणीदं कळं । [ भट्टिनि ! भर्तृदारकः खल्वागच्छति । नापनीतं वल्कलम् । ] ६ रामः- : - मैथिलि ! किमास्यते । सीता हूं अय्यउत्तो । जेदु अय्यउत्तो । [ हं आर्यपुत्रः । जयत्वार्थ- पुत्रः । ] ९ रामः- - मैथिलि ! आस्यताम् । ( उपविशति । ) सीता - जं अय्यउत्तो आणवेदि । ( उपविशति । ) [ यद् आर्यपुत्र आज्ञापयति । ] १२ अवदातिका - भट्टिणि ! सो एव्व भट्टिदारअस्स वेसो । अळिअं विअ एदं भवे । [ भट्टिनि ! स एव भर्तृदारकस्य वेषः । अलीकमिवैतद् भवेत् । ] सीता - तादिसो जणो अळिअं ण मन्तेदि । अहव बहुवुत्तन्ताणि १५ राउळाणि णाम । [ तादृशो जनोऽलीकं न मन्त्रयते । अथवा बहु- वृत्तान्तानि राजकुलानि नाम । ] :- मैथिलि ! किमिदं कथ्यते । रामः- १८ सीता - aa । इअं दारिआ भणादि - अहिसेओ अहिसेओ त्ति । [ न खलु किंचित् । इयं दारिका भणति - अभिषेकोऽभिषेक इति । ] २१ रामः - अवगच्छामि ते कौतूहलम् । अस्त्यभिषेकः । श्रूयताम् । अद्यास्मि महाराजेनोपाध्यायामात्यप्रकृतिजनसमक्षमेक प्रकार संक्षिप्तं G २.५६ प्रतिमानाटके [i. 5.3 कोसलराज्यं कृत्वा बाल्याभ्यस्तमङ्कमारोप्य मातृगोत्रं स्निग्धमाभाष्य २४ पुत्र ! राम ! प्रतिगृह्यतां राज्यमित्युक्तः । सीता - तदाणीं अय्यउत्तेण किं भणिदं । [ तदानीमार्यपुत्रेण किं भणितम् । ] २७ रामः - मैथिलि ! त्वं तावत् किं तर्कयसि । सीता-तक्केमि अय्यउत्तेण अभणिअ किश्चि दिग्घं णिस्ससिअ महाराअस्स पादमूळेसु पडिअं त्ति । [ तर्कयाम्यार्यपुत्रेणाभणित्वा ३० किञ्चिद् दीर्घं निःश्वस्य महाराजस्य पादमूलयोः पतितमिति । ] :--सुष्ठु तर्कितम् । अल्पं तुल्यशीलानि द्वन्द्वानि सृज्यन्ते । तत्र हि पादयोरस्मि पतितः । राम:-- समं बाष्पेण पतता तस्योपरि ममाप्यधः । पितुर्मेदितौ पादौ ममापि क्लेदितं शिरः ॥ ६ ॥ सीता - दो तो । [ ततस्ततः । ] राम: - ततोऽप्रतिगृह्यमाणेष्वनुनयेषु आसन्नजरादोषैः स्वैः प्राणैरस्मि ३ शापितः । सीता - दो दो । [ ततस्ततः । ] . रामः- ततस्तदानीं, शत्रुघ्नलक्ष्मणगृहीतघटेऽभिषेके छत्रे स्वयं नृपतिना रुदता गृहीते । सम्भ्रान्तया किमपि मन्थरया च कर्णे राज्ञः शनैरभिहितं च न चास्मि राजा ॥ ७ ॥ सीता - पिअं मे । महाराओ एव्व महाराओ, अय्यउत्तो एव्व अय्यउत्तो । [ प्रियं मे । महाराज एव महाराज, आर्यपुत्र ३. एवार्यपुत्रः ।] -i. 9.10] प्रथमोऽङ्कः । राम: - मैथिलि, किमर्थं विमुक्तालङ्कारासि । सीता-ण खुदाव, आवज्झामि । [ न तावद्, आबध्नामि । ] ६ राम- न खलु । प्रत्यग्रावतारितैर्भूषणैर्भवितव्यम् । तथाहि-- कर्णौ त्वरापहृतभूषणपाशौ संस्रंसिताभरणगौरतलौ च हस्तौ । एतानि चाभरणभारनतानि गात्रे स्थानानि नैव समतामुपयान्ति तावत् ॥ ८ ॥ सीता - पारेदि अय्यउत्तो अळिअं पि सच्चं विअ मन्तेढुं । [ पारयत्यार्य पुत्रोऽलीकमपि सत्यमिव मन्त्रयितुम् । ] ३ राम- - तेन हि अलक्रियताम् । अहमादर्श धारयिष्ये । ( तथा कृत्वा निर्वण्य । ) तिष्ठ । आदर्शे वल्कलानीव किमेते सूर्यरश्मयः । हसितेन परिज्ञातं क्रीडेयं नियमस्पृहा ॥ ९ ॥ अवदातिके, किमेतन् । अवदातिका भट्टा ! किष्णुह सोहदि ण सोहदित्ति कोहळेण ३ आवज्झा । [ भर्तः ! किन्नुखलु शोभते न शोभन इति कौतूहलेनाबद्धानि । ] रामः- मैथिलि ! किमिदम् । इक्ष्वाकूणां वृद्धालङ्कारस्त्वया धार्यते । अस्त्यस्माकं प्रीतिः । आनय । ६ सीता - माखु माखु अय्यउत्तो अमङ्गळं भणादु । [ मा खलु मा खल्वार्यपुत्रोऽमङ्गलं भणतु । ] रामः - मैथिलि, किमर्थं वारयसि । ९ सीता - उज्झिदाहि सेअस्स अय्यउत्तस्स अमङ्गळं विअ मे पडिहादि । [ उज्झिताभिषेकस्यार्यपुत्रस्यामङ्गलमिव मे प्रतिभाति । ] राम:- प्रतिमानाटके मा स्वयं मन्युमुत्पाद्य परिहासे विशेषतः । शरीरार्धेन मे पूर्वमाबद्धा हि यदा त्वया ॥ १० ॥ हा हा महाराजः ( नेपथ्ये ) ( प्रविश्य ) ३ सीता - अय्यउत्त ! किं एदं । [ आर्यपुत्र, किमेतत् । ] रामः-( आकर्ण्य । ) नारीणां पुरुषाणां च निर्मर्यादो यदा ध्वनिः । सुव्यक्तं प्रभवामीति मूले दैवेन ताडितम् ॥ ११ ॥ तूर्णं ज्ञायतां शब्दः । ३ काञ्चुकीयः - परित्रायतां परित्रायतां कुमारः । रामः - आर्य ! कः परित्रातव्यः । काञ्चुकीयः- महाराजः । [i. 9. ६ रामः - महाराज इति । आर्य ! ननु वक्तव्यम्, एकशरीर संक्षिप्ता पृथिवी रक्षितव्येति । अथ कुत उत्पन्नोऽयं दोषः । काञ्चुकीयः- स्वजनात् । ९ रामः - स्वजनादिति । हन्त नास्ति प्रतीकारः । शरीरेऽरिः प्रहरति हृदये स्वजनस्तथा । कस्य स्वजनशब्दों मे लज्जामुत्पादयिष्यति ॥ १२ ॥ काञ्चुकीयः- तत्रभवत्याः कैकेय्याः । रामः - किमम्बायाः । तेन हि उदर्केण गुणेनात्र भवितव्यम् । ३ काञ्चुकीयः - कथमिव । रामः - श्रूयतां, -i. 16.1] प्रथमोऽङ्कः । यस्याः शक्रसमो भर्ता मया पुत्रवती च या । फले कस्मिन् स्पृहा तस्या येनाकार्यं करिष्यति ॥ १३ ॥ काञ्चुकीयः- कुमार! अलमुपहतासु स्त्रीबुद्धिषु स्वमार्जवमुपनिक्षे- तुम्। तस्या एव खलु वचनाद् भवदभिषेको निवृत्तः । ३ रामः- सः - आर्य, गुणाः खल्वत्र । काञ्चुकीयः कथमिव । रामः - श्रूयतां, वनगमननिवृत्तिः पार्थिवस्यैव ताव- न्मम पितृपरवत्ता बालभावः स एव । नवनृपतिविमर्शे नास्ति शङ्का प्रजाना- मथ च न परिभोगैर्वश्चिता भ्रातरो मे ॥ १४ ॥ काञ्चुकीयः- अथ च तयानाहूतोपसृतया भरतोऽभिषिच्यतां राज्य इत्युक्तम् । अत्राप्यलोभः । ३ रामः- आर्य ! भवान् खल्वस्मत्पक्षपातादेव नार्थमवेक्षते । कुतः, शुल्के विपणितं राज्यं पुत्रार्थे यदि याच्यते । तस्या लोभोऽत्र नास्माकं भ्रातृराज्यापहारिणाम् ॥ १५ ॥ काञ्चुकीयः- अथ- रामः - अतः परं न मातुः परिवादं श्रोतुमिच्छामि महाराजस्य ३ वृत्तान्तस्तावदभिधीयताम् । कान्चुकीयः- ततस्तदानीं, शोकादवचनाद् राज्ञा हस्तेनैव विसर्जितः । किमप्यभिमतं मन्ये मोहं च नृपतिर्गतः ॥ १६ ॥ . रामः - कथं मोहमुपगतः । .११ २.६० ( नेपथ्ये ) (ततः प्रविशति धनुर्बाणपाणिर्लक्ष्मणः । ) प्रतिमानाटके ३ कथं कथं मोहमुपगत इति । यदि न सहसे राज्ञो मोहं धनुः स्पृश मा दयाम् रामः - ( आकर्ण्य पुरतो विलोक्य । ) अक्षोभ्यः क्षोभितः केन लक्ष्मणो धैर्यसागरः । येन रुष्टेन पश्यामि शताकीर्णमिवाग्रतः ॥ १७ ॥ लक्ष्मणः-( सक्रोधम् । ) कथं कथं मोहमुपगत इति । यदि न सहसे राज्ञो मोहं धनुः स्पृश मा दयां स्वजननिभृतः सर्वोऽप्येवं मृदुः परिभूयते । अथ न रुचितं मुञ्च त्वं मामहं कृतनिश्चयो [i. 16.- युवतिरहितं लोकं कर्तुं यतश्छलिता वयम् ॥ १८ ॥ सीता - अय्यउत्त ! रोदिदव्वे काळे सोमित्तिणा धणू गहीदं । अपुव्वो खु से आआसो । [ आर्यपुत्र ! रोदितत्र्ये काले सौमित्रिणा ३ धनुर्गृहीतम् । अपूर्वः खल्वस्यायासः । ] रामः - सुमित्रामातः ! किमिदम् । लक्ष्मणः - कथं कथं किमिदं नाम । रामः क्रमप्राप्ते हृते राज्ये भुवि शोच्यासने नृपे । इदानीमपि सन्देहः किं क्षमा निर्मनस्विता ॥ १९ ॥ - सुमित्रामातः ! अस्मद्राज्यभ्रंशो भवत उद्योगं जनयति । आः, अपण्डितः खलु भवान् । भरतो वा भवेद् राजा वयं वा ननु तत् समम् । यदि तेऽस्ति धनुःश्लाघा स राजा परिपाल्यताम् ॥ २० ॥ -i. 24.5] प्रथमोऽङ्कः । लक्ष्मणः- न शक्नोमि रोषं धारयितुम् । भवतु भवतु । गच्छामस्ता- वत् ( प्रस्थितः । ) ३ रामः- त्रैलोक्यं दग्धुकामेव ललाटपुटसंस्थिता । कुटिलक्ष्मणस्यैषा नियतीव व्यवस्थिता ॥ २१ ॥ सुमित्रामातः ! इतस्तावत् । लक्ष्मणः- आर्य ! अयमस्मि । १३ रामः - भवतः स्थैर्यमुत्पादयता मयैवमभिहितम् । उच्यतामिदानीम् । ताते धनुर्नमयि सत्यमवेक्षमाणे मुखानि मातरि शरं स्वधनं हरन्त्याम् । दोषेषु बाह्यमनुजं भरतं हनानि किं रोषणाय रुचिरं त्रिषु पातकेषु ॥ २२ ॥ लक्ष्मणः - ( सबाष्पम् । ) हा धिक् । अस्मानविज्ञायोपालभसे । यत्कृते महति क्लेशे राज्ये मे न मनोरथः । वर्षाणि किल वस्तव्यं चतुर्दश वने त्वया ॥ २३ ॥ रामः - अत्र मोहमुपगतस्तत्रभवान् । हन्त निवेदितमप्रभुत्वम् । मैथिलि ! मङ्गलार्थेऽनया दत्तान् वल्कलांस्तावदानय । करोम्यन्यैर्नृपैर्धर्म नैवाप्तं नोपपादितम् ॥ २४ ॥ सीता-गह्ह्णदु अय्यउत्तो । [ गृह्णात्वार्यपुत्रः । ] :- मैथिलि ! किं व्यवसितम् । ३ सीता - णं सहधम्मआरिणी क्खु अहं । रामः- खल्वहम् । ] : - मयैकाकिना किल गन्तव्यम् । राम:- [ ननु सहधर्मचारिणी प्रतिमानाटके [i. 24.6- ६ सीता - अदोणुख अणुगच्छामि । [ अतोनुखल्वनुगच्छामि । ] रामः - वने खलु वस्तव्यम् । सीता - तंखु मे पासादो । [ तत् खलु मे प्रासादः । ] ९ रामः श्वश्रूश्वशुरशुश्रूषापि च ते निर्वर्तयितव्या । सीता-णं उद्दिसि देवदाणं पणामो करीअदि । [ एनामुद्दिश्य देवतानां प्रणामः क्रियते । ] १२ रामः - लक्ष्मण ! वार्यतामियम् । लक्ष्मणः- आर्य नोत्सहे श्लाघनीये काले वारयितुमत्रभवतीम् । कुतः, अनुचरति शशाङ्कं राहुदोषेऽपि तारा पतति च वनवृक्षे याति भूमिं लता च । त्यजति न च करेणुः पङ्कलग्नं गजेन्द्रं व्रजतु चरतु धर्मं भर्तृनाथा हि नार्यः ॥ २५ ॥ ( प्रविश्य ) ( रामो गृहीत्वा परिधत्ते । ) चेटी - जेदु भट्टिणी । णेवच्छपाळिणी अय्यरेवा पणमिअ विण्ण- ३ वेदि ओदादिआए सङ्गीदसाळादो आच्छिन्दिअ वकळा आणीदा । इमा अवरा अणणुहूदा वकळा । णिव्वत्तीअदु दाव किळ पओअणं त्ति । [ जयतु भट्टिनी । नेपथ्यपालिन्यार्यरेवा प्रणम्य ६ विज्ञापयति- अवदातिकया सङ्गीतशालाया आच्छिद्य वल्कला आनीताः । इमेऽपरा अननुभूता वल्कलाः । निर्वर्त्यतां तावत् किल प्रयोजनमिति । ] ९ रामः - भद्रे ! आनय, संतुष्टैषा । वयमर्थिनः । चेटी - गह्रुदु भट्टा । ( तथा कृत्वा निष्क्रान्ता । ) [ गृह्णातु भर्ता । ] १२ लक्ष्मणः - प्रसीदत्वार्यः । -i. 29.2] प्रथमोऽङ्कः । निर्योगाद् भूषणान्माल्यात् सर्वेभ्योऽर्धं प्रदाय मे । चीरमेकाकिना बद्धं चीरे खल्वसि मत्सरी ॥ २६ ॥ राम: - मैथिलि ! वार्यतामयम् । सीता - सोमित्ते ! णिवत्तीअदु किळ । [ सौमित्रे ! निवर्त्यतां किल । ] ३ लक्ष्मणः - आर्ये ! गुरोर्मे पादशुश्रूषां त्वमेका कर्तुमिच्छासे । तवैव दक्षिणः पादो मम सव्यो भविष्यति ॥ २७ ॥ सीता - दीअदुखु अय्यउत्तो । सन्तप्पदि सोमित्ती । [ दयतां खल्वार्यपुत्रः । संतप्यते सौमित्रिः । ] ३ रामः-२ :- सौमित्रे ! श्रूयताम् । वल्कलानि नाम, तपःसङ्ग्रामकवचं नियमद्विरदाङ्कुशः । खलीनमिन्द्रियाश्वानां गृह्यतां धर्मसारथिः ॥ २८ ॥ लक्ष्मणः - अनुगृहीतोऽस्मि । ( गृहीत्वा परिधत्ते । ) रामः - श्रुतवृत्तान्तैः पौरैः संनिरुद्धो राजमार्गः । उत्सार्यतामुत्सा- ३ येतां तावत् । लक्ष्मणः - आर्य ! अहमप्रतो यास्यामि । उत्सार्यतामुत्सार्यताम् । राम: - मैथिलि ! अपनीयतामवगुण्ठनम् । ६ सीता - जं अय्यउत्तो आणवेदि । (अपनयति । ) [ यदार्यपुत्र आज्ञापयति । ] रामः - भो भोः पौराः ! शृण्वन्तु शृण्वन्तु भवन्तः । स्वैरं हि पश्यन्तु कलत्रमेतद् बाष्पाकुलाक्षैर्वदनैर्भवन्तः । निर्दोषदृश्या हि भवन्ति नार्यो यज्ञे विवाहे व्यसने वने च ॥ २९॥ ( प्रविश्य ) काञ्चुकीयः—कुमार ! न खलु न खलु गन्तव्यम् । एष हि महाराजः, श्रुत्वा प्रतिमानाटके ते वनगमनं वधूसहायं सौभ्रात्रव्यवसितलक्ष्मणांनुयात्रम् । उत्थाय क्षितितलरेणुरूषिताङ्गः कान्तारद्विरद इवोपयाति जीर्णः ॥ ३० ॥ लक्ष्मणः- आर्य ! राम:- चीरमात्रोत्तरीयाणां किं दृश्यं वनवासिनाम् । [ i. 30- गतेष्वस्मासु राजा न शिरः स्थानानि पश्यतु ॥ ३१॥ ( इति निष्क्रान्ताः सर्वे । ) ( ततः प्रविशति काञ्चुकीयः । ) ( प्रविश्य ) प्रथमोऽङ्कः । अथ द्वितीयोऽङ्कः । ३ काञ्चुकीयः- भो भोः प्रतिहारव्यापृताः । स्वेषु स्वेषु स्थानेष्वप्रमत्ता भवन्तु भवन्तः । ६ प्रतिहारी- अय्य! किं एदं । [ आर्य ! किमेतत् । ] काल्चुकीयः- एष हि महाराजः सत्यवचनरक्षणपरं राममरण्यं गच्छन्तमुपावर्तयितुमशक्तः पुत्रविरहशोकाग्निना दग्धहृदय उन्मत्त ९ इव बहु प्रलपन् समुद्रगृहके शयानः, मेरुश्चलन्निव युगक्षयसन्निकर्षे शोषं व्रजन्निव महोदधिरप्रमेयः । सूर्यः पतन्निव च मण्डलमात्रलक्ष्यः शोकाद्भृशं शिथिलदेहमतिर्नरेन्द्रः ॥ १ ॥ —ii. 4. ] द्वितीयोऽङ्कः । प्रतिहारी- हा हा एव्वंगओ महाराओ। [हा हा एवंगतो महाराजः । ] कान्चुकीयः - भवति ! गच्छ । ३ प्रतिहारी - अय्य ! तह । (निष्क्रान्ता । ) [ आर्य ! तथा । ] काठचुकीयः- ( सर्वतो विलोक्य । ) अहो तु खलु रामनिर्गमनदिना- दारभ्य शून्यैवेयमयोध्या संलक्ष्यते । कुतः, नागेन्द्रा यवसाभिलाषविमुखाः सात्रेक्षणा वाजिनो हेपाशून्यमुखाः सवृद्धवनिताबालाश्च पौरा जनाः । त्यक्ताहारकथाः सुदीनवदनाः क्रन्दन्त उच्चैर्दिशा राम याति यया सदारसहजस्तामेव पश्यन्त्यमी ॥ २ ॥ यावदहमपि महाराजस्य समीपवर्ती भविष्यामि । (परिक्रम्यावलोक्य) अये ! अयं महाराजो महादेव्या सुमित्रया च सुदुःसहमपि पुत्र- ३ विरहसमुद्भवं शोकं निगृह्यात्मानमेव संस्थापयन्तीभ्यामन्वास्यमान- स्तिष्ठति । कष्टा खल्ववस्था वर्तते । एष एष महाराजः, राजा- प्र. १४ पतत्युत्थाय चोत्थाय हा हेत्युच्चैर्लपन् मुहुः । दिशं पश्यति तामेव यया यातो रघूद्वहः ॥ ३ ॥ ( निष्क्रान्तः । ) (ततः प्रविशति यथानिर्दिष्टो राजा देव्यौ च । ) मिश्रविष्कम्भकः । हा वत्स ! राम ! जगतां नयनाभिराम ! हा वत्स ! लक्ष्मण ! सुलक्षणसर्वगात्र ! । हा साध्वि ! मैथिलि ! पतिस्थितचित्तवृत्ते ! हा हा गताः किल वनं बत मे तनूजाः ॥ ४ ॥ प्रतिमानाटके [ ii. 4. चित्रमिदं भोः ! यद् भ्रातृस्नेहात् पितरि विमुक्तस्नेहमपि तावल - क्ष्मणं द्रष्टुमिच्छामि । वधु वैदेहि । रामेणापि परित्यक्तो लक्ष्मणेन च गर्हितः । अयशोभाजनं लोके परित्यक्तस्त्वयाप्यहम् ॥ ५ ॥ पुत्र राम ! वत्स लक्ष्मण ! वधु वैदेहि । प्रयच्छत मे प्रतिवचनं पुत्रकाः ! शून्यमिदं भोः । न मे कश्चित् प्रतिवचनं प्रयच्छति । ३ कौसल्यामातः क्कासि । सत्यसन्ध ! जितक्रोध ! विमत्सर ! जगत्प्रिय ! । गुरुशुश्रूषणे युक्त ! प्रतिवाक्यं प्रयच्छ मे ॥ ६ ॥ हा क्वासौ सर्वजनहृदयनयनाभिरामो रामः, कासौ मयि गुर्वनु- वृत्तिः । कासौ शोकार्तेष्वनुकम्पा । कासौ तृणवद्गणित राज्यैश्वर्यः । ३ पुत्र ! राम ! वृद्धं पितरं मां परित्यज्य किमसम्बद्धेन धर्मेण ते कृत्यम् । हा धिक् । कष्टं भोः ! सूर्य इव तो रामः सूर्यं दिवस इव लक्ष्मणोऽनुगतः । सूर्यदिवसावसाने छायेव न दृश्यते सीता ॥ ७ ॥ ( ऊर्ध्वमवलोक्य । ) भोः कृतान्तहतक ! अनपत्या वयं रामः पुत्रोऽन्यस्य महीपतेः । वने व्याघ्री च कैकेयी त्वया किं न कृतं त्रयम् ॥ ८ ॥ कौसल्या - ( सरुदितम् ) अळं दाणि महाराओ अदिमत्तं सन्तप्पिअ परवसं अत्ताणं काढुं । णं सा ते अ कुमारा महाराअस्स सम- ३ आवसाणे पेक्खिदव्वा भविस्सन्ति । [ अलमिदानीं महाराजोऽ- तिमात्रं सन्तप्य परवशमात्मानं कर्तुम् । ननु सा तौ च कुमारौ महा- राजस्य समयावसाने प्रेक्षितव्या भविष्यन्ति । ] ६ राजा - का त्वं भोः ! । Re —ii. 10.3 ] द्वितीयोऽङ्कः । कौसल्या - असिणिद्धपुत्तप्पसविणी खु अहं । [ अस्निग्धपुत्रप्रसविनी खल्वहम् । ] ९ राजा - किं किं सर्वजनहृदयनयनाभिरामस्य रामस्य जननी त्वमसि कौसल्या । कौसल्या -- - महाराअ ! सा एव मन्दभाइणी खु अहं । [ महाराज ! १२ सैव मन्दभागिनी खल्वहम् । ] राजा - कौसल्ये सारवती खल्वसि । त्वया हि खलु रामो गर्भे धृतः । अहं हि दुःखमत्यन्तमसां ज्वलनोपमम् । नैव सोढुं न संहर्तुं शक्नोमि मुषितेन्द्रियः ॥ ९ ॥ (सुमित्रां विलोक्य । ) इयमपरा का । कौसल्या - महाराअ ! वच्छळक्खण - 1 ( इत्यर्धोक्ते ) [ महाराज ! ३ वत्सलक्ष्मण - । ] राजा - ( सहसोत्थाय-) कासौ कासौ लक्ष्मणः । न दृश्यते । भोः कष्टम् । ( देव्यौ ससंभ्रममुत्थाय राजानमवलम्बते । ) ( प्रविश्य ) कौसल्या - महाराअ ! वच्छळक्खणस्स जणणी सुमित्तत्ति वत्तुं मए उवक्कन्दं । [ महाराज ! वत्सलक्ष्मणस्य जननी सुमित्रेति वक्तुं ९ मयोपक्रान्तम् । ] राजा - अयि सुमित्रे ! तवैव पुत्रः सत्पुत्रो येन नक्तन्दिवं वने । रामो रघुकुलश्रेष्ठश्छाययेवानुगम्यते ॥ १० ॥ काञ्चुकीयः- जयतु महाराजः । एष खलु तत्रभवान् सुमन्त्रः ३ प्राप्तः । प्रतिमानाटके [ii. 10. राजा - (सहसोत्थाय सहर्षम् । ) अपि रामेण । काञ्चुकीयः- न खलु, रथेन । ६ राजा - कथं कथं रथेन केवलेन । ( इति मूच्छितः पतति । ) देव्यौ - महाराअ ! समस्ससिहि समस्ससिहि । ( गात्राणि परामृशतः । ) [ महाराज ! समाश्वसिहि समाश्वसिहि ! ] ९ काञ्चुकीयः- भोः ! कष्टम् । ईदृग्विधाः पुरुषविशेषा ईदृशीमापदं प्राप्नुवन्तीति विधिरनतिक्रमणीय: । महाराज ! समाश्वसिहि समाश्वसिहि । १२ राजा- - ( किञ्चित् समाश्वस्य । ) बालाके! सुमन्त्र एक एव ननु प्राप्तः । काञ्चुकीयः - महाराज ! अथ किम् । १५ राजा - कष्टं भोः ! शून्यः प्राप्तो यदि रथो भग्नो मम मनोरथः । नूनं दशरथं नेतुं कालेन प्रेषितो रथः ॥ ११ ॥ तेन हि शीघ्रं प्रवेश्यताम् । काञ्चुकीयः- यदाज्ञापयति महाराजः । (निष्क्रान्तः । ) ३ राजा- धन्याः खलु वने वातास्तटाकपरिवर्तिनः । विचरन्तं वने रामं ये स्पृशन्ति यथासुखम् ॥ १२ ॥ ( ततः प्रविशति सुमन्त्रः । ) सुमन्त्रः - ( सर्वतो विलोक्य सशोकम् । ) एते भृत्याः स्वानि कर्माणि हित्वा स्नेहाद् रामे जात बाष्पाकुलाक्षाः । चिन्तादीनाः शोकसंदग्धदेहा विक्रोशन्तं पार्थिवं गर्हयन्ति ॥ १३ ॥ ( उपेत्य । ) जयतु महाराजः । -ii. 14.18] राजा - भ्रातः ! सुमन्त्र ! क मे ज्येष्ठो रामः - द्वितीयोऽङ्कः । २६९- नहि नहि युक्तमभिहितं मया । क ते ज्येष्ठो रामः प्रियसुत ! सुतः सा व दुहिता विदेहानां भर्तुर्निरतिशयभक्तिर्गुरुजने । क वा सौमित्रिम हतपितृकमासन्नमरणं किमप्याहुः किं ते सकलजनशोकार्णवकरम् ॥ १४ ॥ सुमन्त्रः - महाराज ! मा मैवममङ्गलवचनानि भाषिष्ठाः । अचिरा- देव तान् द्रक्ष्यसि । ३ राजा - सत्यमयुक्तमभिहितं मया । नायं तपस्विनामुचितः प्रश्नः । तत् कथ्यताम् । अपि तपस्विनां तपो वर्धते । अप्यरण्यानि स्वाधीनानि विचरन्ती वैदेही न परिखिद्यते । ६ सुमित्रा - सुमन्त ! बहुवकळाळङ्किदसरीरा वाळा वि अवाळचरित्ता भणो सहधम्मआरिणी अम्हे महाराअं च किचि णाळवदि । [सुमन्त्र ! बहुवल्कलालङ्कृतशरीरा बालाप्यबालाचारित्रा भर्तुः सहधर्म- ९ चारिणी अस्मान् महाराजं च किञ्चिन्नालपति । ] सुमन्त्रः - सर्व एव महाराजम् । राजा - न न । श्रोत्ररसायनैर्मम हृदयातुरौषधैस्तेषां नामधेयैरेव १२ श्रावय । सुमन्त्रः - यदाज्ञापयति महाराजः । आयुष्मान् रामः । राजा - राम इति । अयं रामः । तन्नामश्रवणात् स्पृष्ट इव मे १५ प्रतिभाति । ततस्ततः । सुमन्त्रः- आयुष्मान् लक्ष्मणः । राजा - अयं लक्ष्मणः । ततस्ततः । १८ सुमन्त्रः - आयुष्मती सीता जनकराजपुत्री । प्रतिमानाटके [ ii. 14.9- राजा - इयं वैदेही । राम्रो लक्ष्मणो वैदेहीत्ययमक्रमः । सुमन्त्रः - अथ कः क्रमः । २१ राजा - रामो वैदेही लक्ष्मण इत्यभिधीयताम् । रामलक्ष्मणयोर्मध्ये तिष्ठत्वत्रापि मैथिली । बहुदोषाण्यरण्यानि सनाथैषा भविष्यति ॥ १५ ॥ सुमन्त्रः - यदाज्ञापयति महाराजः । आयुष्मान् रामः । राजा - अयं रामः । ३ सुमन्त्रः - आयुष्मती जनकराजपुत्री । राजा - इयं वैदेही । सुमन्त्रः - आयुष्मान् लक्ष्मणः । ६ राजा - अयं लक्ष्मणः । राम ! वैदेहि ! लक्ष्मण ! परिष्वजध्वं मां पुत्रकाः ! । सकृत् स्पृशामि वा रामं सकृत् पश्यामि वा पुनः । गतायुरमृतेनेव जीवामीति मतिर्मम ॥ १६ ॥ सुमन्त्रः - शृङ्गिवेरपुरे रथादवतीर्यायोध्याभिमुखाः स्थित्वा सर्व एव महाराजं शिरसा प्रणम्य विज्ञापयितुमारब्धाः । कमप्यर्थं चिरं ध्यात्वा वक्तुं प्रस्फुरिताधराः । बाष्पस्तम्भितकण्ठत्वादनुक्त्वैव वनं गताः ॥ १७ ॥ राजा - कथमनुक्त्वैव वनं गताः । ( इति द्विगुणं मोहमुपगतः । ) सुमन्त्रः - ( ससम्भ्रमम् ) बालाके! उच्यताममात्येभ्यः -37- ३ प्रतीकारायां दशायां वर्तते महाराज इति । काञ्चुकीयः- तथा । (निष्क्रान्तः । ) देव्यौ - महाराज ! समस्ससिहि समस्स सिहि । [ महाराज ! ६ समाश्वसिहि समाश्वसिहि । ] राजा - ( किञ्चित् समाश्वस्य । ) -ii. 21. द्वितीयोऽङ्कः । अङ्गं मे स्पृश कौसल्ये! न त्वां पश्यामि चक्षुषा । रामं प्रति गता बुद्धिरद्यापि न निवर्तते ॥ १८ ॥ पुत्र ! राम ! यत् खलु मया सन्ततं चिन्तितं, राज्ये त्वामभिषिच्य सन्नरपतेर्लाभात् कृतार्थाः प्रजाः २७१ कृत्वा त्वत्सहजान् समानविभवान् कुर्वात्मनः सन्ततम् । इत्यादिश्य च ते तपोवनमितो गन्तव्यमित्येतया कैकेय्या हि तदन्यथा कृतमहो निःशेषमेकक्षणे ॥ १९ ॥ सुमन्त्र ! उच्यतां कैकेय्याः- गतो रामः प्रियं तेऽस्तु त्यक्तोऽहमपि जीवितैः । क्षिप्रमानीयतां पुत्रः पापं सफलमस्त्विति ॥ २० ॥ सुमन्त्रः - यदाज्ञापयति महाराजः । )-11 राजा - (ऊर्ध्वमवलोक्य । ) अये रामकथाश्रवणसन्दग्धहृदयं मामा. ३ श्वासयितुमागताः पितरः । कोऽत्र । ( प्रविश्य ) काञ्चुकीयः- जयतु महाराजः । ६ राजा - आपस्तावत् । काञ्चुकीयः- यदाज्ञापयति महाराजः । (निष्क्रम्य प्रविश्य । ) जयतु महाराजः । इमा आपः । राजा - ( आचम्यावलोक्य । ) अयममरपतेः ः सखा दिलीपो रघुरयमत्रभवानजः पिता मे । किमभिगमनकारणं भवद्भिः सह वसने समयो ममापि तत्र ॥ २१ ॥ राम ! वैदेहि ! लक्ष्मण ! अहमितः पितॄणां सकाशं गच्छामि । हे पितरः ! अयमयमागच्छामि । ( मूर्छया परामृष्टः । ) प्रतिमानाटके ( काञ्चुकीयो यवनिकास्तरणं करोति । ) (निष्क्रान्ताः सर्वे । ) ( ततः प्रविशति सुधाकारः । ) ( प्रविश्य ) सर्वे - हा हा महाराओ । [ हा हा महाराजः । ] द्वितीयोऽङ्कः । अथ तृतीयोऽङ्कः । [ii. 21.3 ३ सुधाकारः - ( सम्मार्जनादीनि कृत्वा । ) भोदु, दाणि किदं एत्थ कय्यं अय्यसम्भव अस्स आणत्तं । जाव मुहुत्तं सुविस्सं । ( स्वपिति । ) [ भवतु, इदानीं कृतमत्र कार्यमार्यसंभवकस्याज्ञप्तम् । यावन्मुहूर्त ६ स्वप्स्यामि । ] भट:-( चेटमुपगम्य ताडयित्वा । ) अघो दासीपुत्त ! किं दाणि ९ कम्मं ण करेसि । ( ताडयति । ) अङ्गो दास्याः पुत्र ! किमिदानीं कर्म न करोषि । ] सुधाकारः - ( बुध्वा । ) ताळेहि मं ताळेहि मं । [ ताडय मां ताडय १२ माम् । ] भट:- टः - ताडिदे तुवं किं करिस्ससि । [ ताडिते त्वं किं करिष्यसेि । ] सुधाकारः-अहण्णस्स मम कत्तवीअस्स विअ बाहुसहस्सं णत्थि । १५ [ अधन्यस्य मम कार्तवीर्यस्येव बाहुसहस्रं नास्ति । ] भटः टः - बाहुसहस्सेण किं कय्यं । [ बाहुसहस्त्रेण किं कार्यम् । ] सुधाकारः - तुवं हणिस्सं । [ त्वां हनिष्यामि । ] १८ भटः - एहि दासीपुत्त ! मुदे मुनिस्सं । ( पुनरपि ताडयति । ) [ एहि दास्याः पुत्र ! मृते मोक्ष्यामि । ] सुधाकारः - ( रुदित्वा । ) सक्कं दाणि भट्टा ! मे अवराहं जाणिदुम् । ૪ iii. 1.] तृतीयोऽङ्कः । २१ [ शक्यमिदानीं भर्तः ! मेऽपराधं ज्ञातुम् । ] भटः - णत्थि किळ अवराहो णत्थि । णं मए सन्दिट्ठो भट्टिदार अस्स रामस्स रज्जविव्भट्ठकिदसन्दावेण सग्गं गदस्स भट्टिणो दसरहस्स २४ पडिमा गेहूं देहूं अज्ज कोसळापुरोएहि सव्वेहि अन्तेउरेहि इह आअन्तव्वं त्ति । एत्थ दाणि तुए किं किदं । [ नास्ति किलापराधो नास्ति । ननु मया सन्दिष्टो भर्तृदारकस्य रामस्य राज्यविभ्रष्टकृतस- २७ न्तापेन स्वर्गं गतस्य भर्तुर्दशरथस्य प्रतिमागेहं द्रटुमद्य कौसल्यापुरोगैः सर्वैरन्तःपुरैरिहागन्तव्यमिति । अत्रेदानीं त्वया किं कृतम् । ] सुधाकारः - पेक्खदु भट्टा । अवणीदकवोदसन्दाणअं दाव गभगिहं । ३० सोहवण्णअदत्तचन्दणपञ्चाङ्गुळा भित्तीओ । ओसत्तमळ- दामसोहीणि दुवाराणि । पइण्णा वाळुआ । एत्थ दाणि मए किं किदं । [ पश्यतु भर्ता । अपनीतकपोतसन्दानकं तावद् गर्भगृहम् । ३३ सौधवर्णकदत्तचन्दनपञ्चाङ्गुला भित्तयः । अवसक्तमाल्यदामशोभीनि द्वाराणि । प्रकीर्णा वालुकाः । अत्रेदानीं मया किं न कृतम् । ] भटः - जइ एवं, विस्सत्थो गच्छ । जाव अहं वि सव्वं किदं ति ३६ अमञ्चस्स णिवेदेमि । [ यद्येवं विश्वस्तो गच्छ । यावदहमपि सर्वं कृतमित्यमात्याय निवेदयामि । ] भरत:- , (निष्क्रान्तौ । ) ( ततः प्रविशति भरतो रथेन सूतश्च । ) प्रवेशकः । : - ( सावेगम् । ) सूत ! चिरं मातुलपरिचयादविज्ञातवृत्ता- ४२ न्तोऽस्मि । श्रुतं मया दृढमकल्यशरीरो महाराज इति । तदुच्यताम्- पितुर्मे को व्याधिः सूतः - हृदयपरितापः खलु महान् प्रतिमानाटके [iii. 1.-- भरत:- किमाहुस्तं वैद्याः सूतः - न खलु भिषजस्तत्र निपुणाः । भरतः- सूतः - किमाहारं भुङ्क्ते शयनमपि भूमौ निरशन: भरत:- किमाशा स्याद् सूतः - देवं भरत:- १ ॥ स्फुरति हृदयं वाहय रथम् ॥ १ सूतः - यदाज्ञापयत्यायुष्मान् । ( रथं वाहयति । ) भरतः - ( रथवेगं निरूप्य ) अहो नु खलु रथवेगः । एते ते द्रुमा धावन्तीव द्रुतरथगतिक्षीणविषया नदीवोवृत्ताम्बुर्निपतति मही नेमिविवरे । अव्यक्तिर्नष्टा स्थितमिव जवाञ्चक्रवलयं रजवाश्वतं पतति पुरतो नानुपतति ॥ २ ॥ सूतः - आयुष्मन् ! सोपस्नेहतया वृक्षाणामभितः खल्वयोध्यया भवितव्यम् । ३ भरतः- अहो नु खलु स्वजनदर्शनोत्सुकस्य त्वरता मे मनसः । सम्प्रति हि, पतितमिव शिरः पितुः पादयोः स्निह्यतेवास्मि राज्ञा समुत्थापितः त्वरितमुपगता इव भ्रातरः क्लेदयन्तीव मामश्रुभिर्मातरः । सदृश इति महानिति व्यायतश्चेति भृत्यैरिवाहं स्तुतः सेवया परिहसितमिवात्मनस्तत्र पश्यामि वेषं च भाषां च सौमित्रिणा ॥ ३ ॥ iii. 4.30 ] तृतीयोऽङ्कः । सूतः - ( आत्मगतम् ) भोः ! कष्टम्, यदयमविज्ञाय महाराजविनाश- मुदर्के निष्फलामाशां परिवहनयोध्यां प्रवेक्ष्यति कुमारः । जान- ३ द्विरप्यस्माभिर्न निवेद्यते । कुतः, पितुः प्राणपरित्यागं मातुरैश्वर्यलुब्धताम् । ज्येष्ठभ्रातुः प्रवासं च त्रीन् दोषान् काऽभिधास्यति ॥ ४ ॥ ( प्रविश्य ) भटः- जयतु कुमारः । ३ भरतः -भद्र ! किं शत्रुघ्नो मामभिगतः । भटः-अभिगतः खलु वर्तते कुमारः । उपाध्यायास्तु भवन्तमाहुः । भरतः - किमिति किमिति । ६ भटः - एकनाडिकावशेषः कृत्तिकाविषयः । तस्मात् प्रतिपन्नायामेव रोहिण्यामयोध्यां प्रवेक्ष्यति कुमारः : - बाढमेवम् । न मया गुरुवचनमतिक्रान्तपूर्वम् । गच्छ त्वम् । भरत:- ९ भटः - यदाज्ञापयति कुमारः । (निष्क्रान्तः । ) भरतः-अथ कस्मिन् प्रदेशे विश्रमिष्ये । भवतु, दृष्टम् । एतस्मिन् वृक्षान्तराविष्कृते देवकुले मुहूर्तं विश्रमिष्ये । तदुभयं भविष्यति १२ दैवतपूजा विश्रमश्च । अथच उपोपविश्य प्रवेष्टव्यानि नगराणीति सत्समुदाचारः । तस्मात् स्थाप्यतां रथः । सूतः - यदाज्ञापयत्यायुष्मान् । ( रथं स्थापयति । ) १५ भरतः - ( रथादवतीर्य ) सूत ! एकान्ते विश्रामयाश्वान् । सूतः -- यदाज्ञापयत्यायुष्मान् । (निष्क्रान्तः । ) भरतः–( किञ्चिद् गत्वावलोक्य) साधुमुक्तपुष्पलाजाविष्कृता बलयः, १८ दत्तचन्दनपञ्चाङ्गुला भित्तयः, अवसक्तमाल्यदामशोभीनि द्वाराणि, प्रकीर्णा वालुकाः । किन्नुखलु पार्वणोऽयं विशेषः, अथवा आह्निकमास्तिक्यम् । कस्यनुखलु दैवतस्य स्थानं भविष्यति । प्रतिमानाटके [iii. 4, 2 २१ नेह किचित् प्रहरणं ध्वजो वा बहिचिह्नं दृश्यते । भवतु, प्रविश्य ज्ञास्ये। (प्रविश्यावलोक्य) । अहो क्रियामाधुर्यं पाषाणानाम् । अहो भावगतिराकृतीनाम् । दैवतोद्दिष्टानामपि मानुषविश्वास तासां २४ प्रतिमानाम् । किन्नुखलु चतुर्दैवतोऽयं स्तोमः । अथवा यानि तानि भवन्तु । अस्ति तावन्मे मनसि प्रहर्षः । कामं दैवतमित्येव युक्तं नमयितुं शिरः । वार्षलस्तु प्रणामः स्याद्मन्त्रार्चितदैवतः ॥ ५ ॥ ( प्रविश्य ) देवकुलिकः - भोः ! नैत्यकावसाने प्राणिधर्ममनुतिष्ठति मयि कोनु- ३ खल्त्रयमासां प्रतिमानामल्पान्तराकृतिरिव प्रतिमागृहं प्रविष्टः । भवतु, प्रविश्य ज्ञास्ये । ( प्रविशति । ) भरतः - नमोस्तु । ६ देवकुलिकः - नखलु नखलु प्रणामः कार्यः । भरतः - मा तावद् भोः ! वक्तव्यं किञ्चिदस्मासु विशिष्टः प्रतिपाल्यते । किङ्कृतः प्रतिषेधोऽयं नियमप्रभविष्णुता ॥ ६ ॥ देवकुलिकः- :- न खल्वेतैः कारणैः प्रतिषेधयामि भवन्तम् । किन्तु दैवतशङ्कया ब्राह्मणजनस्य प्रणामं परिहरामि । क्षत्रिया ह्यत्रभवन्तः । ३ भरतः - एवम् । क्षत्रिया ह्यत्रभवन्तः । अथ के नामात्रभवन्तः । देवकुलिकः – इक्ष्वाकवः । भरतः - ( सहर्षम् ) इक्ष्वाकव इति । एते तेऽयोध्याभर्तारः । एते ते देवतानामसुरपुरवधे गच्छन्त्यभिसरी- मेते ते शक्रलोके सपुरजनपदा यान्ति स्वसुकृतैः । एते ते प्राप्नुवन्तः स्वभुजबलजितां कृत्स्नां वसुमती- मेते ते मृत्युना ये चिरमनवसिताश्छन्दं मृगयता ॥ ७ ॥ iii. 7.36] तृतीयोऽङ्कः । भोः ! यदृच्छया खलु मया महत् फलमासादितम् । अभिधीयतां कस्तावदत्रभवान् । ३ देवकुलिकः - अयं खलु तावत् सन्निहित सर्वरत्नस्य विश्वजितो यज्ञस्य प्रवर्तयिता प्रज्वलितधर्मप्रदीपो दिलीपः । भरतः - नमोस्तु धर्मपरायणाय । अभिधीयतां कस्तावदत्रभवान् । ६ देवकुलिकः - अयं खलु तावत् संवेशनोत्थापनयोरनेक ब्राह्मणजन- सहस्रप्रयुक्तपुण्याहशब्दरवो रघुः । भरतः - अहो बलवान् मृत्युरेतामपि रक्षामतिक्रान्तः । नमोस्तु ९ ब्राह्मणजनावेदितराज्यफलाय । अभिधीयतां कस्तावदत्रभवान् । देवकुलिकः - अयं खलु तावत् प्रियावियोग निर्वेदपरित्यक्तराज्यभारो नित्यावभृथस्नानप्रशांत रजा अजः । १२ भरतः - नमोऽस्तु श्लाघनीयपश्चात्तापाय । ( दशरथस्य प्रतिमामव- लोकयन् पर्याकुलो भूत्वा । ) भोः ! बहुमानव्याक्षिप्तेन मनसा सुव्यक्तं नावधारितम् । अभिधीयतां कस्तावद्वभवान् । १५ देवकुलिकः - अयं दिलीपः । भरतः - पितृपितामहो महाराजस्य । ततस्ततः । देवकुलिकः - अत्रभवान् रघुः । १८ भरतः - पितामहो महाराजस्य । ततस्ततः । देवकुलिकः - अत्रभवानजः । भरतः - पिता तातस्य । किमिति किमिति । २१ देवकुलिकः-अयं दिलीपः, अयं रघुः, अयमजः । भरतः - भवन्तं किचित् पृच्छामि । धरमाणानामपि प्रतिमाः स्थाप्यन्ते । २४ देवकुलिकः - न खलु, अतिक्रान्तानामेव । भरत:- :- तेन ह्यापुच्छे भवन्तम् । देवकुलिकः - तिष्ठ । प्रतिमानाटके येन प्राणाश्च राज्यं च स्त्रीशुल्कार्थे विसर्जिताः । इमां दशरथस्य त्वं प्रतिमां किं न पृच्छसे ॥ ८ ॥ भरतः - हा तात ! । ( मूर्छितः पतति । पुनः प्रत्यागत्य । ) हृदय भव सकामं यत्कृते शङ्कसे त्वं शृणु पितृनिधनं तद् गच्छ धैर्यं च तावत् । स्पृशति तु यदि नीचो मामयं शुल्कशब्द- [iii. 8.-- स्त्वथच भवति सत्यं तत्र देहो विशोध्यः ॥ ९ ॥ आर्य ! । देवकुलिकः- आर्येति इक्ष्वाकुकुलालापः ३. कैकेयीपुत्रो भरतो भवान् ननु । खल्वयम् । कश्चित् भरतः - अथकिमथकिम् । दशरथपुत्रो भरतोऽस्मि न कैकेय्याः । देवकुलिकः - तेन ह्यापृच्छे भवन्तम् । ६ भरतः - तिष्ठ । शेषमभिधीयताम् । देवकुलिकः - का गतिः । श्रूयताम् । उपरतस्तत्रभवान् दशरथः । सीतालक्ष्मणसहायस्य रामस्य वनगमनप्रयोजनं न जाने । ९ भरतः कथं कथम्, आर्योऽपि वनं गतः । ( द्विगुणं मोहमुपगतः । ) देवकुलिक : - कुमार ! समाश्वसिहि समाश्वसिहि । भरतः - ( समाश्वस्य । ) अयोध्यामटवीभूतां पित्रा भ्रात्रा च वर्जिताम् । पिपासार्तोऽनुधावामि क्षीणतोयां नदीमिव ॥ १० ॥ आर्य ! विस्तरश्रवणं मे मनसः स्थैर्यमुत्पादयति । तत् सर्वमन- वशेषमभिधीयताम् । ३ देवकुलिकः - श्रूयतां तत्रभवता राज्ञाभिषिच्यमाने तत्रभवति रामे भवतो जनन्याभिहितं किल । :- तिष्ठ भरतः- 1 -iii. 14.6] तृतीयोऽङ्कः । तं स्मृत्वा शुल्कदोषं भवतु मम सुतो राजेत्यभिहितं तद्धैर्येणाश्वसत्या व्रज सुत ! वनमित्यार्थोऽप्यभिहितः । तं दृष्ट्वा बद्धचीरं निधनमसदृशं राजा ननु गतः पात्यन्ते धिक्प्रलापा ननु मयि सदृशाः शेषाः प्रकृतिभिः ॥ ११ ॥ ( मोहमुपगतः । ) ( नेपथ्ये ) (ततः प्रविशन्ति देव्यः सुमन्त्रश्च । ) ( निष्क्रान्तः । ) ३ उस्सरह अय्या ! उस्सरह । [ उत्सरतार्याः ! उत्सरत । ] देवकुलिकः - ( विलोक्य । ) अये, काले खल्वागता देव्यः पुत्रे मोहमुपागते । हस्तस्पर्शो हि मातृणामजलस्य जलाञ्जलिः ॥ १२ ॥ सुमन्त्रः - इत इतो भवत्यः । इदं गृहं तत् प्रतिमानृपस्य नः समुच्छ्रयो यस्य स हर्म्य दुर्लभः । अयन्त्रितैर प्रतिहारिकागतैर्विना प्रणामं पथिकैरुपास्यते ॥ १३ ॥ ( प्रविश्यावलोक्य । ) भवत्यः ! नखलु नखलु प्रवेष्टव्यम् । अयं हि पतितः कोऽपि वयस्स्थ इव पार्थिवः । देवकुलिकः- परशङ्कामलं कर्तुं गृह्यतां भरतो ह्ययम् ॥ १४ ॥ देव्यः - ( सहसोपगम्य । ) हा जाद ! भरद ! । [ हा जात ! भरत ! ।] ३ भरतः - ( किञ्चित् समाश्वस्य । ) आर्य ! । सुमन्त्रः - जयतु महा – ( इत्यर्भोक्ते सविषादम् । ) अहो स्वर - सादृश्यम् । मन्ये प्रतिमास्थो महाराजो व्याहरतीति । ६ भरतः - अथ मातृणामिदानीं कावस्था । प्रतिमानाटके [iii.14. देव्यः - जाद ! एसा णो अवस्था । ( अवगुण्ठनमपनयन्ति । ) [ जात ! एषा नोsवस्था । ] ९ सुमन्त्रः - भवत्यः ! निगृह्यतामुत्कण्ठा । भरतः - ( सुमन्त्रं विलोक्य । ) सर्वसमुदाचार सन्निकर्षस्तु मां सूच यति । कच्चित् तात ! सुमन्त्रो भवान् ननु । १२ सुमन्त्रः - कुमार ! अथकिम् । सुमन्त्रोऽस्मि । अन्वास्यमानश्विरजीव दोषः कृतघ्नभावेन विडम्ब्यमानः । अहं हि तस्मिन्नृपतौ विपन्ने जीवामि शून्यस्य रथस्य सूतः ॥ १५ ॥ १५ भरतः - हा तात ! ( उत्थाय । ) तात ! अभिवादनक्रममुपदेष्टुमि- च्छामि मातृणाम् । सुमन्त्रः- बाढम् । इयं तत्रभवतो रामस्य जननी देवी कौसल्या । १८ भरतः - अम्ब ! अनपराद्धोऽहमभिवादये । कौसल्या - जाद ! णिरसन्दावो होहि । [ जात ! निःसंतापो भव । ] भरतः-( आत्मगतम् । ) आक्रुष्ट इवास्म्यनेन । ( प्रकाशम् । ) अनु- २१ गृहीतोऽस्मि । ततस्ततः । सुमन्त्रः - इयं तत्रभवतो लक्ष्मणस्य जननी देवी सुमित्रा । भरतः - अम्ब ! लक्ष्मणेनातिसन्धितोऽहमभिवादये । २४ सुमित्रा - जाद ! जसोभाई होहि । [ जात ! यशोभागी भव । ] भरतः - अम्ब ! इदं प्रयतिष्ये । अनुगृहीतोऽस्मि । ततस्ततः । सुमन्त्रः - इयं ते जननी । २७ भरतः - ( सरोषमुत्थाय । ) आः पापे ! मम मातुश्च मातुश्च मध्यस्था त्वं न शोभसे । गङ्गायमुनयोर्मध्ये कुनदीव प्रवेशिता ॥ १६ ॥ कैकेयी - जाद ! किं मए किदं । [ जात ! किं मया कृतम् । ] भरतः - किं कृतमिति वदसि । iii. 20. ] तृतीयोऽङ्कः । वयमयशसा चीरेणार्यो नृपो गृहमृत्युना प्रततरुदितैः कृत्स्नायोध्या मृगैः सह लक्ष्मणः । दयिततनयाः शोकेनाम्बाः स्नुषाध्वपरिश्रमै- र्धिगिति वचसा चोम्रेणात्मा त्वया ननु योजिताः ॥ १७ ॥ कौसल्या - जाद ! सञ्वसमुदाआरमज्झत्थो किं ण वन्दसि मादरं । [ जात! सर्वसमुदाचारमध्यस्थः किं न वन्दसे मातरम् । ] भरतः - मातरमिति । अम्ब ! त्वमेव मे माता । अम्ब! अभिवादये। कौसल्या - णहि नहि ! इअं दे जणणी । [ नहि नहि । इयं ते जननी । ] भरतः - आसीत् पुरा । न त्विदानीम् । पश्यतु भवती, त्यक्त्वा स्नेहं शीलसङ्क्रान्तदोषः पुत्रास्तावन्नन्वपुत्राः क्रियन्ते । लोकेऽपूर्वं स्थापयाम्येष धर्मं भर्तृद्रोहादस्तु माताप्यमाता ॥ १८ ॥ कैकेयी - जाद ! महाराअस्स सच्चवअणं रक्खन्तीए मए तह उत्तं । [ जात ! महाराजस्य सत्यवचनं रक्षन्त्या मया तथोक्तम् । ] भरतः - किमिति किमिति । कैकेयी - पुत्तओ मे राजा होदु त्ति । [ पुत्रको मे राजा भवत्विति । ] भरतः - अथ स इदानीमार्योऽपि भवत्याः कः । पितुर्मे नौरसः पुत्रो न क्रमेणाभिषिच्यते । दयिता भ्रातरो न स्युः प्रकृतीनां न रोचते ॥ १९॥ कैकेयी - जाद ! सुक्कक्रुद्धा णणु पुच्छिदव्वा । [ जात ! शुल्कलुब्धा ननु प्रष्टव्या । ] भरत:- प्र. १५ वल्कलैर्हृतराज्यश्रीः पदातिः सह भार्यया । वनवासं त्वयाज्ञप्तः शुल्केऽप्येतदुदाहृतम् ॥ २० ॥ प्रतिमानाटके [iii. 20. कैकेयी - जाद ! देसकाळे णिवेदेमि । [ जात ! देशकाले निवेदयामि । ] भरत:- अयशसि यदि लोभः कीर्तयित्वा किमस्मान् किमु नृपफलतर्षः किं नरेन्द्रो न दद्यात् । अथ तु नृपतिमातेत्येष शब्दस्तवेष्टो वदतु भवति ! सत्यं किं तवार्यो न पुत्रः ॥ २१ । कष्टं कृतं भवत्या त्वया राज्यैषिण्या नृपतिरसुभिर्नैव गणितः सुतं ज्येष्ठं च त्वं व्रज वनमिति प्रेषितवती । न शीर्णं यद् दृष्ट्वा जनकतनयां वल्कलवती- महो धात्रा सृष्टं भवति हृदयं वज्रकठिनम् ॥ २२ ॥ सुमित्र:- कुमार ! एतौ वसिष्ठवामदेवौ सह प्रकृतिभिरभिषेकं पुरस्कृत्य भवन्तं प्रत्युद्गतौ विज्ञापयतः । गोपीना यथा गावो विलयं यान्त्यपालिताः एवं नृपतिहीना हि विलयं यान्ति वै प्रजाः ॥ २३ ॥ भरतः - अनुगच्छन्तु मां प्रकृतयः । सुमित्र:- अभिषेकं विसृज्य व भवान् यास्यति । ३ भरत:- :- अभिषेकमिति । इहात्रभवत्यै प्रदीयताम् । सुमित्र:- क भवान् यास्यति । भरत:- तत्र यास्यामि यत्रासौ वर्तते लक्ष्मणप्रियः । नायोध्या तं विनायोध्या सायोध्या यत्र राघवः ॥ २४ ॥ (निष्क्रान्ताः सर्वे । ) तृतीयोऽङ्कः । अथ चतुर्थोऽङ्कः । (ततः प्रविशतश्टयां । ) विजया - हळा गान्दिणिए ! भणेहि भणेहि । अज्ज कोसळा- ३ पुरोगेहि सव्वेहि अन्तेबुरेहि पडिमा गेहूं ददंतु गदेहि तर्हि किळ भट्टिदाओ भरदो दिट्ठो । अहं च मन्दभाआ दुवारे द्विदा । [ हला नन्दिनिके ! भण भण । अद्य कौसल्यापुरोगैः सर्वैरन्तः पुरैः ६ प्रतिमागेहं द्रष्टुं गतैस्तत्र किल भर्तृदारको भरतो दृष्टः । अहं च मन्द- भागा द्वारे स्थिता । ] नन्दिनिका -हळा ! दिट्ठो अम्हेहि कोहळेण भट्टिदारओ भरदो । ९ [ हला ! दृष्टोऽस्माभिः कौतूहलेन भर्तृदारको भरतः । ] विजया - भट्टिणी कुमारेण किं भणिदा । [ भट्टिनी कुमारेण किं भति । ] १२ नन्दिनिका - किं भणिदं । ओळोइदुं वि णेच्छदि कुमारो । [ किं भणितम् । अवलोकितुमपि नेच्छति कुमारः । ] विजया - अहो अञ्चाहिदम् । रज्जलुद्धाए भट्टिदारअस्स रामस्स १५ रज्जविन्भ करतीए अत्तणो वेहव्वं आदि । ळोओ वि विणासं गमिओ । णिग्विणा हु भट्टिणी । पापअं किदं । [ अहो अत्याहितम् । राज्यलुब्धया भर्तृदारकस्य रामस्य राज्यविभ्रष्टं कुर्व- १८ त्यात्मनो वैधव्यमादिष्टम् । लोकोऽपि विनाशं गमितः । निर्घृणा खलु भट्टिनी । पापकं कृतम् । ] नन्दिनिका -हळा ! सुणाहि । पइदीहि आणीदं अभिसेअ विस- २१ ज्जिअ रामतवोवणं गदो कुमारो । हला ! शृणु । प्रकृतिभिरानीत- मभिषेकं विसृज्य रामतपोवनं गतः कुमारः । ] विजया-(सविषादम्) हैं । एवं गदो कुमारो । णन्दिणिए ! एहि, प्रतिमानाटके [ iv. 24_ २४ अम्हे भट्टिणि पेक्खामो । [हम् । एवं गतः कुमारः । नन्दिनिके ! एह्यावां भट्टिनीं पश्यावः । ] (निष्क्रान्ते । ) (ततः प्रविशति भरतो रथेन सुमन्त्रः सूतश्च । ) प्रवेशकः । भरतः- स्वर्गं गते नरपतौ सुकृतानुयात्रे पौराश्रुपात सलिलैरनुगम्यमानः । द्रष्टुं प्रयाम्यकृपणेषु तपोवनेषु रामाभिधानमपरं जगतः शशाङ्कम् ॥ १ ॥ सुमन्त्रः - एष एप आयुष्मान् भरतः, दैत्येन्द्रमानमथनस्य नृपस्य पुत्रो यज्ञोपयुक्तविभवस्य नृपस्य पौत्रः । भ्राता पितुः प्रियकरस्य जगत्प्रियस्य रामस्य रामसदृशेन पथा प्रयाति ॥ २ । भरतः - भोरतात ! सुमन्त्रः - कुमार, अयमस्मि । ३ भरतः–क्व तत्रभवान् ममार्यो रामः । वासौ महाराजस्य प्रतिनिधिः । क सन्निदर्शनं सारवताम् । कासौ प्रत्यादेशो राज्यलुब्धायाः कैकेय्याः । क्व तत् पात्रं यशसः । क्वासौ नरपतेः पुत्रः । कासौ ६ सत्यमनुव्रतः । मम मातुः प्रियं कर्तुं येन लक्ष्मीर्विसर्जिता । तमहं द्रष्टुमिच्छामि दैवतं परमं मम ॥ ३ ॥ iv. 5.3 J चतुर्थोऽङ्कः । सुमन्त्रः- कुमार ! एतस्मिन्नाश्रमपदे । अत्र रामश्च सीता च लक्ष्मणश्च महायशाः । सत्यं शीलं च भक्तिश्च येषु विग्रहवत् स्थिता ॥ ४ ॥ भरतः - तेन हि स्थाप्यतां रथः । सूतः - यदाज्ञापयत्यायुष्मान् । ( तथा करोति ) ३ भरतः - ( रथादवतीर्य । ) सूत ! एकान्ते विश्रामयाश्वान् । सूतः - यदाज्ञापयत्यायुष्मान् । (निष्क्रान्तः । ) भरतः - भोस्तात ! निवेद्यतां निवेद्यताम् । ६ सुमन्त्रः - कुमार ! किमिति निवेद्यते । भरतः - राज्यलुब्धायाः कैकेय्याः पुत्रो भरतः प्राप्त इति । सुमन्त्रः- कुमार ! अलं गुरुजनापवादमभिधातुम् । ९ भरतः - सुष्ठु, न न्याय्यं परदोषमभिधातुम् । तेन हि उच्यता- मिक्ष्वाकुकुलन्यङ्गभूतो भरतो दर्शनमभिलषतीति । सुमन्त्रः- कुमार ! नाहमेवं वक्तुं समर्थः । अथ पुनर्भरतः प्राप्त इति १२ ब्रूयाम् । भरतः - न न । नाम केवलमभिधीयमानमकृतप्रायश्चित्तमिव मे प्रतिभाति । किं ब्रह्मन्नानामपि परेण निवेदनं क्रियते । तस्मात् १५ तिष्ठतु तातः । अहमेव निवेदयिष्ये । भो भोः ! निवेद्यतां निवेद्यतां तत्रभवते पितृवचनकराय राघवाय- निर्घृणश्च कृतघ्नश्च प्राकृतः प्रियसाहसः । भक्तिमानागतः कश्चित् कथं तिष्ठतु यात्विति ॥ ५ ॥ राम:- ( ततः प्रविशति रामः सीतालक्ष्मणाभ्याम् । ) : - ( आकर्ण्य सहर्षम् । ) सौमित्रे ! किं शृणोषि । अयि विदेह- ३ राजपुत्रि ! त्वमपि शृणोषि । प्रतिमानाटके कस्यासौ सदृशतरः स्वरः पितुर्मे गाम्भीर्यात् परिभवतीव मेघनादम् । यः कुर्वन् मम हृदयस्य बन्धुशङ्कां सस्नेहः श्रुतिपथमिष्टतः प्रविष्टः ॥ ६ ॥ [ iv. 6. - लक्ष्मणः- आर्य ! ममापि खल्वेष स्वरसंयोगो बन्धुजनबहुमानमा- वहति । एष हि, घनः स्पष्टो धीरः समदवृषभ स्निग्धमधुरः कलः कण्ठे वक्षस्यनुपहत सञ्चाररभसः । यथास्थानं प्राप्य स्फुटकरणनानाक्षरतया चतुर्णां वर्णानामभयमिव दातुं व्यवसितः ॥ ७ ॥ रामः - सर्वथा नायमबान्धवस्य स्वरसंयोगः । क्लेदयतीव मे हृदयम् । वत्स लक्ष्मण ! दृश्यतां तावन् । ३ लक्ष्मणः - यदाज्ञापयत्यार्यः । ( परिक्रामति । ) भरतः - अये कथं न कश्चित् प्रतिवचनं प्रयच्छति । किन्नुखलु विज्ञातोऽस्मि कैकेय्याः पुत्रो भरतः प्राप्त इति । ६ लक्ष्मणः- ( विलोक्य ) अये अयमार्यो रामः । न न । रूपसादृश्यम् । मुखमनुपमं त्वार्यस्याभं शशाङ्कमनोहरं मम पितृसमं पीनं वक्षः सुरारिशरक्षतम् । तिपरिवृतस्तेजोराशिर्जगत्प्रियदर्शनो नरपतिरयं देवेन्द्रो वा स्वयं मधुसूदनः ॥ ८ ॥ ( सुमन्त्रं दृष्ट्वा । ) अये तातः । सुमन्त्रः - अये कुमारो लक्ष्मणः । ३ भरतः - एवं, गुरुरयम् । आर्य, अभिवादये । लक्ष्मणः - एह्येहि । आयुष्मान् भव । ( सुमन्त्रं वीक्ष्य । ) तात ! कोऽत्रभवान् । -iv. 12.1] ६ सुमन्त्रः - कुमार ! चतुर्थोऽङ्कः । रघोश्चतुर्थोऽयमजात् तृतीयः पितुः प्रकाशस्य तव द्वितीयः । यस्यानुजस्त्वं स्वकुलस्य केतोस्तस्यानुजोऽयं भरतः कुमारः ॥ ९ ॥ लक्ष्मणः - एह्येहीक्ष्वाकुकुमार ! स्वस्त्यायुष्मान् भव । असुरसमरदक्षैर्वज्रसंघृष्टचापै- रनुपमत्रलवीर्यैः स्वैः कुलैस्तुल्यवीर्यः । रघुरिव स नरेन्द्रो यज्ञ विश्रान्तकोशो भव जगति गुणानां भाजनं भ्राजितानाम् ॥ १० ॥ भरतः - अनुगृहीतोऽस्मि । लक्ष्मणः - कुमार ! इह तिष्ठ । त्वदागमनमार्याय निवेदयामि । ३ भरतः - आर्य ! निवेद्यताम् । अचिरमिदानीमभिवादयितुमिच्छामि । शीघ्रं लक्ष्मणः- वाढम् । ( उपेत्य । ) जयत्वार्यः । आर्य ! 1 अयं ते दयितो भ्राता भरतो भ्रातृवत्सलः । संक्रान्तं यत्र ते रूपमादर्श इव तिष्ठति ॥ ११ ॥ रामः - वत्स लक्ष्मण ! किमेवं भरतः प्राप्तः । लक्ष्मणः - आर्य ! अथ किम् । ३ राम - ! मैथिलि ! भरतावलोकनार्थं विशालीक्रियतां ते चक्षुः । सीता - अय्यउत्त ! किं भरदो आअदो । [ आर्यपुत्र ! किं भरत आगतः । ] ६ रामः - मैथिलि ! अथ किम् ! अद्य खल्ववगच्छामि पित्रा मे दुष्करं कृतम् । कीदृशस्तनयस्नेहो भ्रातृस्नेहोऽयमीदृशः ॥ १२ ॥ लक्ष्मणः - आर्य ! किं प्रविशतु कुमारः । प्रतिमानाटके [iv. 12. रामः- वत्स लक्ष्मण ! इदमपि तावदात्माभिप्रायमनुवर्तयितुमिच्छसि । ३ गच्छ सत्कृत्य शीघ्रं प्रवेश्यतां कुमारः । लक्ष्मणः- यदाज्ञापयत्यार्यः । रामः - अथवा तिष्ठ त्वम् । इयं स्वयं गच्छतु मानहेतोर्मातेव भवं तनये निवेश्य । तुषारपूर्णोत्पलपत्रनेत्रा हर्षास्रमासारमिवोत्सृजन्ती ॥ १३ ॥ सीता-जं अय्यउत्तो आणवेदि । (उत्थाय परिक्रम्य भरतमवलोक्य ।) हं तदो तं वेळं दाणि णिकन्तो अय्यउत्तो । णहि हि । वसा- ३ दिस्सं । [ यदार्यपुत्र आज्ञापयति । हं ततस्तां वेलामिदानीं निष्क्रान्त आर्यपुत्रः । न हि न हि । रूपसादृश्यम् । ] सुमन्त्रः - अये वधूः 1 ६ भरतः - अये इयमत्रभवती जनकराजपुत्री । इदं तत् स्त्रीमयं तेजो जातं क्षेत्रोदराद्धलात् । जनकस्य नृपेन्द्रस्य तपसः सन्निदर्शनम् ॥ १४ ॥ आर्ये ! अभिवादये भरतोऽहमस्मि । सीता - ( आत्मगतम् । ) णहि रूवं एव । सरजोओ विसो एव्व । ३ ( प्रकाशम् ) । वच्छ ! चिरं जीव । [ नहि रूपमेव । स्वरयोगोऽपि स एव । वत्स ! चिरं जीव । ] भरतः - अनुगृहीतोऽस्मि । । ६ सीता - एहि वच्छ ! भादुमणोरहं पूरेहि । [ एहि वत्स ! भ्रातृमनोरथं पूरय । ] सुमन्त्रः - प्रविशतु कुमारः । ९ भरतः - तात ! इदानीं किं करिष्यसि । —iv. 18.° ] चतुर्थोऽङ्कः । सुमन्त्रः- अहं पश्चात् प्रवेक्ष्यामि स्वर्गं याते नराधिपे । विदितार्थस्य रामस्य ममैतत् पूर्वदर्शनम् ॥ १५ ॥ भरतः - एवमस्तु । ( राममुपगम्य ) आर्य ! अभिवादये भरतो - हमस्मि । ३ रामः- : - ( सहर्पम् ) एह्येहि, इक्ष्वाकुकुमार ! स्वस्ति, आयुष्मान भव । वक्षः प्रसारय कवाटपुटप्रमाणमालिङ्ग मां सुविपुलेन भुजद्वयेन । उन्नामयाननमिदं शरदिन्दुकल्पं प्रह्लादय व्यमनदग्धमिदं शरीरम् ॥ ६ भरतः - अनुगृहीतोऽस्मि । सुमन्त्रः - ( उपेत्य । ) जयत्वायुष्मान । रामः - हा तात ! गत्वा पूर्वं स्वसैन्यैरभि सरिसमये खं समानैर्विमानै- विख्यातो यो विमर्दे स स इति बहुशः सासुराणां सुराणाम् । स श्रीमांस्त्यक्तदेहो दयितमपि विना स्नेहवन्तं भवन्तं स्वर्गस्थः साम्प्रतं किं रमयति पितृभिः स्वैर्नरेन्द्रैर्नरेन्द्रः॥१७॥ सुमन्त्रः - ( सशोकम् । ) नरपतिनिधनं भवत्प्रवासं भरतविषादमनाथनां कुलस्य । बहुविधमनुभूय दुष्प्रसह्यं गुण इव बह्रपराद्धमायुषा मे ॥ १८ ॥ सीता-रोदन्तं अय्यउत्तं पुणां वि रोदावीअदि तादो । [ रुदन्त- मार्यपुत्रं पुनरपि रोदयति तातः । ] : - मैथिलि ! एष पर्यवस्थापयाम्यात्मानम् । वत्स ! लक्ष्मण ! ३ रामः - आपस्तावत् । लक्ष्मणः - यदाज्ञापयत्यार्यः । ६ भरतः - आर्य ! न खलु न्याय्यम् । क्रमेण शुश्रूषयिष्ये । अहमेव प्रतिमानाटके [iv. 18. यास्यामि । ( कलशं गृहीत्वा निष्क्रम्य प्रविश्य । ) इमा आपः । रामः - आचम्य । मैथिलि ! विशीर्यते खलु लक्ष्मणस्य व्यापारः । ९ सीता - अय्यउत्त ! णं एदिणा पि सुरसूसइदव्वो । [ आर्यपुत्र ! नन्वेतेनापि शुश्रूषयितव्यः । ] रामः - सुष्ठु खल्विह लक्ष्मणः शुश्रूपयतु । तत्रस्थो मां भरतः १२ शुश्रूषयतु । भरतः- प्रसीदत्वार्यः । इह स्थास्यामि देहेन तत्र स्थास्यामि कर्मणा । नानैव भवतो राज्यं कृतरक्षं भविष्यति ॥ १९ ॥ रामः - वत्स ! कैकेयीमातः ! मा मैवम् । पितुर्नियोगादहमागतो वनं न वत्स ! दर्पान्न भयान्न विभ्रमात् । कुलं च नः सत्यधनं ब्रवीमि ते कथं भवान् नीचपथे प्रवर्तते ॥ २० ॥ सुमन्त्रः - अथेदानीमभिषेकोदकं क तिष्ठतु । रामः--यत्र मे मात्राभिहितं, तत्रैव तावत् तिष्ठतु । ३ भरतः–प्रसीदत्वार्यः । आर्य ! अलमिदानीं व्रणे प्रहर्तुम् । अपि सुगुण ! ममापि त्वत्प्रसूतिः प्रसूतिः स खलु निभृतधीमांस्ते पिता मे पिता च । सुपुरुष ! पुरुषाणां मातृदोषो न दोषो वरद ! भरतमार्तं पश्य तावद् यथावत् ॥ २१ ॥ सीता - अय्यउत्त ! अदिकरुणं मन्तेअइ भरदो । किं दाणि अय्य- उत्तेण चिन्तीअदि । [ आर्यपुत्र ! अतिकरुणं मन्त्रयते भरतः । ३ किमिदानीमार्यपुत्रेण चिन्त्यते । ] राम: - मैथिलि ! -iv. 24.10] चतुर्थोऽङ्कः । तं चिन्तयामि नृपतिं सुरलोकयातं येनायमात्मजाविशिष्टगुणो न दृष्टः । ईदृग्विधं गुणनिधिं समवाप्य लोके धिग्भो ! विधेर्यदि बलं पुरुषोत्तमेषु ॥ २२ ॥ वत्स ! कैकेयीमातः ! यत्सत्यं परितोषितोऽस्मि भवता निष्कल्मषात्मा भवां- स्त्वद्वाक्यस्य वशानुगोऽस्मि भवतः ख्यातैर्गुणैर्निर्जितः । किन्त्वेतन्नृपतेर्वचस्तदनृतं कर्तुं न युक्तं त्वया भरतः- रामः- किनोत्पाद्य भवद्विधं भवतु ते मिध्याभिधायी पिता ॥२३॥ यावद् भविष्यति भवन्नियमावसानं तावद् भवेयमिह ते नृप ! पादमूले । मैवं नृपः स्वसुकृतैरनुयातु सिद्धिं मे शापितो न परिरक्षसि चेत् स्वराज्यम् ॥ २४ ॥ भरतः-हन्त ! अनुत्तरमभिहितम् । भवतु समयतस्ते राज्यं परि- पालयाभि । ३ रामः - वत्स ! कः समयः । भरतः–मम हस्ते निक्षिप्तं तव राज्यं चतुर्दशवर्षान्ते प्रतिग्रहीतु- मिच्छामि । ६ रामः - एवमस्तु । भरतः - आर्य! श्रुतम् । आर्ये ! श्रुतम् । तातः श्रुतम् । सर्वे - वयमपि श्रोतारः । ९ भरतः - आर्य ! अन्यमपि वरं हर्तुमिच्छामि । रामः - वत्स ! किमिच्छसि । किमहं ददामि । किमहमनुष्ठास्यामि । भरतः- प्रतिमानाटके [ iv. 24.11 पादोपभुक्ते तव पादुके म एते प्रयच्छ प्रणताय मूर्ध्ना । यावद् भवानेष्यति कार्यसिद्धिं तावद् भविष्याम्यनयोर्विधेयः॥२५॥ राम: - (स्वगतम्) हन्त भोः ! मुचिरेणापि कालेन यशः किञ्चिन्मयार्जितम् ॥ अचिरेणैव कालेन भरतेनाद्य सञ्चितम् ॥ २६ ॥ सीता - अय्यउत्त ! णं दीयदि खु पुडमजाअणं भरदस्त । [ आर्य- पुत्र ! ननु दीयते खलु प्रथमयाचनं भरताय । ] ३ रामः - तथास्तु । वत्स ! गृह्यताम् । ( पादुके अर्पयति । ) भरतः - अनुगृहीतोऽस्मि । ( गृहीत्वा ) आर्य ! अत्राभिषेकोदकमा- वर्जयितुमिच्छामि । ६ रामः - तात ! यदिष्टं भरतस्य तत् सर्वं क्रियताम् । सुमन्त्रः- यदाज्ञापयत्यायुष्मान् । भरतः - ( आत्मगतम् ) हन्त भोः, श्रद्धेयः स्वजनस्य पौररुचितो लोकस्य दृष्टिक्षमः स्वर्गस्थस्य नराधिपस्य दयितः शीलान्वितोऽहं सुतः । भ्रातॄणां गुणशालिनां बहुमतः कीर्तेर्महद् भाजनं संवादेषु कथाश्रयो गुणवतां लब्धप्रियाणां प्रियः ॥ २७ ॥ रामः-वत्स कैकेयीमातः ! राज्यं नाम मुहूर्तमपि नोपेक्षणीयम् । तस्मादद्यैव विजयाय प्रतिनिवर्ततां कुमारः । ३ सीता - हं अज्ज एव गमिस्सदि कुमारो भरदो । [ हम् अद्यैव गमिष्यति कुमारो भरतः । ] रामः - अलमतिस्नेहेन । अद्यैव विजयाय प्रतिनिवर्ततां कुमारः । ६ भरतः - आर्य ! अद्यैवाहं गमिष्यामि । ૪ -v.10] पञ्चमोऽङ्कः । आशावन्तः पुरे पौराः स्थास्यन्ति त्वद्दिदृक्षया । तेषां प्रीतिं करिष्यामि त्वत्प्रसादस्य दर्शनान् ॥ २८ ॥ सुमन्त्रः- आयुष्मन् ! मयेदानीं किं कर्तव्यम् । रामः - तात ! महाराजवत् परिपाल्यतां कुमारः । ३ सुमन्त्रः - यदि जीवामि तावत् प्रयतिष्ये । रामः - वत्स कैकेयीमातः ! आरुह्यतां ममाग्रतो रथः । भरतः - यदाज्ञापयत्यार्यः । ( रथमारोह्तः । ) ६ रामः- लक्ष्मण ! : - मैथिलि ! इतस्तावत् । वत्स आश्रमपदद्वारमात्रमपि भरतस्यानुयात्रं भविष्यामः । ( इति निष्क्रान्ताः सर्वे । ) ( तत: प्रविशति सीता तापसी च । ) चतुर्थोऽङ्कः । अथ पञ्चमोऽङ्कः । इतस्तावन् । ३ सीता - अय्ये ! उवहारसुमणाइण्णो सम्मज्जिदो अस्समो । अस्सम- पदविभवेण अणुट्टिओ देवसमुदाआरो । ता जाव अय्यउत्तो न आअच्छदि दाव इमाणं वाळरुक्खाणं उदअप्पदाणेण अणुक्को- ६ सइस्सं । [ आयें ! उपहारसुमनआकीर्णः संमार्जित आश्रमः । आश्रमपदविभवेनानुष्ठितो देवसमुदाचारः । तद् यावदार्यपुत्रो नाग- च्छति, तावदिमान् बालवृक्षानुदकप्रदानेनानुक्रोशयिष्यामि । ] ९ तापसी - अविग्घं से होढुं । [ अविघ्नमस्य भवतु । ] रामः - ( सशोकम् । ) प्रतिमानाटके त्यक्त्वा तां गुरुणा मया च रहितां रम्यामयोध्यां पुरी- मुद्यम्यापि ममाभिषेकमखिलं मत्सन्निधावागतः । रक्षार्थं भरतः पुनर्गुणनिधिस्तत्रैव सम्प्रेषितः [ v. 1. - कष्टं भो नृपतेर्धुरं सुमहतीमेकः समुत्कर्षति ॥ १ ॥ (विमृश्य) ईदृशमेवैतत् । यावदिदानीमीदृशशोकविनोदनार्थमव- स्थाकुटुम्बिनीं मैथिलीं पश्यामि । तत् क नु खलु गता वैदेही । ३ ( परिक्रम्यावलोक्य) अये इमानि खलु प्रत्यग्राभिषिक्तानि वृक्ष- मूलानि अदूरगतां मैथिलीं सूचयन्ति । तथाहि, भ्रमति सलिलं वृक्षावर्ते सफेनमवस्थितं तृषितपतिता नै क्लिष्टं पिबन्ति जलं खगाः । स्थलमभिपतन्त्यार्द्राः कीटा बिले जलपूरिते नववलयिनो वृक्षा मूले जलक्ष्यरेखया ॥ २ ॥ ( विलोक्य । ) अये इयं वैदेही । भोः ! कष्टम् । योऽस्याः करः श्राम्यति दर्पणेऽपि स नैति खेदं कलशं वहन्त्याः । कथं वनं स्त्रीजनसौकुमार्यं समं लताभिः कठिनीकरोति ॥ ३ ॥ ( उपेत्य ) मैथिलि ! अपि तपो वर्धते । सीता - हं अय्यउत्तो । जेदु अय्यउत्तो । [ हम् आर्यपुत्रः । जय ३ त्वार्यपुत्रः । ] - मैथिलि ! यदि ते नास्ति धर्मविघ्नः, आस्यताम् । रामः- सीता - जं अय्यउत्तो आणवेदि । ( उपविशति । ) [ यदार्यपुत्र ६ आज्ञापयति । ] रामः - मैथिलि ! प्रतिवचनार्थिनीमिव त्वां पश्यामि । किमिदम् । ૪૬ v. 7.] पञ्चमोऽङ्कः । सीता-सोअसुण्णहिअअस्स विअ अय्यउत्तरस मुहराओ । किं ९ एदं । [ शोकशून्यहृदयस्येवार्यपुत्रस्य मुखरागः । किमेतत् । ] रामः - मैथिलि ! स्थाने खलु कृता चिन्ता । कृतान्तशल्याभिहते शरीरे तथैव तावदुहृदयत्रणो मे । नानाफलाः शोकशराभिघातास्तत्रैव तत्रैव पुनः पतन्ति ॥ ४ ॥ सीता - अयउत्तस्स को विअ सन्दावो । [ आर्यपुत्रस्य क इव सन्तापः । ] ३ रामः श्वस्तत्रभवतस्तातस्यानुसंवत्सरश्राद्धविधिः । कल्पविशेषेण निवपनक्रियामिच्छन्ति पितरः । तत् कथं निर्वर्तयिष्यामीत्येतश्चि- न्त्यते । अथवा । गच्छन्ति तुष्टिं खलु येन केन त एव जानन्ति हि तां दशां मे । इच्छामि पूजां च तथापि कर्तुं तातस्य रामस्य च सानुरूपाम् ॥५॥ सीता - अय्यउत्त ! णिव्वत्तइस्सिदि सद्धं भरदो रिद्धीए, अवस्था - गुरुवं फळोदरण वि अय्यउत्तो । एदं तादस्स बहुमदअरं भवि - ३ स्सदि । [ आर्यपुत्र ! निर्वर्तयिष्यति श्राद्धं भरत ऋद्धा, अवस्था- नुरूपं फलोदकेनाप्यार्यपुत्रः । एतत् तातस्य बहुमततरं भविष्यति । ] रामः - मौथाले ! फलानि दृष्ट्वा दर्भेषु स्वहस्तरचितानि नः । स्मारितो वनवासं च तातस्तत्रापि रोदिति ॥ ६॥ ( ततः प्रविशति परिव्राजकवेषो रावणः । ) रावणः - एष भोः ! नियतमनियतात्मा रूपमेतद् गृहीत्वा खरवधकृतवैरं राघवं वञ्चयित्वा । स्वरपदपरिहीणां हव्यधारामिवाहं जनकनृपसुतां तां हर्तुकामः प्रयामि ॥ ७ ॥ प्रतिमानाटके [ v. 7. - ( परिक्रम्याधा विलोक्य) इदं रामस्याश्रमपदद्वारम् । ( यादवतरामि ) ( अवतरति । ) यावदहमप्यतिथिसमुदाचारमनुष्ठास्यामि । अहम- ३ तिथिः । कोऽत्र भोः ! । रामः - ( श्रुत्वा । ) स्वागतमतिथये । :- साधु विशेषितं खलु रूपं स्वरेण । रावणः- ६ रामः- - ( विलोक्य । ) अये भगवान् । भगवन् ! अभिवादये । रावणः - स्वस्ति । रामः - भगवन् ! एतदासनमास्यताम् । ९ रावणः-( आत्मगतम् । ) कथमाज्ञप्त इवास्म्यनेन । ( प्रकाशम् ) बाढम् । ( उपविशति । ) :- मैथिलि ! पाद्यमानय भगवते । राम:- १२ सीता - जं अय्यउत्तो आणवेदि । (निष्क्रम्य प्रविश्य ।) इमा आवो । [ यदार्यपुत्र आज्ञापयति । इमा आपः । ] रामः -शुश्रूषय भगवन्तम् । १५ सीता - जं अय्यउत्तो आणवेदि । [ यदार्यपुत्र आज्ञापयति । ] : - ( मायाप्रकाशनपर्याकुलो भूत्वा ) भवतु, भवतु, रावणः इयमेका पृथिव्यां हि मानुषीणामरुन्धती । यस्या भर्तेति नारीभिः सत्कृतः कथ्यते भवान् ॥ ८ ॥ रामः - तेन हि आनय, अहमेव शुश्रूषयिष्ये । रावणः - अयि छायां परिहृत्य शरीरं न लङ्कयामि । वाचानुवृत्तिः ३ खल्वतिथिसत्कारः । पूजितोऽस्मि । आस्यताम् । रामः - बाढम् । ( उपविशति । ) रावणः - (आत्मगतम् ।) यावदहमपि ब्राह्मणसमुदाचार मनुष्ठास्यामि । ६ ( प्रकाशम्) भोः ! काश्यपगोत्रोऽस्मि । साङ्गोपाङ्गं वेदमधीये मानवीयं धर्मशास्त्रं, माहेश्वरं योगशास्त्रं, बार्हस्पत्यमर्थशास्त्रं, मेधा- तिथेर्न्यायशास्त्रं, प्राचेतसं श्राद्धकल्पं च । કેટ -v. 10.] पचमोऽङ्कः । ९ रामः - कथं कथं श्राद्धकल्पमिति । रावणः - सर्वाः श्रुतीरतिक्रम्य श्राद्धकल्पे स्पृहा दर्शिता । किमेतत् । रामः - भगवन् ! भ्रष्टायां पितृमत्तायामागम इदानीमेषः । १२ रावणः - अलं परिहृत्य । पृच्छतु भवान् । रामः-भगवन् ! निवपनक्रियाकाले केन पितॄंस्तर्पयामि । :- सर्वं श्रद्धया दत्तं श्राद्धम् । रावण:- १५ रामः- भगवन् ! अनादरतः परित्यक्तं भवति । विशेषार्थं पृच्छामि रावणः । श्रूयताम् । विरूढेषु दर्भाः, ओषधीपु तिलाः, कलायं शाकेषु, मत्स्येषु महाशफरः, पक्षिषु वार्घाणसः, पशुषु गौः खड्गो वा, इत्येते १८ मानुषाणां विहिताः । रामः - भगवन् ! वाशब्देना वगतमन्यदप्यस्तीति । रावणः - अस्ति प्रभावसम्पाद्यम् । २१ रामः - भगवन् ! एष एव मे निश्चयः । उभयस्यास्ति सान्निध्यं यद्येतत् साधयिष्यति । धनुर्वा तपसि श्रान्ते श्रान्ते धनुषि वा तपः ॥ ९ ॥ :- सन्ति । हिमवति प्रतिवसन्ति । रावण:- : - हिमवतीति । ततस्ततः । राम:- ३ रावणः - हिमवतः सप्तमे शुङ्गे प्रत्यक्षस्थाणुशिरः पतितगङ्गाम्बु- पायिनो वैदूर्य श्यामपृष्ठाः पवनसमजवाः काञ्चनपार्श्वा नाम मृगाः, यैर्वैखानसवालखिल्यनैमिशीयादयो महर्षयश्चिन्तितमात्रोपस्थित- ६ विपन्नैः श्राद्धान्यभिवर्धयन्ति । प्र. १६ तैस्तर्पिताः सुतफलं पितरो लभन्ते हित्वा जरां खमुपयान्ति हि दीप्यमानाः । तुल्यं सुरैः समुपयान्ति विमानवास -- मावर्तिभिश्च विषयैर्न बलाद्धियन्ते ॥ १० ॥ प्रतिमानाटके [ v. 10. : - मैथिलि ! रामः- आपृच्छ पुत्रकृतकान हरिणान् द्रुमांच विन्ध्यं वनं तव सखीर्दयिता लताश्च ॥ वत्स्यामि तेषु हिमगिरिकाननेषु दीप्तैरिवौषधिवनैरुपरञ्जितेषु ॥ ११ ॥ सीता-जं अय्यउत्तो आणवेदि । [ यदार्यपुत्र आज्ञापयति । ] रावणः-कौसल्यामातः ! अलमतिमनोरथेन । न ते मानुषैर्दृश्यन्ते । ३ रामः - भगवन् ! किं हिमवति प्रतिवसन्ति । रावणः - अथ किम् । रामः - तेन हि पश्यतु भवान् । सौवर्णान् वा मृगांस्तान् मे हिमवान् दर्शयिष्यति । भिन्नो मद्राणवेगेन क्रौञ्चत्वं वा गमिष्यति ॥ १२ ॥ रावणः- ( स्वगतम् । ) अहो असह्यः खल्वस्यावलेपः । : - ( दिशो विलोक्य । ) अये विद्युत्सम्पात इव दृश्यते । : - ( प्रकाशम् । ) कौसल्यामातः ! इहस्थमेव भवन्तं पूजयति हिमवान् । एष काञ्चनपार्श्वः । रामः- ३ रावणः- रामः - भगवतो वृद्धिरेषा । ६ सीता - दिट्टिआ अय्यउत्तो वड्ढइ । [ दिष्ट्यार्यपुत्रो वर्धते । ] रामः - न न, तातस्यैतानि भाग्यानि यदि स्वयमिहागतः । अर्हत्येष हि पूजायां लक्ष्मणं ब्रूहि मैथिलि ॥ १३ ॥ सीता-अय्यउत्त ! णं तित्थअत्तादो उवावत्तमाणं कुळवदिं पशु- गच्छेहित्ति सन्दिट्ठो सोमित्ती । [ आर्यपुत्र ! ननु तीर्थयात्रात ३ उपावर्तमानं कुलपतिं प्रत्युद्गच्छेति सन्दिष्टः सौमित्रिः । ] —v. 16.± ] पञ्चमोऽङ्कः । रामः - तेन हि अहमेव यास्यामि । सीता - अय्यउत्त ! अहं किं करिस्सं । [ आर्यपुत्र ! अहं किं ६ करिष्यामि । ] रामः -शुश्रूषयस्व भगवन्तम् । सीता - जं अय्यउत्तो आणवेदि । [ यदार्यपुत्र आज्ञापयति । ] (निष्क्रान्तो रामः । ) रावणः - अये, अयमर्घ्यमादायोपसर्पति राघवः । एष इदानीं पूजा- मनवेक्ष्य धावन्तं मृगं दृष्ट्वा धनुरारोपयति राघवः । अहो बलमहो वीर्यमहो सत्त्वमहो जवः । राम इत्यक्षरैरल्पैः स्थाने व्याप्तमिदं जगत् ॥ १४॥ एष मृगः । एकप्लुतातिक्रान्तशरविषयो वनगहनं प्रविष्टः । सीता-(आत्मगतम् ।) अय्यउत्तविरहिदाए भअं मे एत्थ उप्पज्जइ । ३ [ आर्यपुत्रविरहिताया भयं मेऽत्रोत्पद्यते । ] रावणः - ( आत्मगतम् । ) माययापहृते रामे सीतामेकां तपोवनात् । हरामि रुदतीं बालाममन्त्रोक्तामिवाहुतिम् ॥ १५ ॥ सीता-जाव उडजं पविसामि । ( गन्तुमीहते । ) [ यावदुटजं प्रविशामि । ] रावणः- ( स्वरूपं गृहीत्वा । ) सीते ! तिष्ठ तिष्ठ । ३ सीता - ( सभयम् । ) हं को दाणि अअं । [ हं क इदानीमयम् । ] - किं न जानीषे । रावण:- युद्धे येन सुराः सदानवगणाः शक्रादयो निर्जिता दृष्ट्वा शूर्पणखाविरूपकरणं श्रुत्वा हतौ भ्रातरौ । दर्पाद् दुर्मतिमप्रमेयबलिनं रामं विलोभ्य च्छलैः सत्वां हर्तुमना विशालनयने ! प्राप्तोऽस्म्यहं रावणः ॥ १६ ॥ सीता - हं लावणो णाम । ( प्रतिष्ठते । ) [ हं रावणो नाम । ] प्रतिमानाटके रावणः-आः, रावणस्य चक्षुर्विषयमागता क यास्यसि । [ v. 16.- ३ सीता - अय्यउत्त ! परित्ताआहि परित्ताआहि । सोमित्ती ! परित्ता- आहि परिताहि मं । [ आर्यपुत्र ! परित्रायस्व परित्रायस्व । सौमित्रे ! परित्रायस्व परित्रायस्व माम् । ] ६ रावणः - सीते ! श्रूयतां मत्पराक्रमः । भग्नः शक्रः कम्पितो वित्तनाथः कृष्टः सोमो मर्दितः सूर्यपुत्रः । धिग् भोः स्वर्गं भीतदेवैर्निविष्टं धन्या भूमिर्वर्तते यत्र सीता ॥१७॥ सीता - अय्यउत्त! परित्ताआहि परित्ताआहि । सोमित्ती ! परित्ताआहि परित्ताआहि मं । [ आर्यपुत्र ! परित्रायस्व परित्रायस्व । ३ सौमित्रे ! परित्रायस्व परित्रायस्व माम् । ] रावण:- रामं वा शरणमुपेहि लक्ष्मणं वा स्वर्गस्थं दशरथमेव वा नरेन्द्रम् । किं वा स्यात् कुपुरुषसंश्रितैर्वचोभि- व्याघ्र मृगशिशवः प्रधर्षयन्ति ॥ १८ ॥ सीता - अय्यउत्त ! परित्ताआहि परित्ताआहि । सोमित्ती ! परित्ताआहि परित्ताआहि मं । [ आर्यपुत्र ! परित्रायस्व परि- ३ त्रायस्व । सौमित्रे ! परित्रायस्व परित्रायस्व माम् ] रावण:- विलपास किमिदं विशालनेत्रे विगणय मां च यथा तवार्यपुत्रम् । विपुलबलयुतो ममैष योद्धुं ससुरगणोऽप्यसमर्थ एव रामः ॥ १९ ॥ सीता - ( सरोषं ) सत्तो सि । [ शप्तोऽसि । ] रावणः - हहह ! अहो पतिव्रतायास्तेजः । -v. 1.1] षष्ठोऽङ्कः । योऽहमुत्पतितो वेगान्न दग्धः सूर्यरश्मिभिः । अस्याः परिमितैर्दग्धः शप्तोऽसीत्येभिरक्षरैः ॥ २० ॥ सीता - अय्यउत्त ! परित्ताआहि परित्ताआहि । परित्रायस्व परित्रायस्व । ] [ आर्यपुत्र ! ३ रावणः - ( सीतां गृहीत्वा । ) भो भो जनस्थानवासिनस्तपस्विनः ! शृण्वन्तु शृण्वन्तु भवन्तः । बलादेष दशग्रीवः सीतामादाय गच्छति । क्षात्रधर्मे यदि स्निग्धः कुर्याद् रामः पराक्रमम् ॥ २१॥ सीता- अय्यउत्त ! परित्ताआहि परित्ताआहि । [ आर्यपुत्र ! परि- त्रायस्व परित्रायस्व । ] ३ रावणः–(परिक्रामन् विलोक्य । ) अये स्वपक्षपवनोत्क्षेपक्षुभितवन- षण्डश्चण्डचञ्चुरभिधावत्येष जटायुः । आः तिष्ठेदानीम् । मद्भुजाकृष्टनिस्त्रिंशकृत्तपक्षक्षतच्युतैः । रुधिरैरार्द्रगात्रं त्वां नयामि यमसादनम् ॥ २२ ॥ ( निष्क्रान्तौ । ) ( ततः प्रविशतो वृद्धतापसौ । ) पञ्चमोऽङ्कः । अथ षष्ठोऽङ्कः । ३ उभौ - परित्रायतां परित्रायतां भवन्तः ! । प्रथमः- इयं हि नीलोत्पलदामवर्चसा मृणालशुक्रोज्वलदंष्ट्रहासिना । निशाचरेन्द्रेण निशार्धचारिणा मृगीव सीता परिभूय नीयते ॥ १ ॥ द्वितीयः - एषा खलु तत्रभवती वैदेही प्रतिमानाटके विचेष्टमानेव भुजङ्गमाङ्गना विधूयमानेव च पुष्पिता लता । प्रस पापेन दशाननेन सा तपोवनात् सिद्धिरिवापनीयते ॥ २ ॥ उभौ - परित्रायतां परित्रायतां भवन्तः ! । प्रथम :- [ vi. 2. - : - ( ऊर्ध्वमवलोक्य । ) अये वचनसमकाल एव दशरथस्या- ३ नृण्यं कर्तुं मयि स्थिते व यास्यसीति रावणमाहूयान्तरिक्षमुत्पतितो जटायुः । द्वितीयः- एष रोषादुद्वृत्तनयनः प्रतिनिवृत्तो रावणः । ६ प्रथमः -- एष रावणः । द्वितीय:- :- एष जटायुः । उभौ - हन्तैतदन्तरिक्षे प्रवृत्तं युद्धम् । ९ प्रथमः- काश्यप ! काश्यप ! पश्य क्रव्यादीश्वरस्य सामर्थ्यम् । पक्षाभ्यां परिभूय वीर्यविषयं द्वन्द्वं प्रतिव्यूहते तुण्डाभ्यां सुनिघृष्टतीक्ष्णमचलः संवेष्टनं चेष्टते । तीक्ष्णै यसकण्टकैरिव नखैर्भीमान्तरं वक्षसो वज्राद्यैरिव दार्यमाणविषमाच्छैलाच्छिला पाठ्यते ॥ ३ ॥ द्वितीयः-हन्त संक्रुद्धेन रावणेनासिना क्रव्यादीश्वरः स दक्षिणां - सदेशे हतः । ३ उभौ - हा धिक् ! पतितोऽत्रभवान् जटायुः, प्रथमः- भोः कष्टम् । एष खलु तत्रभवान् जटायुः, कृत्वा स्ववीर्यसदृशं परमं प्रयत्नं क्रीडामयूरमिव शत्रुमचिन्तयित्वा । दीप्तं निशाचरपतेरवधूय तेजो नागेन्द्रभग्नवनवृक्ष इवावसन्नः ॥ ४ ॥ —vi. 5.8 ] उभौ-स्वर्ग्योऽयमस्तु । षष्ठोऽङ्कः । प्रथमः -- काश्यप ! आगम्यताम् । इमं वृत्तान्तं तत्रभवते राघवाय ३ निवेदयिष्यावः । द्वितीयः - बाढम् । प्रथमः कल्पः । ( निष्क्रान्तौ । ) ( ततः प्रविशति काञ्चुकीयः । ) ( प्रविश्य ) विष्कम्भकः । काञ्चुकीयः- क इह भोः ! काञ्चनतोरणद्वारमशून्यं कुरुते । प्रतिहारी- अय्य ! अहं विजया ! किं करीअदु । [ आर्य ! अहं विजया । किं क्रियताम् । ] १२ काञ्चुकीयः - विजये ! निवेद्यतां निवेद्यतां भरतकुमाराय - एष खलु रामदर्शनार्थं जनस्थानं प्रस्थितः प्रतिनिवृत्तस्तत्रभवान् इति । प्रतिहारी- अय्य! अवि कित्थो तादसुमन्तो आउदो । [ आर्य ! १५ अपि कृतार्थस्तातसुमन्त्र आगतः । ] काञ्चुकीयः - भवति ! न जाने । हृदयस्थितशोकानिशोषिताननमागतम् । दृष्ट्वैवाकुलमासीन्मे सुमन्त्रमधुना मनः ॥ ५ ॥ प्रतिहारी - अय्य! एदं सुणिअ पय्याउळं विअ मे हिअअं । [ आर्य ! एतच्छ्रुत्वा पर्याकुलमिव मे हृदयम् । ] ३ काञ्चुकीयः - भवति ! किमिदानीं स्थिता । शीघ्रं निवेद्यताम् । प्रतिहारी- अय्य! इअं णिवेदेमि । (निष्क्रान्ता । ) [ आर्य ! इयं निवेदयामि । ] ६ काञ्चुकीयः - ( विलोक्य । ) अये ! अयमत्रभवान् भरतकुमारः सुमन्त्रागमनजनितकुतूहलहृदयश्चीर वल्कलवसनश्चित्रजटापुञ्जपिञ्ज- रितोत्तमाङ्ग इत एवाभिवर्तते । य एषः, प्रतिमानाटके प्रख्यात सद्गुणगणः प्रतिपक्षकाल- स्तिग्मांशुवंशतिलक स्त्रिदशेन्द्रकल्पः । आज्ञावशादखिलभूपरिरक्षणस्थः श्रीमानुदारकलभेभसमानयानः ॥ ६ ॥ ( ततः प्रविशति भरतः प्रतिहारी च । ) ( ततः प्रविशति सुमन्त्रः प्रतिहारी च । ) भरतः - विजये ! एवम्, उपगतस्तत्रभवान् सुमन्त्रः । गत्वा तु पूर्वमयमार्यनिरीक्षणार्थं लब्धप्रसादशपथे मयि सन्निवृत्ते । दृष्ट्वा किमागत इहात्रभवान् सुमन्त्रो रामं प्रजानयनबुद्धिमनोभिरामम् ॥ ७ ॥ काञ्चुकीयः - ( उपगम्य । ) जयतु कुमारः । भरतः - अथ कस्मिन् प्रदेशे वर्तते तत्रभवान् सुमन्त्रः । ३ काञ्चुकीयः - असौ काञ्चनतोरणद्वारे । भरतः - तेन हि शीघ्रं प्रवेश्यताम् । काञ्चुकीयः- यदाज्ञापयति कुमारः । (निष्क्रान्तः । ) सुमन्त्रः- ( सशोकम् ) कष्टं भोः ! कष्टम् । [ vi. 6. - नरपतिनिधनं मयानुभूतं नृपतिसुतव्यसनं मयैव दृष्टम् । श्रुत इह स च मैथिलीप्रणाशो गुण इव बह्नपराद्धमायुषा मे ॥ ८ ॥ प्रतिहारी-( सुमन्त्रमुद्दिश्य । ) एदु एदु अय्यो । एसो भट्टा । उप- सप्पदु अय्यो । [ एवेत्वार्यः । एष भर्ता । उपसर्पत्वार्यः । ] ३ सुमन्त्रः - ( उपसृत्य । ) जयतु कुमारः । भरतः - तात ! अपि दृष्टस्त्वया लोकाविष्कृतपितृस्नेहः । अपि दृष्टं द्विधाभूतमरुन्धतीचारित्रम् । अपि दृष्टुं त्वया निष्कारणावहित- ६ वनवासं सौभ्रात्रम् । —vi. 10.3 ] षष्ठोऽङ्कः । ( सुमन्त्रः सचिन्तस्तिष्ठति । ) प्रतिहारी- भट्टिदारओ खु अय्यं पुच्छदि । [ भर्तृदारकः खल्वार्थं ९ पृच्छति । ] सुमन्त्रः - भवति किं माम् । भरतः - ( स्वगतम् । ) अतिमहान् खल्वायासः । सन्तापाद् भ्रष्ट १२ हृदयः । ( प्रकाशम् । ) अपि मार्गात् प्रतिनिवृत्तस्तत्रभवान् । सुमन्त्रः - कुमार ! त्वन्नियोगाद् रामदर्शनार्थं जनस्थानं प्रस्थितः कथमहमन्तरा प्रतिनिवर्तिष्ये । १५ भरतः - किन्नुखलु क्रोधेन वा लज्जया वात्मानं न दर्शयन्ति । सुमन्त्रः - कुमार ! कुतः क्रोधो विनीतानां लज्जा वा कृतचेतसाम् । मया दृष्टं तु तच्छून्यं तैर्विहीनं तपोवनम् ॥ ९ ॥ भरतः - अथ क्व गता इति श्रुताः । सुमन्त्रः- अस्ति किल किष्किन्धा नाम वनौकसां निवासः । तत्र ३ गता इति श्रुताः । भरतः- हन्त ! अविज्ञातपुरुषविशेषाः खलु वानराः । दुःखिताः प्रतिवसन्ति । ६ सुमन्त्रः- कुमार ! तिर्यग्योनयोऽप्युपकृतमवगच्छन्ति । भरत - तात ! कथमिव । सुमन्त्र:- सुग्रीवो भ्रंशितो राज्याद् भ्रात्रा ज्येष्ठेन वालिना । हृतदारो वसञ्चै तुल्यदुःखेन मोक्षितः ॥ १० ॥ भरतः - तात ! कथं तुल्यदुःखेन नाम । सुमन्त्रः- (आत्मगतम् ।) हन्त सर्वमुक्तमेव मया । (प्रकाशम्) कुमार ! ३ न खलु किश्चित् । ऐश्वर्यभ्रंशतुल्यता ममाभिप्रेता । प्रतिमानाटके [vi. 10.- भरतः-तात ! किं गृहसे । स्वर्गं गतेन महाराजपादमूलेन शापितः स्याः, यदि सत्यं न ब्रूयाः । ६ सुमन्त्रः - का गतिः । श्रूयतां, वैरं मुनिजनस्यार्थे रक्षसा महता कृतम् । सीता मायामुपाश्रित्य रावणेन ततो हृता ॥ ११ ॥ भरतः - कथं हृतेति । ( मोहमुपगतः । ) सुमन्त्रः - समाश्वसिहि समाश्वसिहि । ३ भरतः - ( पुनः समाश्वस्य । ) भोः ! कष्टम् । पित्रा च बान्धवजनेन च विप्रयुक्तो ६ दुःखं महत् समनुभूय वनप्रदेशे । भार्यावियोगमुपलभ्य पुनर्ममार्यो जीमूतचन्द्र इव खे प्रभया वियुक्तः ॥ १२ ॥ भोः ! किमिदानीं करिष्ये । भवतु, दृष्टम् । अनुगच्छतु मां तातः । सुमन्त्रः - यदाज्ञापयति कुमारः । ( उभौ परिक्रामतः । ) ( प्रविश्य । ) सुमन्त्रः–कुमार ! न खलु न खलु गन्तव्यम् । देवीनां चतुश्शाल- मिदम् । ९ भरतः - अत्रैव मे कार्यम् । भोः ! क इह प्रतिहारे । प्रतिहारी- जेदु भट्टिदारओ । विजआ खु अहं । [ जयतु भर्तृ- १२ दारकः । विजया खल्वहम् । ] भरतः - विजये ! ममागमनं निवेदयात्रभवत्यै । प्रतिहारी- कमाए भट्टिणीए णिवेदेमि । [ कतमस्यै भट्टिन्यै निवे- १५ दयामि । ] भरतः - या मां राजानमिच्छति । =vi. 12. +1 ] षष्ठोऽङ्कः । प्रतिहारी-( आत्मगतम् । ) हं किंणुखु भवे । ( प्रकाशम् । ) भट्टा ! १८ तह । (निष्क्रान्ता । ) [ हैं किन्नुखलु भवेत् । भर्तः ! तथा । ] ( ततः प्रविशति कैकेयी प्रतिहारी च । ) ( प्रविशतः । ) कैकेयी - विजए ! मं पेक्खिदुं भरदो आअदो । [ विजये ! मां २१ प्रेक्षितुं भरत आगतः । ] प्रतिहारी - भट्टिणि ! तह । भट्टिदार अस्स रामस्स आसादो तादसुमन्तो आउदो । तेण सह भट्टिदारओ भरदो भट्टिणि २४ पेक्खिदुं इच्छदि किल । [ भट्टिनि ! तथा । भर्तृदारकस्य रामस्य सकाशात् तातसुमन्त्र आगतः । तेन सह भर्तृदारको भरतो भट्टिनीं प्रेक्षितुमिच्छति किल । ] २७ कैकेयी - (स्वगतम् । ) केण खु उग्घादेश में उवाळम्भिस्सिदि भरदो । [ केन खलद्वातेन मामुपालप्स्यते भरतः । ] प्रतिहारी- भट्टिणि ! किं पविसदु भट्टिदारओ । [ भट्टिनि ! किं ३० प्रविशतु भर्तृदारकः । ] कैकेयी - गच्छ । पवेसेहि णं । [ गच्छ प्रवेशयैनम् । ] प्रतिहारी - भट्टिणि ! तह ! ( परिक्रम्योपसृत्य ) जेदु भट्टिदारओ । ३३ पविसदु किल । [ भट्टिनि ! तथा । जयतु भर्तृदारकः । प्रविशतु किल । ] भरतः - विजये ! किं निवेदितम् । ३६ प्रतिहारी- आम । भरतः- :- तेन हि प्रविशावः । ३९ कैकेयी - जाद ! विअआ मन्तेदि -रामस्स आसादो सुमन्तो आअदोत्ति । [ जात ! विजया मन्त्रयते – रामस्य सकाशात् सुमन्त्र - आगत इति । ] प्रतिमानाटके ४२ भरतः-अतः परं प्रियं निवेदयाम्यत्रभवत्यै । [vi. 12. _ कैकेयी - जाद ! अवि कोसळा सुमित्ता अ सद्दावइदव्वा । [ जात ! अपि कौसल्या सुमित्रा च शब्दापयितव्ये । ] ४५ भरतः न खलु ताभ्यां श्रोतव्यम् । कैकेयी-( आत्मगतम् । ) हं किंणुहु भवे । ( प्रकाशम् ) । भणाहि जाद ! [ हं किन्नु खलु भवेत् । भण जात ! । ] ४८ भरत:- :- श्रूयतां, यः स्वराज्यं परित्यज्य त्वन्नियोगाद् वनं गतः । तस्य भार्या हृता सीता पर्याप्तस्ते मनोरथः ॥ १३॥ कैकेयी-हं । भरत:- हन्त भोः ! सत्वयुक्तानामिक्ष्वाकूणां मनस्विनाम् । वधूप्रधर्षणं प्राप्तं प्राप्यात्रभवतीं वधूम् ॥ १४ ॥ कैकेयी-(आत्मगतम् । ) भोदु, दाणि काळो कहेउं । ( प्रकाशम् । ) जाद ! तुवंण आणासि महाराअस्स सावं । [ भवतु, इदानीं कालः ३ कथयितुम् । जात ! त्वं न जानासि महाराजस्य शापम् । ] भरतः - किं शप्तो महाराजः । कैकेयी- सुमन्त ! आअक्ख वित्थरेण । ६ विस्तरेण । ] सुमन्त्रः - यदाज्ञापयति भवती । कुमार ! [ सुमन्त्र ! आचक्ष्व श्रूयताम् — पुरा मृगयां तेन महाराजेन कस्मिंश्चित् सरसि कलशं पूरयमाणो वनगज- ९ बृंहितानुकारिशब्दसमुत्पन्नवनगजशङ्कया शब्दवेधिना शरेण विपन्न- चक्षुषो महर्षेश्चक्षुर्भूतो मुनितनयो हिंसितः । : - हिंसित इति । शान्तं पापं शान्तं पापम् । ततस्ततः । भरत:- १२ सुमन्त्रः- ततस्तमेवंगतं दृष्ट्वा, -vi. 15.23] षष्ठोऽङ्कः । तेनोक्तं रुदितस्यान्ते मुनिना सत्यभाषिणा । यथाहं भोस्त्वमप्येवं पुत्रशोकाद् विपत्स्यसे ॥ १५ ॥ इति । भरतः - नन्विदं कष्टं नाम । ३ कैकेयी - जाद ! एदणिमित्तं अवराहे मं णिक्खिविअ पुत्तओ रामो वणं पेसिदो हु रज्जळोहेण । अपरिहरणीओ महरिसि- सावो विप्पवासं विणा ण होइ । [ जात ! एतन्निमित्तमपराधे ६ मां निक्षिप्य पुत्रको रामो वनं प्रेषितः, न खलु राज्यलोभेन । अपरि- हरणीयो महर्षिशापः पुत्रविप्रवासं विना न भवति । ] भरतः-अथ तुल्ये पुत्रविप्रवासे कथमहमरण्यं न प्रेषितः । ९ कैकेयी - जाद ! मादुळकुळे वत्तमाणस्स पइदीहूदो दे विप्पवासो । [ जात ! मातुलकुले वर्तमानस्य प्रकृतीभूतस्ते विप्रवासः । ] भरतः - अथ चतुर्दश वर्षाणि किं कारणमवेक्षितानि । १२ कैकेयी - जाद ! चउद्दस दिअस त्ति वत्तुकामाए पय्याउळ हि आए चउद्दस वरिसाणित्ति उत्तं । [ जात ! चतुर्दश दिवसा इति वक्तु- कामया पर्याकुलहृदयया चतुर्दश वर्षाणीत्युक्तम् । ] १५ भरतः - अस्ति पाण्डित्यं सम्यग् विचारयितुम् । अथ विदितमेतद् गुरुजनस्य । सुमन्त्रः - कुमार ! वसिष्ठवामदेवप्रभृतीनामनुमतं विदितं च । १८ भरतः - हन्त त्रैलोक्यसाक्षिणः खल्वेते । दिष्टधानपराद्धात्रभवती । अम्ब ! यद् भ्रातृस्नेहात् समुत्पन्नमन्युना मया दूषितात्रभवती, तत् सर्वं मर्षयितव्यम् । अम्ब ! अभिवादये । २१ कैकेयी - जाद ! का णाम मादा पुत्तअस्स अवराहं ण मरिसेदि । उट्ठेहि उट्ठेहि । को एत्थ दोसो । [ जात ! का नाम माता पुत्रक- 1 स्थापराधं न मर्षयति । उत्तिष्ठोत्तिष्ठ । कोऽत्र दोषः । ] प्रतिमानाटके [ vi. 15.24 २४ भरतः - अनुगृहीतोऽस्मि । आपृच्छाम्यत्रभवतीम् । अद्यैवाहमार्यस्य साहाय्यार्थं कृत्स्नं राजमण्डलमुद्योजयामि । अयमिदानीं, वेलामिमां मत्तगजान्धकारां करोमि सैन्योघनिवेशनद्धाम् । बस्तर नयामि तुल्यं ग्लानिं समुद्रं सह रावणेन ॥ १६ ॥ अये शब्द इव । तूर्णं ज्ञायतां शब्दः । ( प्रविश्य । ) (निष्क्रान्ताः सर्वे । ) ( ततः प्रविशति तापसः । ) ( प्रविश्य ) ३ प्रतिहारी- जेदु कुमारो । इयं वुत्तन्तं सुणिअ जेट्टभट्टिणी मोहं आ । [ जयतु कुमारः । इमं वृत्तान्तं श्रुत्वा ज्येष्ठभट्टिनी मोहं गता । ] कैकेयी - हं ! ६ भरतः - कथं मोहमुपगताम्बा । कैकेयी - एहि जाद! अय्यं अस्सासइस्सामो । [ एहि ! जात ! आर्यामाश्वासयिष्यावः । ] ९ भरतः - यदाज्ञापयत्यम्बा । षष्ठोऽङ्कः । अथ सप्तमोऽङ्कः । ३ तापसः - नन्दिलक ! नन्दिलक ! नन्दिलकः - अय्य! अअं म्हि । [ आर्य ! अयमस्मि । ] ६ तापसः - नन्दिलक ! कुलपतिर्विज्ञापयति - एष खलु स्वदारापहा- रिणं त्रैलोक्यविद्रावणं रावणं नाशयित्वा राक्षसगणविरुद्धवृत्तं गुण- विभूषणं विभीषणमभिषिच्य देवदेवर्षिसिद्ध विमलचारित्रां तत्र- ९ भवतीं सीतामादाय ऋक्षराक्षसवानरमुख्यैः परिवृतः सम्प्राप्तस्तत्र- —vii. 2. ] सप्तमोऽङ्कः । भवान् शरद्विमल गगनचन्द्राभिरामो रामः । तदद्यास्मिन्नाश्रमपदेऽ- स्मद्विभवेन यत् सङ्कल्पयितव्यं तत् सर्वं सज्जीक्रियतामिति । १२ नन्दिलकः - अय्य ! सव्वं सज्जीकिदं । किन्तु - [ आर्य ! सर्व सज्जी- कृतम् । किन्तु - ] तापसः - किमेतत् । १५ नन्दिलकः - एत्थ बिभीसणकेरआ रक्खसा । तेसं भक्खणणिमित्तं कुळवादी पमाणं । [ अत्र बिभीषणसम्बन्धिनो राक्षसाः । तेषां भक्षण- निमित्तं कुलपतिः प्रमाणम् । ] नः - किमर्थम् । १८ तापसः- नन्दिक:- खु खज्जन्ति । [ ते खलु खादन्ति । ] तापसः - अलमलं सम्भ्रमेण । बिभीषणविधेयाः खलु राक्षसाः । २१ नन्दिलकः - णमो रक्खससज्जणाअ । (निष्क्रान्तः । ) [ नमो राक्षस- सज्जनाय ] तापसः-( विलोक्य । ) अये अयमत्रभवान् राघवः । य एष जय नरवर ! जेयः स्याद् द्वितीयस्तवारि- स्तव भवतु विधेया भूमिरेकातपत्रा । इति मुनिभिरनेकैः स्तूयमानः प्रसन्नैः क्षितितलमवतीर्णो मानवेन्द्रो विमानात् ॥ १ ॥ जयतु भवान् जयतु । (निष्क्रान्तः । ) रामः- :-भोः ! मिश्रविष्कम्भकः । ( ततः प्रविशति रामः । ) समुदितबलवीर्यं रावणं नाशयित्वा जगति गुणसमग्रां प्राप्य सीतां विशुद्धाम् । वचनमपि गुरूणामन्तशः पूरयित्वा मुनिजनवनवासं प्राप्तवानस्मि भूयः ॥ २ ॥ प्रतिमानाटके [ vii. 2. - तापसीनामभिवन्दनार्थमभ्यन्तरं प्रविष्टा चिरायते खलु मैथिली । ( विलोक्य । ) अये इयं वैदेही, सखीति सीतेति च जानकीति यथावयः स्निग्धतरं स्नुषेति । तपम्विदारैर्जनकेन्द्रपुत्री सम्भाष्यमाणा समुपैति मन्दम् ॥ ३ ॥ ( ततः प्रविशति सीता तापसी च । ) तापसी - हळा ! एसो दे कुडुम्बिओ । उवसप्प णं । ण सक्कं तुमं ३ एआइणि पेक्खिदुं । [ हला ! एप ते कुटुम्बिकः । उपसपैनम् । न शक्यं त्वामेकाकिनीं प्रेक्षितुम् । ] सीता - हं ! अज्ज वि अविस्ससणीअं विअ मे पडिभादि । (उपसृत्य ।) ६ जेदु अय्यउत्तो । [हम् ! अद्याप्यविश्वसनीयमिव मे प्रतिभाति । जयत्वार्यपुत्रः । ] राम:-: ' : - मैथिलि ! अपि जानासि पूर्वाधिष्ठानमस्माकं जनस्थान- ९ मासीत् । अप्यत्र ज्ञायन्ते पुत्रकृतका वृक्षाः । सीता-जाणामि जाणामि । ओळोइअपत्तआ उळोअइदव्वा दाणिं संवृत्ता । [ जानामि जानामि । अवलोकितपत्रका उल्लोकयितव्या १२ इदानीं संवृत्ता: । ] रामः - एवमेतत् । निम्नस्थ लोत्पादको हि कालः । मैथिलि ! अयु- पलभ्यतेऽस्य सप्तपर्णस्याधस्ताच्छुक्लवाससं भरतं दृष्ट्रा परित्रस्तं १५ मृगयूथमासीत् । सीता - अय्यउत्त ! दिढं खु सुमरामि । [ आर्यपुत्र ! दृढं खलु स्मरामि । ] १८ रामः-अयं तु नस्तपसः साक्षिभूतो महाकच्छः । अत्रास्माभिरा- सीनैस्तातस्य निवपनक्रियां चिन्तयद्भिः काचनपार्श्वो नाम मृगो दृष्टः । vii. 6. ] सप्तमोऽङ्कः । २१ सीता - हं अय्यउत्त ! मा खु मा खु एवं भणिदुं । ( भीता वेपते । ) [ हम् आर्यपुत्र ! मा खलु मा खल्वेवं भणितम् ] राम: - अलमलं सम्भ्रमेण । अतिक्रान्तः खल्वेष काल : २४ विलोक्य । ) अये कुतो नु, रेणुः समुत्पतति लोधसमानगौरः सम्प्रावृणोति च दिशः पवनावधूतः । शङ्खध्वनिश्व पटहस्वनधीरनादैः सम्मूच्छितो वनमिदं नगरीकरोति ॥ ४ ॥ ( प्रविश्य ) ( ततः प्रविशति भरत: समातृकः । ) लक्ष्मणः - जयत्वार्यः । आर्य ! अयं सैन्येन महता त्वद्दर्शनसमुत्सुकः । ( दिशो मातृभिः सह सम्प्राप्तो भरतो भ्रातृवत्सलः ॥ ५ ॥ रामः - वत्स लक्ष्मण ! किमेवं भरतः प्राप्तः । लक्ष्मणः - आर्य ! अथ किम् । ३ रामः - मैथिलि ! श्वश्रूजनपुरोगं भरतमवलोकयितुं विशालीक्रियतां ते चक्षुः 1 सीता - अय्यउत्त ! इच्छिदव्वे काळे भरदो आअदो । [ आर्यपुत्र ! ६ एष्टव्ये काले भरत आगतः । ] भरत:- प्र. १७ तैस्तैः प्रवृद्धविषयैर्विषमैर्विमुक्तं मेघैर्विमुक्तममलं शरदीव सोमम् । आर्यासहायमहमद्य गुरुं दिदृक्षुः प्राप्तोस्मि तुष्टहृदयः स्वजनानुबद्धः ॥ ६ ॥ प्रतिमानाटके रामः - अम्बाः ! अभिवादये । [vii. 6. सर्वा:-जाद ! चिरं जीव ! दिट्टिआ वड्ढामो अवसिद पडणं ३ तुमं कुसळिणं सह वहुए पोक्खअ । [ जात ! चिरं जीव । दिष्ट्या वर्धामहे अवसितप्रतिज्ञं त्वां कुशलिनं सह वध्वा प्रेक्ष्य । ] रामः - अनुगृहीतोऽस्मि । ६ लक्ष्मण:- अम्बाः ! अभिवादये । सर्वा: - जाद ! चिरं जीव । [ जात ! चिरं जीव । ] लक्ष्मणः - अनुगृहीतोऽस्मि । ९ सीता - अय्या ! वन्दामि । [ आर्याः ! वन्दे । ] सर्वा:-वच्छे ! चिरमङ्गळा होहि । [ वत्से ! चिरमङ्गला भव । ] सीता-अणुग्गहिदम्हि । [अनुगृहीतास्मि । ] १२ भरतः- आर्य ! अभिवादये भरतोऽहमस्मि । :- एह्येहि वत्स ! इक्ष्वाकुकुमार ! स्वस्ति, आयुष्मान् भव । राम:- वक्षः प्रसारय कवाटपुटप्रमाण- मालिङ्ग मां सुविपुलेन भुजद्वयेन । उन्नामयाननमिदं शरदिन्दुकल्पं प्रल्हादय व्यसनदग्धभिदं शरीरम् ॥ ७ ॥ भरतः - अनुगृहीतोऽस्मि । आर्ये ! अभिवादये भरतोऽहमस्मि । सीता - अय्यउत्तेण चिरसञ्चारी होहि । [ आर्यपुत्रेण चिरसञ्चारी ३ भव । ] भरत: - अनुगृहीतोऽस्मि । आर्य ! अभिवादये । लक्ष्मणः - एह्येहि वत्स ! दीर्घायुर्भव । परिष्वजस्व गाढम् । ६ ( आलिङ्गति । ) भरतः - अनुगृहीतोस्मि । आर्य प्रतिगृह्यतां राज्यभारः । राम: - वत्स ! कथमिव । —vii. 9." ] सप्तमोऽङ्कः । ९ कैकेयी - जाद ! चिराहिळसिदो खु एसो मणोरहो । [ जात ! चिराभिलषितः खल्वेष मनोरथ: । ] १२ शत्रुमः- ( ततः प्रविशति शत्रुघ्नः । ) ( नेपथ्ये ) विविधैर्व्यसनैः क्लिष्टमक्लिष्टगुणतेजसम् । द्रष्टुं मे त्वरते बुद्धी रावणान्तकरं गुरुम् ॥ ८ ॥ ( उपगम्य । ) आर्य ! शत्रुघ्नोऽहमभिवादये । रामः -- एह्येहि वत्स ! स्वस्ति, आयुष्मान् भव । ३ शत्रुघ्नः - अनुगृहीतोऽस्मि । आर्ये अभिवादये । सीता-वच्छ ! चिरं जीव । [ वत्स ! चिरं जीव । ] शत्रुघ्नः - अनुगृहीतोस्मि । आर्य ! अभिवादये । ६ लक्ष्मणः - स्वस्ति, आयुष्मान् भव । शत्रुघ्नः - अनुगृहीतोऽस्मि । आर्य ! एतौ वसिष्ठवामदेव सह प्रकृतिभिरभिषेकं पुरस्कृत्य त्वद्दर्शनमभिलषतः । तीर्थोदकेन मुनिभिः स्वयमाहृतेन नानानदीनद्गतेन तव प्रसादात् । इच्छन्ति ते मुनिगणाः प्रथमाभिषिक्तं द्रष्टुं मुखं सलिलसिक्तमिवारविन्दम् ॥ ९ ॥ कैकेथी- गच्छ जाद ! अभिळसेहि अभिसे । [ गच्छ जात ! अभिलषाभिषेकम् । ] ३ रामः - यदाज्ञापयत्यम्बा । (निष्क्रान्तः । ) जयतु भवान् । जयतु स्वामी । जयतु महाराजः । जयतु देवः । ६ जयतु भद्रमुखः । जयत्वार्यः । जयतु रावणान्तकः कैकेयी - एदे पुरोहिदा कचुइणो पुत्तअस्स मे विजअघोसं वड्ढ- प्रतिमानाटके [vii. 9.8_ अन्तो आसीहि पूजअन्ति । [ एते पुरोहिताः कन्चुकिन: पुत्रकस्य ९ मे विजयघोषं वर्धयन्त आशीर्भिः पूजयन्ति । ] सुमित्रा - पइढ़ीओ परिचारआ सज्जणा अ पुत्तअस्स में विजअं वढअन्ति । [ प्रकृतयः परिचारकाः सजनाश्च पुत्रकस्य मे विजयं १२ वर्धयन्ति । ] ( नेपथ्ये ) ( ततः प्रविशति कृताभिषेको रामः सपरिवारः । ) भो भो जनस्थानवासिनस्तपस्विनः ! शृण्वन्तु शृण्वन्तु भवन्तः । हत्वा रिपुप्रभवमप्रतिमं तमौघं सूर्योऽन्धकारमिव शौर्यमयैर्मयूखैः । सीतामवाप्य सकलाशुभवर्जनीयां रामो महीं जयति सर्वजनाभिरामः ॥ १० ॥ कैकेयी - अम्महे, पुत्तस्स मे विजअघोसणा वड्ढइ । [ अम्महे पुत्रस्य मे विजयघोषणा वर्धते । ] राम: - ( विलोक्याकाशे । ) भोस्तात ! भरत:- स्वर्गेऽपि तुष्टिमुपगच्छ विमुख दैन्यं कर्म त्वयाभिलषितं मयि यत् तदेतत् । राजा किलास्मि भुवि सत्कृतभारवाही धर्मेण लोकपरिरक्षणमभ्युपेतम् ॥ ११ ॥ अधिगतनृपशब्दं धार्यमाणातपत्र विकसितकृतमौलिं तीर्थतोयाभिषिक्तम् । गुरुमधिगतलीलं वन्द्यमानं जनौघै- नवशशिनमिवार्यं पश्यतो मे न तृप्तिः ॥ १२ ॥ शत्रुघ्नः - एतदार्याभिषेकेण कुलं नष्टकल्मषम् पुनः प्रकाशतां याति सोमस्येवोदये जगत् ॥ १३॥ -vii. 15.3] सप्तमोऽङ्कः । रामः - वत्स लक्ष्मण ! अधिगतराज्योऽहमस्मि । लक्ष्मण:- दिष्टया भवान् वर्धते । ( प्रविश्य ) ( सर्व आरोहन्ति । ) ( भरतवाक्यम् । ) (निष्क्रान्ताः सर्वे । ) कान्चुकीयः- जयतु महाराजः । एष खलु तत्रभवान् बिभीषणो विज्ञापयति, सुग्रीवनीलमैन्दजाम्बवद्धनूमत्प्रमुखाश्चानुगच्छन्तो ६ विज्ञापयन्ति -- दिष्टधा भवान् वर्धत इति । रामः - सहायानां प्रसादाद् वर्धत इति कथ्यताम् । काञ्चुकीयः- यदाज्ञापयति महाराजः । ९ कैकेयी - घण्णा खुम्हि । इदं अब्दअं अओज्झाअं पेक्खिदुं इच्छामि । [ धन्या खल्वस्मि । इममभ्युदयमयोध्यायां प्रेक्षितुमिच्छामि । ] १२ रामः - द्रक्ष्यति भवती । ( विलोक्य । ) अये प्रभाभिर्वनमिदमखिलं सूर्यवत् प्रतिभाति । ( विभाव्य । ) आ ज्ञातम् । सम्प्राप्तं पुष्पकं दिवि रावणस्य विमानम् । कृतसमयमिदं स्मृतमात्रमुपगच्छतीति । १५ तत् सर्वैरारुह्यताम् । राम:- लक्ष्मण:- अद्यैव यास्यामि पुरीमयोध्यां सम्बन्धिमित्रैरनुगम्यमानः । अद्यैव पश्यन्तु च नागरास्त्वां चन्द्रं सनक्षत्रमिवोदयस्थम् ॥ १४ ॥ यथा रामश्च जानक्या बन्धुभिश्च समागतः । तथा लक्ष्म्या समायुक्तो राजा भूमिं प्रशास्तु नः ॥ १५ ॥ सप्तमोऽङ्कः । प्रतिमानाटकं समाप्तम् । ॥ श्रीः ॥ भासनाटकचक्रे अभिषेकनाटकम् । div.n = 1 div.title = प्रथमोऽङ्कः (नान्द्यन्ते ततः प्रविशति सूत्रधारः ) सूत्रधारः - यो गाधिपुत्रमखविघ्नकराभिहन्ता युद्धे विराधखरदूषणवीर्यहन्ता । दर्पोद्यतोल्बणकबन्धकपीन्द्रहन्ता पायात् स वो निशिचरेन्द्रकुलाभिहन्ता ॥ १ ॥ एवमार्यमिश्रान् विज्ञापयामि । ( परिक्रम्यावलोक्य) अये किन्नुखलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते । अङ्ग ! पश्यामि । ( नेपथ्ये ) सुग्रीव ! इत इतः । ( प्रविश्य ) पारिपार्श्विकः- भाव ! कुतोनुखल्वेष समुत्थितो ध्वनिः प्रवर्तते श्रोत्रविदारणो महान् । प्रचण्डवातोद्धतभीमगामिनां बलाहकानामिव खेऽभिगर्जताम् ॥ २ ॥ सूत्रधारः - मार्ष ! किं नावगच्छसि । एष खलु सीतापहरणजनित- सन्तापस्य रघुकुलप्रदीपस्य सर्वलोकनयनाभिरामस्य रामस्य च, दाराभिमर्शननिर्विषयीकृतस्य सर्वहर्यृक्षराजस्य सुविपुलमहाग्रीवस्य सुग्रीवस्य च परस्परोपकारकृतप्रतिज्ञयोः सर्ववानराधिपतिं हेम- मालिनं वालिनं हन्तुं समुद्योगः प्रवर्तते । तत एतौ हि, इदानीं राज्यविभ्रष्टं सुग्रीवं रामलक्ष्मणौ । पुनः स्थापयितुं प्राप्ताविन्द्रं हरिहराविव ॥ ३ ॥ (निष्क्रान्तौ ) स्थापना । ( ततः प्रविशति रामो लक्ष्मणसुग्रीवौ, हनुमांश्च । ) राम: - सुग्रीव ! इत इतः । मत्सायकान्निहतभिन्नविकीर्णदेहं शत्रुं तवाद्य सहसा भुवि पातयामि । राजन् ! भयं त्यज ममापि समीपवर्ती दृष्टस्त्वया च समरे निहतः स वाली ॥ ४ ॥ सुग्रीवः - देव ! अहं खल्वार्यस्य प्रसादाद् देवानामपि राज्यमाशङ्के, किं पुनर्वानराणाम् । कुतः, मुक्तो देव ! तवाद्य वालिहृदयं भेत्तुं न मे संशयः सालान् सप्त महावने हिमगिरेः शृङ्गोपमालीधर ! । भित्त्वा वेगवशात् प्रविश्य धरणीं गत्वा च नागालयं मज्जन् वीर ! पयोनिधौ पुनरयं सम्प्राप्तवान् सायकः ॥ ५ ॥ हनुमान्- तव नृप ! मुखनिःसृतैर्वचोभि- र्विगतभया हि वयं विनष्टशोकाः । रघुवर ! हरये जयं प्रदातुं गिरिमभिगच्छ सनीरनीरदाभम् ॥ ६ ॥ लक्ष्मणः- आर्य ! सोपस्नेहतया वनान्तरस्याभितः खलु किष्कि- न्धया भवितव्यम् । सुग्रीवः - सम्यगाह कुमारः । सम्प्राप्ता हरिवरबाहुसम्प्रगुप्ता किष्किन्धा तव नृप ! बाहुसम्प्रगुप्ता । तिष्ठ त्वं नृवर ! करोम्यहं विसंज्ञं नादेन प्रचलमहीधरं नृलोकम् ॥ ७ ॥ रामः - भवतु, गच्छ । सुग्रीवः - यदाज्ञापयति देवः । ( परिक्रम्य ) भोः ! अपराधमनुद्दिश्य परित्यक्तस्त्वया विभो ! । युद्धे त्वत्पादशुश्रूषां सुग्रीवः कर्तुमिच्छति ॥ ८ ॥ (नेपथ्ये ) कथं कथं सुग्रीव इति । ( ततः प्रविशति वाली, गृहीतवस्त्रया तारया सह । ) वाली — कथं कथं सुग्रीव इति । तारे ! विमुञ्च मम वस्त्रमनिन्दिताङ्गि ! प्रस्रस्तवक्त्रनयने ! किमसि प्रवृत्ता । सुग्रीवमद्य समरे विनिपात्यमानं तं पश्य शोणितपरिप्लुतसर्वगात्रम् ॥ ९ ॥ तारा - पसीअउ पसीअउ महाराओ । अप्पेण कारणेण ण आग- मिस्सइ सुग्गीओ । ता अमञ्चवग्गेण सह सम्मन्तिअ गन्तव्वं । [ प्रसीदतु प्रसीदतु महाराजः । अल्पेन कारणेन नागमिष्यति सुग्रीवः । तदमात्यवर्गेण सह संमन्त्र्य गन्तव्यम् । ] वाली-आः, शक्रो वा भवतु गतिः शशाङ्कवक्त्रे ! शत्रोर्मे निशितपरश्वधः शिवो वा । नालं मामभिमुखमेत्य सम्प्रहर्तुं विष्णुर्वा विकसितपुण्डरीकनेत्रः ॥ १० ॥ तारा - पसीअउ पसीअउ महाराओ । इमस्स जणस्स अणुग्गहं दाव करेउं अरिहदि महाराओ । [ प्रसीदतु प्रसीदतु महाराजः । अस्य जनस्यानुग्रहं तावत् कर्तुमर्हति महाराज: । ] वाली - श्रूयतां मत्पराक्रमः । तारे ! मया खलु पुरामृतमन्थनेऽपि गत्वा प्रहस्य सुरदानवदैत्यसङ्घान् । उत्फुल्लनेत्रमुरगेन्द्रमुग्ररूप- माकृष्यमाणमवलोक्य सुविस्मितास्ते ॥ ११ ॥ तारा-पसीअउ पसीअउ महाराओ। [ प्रसीदतु प्रसीदतु महाराज: । ] वाली - आः, मम वशानुवर्तिनी भव । प्रविश त्वमभ्यन्तरम् । तारा - एसा गच्छामि मन्दभाआ । ( निष्क्रान्ता ) [ एषा गच्छामि मन्दभागा । ] वाली - हन्त प्रविष्टा तारा । यावदहं सुग्रीवं भग्नग्रीवं करोमि । ( द्रुतमुपगम्य) सुग्रीव ! तिष्ठ तिष्ठ । इन्द्रो वा शरणं तेऽस्तु प्रभुर्वा मधुसूदनः । मच्चक्षुष्पथमासाद्य सजीवो नैव यास्यसि ॥ १२ ॥ इत इतः । सुग्रीवः - यदाज्ञापयति महाराज: । (उभौ नियुद्धं कुरुतः । ) १ अर्हदि । राम: - एष एष वाली, सन्दष्टोष्ठश्चण्डसंरक्तनेत्रो मुष्टिं कृत्वा गाढमुद्वृत्तदंष्ट्रः । गर्जन् भीमं वानरो भाति युद्धे संवर्त्ताग्निः सन्दिधक्षुर्यथैव ॥ १३ ॥ लक्ष्मणः - सुग्रीवमपि पश्यत्वार्यः, विकसितशतपत्ररक्तनेत्रः कनकमयाङ्गदनद्धपीनबाहुः । हरिवरमुपयाति वानरत्वाद् गुरुमभिभूय सतां विहाय वृत्तम् ॥ १४ ॥ वालिना ताडितः पतितः सुग्रीवः । हनुमान्-हा ! धिक् । ( ससम्भ्रमं राममुपगम्य ) जयतु देवः । अस्यै- षावस्था । बलवान् वानरेन्द्रस्तु दुर्बलश्च पतिर्मम । अवस्था शपथश्चैव सर्वमार्येण चिन्त्यताम् ॥ १५ ॥ रामः - हनूमन् ! अलमलं सम्भ्रमेण । एतदनुष्ठीयते । ( शरं मुक्त्वा ) हन्त पतितो वाली । लक्ष्मणः - एष एष वाली, रुधिरकलितगात्रः स्रस्तसंरक्तनेत्रः कठिणविपुलबाहुः काललोकं विविक्षुः । अभिपतति कथञ्चिद् धीरमाकर्षमाणः शरवरपरिवीतं शान्तवेगं शरीरम् ॥ १६ ॥ वाली - ( मोहमुपगम्य पुनः समाश्वस्य शरे नामाक्षराणि वाचयित्वा राममुद्दिश्य ) युक्तं भो ! नरपतिधर्ममास्थितेन युद्धे मां छलयितुमक्रमेण राम ! । वीरेण व्यपगतधर्मसंशयेन लोकानां छलमपनेतुमुद्यतेन ॥ १७ ॥ हन्त भोः ! भवता सौम्यरूपेण यशसो भाजनेन च । छलेन मां प्रहरता प्ररूढमयशः कृतम् ॥ १८ ॥ भो राघव ! चीरवल्कलधारिणा वेषविपर्यस्तचित्तेन मम भ्रात्रा सह युद्धव्यग्रस्याधर्म्यः खलु प्रच्छन्नो वधः । रामः - कथमधर्म्यः खलु प्रच्छन्नो वध इति । वाली - कः संशयः । रामः - न खल्वेतत् । पश्य, वागुराच्छन्नमाश्रित्य मृगाणामिष्यते वधः । वध्यत्वाच्च मृगत्वाच्च भवाञ्छन्नेन दण्डितः ॥ १९ ॥ वाली - दण्ड्य इति मां भवान् मन्यते । रामः - कः संशयः । वाली - केन कारणेन । रामः - अगम्यागमनेन । वाली- अगम्यागमनेनेति । एषोऽस्माकं धर्मः । रामः - ननु युक्तं भोः ! भवता वानरेन्द्रेण धर्माधर्मौ विजानता । आत्मानं मृगमुद्दिश्य भ्रातृदाराभिमर्शनम् ॥ २० ॥ वाली - भ्रातृदाराभिमर्शनेन तुल्यदोषयोरहमेव दण्डितो, न सुग्रीवः । रामः - दण्डितस्त्वं हि दण्ड्यत्वाद्, अदण्डयो नैव दण्ड्यते । वाली- सुग्रीवेणाभिमृष्टाभूद् धर्मपत्नी गुरोर्मम । तस्य दाराभिमर्शेन कथं दण्ड्योऽस्मि राघव ! ॥ २१ ॥ रामः - न त्वेव हि कदाचिज्ज्येष्ठस्य यवीयसो दाराभिमर्शनम् । वाली - हन्त अनुत्तरा वयम् । भवता दण्डितत्वाद् विगतपा- पोऽहं ननु । रामः- एवमस्तु सुग्रीवः - हा धिक् । करिकरसदृशौ गजेन्द्रगामि- स्तव रिपुशस्त्रपरिक्षताङ्गदौ च । अवनितलगतौ समीक्ष्य बाहू हरिवर ! हा पततीव मेऽद्य चित्तम् ॥ २२ ॥ वाली - मुग्रीव ! अलमलं विषादेन । ईदृशो लोकधर्मः । (नेपथ्ये ) हा हा महाराओ । वाली - सुग्रीव ! संवार्यतां संवार्यतां स्त्रीजनः । एवंगतं नार्हति मां द्रष्टुम् । सुग्रीवः - यदाज्ञापयति महाराजः । हनूमन् ! एवं क्रियताम् । हनूमान् - यदाज्ञापयति कुमारः । (निष्क्रान्तः । ) (ततः प्रविशत्यङ्गदो हनूमांश्च ) हनूमान् - अङ्गद ! इत इतः । अङ्गदः- श्रुत्वा कालवशं यान्तं हरिमृक्षगणेश्वरम् । समापतितसन्तापः प्रयामि शिथिलक्रमः ॥ २३॥ हनूमन् ! कुत्र महाराजः । हनूमान् - एष महाराजः, शरनिर्भिन्नहृदयो विभाति धरणीतले । गुहशक्तिसमाक्रान्तो यथा क्रौञ्चाचलोत्तमः ॥ २४ ॥ अङ्गदः - ( उपसृत्य ) हा महाराज ! अतिबलमुखशायी पूर्वमासीर्हरीन्द्रः क्षितितलपरिवर्ती क्षीणसर्वाङ्गचेष्टः । शरवरपरिवीतं व्यक्तमुत्सृज्य देहं किमभिलषसि वीर स्वर्गमद्याभिगन्तुम् ॥ २५ ॥ ( इति भूमौ पतितः । ) वाली - अङ्गद ! अलमलं विषादेन । भोः सुग्रीव ! मया कृतं दोषमपास्य बुद्ध्या त्वया हरीणामधिपेन सम्यक् । विमुच्य रोषं परिगृह्य धर्मं कुलप्रवालं परिगृह्यतां नः ॥ २६ ॥ सुग्रीवः - यदाज्ञापयति महाराजः । वाली - भो राघव ! यस्मिन् कस्मिन् वापराधेऽनयोर्वानरचापलं क्षन्तुमर्हसि । रामः - बाढम् । वाली - सुग्रीव ! प्रतिगृह्यतामस्मत्कुलधनं हेममाला । सुग्रीवः - अनुगृहीतोऽस्मि । ( प्रतिगृह्णाति । ) वाली - हनूमन् ! आपस्तावत् । हनूमान् - यदाज्ञापयति महाराजः । (निष्क्रम्य प्रविश्य ) इमा आपः । वाली - ( आचम्य ) परित्यजन्तीव मां प्राणाः । इमा गङ्गाप्रभृतयो महानद्य एता उर्वश्यादयोऽप्सरसो मामभिगताः । एष सहस्र- १ मद्यापि गन्तुम् । हंसप्रयुक्तो वीरवाही विमानः कालेन प्रेषितो मां नेतुमागतः । १भवतु । अयमयमागच्छामि । ( स्वर्यातः । ) सर्वे - हा हा महाराज ! रामः - हन्त स्वर्गं गतो वाली । सुग्रीव ! क्रियतामस्य संस्कारः । सुग्रीवः - यदाज्ञापयति देवः । रामः - लक्ष्मण ! सुग्रीवस्याभिषेकः कल्प्यताम् । लक्ष्मणः– यदाज्ञापयत्यार्यः । ( निष्क्रान्ताः सर्वे । ) प्रथमोऽङ्कः । div.n = 2 div.title = द्वितीयोऽङ्कः अथ द्वितीयोऽङ्कः । ( ततः प्रविशति ककुभः । ) ककुभः- निष्ठितप्रायत्वात् कार्यस्याहारव्यावृताः सर्वे वानरयूथपाः । तस्मादहमपि किञ्चिदाहारजातं सम्भावयामि । ( तथा करोति ) ( प्रविश्य ) बिलमुखः - पेसिओ म्हि महाळाएण सुग्गीवेण--अय्यरामस्स किदो- वआरप्पच्चुवआरणिमित्तं सव्वासु दिसासु सीदाविअअणे पेसिआ सव्वे वाणरा आअदा । तेसं दक्खिणापहमुहस्स कुमारस्स अङ्ग- दस्स पवुत्तिं जाणिअ सिग्घं आअच्छत्ति । ता कहिंणुहु गओ कुमारो । (परिक्रम्याग्रतो विलोक्य) एसो अय्यकउहो । जाव णं पुच्छामि । ( उपसृत्य ) सुहं अय्यस्स । [ प्रेषितोऽस्मि महाराजेन सुग्रीवेण--आर्यरामस्य कृतोपकारप्रत्युपकारनिमित्तं सर्वासु दिशासु सीताविचयने प्रेषिताः सर्वे वानरा आगताः । तेषां दक्षिणापथमुखस्य कुमारस्याङ्गदस्य प्रवृत्तिं ज्ञात्वा शीघ्रमागच्छेति । तत् क्वनुखलु गतः कुमारः । एष आर्यककुभः । यावदेनं पृच्छामि । सुखमार्यस्य । ] ककुभः-अये बिलमुखः । कुतो भवान् । बिलमुखः - अय्य! महाळाअस्स सासणेण कुमारं अङ्गदं पेक्खिदुं आउदो म्हि । [ आर्य ! महाराजस्य शासनेन कुमारमङ्गदं प्रेक्षित- मागतोऽस्मि । ] ककुभः–अपि कुशली आर्यरामो महाराजश्च । बिलमुखः - आम् । ककुभः - कोऽभिप्रायो महाराजस्य । ( बिलमुखः पेसिओ म्हि इति पूर्ववत् पठति ) ककुभः - किं न जानीषे निष्ठितमर्धं कार्यस्य । बिलमुखः-किं किम् । ककुभः - श्रूयतां, लब्ध्वा वृत्तान्तं रामपत्न्याः खगेन्द्राद् आरुह्यागेन्द्रं सद्विपेन्द्रं महेन्द्रम् । लङ्कामभ्येतुं वायुपुत्रेण शीघ्रं वीर्यप्राबल्याल्लङ्घितः सागरोऽद्य ॥ १ ॥ तस्मादागच्छ, कुमारपादमूलमेव संश्रयावः । (निष्क्रान्तौ । ) विष्कम्भकः । ( ततः प्रविशति राक्षसीगणपरिवृता सीता । ) सीता-हद्धि अदिधीरा खु म्हि मन्दभाआ । जा अय्यउत्तविरहिदा रक्खसराअभवणं आणीदा अणिट्ठाणि अणरिहाणि जहमणोरहप्प- वुत्ताणि वअणाणि साविअमाणा जीवामि मन्दभाआ । आदु अय्यउत्तसाअअप्पञ्चएण कहं वि अत्ताणं पय्यवत्थावेमि । किंणुखु अज्ज पज्जाळिअमाणे कम्मआरग्गिमण्डळे उदअप्पसेओ विअ किञ्चि हिअअप्पसादो समुप्पण्णो । किंणुखु मं अन्तरेण पसण्ण- हिअओ अय्यउत्तो भवे । [ हा धिग् अतिधीरा खल्वस्मि मन्दभागा । यार्यपुत्रविरहिता राक्षसराजभवनमानीतानिष्टान्यनर्हाणि यथामनोरथ- प्रवृत्तानि वचनानि श्राव्यमाणा जीवामि मन्दभागा । अथवा आर्य- पुत्रसायकप्रत्ययेन कथमप्यात्मानं पर्यवस्थापयामि । किन्नुखल्वद्य प्रज्वाल्यमाने कर्मकाराग्निमण्डले उदकप्रसेक इव किञ्चिद् हृदयप्रसादः समुत्पन्नः। किन्नुखलु मामन्तरेण प्रसन्नहृदय आर्यपुत्रो भवेत् । ] (ततः प्रविशति हनूमान् अङ्गुलीयकहस्तः । ) हनुमान् - ( लङ्कां प्रविश्य) अहो रावणभवनस्य विन्यासः । कनकरचितचित्रतोरणाढ्या मणिवरविद्रुमशोभितप्रदेशा । विमलविकृतसञ्चितैर्विमानै- र्वियति महेन्द्रपुरीव भाति लङ्का ॥ २ ॥ अहोतुखलु, एतां प्राप्य दशग्रीवो राजलक्ष्मीमनुत्तमाम् । विमार्गप्रतिपन्नत्वाद् व्यापादयितुमुद्यतः ॥ ३ ॥ ( सर्वतो गत्वा ) विचरितप्राया मया लङ्का । गर्भागारविनिष्कुटेषु बहुशः शालाविमानादिषु स्नानागारनिशाचरेन्द्रभवनप्रासादहर्म्येषु च । पानागारनिशान्तदेशविवरेष्वाक्रान्तवानस्म्यहं सर्वं भोः ! विचितं न चैव नृपतेः पत्नी मया दृश्यते ॥ ४ ॥ अहो व्यर्थो मे परिश्रमः । भवतु, एतद्धर्म्याग्रमारुह्यावलोकयामि । ( तथा कृत्वा ) अये अयं प्रमदवनराशिः । इमं प्रविश्य परीक्षिष्ये । ( प्रविश्यावलोक्य) अहो प्रमदवनसमृद्धिः । इह हि, कनकरचितविद्रुमेन्द्रनीलै- र्विकृतमहाद्रुमपङ्क्तिचित्रदेशा । रुचिरतरनगा विभाति शुभ्रा नभसि सुरेन्द्रविहारभूमिकल्पा ॥ ५ ॥ अपि च, चित्रप्रस्तुतहेमधातुरुचिराः शैलाश्वदृष्टा मया नानावारिचराण्डजैर्विरचिता दृष्टा मया दीर्घिकाः । नित्यं पुष्पफलाढ्यपादपयुता देशाश्च दृष्टा मया सर्वं दृष्टमिदं हि रावणगृहे सीता न दृष्टा मया ॥ ६ ॥ कोनुखल्वेतस्मिन् प्रदेशे सप्रभ इव दृश्यते । तत्र तावदवलोकयामि । ( तथा कृत्वा ) अये कानुखल्वियम् । राक्षसीभिः परिवृता विकृताभिः सुमध्यमा । नीलजीमूतमध्यस्था विद्युल्लेखेव शोभते ॥ ७ ॥ यैषा, असितभुजगकल्पां धारयन्त्येकवेणीं करपरिमितमध्या कान्तसंसक्तचित्ता । अनशनकृशदेहा बाष्पसंसिक्तवस्त्रा सरसिजवनमालेवातपे विप्रविद्धा ॥ ८ ॥ अये कथं दीपिकावलोकः । ( विलोक्य) अये रावणः । मणिविरचितमौलिश्चारुताम्रायताक्षो मदसललितगामी मत्तमातङ्गलीलः । युवतिजननिकाये भात्यसौ राक्षसेशो । हरिवि हरिणीनामन्तरे चेष्टमानः ॥ ९ ॥ किमिदानीं करिष्ये । भवतु, दृष्टम् । एनमशोकपादपमारुह्य कोट- रान्तरितो भूत्वा दृढं वृत्तान्तं ज्ञास्यामि । ( तथा करोति । ) (ततः प्रविशति रावणः सपरिवारः । ) रावण:- दिव्यास्त्रैः सुरदैत्यदानवचमूविद्रावणं रावणं युद्धे क्रुद्धसुरेभदन्तकुलिशव्यालीढवक्षस्स्थलम् । सीता मामविवेकिनी न रमते सक्ता च मुग्धेक्षणा क्षुद्रे क्षत्रियतापसे ध्रुवमहो दैवस्य विघ्नक्रिया ॥ १० ॥ ( ऊर्ध्वमवलोक्य) एष एष चन्द्रमाः, रजतरचितदर्पणप्रकाशः करनिकरैर्हृदयं ममाभिपीड्य । उदयति गगने विजृम्भमाणः कुमुदवनप्रियबान्धवः शशाङ्कः ॥ ११ ॥ ( परिक्रम्य ) एषा सीता पादपमूलमाश्रित्य ध्यानसंवतिहृदयानशन- क्षामवदना स्वदेहमिव प्रवेष्टुकामा सङ्गूढस्तनोदरी दुर्दिनान्तर्गता चन्द्रलेखेव राक्षसीगणपरिवृतोपविष्टा । यैषा, अपास्य भोगान् मां चैव श्रियं च महतीमिमाम् । मानुषे न्यस्तहृदया नैव वश्यत्वमागता ॥ १२ ॥ हनूमान् - हन्त सुविज्ञातम् । इयं सा राजतनया पत्नी रामस्य मैथिली । सिंहदर्शनवित्रस्ता मृगीव परितप्यते ॥ १३ ॥ रावणः- ( उपेत्य ) सीते! त्यज त्वं व्रतमुग्रचर्यं भजस्व मां भामिनि ! सर्वगात्रैः । अपास्य तं मानुषमद्य भद्रे ! गतायुषं कामपथान्निवृत्तम् ॥ १४ ॥ सीता-हस्सो खु रावणओ, जो वअणगदसिद्धिं वि ण जाणादि । [ हास्यः खलु रावणकः, यो वचनगतसिद्धिमपि न जानाति । ] हनूमान् - ( सक्रोधम् ) अहो रावणस्यावलेपः । तौ च बाहू न विज्ञाय तच्चापि सुमहद् धनुः । सायकं चापि रामस्य गतायुरिति भाषते ॥ १५ ॥ न शक्नोमि रोषं धारयितुम् । भवतु, अहमेवार्यरामस्य कार्यं साधयामि । अथवा, यद्यहं रावणं हन्मि कार्यसिद्धिर्भविष्यति । यदि मां प्रहरेद् रक्षो महत् कार्यं विपद्यते ॥ १६॥ रावणः- वरतनु ! तनुगात्रि ! कान्तनेत्रे । कुवलयदामनिभां विमुच्य वेणीम् । बहुविधमणिरत्नभूषिताङ्गं दशशिरसं मनसा भजस्व देवि ! ॥ १७ ॥ सीता - हं विपरीओ खु धम्मो, जं जीवदि खु अअं पापरक्खसो । [ हैं, विपरीतः खलु धर्मः, यद् जीवति खल्वयं पापराक्षसः । ] रावणः - ननु देवि । सीता - सत्तो सि । [ शप्तोऽसि । ] रावणः - हहह, अहो पतिव्रतायास्तेजः । देवाः सेन्द्रादयो भग्ना दानवाश्च मया रणे । सोऽहं मोहं गतोऽस्म्यद्य सीतायास्त्रिभिरक्षरैः ॥ १८ ॥ ( नेपथ्ये ) जयतु देवः । जयतु लङ्केश्वरः । जयतु स्वामी । जयतु महाराजः । दश नाडिकाः पूर्णाः । अतिक्रामति स्नानवेला । इत इतो महाराजः । ( निष्क्रान्तः सपरिवारो रावणः । ) हनूमान् - हन्त निर्गतो रावणः, सुप्ताश्च राक्षसस्त्रियः । अयं कालो देवीमुपसर्पितुम् । ( कोटरादवरुह्य ) जयत्वविधवा । प्रेषितोऽहं नरेन्द्रेण रामेण विदितात्मना । त्वद्गतस्नेहसन्तापविक्लवीकृतचेतसा ॥ १९ ॥ सीता - (आत्मगतम्) कोणुखु अअं, पापरक्खसो अय्यउत्तरओ त्ति अत्ताणं ववदिसिअ वाणररूवेण मं वञ्चिदुकामो भवे । भोदु, तुह्णिआ भविस्सं । [ कोनुखल्वयं, पापराक्षस आर्यपुत्रसंबन्धीत्या- त्मानं व्यपदिश्य वानररूपेण मां वञ्चयितुकामो भवेत् । भवतु, तूष्णीका भविष्यामि । ] हनूमान् - कथं न प्रत्येति भवती । अलमन्यशङ्कया । श्रोतुमर्हति भवती । इक्ष्वाकुकुलदीपेन सन्धाय हरिणा त्वहम् । प्रेषितस्त्वद्विचित्यर्थं हनूमान् नाम वानरः ॥ २० ॥ सीता - (आत्मगतम्) जो वा को वा भोदु । अय्यउत्तणामसङ्कि त्तणेण अहं एदेण अभिभासिस्सं । ( प्रकाशम्) भद्द ! को वुत्तन्तो अय्यउत्तस्स । [ यो वा को वा भवतु । आर्यपुत्रनामसंकीर्तनेनाह- मेतेनाभिभाषिष्ये । भद्र ! को वृत्तान्त आर्यपुत्रस्य । ] हनूमान् - भवति ! श्रूयताम्, अनशनपरितप्तं पाण्डु स क्षामवक्त्रं तव वरगुणचिन्तावीतलावण्यलीलम् । वहति विगतधैर्यं हीयमानं शरीरं मनसिजशरदग्धं बाष्पपर्याकुलाक्षम् ॥ २१ ॥ सीता - (आत्मगतम्) हद्धि वीळिआ खु म्हि मन्दभाआ एवं सोअन्तं अय्यउत्तं सुणिअ । अय्यउत्तस्स विरहपरिस्समो वि मे सफळो संवुत्तो त्ति पेक्खामि, जदि खु अअं वाणरो सच्चं मन्तेदि । अय्यउत्तस्स इमस्सिं जणे अणुक्कोसं परिस्समं च सुणिअ सुहस्स दुक्खस्स अ अन्तरे डोळाअदि विअ मे हिअअं (प्रकाशम) भद्द ! कहं तुम्हेहि अय्यउत्तस्स सङ्गमो जादो । [ हा धिग् व्रीडिता खल्वस्मि मन्दभागा एवं शोचन्तमार्यपुत्रं श्रुत्वा । आर्यपुत्रस्य विरह- परिश्रमोऽपि मे सफलः संवृत्त इति पश्यामि, यदि खल्वयं वानरः सत्यं मन्त्रयते । आर्यपुत्रस्यास्मिन् जनेऽनुक्रोशं परिश्रमं च श्रुत्वा सुखस्य दुःखस्य चान्तरे दोलायत इव मे हृदयम् । भद्र ! कथं युष्मा- भिरार्यपुत्रस्य संगमो जातः । ] हनूमान्- भवति ! श्रूयतां । हत्वा वालिनमाहवे कपिवरं त्वत्कारणादग्रजं सुग्रीवस्य कृतं नरेन्द्रतनये ! राज्यं हरीणां ततः । राज्ञा त्वद्विचयाय चापि हरयः सर्वा दिशः प्रेषिता- स्तेषामस्म्यहमद्य गृध्रवचनात् त्वां देवि ! सम्प्राप्तवान् ॥ २२ ॥ अपि च, ईदृशमिव । सीता - अहो अअरुणा क्खु इस्सरा एव्वं सोअन्तं अय्यन्तं कर- अन्तो । [ अहो अकरुणाः खल्वीश्वरा एवं शोचन्तमार्यपुत्रं कुर्वन्तः । ] हनूमान् - भवति ! मा विषादेन । रामो हि, प्रगृहीतमहाचापो वृतो वानरसेनया । समुद्धर्तुं दशग्रीवं लङ्कामेवाभियास्यति ॥ २३ ॥ सीता - किण्णुखु सिविणो मए दिट्ठो । भद्द ! अवि सच्चं । ण आणामि । [ किन्नुखलु स्वप्नो मया दृष्टः । भद्र ! अपि सत्यम् । न जानामि । ] हनूमान्-( स्वगतम् ) भोः ! कष्टम् । एवं गाढं परिज्ञाय भर्तारं भर्तृवत्सला । न प्रत्यायति शोकार्ता यथा देहान्तरं गता ॥ २४ ॥ ( प्रकाशम्) भवति ! अयमिदानीं, समुदितवरचापबाणपाणिं पतिमिह राजसुते ! तवानयामि । भव हि विगतसंशया मयि त्वं नरवरपार्श्वगता विनीतशोका ॥२५॥ सीता - भद्द ! एदं मे अवत्थं सुणिअ अय्यउत्तो जह सोअपरवसो ण होइ, तह मे उत्तन्तं भणेहि । [ भद्र ! एतां मेऽवस्थां श्रुत्वार्यपुत्रो यथा शोकपरवशो न भवति, तथा मे वृत्तान्तं भण । ] हनूमान् - यदाज्ञापयति भवती । सीता-गच्छ, कय्यसिद्धी होदु । [ गच्छ कार्यसिद्धिर्भवतु । ] हनूमान् - अनुगृहीतोऽस्मि । ( परिक्रम्य ) कथमिदानीं ममागमनं रावणाय निवेदयामि । भवतु, दृष्टम् । परभृतगणजुष्टं पद्मषण्डाभिरामं सुरुचिरतरुषण्डं तोयदाभं त्रिकूटम् । करचरणविमर्दैः काननं चूर्णयित्वा विगतविषयदर्पं राक्षसेशं करोमि ॥ २६ ॥ ( निष्क्रान्तौ ) द्वितीयोऽङ्कः । div.n = 3 div.title = तृतीयोऽङ्कः अथ तृतीयोऽङ्कः । (ततः प्रविशति शङ्कुकर्णः ) शङ्कुकर्णः - क इह भोः ! काञ्चनतोरणद्वारमशून्यं कुरुते । ( प्रविश्य ) प्रतिहारी- अय्य! अहं विजआ । किं करीअदु । [ आर्य ! अहं विजया । किं क्रियताम् । ] शङ्कुकर्णः - विजये ! निवेद्यतां निवेद्यतां महाराजाय लङ्केश्वराय--- भग्नप्रायाशोकवनिकेति । कुतः, यस्यां न प्रियमण्डनापि महिषी देवस्य मण्डोदरी स्नेहाल्लुम्पति पल्लवान्न च पुनर्वीजन्ति यस्यां भयात् । वीजन्तो मलयानिला अपि करैरस्पृष्टबालद्रुमा सेयं शक्ररिपोरशोकवनिका भग्नेति विज्ञाप्यताम् ॥ १ ॥ प्रतिहारी- अय्य ! णिच्चं भट्टिपादमूले वत्तमाणस्स जणस्स अदिट्ठ- पुरुवो अअं सम्भमो । किं एदं । [ आर्य ! नित्यं भर्तृपादमूले वर्तमानस्य जनस्यादृष्टपूर्वोऽयं संभ्रमः । किमेतद् । ] शङ्कुकर्णः-भवति ! अतिपाति कार्यमिदम् । शीघ्रं निवेद्यतां निवेद्यताम् । प्रतिहारी - अय्य ! इयं णिवेदेमि । (निष्क्रान्ता ) [ आर्य ! इयं निवेदयामि । ] शङ्कुकर्णः - ( पुरतो विलोक्य) अये अयं महाराजो लङ्केश्वर इत एवाभिवर्तते । य एषः, अमलकमलसन्निभोग्रनेत्रः कनकमयोज्ज्वलदीपिकापुरोगः । त्वरितमभिपतत्यसौ सरोषो युगपरिणामसमुद्यतो यथार्कः ॥ २ ॥ ( ततः प्रविशति यथानिर्दिष्टो रावणः । ) रावण:- कथं कथं भो नववाक्यवादिञ्छृणोमि शीघ्रं वद केन चाद्य । मुमूर्षुणा मुक्तभयेन धृष्टं वनाभिमर्दात् परिधर्षितोऽहम् ॥ ३ ॥ शङ्कुकर्णः - ( उपसृत्य ) जयतु महाराजः । अविदितागमनेन केनचिद् वानरेण ससंरम्भमभिमृदिताशोकवनिका । रावणः- ( सावज्ञम् ) कथं वानरेणेति । गच्छ, शीघ्रं निगृह्यानय । शङ्कुकर्ण:- यदाज्ञापयति महाराजः । (निष्क्रान्तः । ) रावणः - भवतु भवतु । युधि जगत्त्रयभीतिकृतोऽपि मे यदि कृतं त्रिदशैरिदमप्रियम् । अनुभवन्त्वचिरादमृताशिनः फलमतो निजशाठ्यसमुद्भवम् ॥४॥ ( प्रविश्य ) शङ्कुकर्णः -जयतु महाराजः । महाराज ! महाबलः खलु स वानरः । तेन खलु मृणालवदुत्पाटिताः सालवृक्षाः, मुष्टिना भग्नो दारुपर्वतकः, पाणितलाभ्यामभिमृदितानि लतागृहाणि, नादेनैव विसंज्ञीकृताः प्रमदवनपालाः । तस्य ग्रहणसमर्थं बलमाज्ञापयितु- मर्हति महाराजः । रावणः - तेन हि किङ्कराणां सहस्रं बलमाज्ञापय वानरग्रहणाय । शङ्कुकर्णः - यदाज्ञापयति महाराजः । (निष्क्रम्य प्रविश्य) जयतु महाराजः । अस्मदीयैर्महावृक्षैरस्मदीया महाबलाः । क्षिप्रमेव हतास्तेन किङ्करा द्रुमयोधिना ॥ ५ ॥ रावणः - कथं हता इति । तेन हि कुमारमक्षमाज्ञापय वानरग्रहणाय । शङ्कुकर्ण: - यदाज्ञापयति महाराज: । (निष्क्रान्तः । ) रावण: - ( विचिन्त्य ) कुमारो हि कृतास्त्रश्च शूरश्च बलवानपि । प्रसह्य चापि गृह्णीयाद्धन्याद् वा तं वनौकसम् ॥ ६ ॥ ( प्रविश्य ) शङ्कुकर्णः - अनन्तरीयं बलमाज्ञापयितुमर्हति महाराजः । रावणः-किमर्थम् । शङ्कुकर्णः - श्रोतुमर्हति महाराजः । कुमारं वानरमभिगच्छन्तं दृष्ट्वा महाराजेनानाज्ञापिता अप्यनुगताः पञ्च सेनापतयः । रावणः - ततस्ततः । शङ्कुकर्णः -- ततस्तानभिद्रुतान् दृष्ट्वा किञ्चिद् भीत इव तोरण- माश्रित्य काञ्चपरिघमुद्यम्य निपातितास्तेन हरिणा पञ्च सेना- पतयः । रावणः - ततस्ततः । शङ्कुकर्णः–ततः कुमारमक्षं क्रोधात् संरक्तनेत्रं त्वरिततरहयं स्यन्दनं वाहयन्तं प्रावृट्कालाभ्रकल्पं परमलघुतरं बाणजालान् वमन्तम् । तान् बाणान् निर्विधुन्वन् कपिरपि सहसा तद्रथं लङ्घयित्वा कण्ठे सङ्गृह्य धृष्टं मुदिततरमुखो मुष्टिना निर्जघान ॥ ७ ॥ रावणः-( सरोषम् ) आः, कथं कथं निर्जघानेति । तिष्ठ त्वमहमेवैनमासाद्य कपिजन्तुकम् । एष भस्मीकरोम्यस्मत्क्रोधानलकणैः क्षणात् ॥ ८ ॥ शङ्कुकर्ण:- प्रसीदतु प्रसीदतु महाराजः । कुमारमक्षं निहतं श्रुत्वा क्रोधाविष्टहृदयः कुमारेन्द्रजिदभिगतवांस्तं वनौकसम् । रावण: - तेन हि गच्छ । भूयो ज्ञायतां वृत्तान्तः । शङ्कुकर्ण: - यदाज्ञापयति महाराजः । (निष्क्रान्तः । ) रावण:- कुमारो हि कृतास्त्रश्च, अवश्यं युधि वीराणां वधो वा विजयोऽथवा । तथापि क्षुद्रकर्मेदं मह्यमीषन्मनोज्वरः ॥ ९ ॥ ( प्रविश्य ) शङ्कुकर्णः-जयतु महाराजः । जयतु लङ्केश्वरः । जयतु भद्रमुखः । संवृत्तं तुमुलं युद्धं कुमारस्य च तस्य च । ततः स वानरः शीघ्रं बद्धः पाशेन साम्प्रतम् ॥ १०॥ रावणः - कोऽत्र विस्मय इन्द्रजिता शाखामृगो बद्ध इति । कोऽत्र भोः ! । ( प्रविश्य ) राक्षसः - जयतु महाराजः । रावणः - गच्छ विभीषणस्तावदाहूयताम् । राक्षसः - यदाज्ञापयति महाराजः । (निष्क्रान्तः । ) रावणः - त्वमपि तावद् वानरमानय । शङ्कुकर्णः - यदाज्ञापयति महाराजः । (निष्क्रान्तः । ) रावण: - ( विचिन्त्य ) भोः ! कष्टम् । अचिन्त्या मनसा लङ्का सहितैः सुरदानवैः । अभिभूय दशग्रीवं प्रविष्टः किल वानरः ॥ ११ ॥ अपि च, जित्वा त्रैलोक्यमाजौ ससुरदनुसुतं यन्मया गर्वितेन क्रान्त्वा कैलासमीशं स्वगणपरिवृतं साकमाकम्प्य देव्या । लब्ध्वा तस्मात् प्रसादं पुनरगसुतया नन्दिनानादृतत्वाद् दत्तं शप्तं च ताभ्यां यदि कपिविकृतिच्छद्मना तन्मम स्यात् ॥ १२ ॥ १. मह्यमीषां मनोज्वरः ?- ( ततः प्रविशति विभीषणः । ) विभीषणः - ( सविमर्शम् ) अहोतुखलु महाराजस्य विपरीता खलु बुद्धिः संवृत्ता । कुतः, मयोक्तो मैथिली तस्मै बहुशो दीयतामिति । न मे शृणोति वचनं सुहृदां शोककारणात् ॥ १३॥ ( उपेत्य ) speaker = inherit जयतु महाराजः । रावणः - विभीषण ! एह्येहि । उपविश । विभीषण: - एष एष उपविशामि । ( उपविशति ) रावणः-विभीषण ! निर्विण्णमिव त्वां लक्षये । विभीषणः - निर्वेद एव खल्वनुक्तग्राहिणं स्वामिनमुपाश्रितस्य भृत्यजनस्य । रावणः- छिद्यतामेषा कथा । त्वमपि तावद् वानरमानय । विभीषणः - यदाज्ञापयति महाराजः । (निष्क्रान्तः । ) ( ततः प्रविशति राक्षसैर्गृहीतो हनूमान् । ) सर्वे - आः इत इतः । हनूमान् - नैवाहं धर्षितस्तेन नैर्ऋतेन दुरात्मना । स्वयं ग्रहणमापन्नो राक्षसेशदिदृक्षया ॥ १४ ॥ ( उपगम्य ) भो राजन् ! अपि कुशली भवान् । रावणः - ( सावज्ञम् ) विभीषण ! किमस्य तत् कर्म । विभीषणः - महाराज ! अतोऽप्यधिकम् । रावणः - कथं त्वमवगच्छसि । विभीषणः - प्रष्टुमर्हति महाराजः कस्त्वमिति । रावणः-भो वानर ! कस्त्वम् । केन कारणेन धर्षितोऽस्माकमन्तःपुरं प्रविष्टः । हनूमान्- भोः ! श्रूयताम्, अञ्जनायां समुत्पन्नो मारुतस्यौरसः सुतः । प्रेषितो राघवेणाहं हनूमान् नाम वानरः ॥ १५ ॥ विभीषणः - महाराज ! किं श्रुतम् । रावणः - किं श्रुतेन । विभीषणः - हनूमन् ! किमाह तत्रभवान् राघवः । हनूमान्- भोः ! श्रूयतां रामशासनम् । रावणः-कथं कथं रामशासनमित्याह । आः हन्यतामयं वानरः । विभीषणः - प्रसीदतु प्रसीदतु महाराजः । सर्वापराधेष्ववध्याः खलु दूताः । अथवा रामस्य वचनं श्रुत्वा पश्चाद् यथेष्टं कर्तुमर्हति महाराजः । रावणः - भो वानर ! किमाह स मानुषः । हनूमान्- भोः ! श्रूयतां, वरशरणमुपेहि शङ्करं वा प्रविश च दुर्गतमं रसातलं वा । शरवरपरिभिन्नसर्वगात्रं यमसदनं प्रतियापयाम्यहं त्वाम् ॥ १६॥ इति । रावणः - ह ह ह । दिव्यास्त्रैस्त्रिदशगणा मयाभिभूता दैत्येन्द्रा मम वशवर्तिनः समस्ताः । पौलस्त्योऽप्यपहृतपुष्पकोऽवसन्नो भो ! रामः कथमभियाति मानुषो माम् ॥ १७ ॥ हनूमान् - एवंविधेन भवता किमर्थं प्रच्छन्नं तस्य दारापहरणं कृतम् । विभीषणः - सम्यगाह हनूमान् । अपास्य मायया रामं त्वया राक्षसपुङ्गव ! । भिक्षुवेषं समास्थाय च्छलेनापहृता हि सा ॥ १८ ॥ रावणः - विभीषण ! किं विपक्षपक्षमवलम्बसे । विभीषण:- प्रसीद राजन् ! वचनं हितं मे प्रदीयतां राघवधर्मपत्नी । इदं कुलं राक्षसपुङ्गवेन त्वया हि नेच्छामि विपद्यमानम् ॥१९॥ रावण :- विभीषण ! अलमलं भयेन । कथं लम्बसटः सिंहो मृगेण विनिपात्यते । गजो वा सुमहान् मत्तः शृगालेन निहन्यते ॥ २० ॥ हनूमान् - भो रावण ! विपद्यमानभाग्येन भवता किं युक्तं राघवमेवं वक्तुम् । मा तावद् भोः ! नक्तञ्चरापसद ! रावण ! राघवं तं वीराग्रगण्यमतुलं त्रिदशेन्द्रकल्पम् । प्रक्षीणपुण्य ! भवता भुवनैकनाथं वक्तुं किमेवमुचितं गतसार ! नीचैः ॥ २१ ॥ रावणः- कथं कथं नामाभिधत्ते । हन्यतामयं वानरः । अथवा दूत- वधः खलु वचनीयः । शङ्कुकर्ण ! लाङ्गूलमादीप्य विसृज्यतामयं वानरः । शङ्कुकर्ण: - यदाज्ञापयति महाराजः । इत इतः । रावणः - अथवा एहि तावत् । हनूमान् -अयमस्मि । रावण:- अभिधीयतां मद्वचनात् स मानुषः । अभिभूतो मया राम ! दारापहरणादसि । यदि तेऽस्ति धनुःश्लाघा दीयतां मे रणो महान् ॥ २२ ॥ हनूमान् - अचिराद् द्रक्ष्यसि, अभिहतवरवप्रगोपुराट्टां रघुवरकार्मुकनादनिर्जितस्त्वम् । हरिगणपरिपीडितैः समन्तात् प्रमदवनैरभिसंवृतां स्वलङ्काम् ॥ २३ ॥ रावण :- आः निर्वास्यतामयं वानरः । राक्षसाः- इत इतः । ( रक्षोभि: सह निष्क्रान्तो हनूमान् । ) विभीषणः - प्रसीदतु प्रसीदतु महाराजः । अस्ति काचिद् विवक्षा महाराजस्य हितमन्तरेण । रावणः - उच्यतां, तच्छ्रेयो वयमपि श्रोतारः । विभीषणः- सर्वथा राक्षसकुलस्य विनाशोऽभ्यागत इति मन्ये । रावणः - केन कारणेन । विभीषणः - महाराजस्य विप्रतिपत्त्या । रावणः - का मे विप्रतिपत्तिः । विभीषणः - ननु सीतापहरणमेव । रावण:- सीतापहरणेन को दोषः स्यात् । विभीषणः - अधर्मश्च । रावणः - चशब्देन सावशेषमिव ते वचनम् । तद् ब्रूहि । विभीषणः - तदेव ननु । रावणः - विभीषण ! किं गूहसे । मम खलु प्राणैः शापिताः स्याः, यदि सत्यं न ब्रूयाः । विभीषण: - अभयं दातुमर्हति महाराजः । रावणः - दत्तमभयम् । उच्यताम् । विभीषण: - बलवद्विग्रहश्च । २रावणः - ( सरोषम् ) कथं कथं बलवद्विग्रहो नाम । शत्रुपक्षमुपाश्रित्य मामयं राक्षसाधमः । क्रोधमाहारयंस्तीव्रमभीरुरभिभाषते ॥ २४ ॥ कोऽत्र । ममानवेक्ष्य सौभ्रात्रं शत्रुपक्षमुपाश्रितम् । नोत्सहे पुरतो द्रष्टुं तस्मादेष निरस्यताम् ॥ २५ ॥ विभीषणः - प्रसीदतु प्रसीदतु महाराजः । अहमेव यास्यामि । शासितोऽहं त्वया राजन् ! प्रयामि न च दोषवान् । त्यक्त्वा रोषं च कामं च यथा कार्यं तथा कुरु ॥ २६ ॥ ( परिक्रम्य ) अयमिदानीम् - अद्यैव तं कमललोचनमुग्रचापं रामं हि रावणवधाय कृतप्रतिज्ञम् । संश्रित्य संश्रितहितप्रथितं नृदेवं नष्टं निशाचरकुलं पुनरुद्धरिष्ये ॥ २७ ॥ ( निष्क्रान्तः । ) रावणः - हन्त निर्गतो विभीषणः । यावदहमपि नगररक्षां सम्पा- दयामि । ( निष्क्रान्तः । ) तृतीयोऽङ्कः । div.n = 4 div.title = चतुर्थोऽङ्कः अथ चतुर्थोऽङ्कः । (ततः प्रविशति वानरकाञ्चुकीयः । ) काञ्चुकीयः - भो भो बलाध्यक्ष ! सन्नाहमाज्ञापय वानरवाहिनीम् । ( प्रविश्य ) बलाध्यक्षः - आर्य ! किंकृतोऽयं समुद्योगः । काल्चुकीयः- तत्रभवता हनूमतानीतः खल्वार्यरामस्य देव्याः सीताया वृत्तान्तः । बलाध्यक्ष :- किमिति किमिति । काञ्चुकीयः- श्रूयतां, लङ्कायां किल वर्तते नृपसुता शोकाभिभूता भृशं पौलस्त्येन विहाय धर्मसमयं संक्लेश्यमाना ततः । श्रुत्वैतद् भृशशोकतप्तमनसो रामस्य कार्यार्थिना राज्ञा वानरवाहिनी प्रतिभया सन्नाहमाज्ञापिता ॥ १ ॥ बलाध्यक्षः-एवम् । यदाज्ञापयति महाराजः । काञ्चुकीयः- यावदहमपि सन्नद्धा वानरवाहिनीति महाराजाय निवेदयामि । ( निष्क्रान्तौ । ) विष्कम्भकः । (ततः प्रविशति राम्रो लक्ष्मणः सुग्रीवो हनुमांश्च । ) रामः- आक्रान्ताः पृथुसानुकुञ्जगहना मेघोपमाः पर्वताः सिंहव्याघ्रगजेन्द्रपीतसलिला नद्यश्व तीर्णा मया । क्रान्तं पुष्पफलाढ्यपादपयुतं चित्रं महत् काननं सम्प्राप्तोऽस्मि कपीन्द्रसैन्यसहितो वेलातटं साम्प्रतम् ॥ २ ॥ लक्ष्मणः - एष एष भगवान् वरुणः, सजलजलधरेन्द्रनीलनीरो विलुलितफेनतरङ्गचारुहारः । समधिगतनदीसहस्रबाहुर्हरिरिव भाति सरित्पतिः शयानः ॥ ३॥ रामः- कथं कथं भोः ! रिपुमुद्धर्तुमुद्यन्तं मामयं सक्तसायकम् । सजीवमद्य तं कर्तुं निवारयति सागरः ॥ ४ ॥ सुग्रीवः - अये वियति सजलजलदसन्निभप्रकाशः कनकमयामलभूषणोज्ज्वलाङ्गः । अभिपतति कुतो नु राक्षसोऽसौ शलभ इवाशु हुताशनं प्रवेष्टुम् ॥ ५ ॥ हनूमान् - भो भो वानरवीराः ! अप्रमत्ता भवन्तु भवन्तः । शैलैर्द्रुमैः सम्प्रति मुष्टिबन्धैर्दन्तैर्नखैर्जानुभिरुग्रनादैः । रक्षोवधार्थं युधि वानरेन्द्रास्तिष्ठन्तु रक्षन्तु च नो नरेन्द्रम् ॥६॥ रामः - राक्षस इति । हनूमन् ! अलमलं सम्भ्रमेण । हनूमान् - यदाज्ञापयति देवः । ( ततः प्रविशति विभीषणः । ) विभीषणः - भोः ! प्राप्तोऽस्मि राघवस्य शिबिरसन्निवेशम् । ( विचिन्त्य ) अकृतदूतसम्प्रेषणमविदितागमनममित्रसम्बन्धिनं कथंनुखलु मामवगच्छेत् तत्रभवान् राघवः । कुतः, क्रुद्धस्य यस्य पुरतः सहितोऽप्यशक्तः स्थातुं सुरैः सुररिपोर्युधि वज्रपाणिः । तस्यानुजं रघुपतिः शरणागतं मां किं वक्ष्यतीति हृदयं परिशङ्कितं मे ॥ ७ ॥ अथवा, दृष्टधर्मार्थतत्त्वोऽयं साधुः संश्रितवत्सलः । शङ्कनीयः कथं रामो विशुद्धमनसा मया ॥ ८ ॥ ( अधोऽवलोक्य) इदं रघुकुलवृषभस्य स्कन्धावारम् । यावदवत- रामि । (अवतीर्य ) हन्त इह स्थित्वा ममागमनं देवाय निवेदयामि । हनूमान् - ( ऊर्ध्वमवलोक्य) अये कथं तत्रभवान् विभीषणः । (see errata, which strangely has बिभीषणः) विभीषण: - अये हनूमान् । हनूमन् ! ममागमनं देवाय निवेदय । हनूमान् - बाढम् । ( उपगम्य ) जयतु जयतु देवः । राजंस्त्वत्कारणादेव भ्रात्रा निर्विषयीकृतः । विभीषणोऽयं धर्मात्मा शरणार्थमुपागतः ॥ ९ ॥ रामः - कथं विभीषणः शरणागत इति । वत्स लक्ष्मण ! गच्छ, सत्कृत्य प्रवेश्यतां विभीषणः । लक्ष्मण: - यदाज्ञापयत्यार्यः । रामः - सुग्रीव वक्तुकाममिव त्वां लक्षये । सुग्रीवः -देव ! बहुमायाश्छलयोधिनश्च राक्षसाः । तस्मात् सम्प्र- धार्य प्रवेश्यतां विभीषणः । हनूमान् - महाराज ! मा मैवं, देवे यथा वयं भक्तास्तथा मन्ये विभीषणम् । भ्रात्रा विवदमानोऽपि दृष्टः पूर्वं पुरे मया ॥ १० ॥ राम: - यद्येवं, गच्छ, सत्कृत्य प्रवेश्यतां विभीषणः । लक्ष्मणः- यदाज्ञापयत्यार्यः । ( परिक्रम्य ) अये विभीषणः । विभी- षण ! अपि कुशली भवान् । विभीषणः- अये कुमारो लक्ष्मणः। कुमार ! अद्य कुशली संवृत्तोऽस्मि । लक्ष्मणः- विभीषण ! उपसर्पावस्तावदार्यम् । विभीषण: - बाढम् । ( उपसर्पतः । ) लक्ष्मणः - जयत्वार्यः । विभीषणः - प्रसीदतु देवः । जयतु देवः । राम: - अये विभीषणः । विभीषण ! अपि कुशली भवान् । विभीषणः - देव ! अद्य कुशली संवृत्तोऽस्मि । भवन्तं पद्मपत्राक्षं शरण्यं शरणागतः । अद्यास्मि कुशली राजंस्त्वद्दर्शनविकल्मषः ॥ ११ ॥ रामः - अद्यप्रभृति मद्वचनाल्लङ्केश्वरो भव । विभीषणः - अनुगृहीतोऽस्मि । रामः - विभीषण ! त्वदागमनादेव सिद्धमस्मत्कार्यम् । सागरतरणे खलूपायो नाधिगम्यते । विभीषणः-देव ! किमत्रावगन्तव्यम् । यदि मार्गं न ददाति, समुद्रे दिव्यमस्त्रं तावद् विस्रष्टुमर्हति देवः । राम: - साधु विभीषण! साधु । भवतु, एवं तावत् करिष्ये । (सहसोत्तिष्ठन् सरोषम् ) मम शरपरिदग्धतोयपङ्कं हतशतमत्स्यविकर्णभूमिभागम् । यदि मम न ददाति मार्गमेनं प्रतिहतवीचिरवं करोमि शीघ्रम् ॥ १२ ॥ ( ततः प्रविशति वरुणः । ) वरुण:- (ससम्भ्रमम्) नारायणस्य नररूपमुपाश्रितस्य कार्यार्थमभ्युपगतस्य कृतापराधः । देवस्य देवरिपुदेहहरात् प्रतूर्णं भीतः शराच्छरणमेनमुपाश्रयामि ॥ १३ ॥ (विलोक्य) अये अयं भगवान्, मानुषं रूपमास्थाय चक्रशार्ङ्गगदाधरः । स्वयं कारणभूतः सन् कार्यार्थी समुपागतः ॥ १४ ॥ नमो भगवते त्रैलोक्यकारणाय नारायणाय । लक्ष्मण: - ( विलोक्य) अये कोनुखल्वेषः । मणिविरचितमौलिश्चारुताम्रायताक्षो नवकुवलयनीलो मत्तमातङ्गलीलः । सलिलनिचयमध्यादुत्थितस्त्वेष शीघ्र- मवनतमिव कुर्वंस्तेजसा जीवलोकम् ॥ १५ ॥ विभीषणः - देव ! अयं खलु भगवान् वरुणः प्राप्तः । रामः - किं वरुणोऽयम् । भगवन् ! वरुण ! नमस्ते । वरुणः -न मे नमस्कारं कर्तुमर्हति देवेशः । अथवा, राजपुत्र ! कुतः कोपो रोषेण किमलं तव । कर्तव्यं तावदस्माभिर्वद शीघ्रं नरोत्तम ! ॥ १६ ॥ राम: - लङ्कागमने मार्गं दातुमर्हति भवान् । वरुणः - एष मार्गः । प्रयातु भवान् । ( अन्तर्हितः । ) राम:- कथमन्तर्हितो भगवान् वरुणः । विभीषण! पश्य पश्य भगवत्प्रसादान्निष्कम्पवीचिमन्तं सलिलाधिपतिम् । विभीषणः-देव ! साम्प्रतं द्विधाभूत इव दृश्यते जलनिधिः । राम: - क्व हनूमान् । हनूमान् - जयतु देवः । रामः- हनूमन् ! गच्छाग्रतः । हनूमान् - यदाज्ञापयति देवः । ( सर्वे परिक्रामन्ति । ) रामः - ( विलोक्य सविस्मयम् ) वत्स लक्ष्मण ! वयस्य विभीषण ! महाराज सुग्रीव ! सखे हनूमन् ! पश्यन्तु पश्यन्तु भवन्तः । अहो विचित्रता सागरस्य । इह हि, क्वचित् फेनोद्गारी क्वचिदपि च मीनाकुलजल: क्वचिच्छङ्खाकीर्णः क्वचिदपि च नीलाम्बुदनिभः । क्वचिद् वीचीमालः क्वचिदपि च नक्रप्रतिभयः क्वचिद् भीमावर्तः क्वचिदपि च निष्कम्पसलिलः ॥ १७ ॥ भगवत्प्रसादादतीतः सागरः । हनूमान् - देव ! इयमियं लङ्का । रामः - ( चिरं विलोक्य) अहो राक्षसनगरस्य श्रीरचिराद् विपत्स्यते । मम शरवरवातपातभग्ना कपिवरसैन्यतरङ्गताडितान्ता । उदधिजलगतेव नौर्विपन्ना निपतति रावणकर्णधारदोषात् ॥ १८ ॥ सुग्रीव ! अस्मिन् सुवेलपर्वते क्रियतां सेनानिवेशः । ( उपविशति ।) सुग्रीवः - यदाज्ञापयति देवः । नील ! एवं क्रियताम् । ( प्रविश्य ) नील: - यदाज्ञापयति महाराज: । (निष्क्रम्य प्रविश्य ) जयतु देवः । क्रमान्निवेश्यमानासु सेनासु वृन्दपरिग्रहेषु परीक्ष्यमाणेषु पुस्तक- प्रामाण्यात् कुतश्चिदप्यविज्ञायमानौ द्वौ वनौकसौ गृहीतौ । वयं न जानीमः कर्तव्यम् । देवस्तस्मात् प्रमाणम् । रामः- शीघ्रं प्रवेशयत्वेतौ । नील: - यदाज्ञापयति देवः । (निष्क्रान्तः ) ( तत: प्रविशति नीलो वानरैर्गृह्यमाणौ वानररूपधारिणौ सम्पुटिकाहस्तौ शुकसारणौ च । ) वानराः - अङ्घो भणथ । तुम्हे भणथ । [ अङ्घो भणतं कौ युवां भणतम् । ] उभौ - भट्टा ! अम्हे अय्यकुमुदस्स सेवआ [ भर्तः ! आवामार्य- कुमुदस्य सेवकौ । ] वानराः- भट्टा ! अय्यकुमुदस्स सेवअत्ति अत्ताणं अवदिसन्ति । [ भर्तः ! आर्यकुमुदस्य सेवकावित्यात्मानमपदिशतः । ] विभीषण: - ( सावधानं शुकसारणौ विलोक्य ) स्वसैनिकौ न चाप्येतौ न चाप्येतौ वनौकसौ । प्रेषितौ रावणेनैतौ राक्षसौ शुकसारणौ ॥ १९ ॥ उभौ - ( आत्मगतम् ) हन्त कुमारेण विज्ञातौ स्वः । ( प्रकाशम् ) आर्य ! आवां खलु राक्षसराजस्य विप्रतिपत्त्या विपद्यमानं राक्षस- कुलं दृष्ट्वास्पदमलभमानौ आर्यसंश्रयार्थं वानररूपेण सम्प्राप्तौ । रामः - वयस्य ! विभीषण ! कथमिव भवान् मन्यते । विभीषणः - देव ! एतौ हि राक्षसेन्द्रस्य सम्मतौ मन्त्रिणौ नृप ! । प्राणान्तिकेऽपि व्यसने लङ्केशं नैव मुञ्चतः ॥ २० ॥ तस्माद् यथार्हं दण्डमाज्ञापयतु देवः । रामः-विभीषण ! मा मैवम् । अनयोः शासनादेव न मे वृद्धिर्भविष्यति । क्षयो वा राक्षसेन्द्रस्य तस्मादेतौ विमोचय ॥ २१ ॥ लक्ष्मण: - यदि विमुञ्चेत्, सर्वस्कन्धावारं प्रविश्य परीक्ष्य पुनर्मो- क्षमाज्ञापयत्वार्यः । रामः - सम्यगभिहितं लक्ष्मणेन । नील ! एवं क्रियताम् । नील:- यदाज्ञापयति देवः । रामः - अथवा एहि तावत् । उभौ - इमौ स्वः । रामः-अभिधीयतां मद्वचनात् स राक्षसेन्द्रः । मम दारापहारण स्वयङ्ग्राहितविग्रहः । आगतोऽहं न पश्यामि द्रष्टुकामो रणातिथिः ॥ २२ ॥ इति । उभौ - यदाज्ञापयति देवः । (निष्क्रान्तौ । ) रामः - विभीषण ! वयमपि तावदानन्तरीयं बलं परीक्षिष्यामहे । विभीषणः - यदाज्ञापयति देवः । राम:- ( परिक्रम्य विलोक्य) अये अस्तमितो भगवान् दिवाकरः । सम्प्रति हि, अस्ताद्रिमस्तकगतः प्रतिसंहृतांशुः सन्ध्यानुरञ्जितवपुः प्रतिभाति सूर्यः । रक्तोज्ज्वलांशुकवृते द्विरदस्य कुम्भे जाम्बूनदेन रचितः पुलको यथैव ॥ २३ ॥ (निष्क्रान्ताः सर्वे । ) चतुर्थोऽङ्कः । div.n = 5 div.title = पञ्चमोऽङ्कः अथ पञ्चमोऽङ्कः । (ततः प्रविशति राक्षसकाञ्चुकीयः ) राक्षसकाञ्चुकीयः- क इह भोः ! प्रवालतोरणद्वारमशून्यं कुरुते । ( प्रविश्यान्यो राक्षसः ) राक्षसः - आर्य ! अयमस्मि । किं क्रियताम् । काञ्चुकीयः- गच्छ, महाराजस्य शासनाद् विद्युज्जिह्वस्तावदा- हूयताम् । राक्षसः- आर्य ! तथा । (निष्क्रान्तः । ) काञ्चुकीयः - अहोतुखलु विपद्यमानाभ्युदये राक्षसकुले विपन्नसर्व- साधनस्य निहतवीरपुरुषस्य स्वयं च प्राणसंशयं प्राप्तस्येदानीमपि प्रसन्नत्वं नोपगच्छति महाराजस्य बुद्धिः । को हि नाम, चलत्तरङ्गाहतभीमवेलमुदीर्णनक्राकुलनीलनीरम् । समुद्रमाक्रान्तमवेक्ष्य तस्मै दारप्रदानान्न करोति शान्तिम् ॥ १ ॥ अपि च प्रहस्तप्रमुखा वीराः कुम्भकर्णपुरस्सराः । निहता राघवेणाद्य शक्रजिच्चापि निर्गतः ॥ २॥ एवमपि गते, मदनवशगतो महानयार्थं सचिववचोऽप्यनवेक्ष्य वीरमानी । रघुकुलवृषभस्य तस्य देवीं जनकसुतां न ददाति योद्धुकामः ॥ ३ ॥ ( प्रविश्य ) विद्युजिह्वः - अपि सुखमार्यस्य । काञ्चुकीयः - विद्युज्जिह्व ! गच्छ, महाराजवचनाद् रामलक्ष्मणयोः शिरःप्रतिकृतिरानीयताम् । विद्युजिह्वः - यदाज्ञापयति महाराज: । (निष्क्रान्तः । ) काञ्चुकीयः- यावदहमपि महाराजस्य प्रत्यन्तरीभविष्यामि । ( निष्क्रान्तः । ) विष्कम्भकः । ( तत: प्रविशति राक्षसीगणपरिवृता सीता ) सीता - किण्णुहु अय्यउत्तस्स आगमणेण पहळादिअस्स हिअअस्स अज्ज आवेओ विअ संवृत्तो । अणिट्ठाणि निमित्ताणि अ दिस्सन्ति । एवं वि दाणि ( अच्चाहिअं ?) हिअअस्स महन्तो अब्भुदओ वड्ढइ । सव्वहा इस्सरा सन्तिं करन्तु । [ किन्नु खल्वार्थ- पुत्रस्यागमनेन प्रह्लादितस्य हृदयस्याद्यावेग इव संवृत्तः । अनिष्टानि निमित्तानि च दृश्यन्ते । एवमपीदानीं हृदयस्य महानभ्युदयो वर्धते । सर्वथेश्वराः शान्तिं कुर्वन्तु । ] ( ततः प्रविशति रावणः । ) रावणः - मा तावद्, एषा विहाय भवनं मम सम्प्रयाता नारी नवामलजलोद्भवलग्नहस्ता । लङ्का यदा हि समरे वशमागता मे पौलस्त्यमाशु परिजित्य तदा गृहीता ॥ ४ ॥ भवति ! तिष्ठ तिष्ठ । न खलु न खलु गन्तव्यम् । किं ब्रवीषि - उत्सृज्य त्वां राममुपगच्छामीति । आः अपध्वंस । बलादेव गृहीतासि तदा वैश्रवणालये । बलादेव ग्रहीष्ये त्वां हत्वा राघवमाहवे ॥ ५ ॥ किमनया । यावदहमपि सीतां विलोभयिष्ये । ( मदनावेशं निरूप्य ) अहोतुखल्वतुलबलता कुसुमधन्वनः । कुतः, निद्रां मे निशि विस्मरन्ति नयनान्यालोक्य सीताननं तत्संश्लेषसुखार्थिनी तनुतरा याता तनुः पाण्डुताम् । सन्तापं रमणीयवस्तुविषये बध्नाति पुष्पेषुणा कष्टं निर्जितविष्टपत्रयभुजो निर्जीयते रावणः ॥ ६ ॥ ( उपेत्य ) सीते! त्यजत्वमरविन्दपलाशनेत्रे ! चित्तं हि मानुषगतं मम चित्तनाथे ! । शस्त्रेण मेऽद्य समरे विनिपात्यमानं प्रेक्षस्व लक्ष्मणयुतं तव चित्तकान्तम् ॥ ७ ॥ सीता - हं मूढो खुसि रावणओ, जो मन्दरं हत्थेण तुळयिदुकामो । [ हं मूढः खल्वसि रावणकः, यो मन्दरं हस्तेन तुलयितुकामः । ] ( प्रविश्य ) राक्षसः - जयतु महाराजः । एते तयोर्मानुषयोः शिरसी राजपुत्रयोः । युधि हत्वा कुमारेण गृहीते त्वत्प्रियार्थिना ॥ ८ ॥ रावणः - सीते ! पश्य पश्य तयोर्मानुषयोः शिरसी । सीता - हा अय्यउत्त ! । ( इति मूर्च्छिता पतति । ) [ हा आर्यपुत्र ! । ] रावणः- सीते ! भावं परित्यज्य मानुषेऽस्मिन् गतायुषि । अद्यैव त्वं विशालाक्षि ! महतीं श्रियमाप्नुहि ॥ ९ ॥ सीता - ( प्रत्यभिज्ञाय ) हा अय्यउत्त ! परिमळणवकमळसण्णिहे वदणे परिवृत्तणअणे पेक्खन्ती अदिधीरा खु म्हि मन्दभाआ । हा अय्यउत्त ! एदस्सिं दुःखसाअरे मं णिक्खिविअ कहिं गदो सि । जाव ण मरामि । किंणुखु अळिअं एदं भवे । भद्द ! जेण असिणा अय्यउत्तस्स असदिसं किदं, तेण मं वि मारेहि । [ हा आर्यपुत्र ! परिमलनवकमलसन्निभे वदने परिवृत्तनयने पश्यन्ती अतिधीरा खल्वस्मि मन्दभागा । हा आर्यपुत्र ! एतस्मिन् दुःखसागरे मां निक्षिप्य कुत्र गतोऽसि । यावन्न म्रिये । किन्नुखल्वलीकमेतद् भवेत् । भद्र ! येना- सिनार्यपुत्रस्यासदृशं कृतं तेन मामपि मारय । ] रावणः- व्यक्तमिन्द्रजिता युद्धे हते तस्मिन् नराधमे । लक्ष्मणेन सह भ्रात्रा केन त्वं मोक्षयिष्यसे ॥ १० ॥ (नेपथ्ये ) रामेण रामेण । सीता - चिरं जीव । ( प्रविश्य ) राक्षसः - ( ससम्भ्रमम् ) रामेण रामेण । रावणः- कथं कथं रामेणेति । राक्षसः - प्रसीदतु प्रसीदतु महाराजः । अतिपातिवृत्तान्तनिवेदन- त्वरयावस्थान्तरं नावेक्षितम् । रावणः - ब्रूहि ब्रूहि । किं कृतं मनुजतापसेन । राक्षसः- श्रोतुमर्हति महाराजः । तेन खलु, उदीर्णसत्त्वेन महाबलेन लङ्केश्वरं त्वामभिभूय शीघ्रम् । सलक्ष्मणेनाद्य हि राघवेण प्रसह्य युद्धे निहतः सुतस्ते ॥ ११ ॥ रावणः - आः दुरात्मन्! समरभीरो ! देवाः सेन्द्रा जिता येन दैत्याश्चापि पराङ्मुखाः । इन्द्रजित् सोऽपि समरे मानुषेण निहन्यते ॥ १२ ॥ राक्षसः - प्रसीदतु प्रसीदतु महाराजः । महाराजपादमूले कुमारम- न्तरेणानृतं नाभिधीयते । रावणः - हा वत्स ! मेघनाद ! । ( इति मूर्च्छितः पतति । ) राक्षसः - महाराज ! समाश्वसिहि समाश्वसिहि । रावण: - ( प्रत्यभिज्ञाय ) हा वत्स ! सर्वजगतां ज्वरकृत् ! कृतास्त्र ! हा वत्स ! वासवजिदानतवैरिचक्र ! । हा वत्स ! वीर ! गुरुवत्सल ! युद्धशौण्ड ! हा वत्स ! मामिह विहाय गतोऽसि कस्मात् ॥ १३ ॥ ( इति मोहमुपगतः । ) राक्षसः-हा धिक् त्रैलोक्यविजयी लङ्केश्वर एतामवस्थां प्रापितो हतकेन विधिना । महाराज ! समाश्वसिहि समाश्वसिहि । रावण: - ( समाश्वस्य ) इदानीमनर्थहेतुभूतया सीतया किमनया त्रैलोक्यविजयविफलया चपलया श्रिया च । किं भोः कृतान्तहतक ! अद्यापि भयविह्वलोऽसि । इदानीमपि निःस्नेहो वत्सेनेन्द्रजिता विना । कष्टं कठोरहृदयो जीवत्येष दशाननः ॥ १४ ॥ ( इति सन्तापात् पतति । ) राक्षस: - हा भो रजनीचरवीराः ! एवंगते राजन्यन्तःकक्ष्यास्थिता रक्षिणश्चाप्रमत्ता भवन्तु भवन्तः । ( नेपथ्ये ) भो भो रजनीचरवीराः ! समरमुखनिरस्तप्रहस्तनिकुम्भकुम्भक- र्णेन्द्रजिद्विकलबलजलधिजनितभयचकितविमुखाः ! चपलपलायन- मनुचितमविरतममरसमराणि जितवतां भवताम्, अथ च विश्वलोक- विजयविख्यातविंशद्बाहुशालिनि भर्तर्यत्र स्थितवति लङ्केश्वरे । रावणः- (श्रुत्वा सामर्षम् ) गच्छ, भूयो ज्ञायतां वृत्तान्तः । राक्षसः- यदाज्ञापयति महाराजः । ( निष्क्रम्य प्रविश्य ) जयतु महा- राजः । एष हि रामः, धनुषि निहितबाणस्त्वामतिक्रम्य गर्वा- द्धरिगणपरिवारो हाससम्फुल्लनेत्रः । रणशिरसि सुतं ते पातयित्वा तु राज- न्नभिपतति हि लङ्कां सन्दिधक्षुर्यथैव ॥ १५ ॥ रावणः-( सहसोत्थाय सरोषम् ) कासौ कासौ । ( असिमुद्यम्य ) वज्रीभकुम्भतटभेदकठोरधारः क्रोधोपहारमसिरेष विधास्यति त्वाम् । सम्प्रत्यवन्त्वनिमिषा इह मत्करस्थः क्षुद्र ! क्व यास्यसि कुतापस ! तिष्ठ तिष्ठ ॥ १६॥ राक्षस: - महाराज ! अलमतिसाहसेन । सीता - अणिट्ठाणि अणरुहाणि अणिमित्ताणि इदाणिं करअंतस्स रावणस्स अइरेण मरणं भविस्सिदि । [ अनिष्टान्यनर्हाण्यनिमित्ता- नीदानीं कुर्वतो रावणास्याचिरेण मरणं भविष्यति । ] रावणः - अस्याः कारणेन बहवो भ्रातरः सुताः सुहृदश्व मे निहताः । तस्मादमित्रविषयमस्या हृदयं भित्त्वा कृष्टान्त्रमालाल- ङ्कृतः खड्गाशनिपातेन समनुजयुगलं सकलवानरकुलं ध्वंसयामि । राक्षसः - प्रसीदतु प्रसीदतु महाराजः । अलमलमिदानीमरिबलावले- पमन्तरेणानवरतवृथाप्रयासेन । अवश्यं च स्त्रीवधो न कर्तव्यः । रावणः - तेन हि स्यन्दनमानय । राक्षसः - यदाज्ञापयति महाराजः । (निष्क्रम्य प्रविश्य) जयतु महा- राजः । इदं स्यन्दनम् । रावण: - ( रथमारुह्य ) समावृतं सुरैरद्य सीते ! द्रक्ष्यसि राघवम् । मम चापच्युतैस्तीक्ष्णैर्बाणैराक्रान्तचेतसम् ॥ १७ ॥ ( निष्क्रान्तः सपरिवारो रावणः । ) सीता - इस्सरा ! अत्तणो कुळसदिसेण चारित्तेण जदि अहं अणु- सरामि अय्यउत्तं, अय्यउत्तस्स विजओ होदु । [ ईश्वराः ! आत्मनः कुलसदृशेन चारित्रेण यद्यहमनुसराम्यार्यपुत्रम्, आर्यपुत्रस्य विजयो भवतु । ] ( निष्क्रान्ता । ) पञ्चमोऽङ्कः । div.n = 6 div.title = षष्ठोऽङ्कः अथ षष्ठोऽङ्कः । ( ततः प्रविशन्ति विद्याधरास्त्रयः । ) सर्वे - एते स्मो भो ! एते स्मः । प्रथमः- इक्ष्वाकुवंशविपुलोज्ज्वलदीप्तकेतोः द्वितीय:- रामस्य रावणवधाय कृतोद्यमस्य । तृतीयः- सङ्ग्रामदर्शनकुतूहलबद्धचित्ताः सर्वे- प्राप्ता वयं हिमवतः शिखरात् प्रतूर्णम् ॥ १ ॥ प्रथमः- चित्ररथ ! एते देवदेवर्षिसिद्धविद्याधरादयो निरन्तरं नभः कृत्वा स्थिताः । तस्माद् वयमप्येतेषामेतान् गणान् परिहरन्तः स्वैरमेकान्ते स्थित्वा रामरावणयोर्युद्धविशेषं पश्यामः । उभौ-बाढम् । ( तथा कृत्वा ) प्रथमः- अहो प्रतिभयदर्शनीया खल्वियं युद्धभूमिः । इह हि, रजनिचरशरीरनीरकीर्णा कपिवरवीचियुता वरासिनक्रा । उदधिरिव विभाति युद्धभूमी रघुवरचन्द्रशरांशुवृद्धवेगा ॥ २ ॥ द्वितीयः- एवमेतत् । एते पादपशैलभग्नशिरसो मुष्टिप्रहारैर्हताः क्रुद्धैर्वानरयूथपैरतिबलैरुत्पुच्छकर्णैर्वृताः । कण्ठग्राहविवृत्ततुङ्गनयनैर्दष्टोष्ठतीव्रैर्मुखैः शैला वज्रहता इवाशु समरे रक्षोगणाः पातिताः ॥ ३ ॥ तृतीयः - एते चापि द्रष्टव्या भवद्भ्यां निशितविमलखड्गाः क्रोधविस्फारिताक्षा विमलविकृतदंष्ट्रा नीलजीमूतकल्पाः । हरिगणपतिसैन्यं हन्तुकामाः समन्ताद् रभसविवृतवक्त्रा राक्षसाः सम्पतन्तिः ॥ ४ ॥ प्रथमः - - अहोतुखलु, बाणाः पात्यन्ते राक्षसैर्वानरेषु द्वितीय:- शैला क्षिप्यन्ते वानरैर्नैर्ऋतेषु । तृतीय:- मुष्टिप्रक्षेपैर्जानुसङ्घट्टनैश्च सर्वे- भीमश्चित्रं भोः ! सम्प्रमर्दः प्रवृत्तः ॥ ५ ॥ प्रथमः- रावणमपि पश्येतां भवन्तौ, कनकरचितदण्डां शक्तिमुल्लालयन्तं विमलविकृतदंष्ट्रं स्यन्दनं वाहयन्तम् । उदयशिखरमध्ये पूर्णबिम्बं शशाङ्कं ग्रहमिव भगणेशं राममालोक्य रुष्टम् ॥ ६ ॥ द्वितीय:- राममपि पश्येतां भवन्तौ । सव्येन चापमवलम्ब्य करेण वीर- मन्येन सायकवरं परिवर्तयन्तम् । भूमौ स्थितं रथगतं रिपुमीक्षमाणं क्रौञ्चं यथा गिरिवरं युधि कार्त्तिकेयम् ॥ ७ ॥ तृतीयः -हहह । रावणेन विमुक्तेयं शक्तिः कालान्तकोपमा । रामेण स्मयमानेन द्विधा छिन्ना धनुष्मता ॥ ८ ॥ प्रथमः- शक्तिं निपातितां दृष्TvA क्रोधविस्फारितेक्षणः रामं प्रत्यैषवं वर्षमभिवर्षति रावणः ॥ ९ ॥ द्वितीय:- अहो रामस्य शोभा । एता रावणजीमूताद् बाणधारा विनिस्सृताः । विभान्ति राममासाद्य वारिधारा वृषं यथा ॥ १० ॥ तृतीय:- एष एषः, कनकरचितचापं तीक्ष्णमुद्यम्य शीघ्रं रणशिरसि सुघोरं बाणजालं विधून्वन् । रथगतमभियान्तं रावणं याति पद्भ्यां गजपतिमिव मत्तं तीक्ष्णदंष्ट्रो मृगेन्द्रः ॥ ११ ॥ सर्वे-अये ज्वलित इव प्रभायायं देशः । किन्नुखल्विदम् । प्रथमः- आ युद्धसामान्यजनितशङ्केन महेन्द्रेण प्रेषितो मातलि- वाहितो रथः । द्वितीयः - उपस्थितं मातलिं दृष्ट्वा तस्य वचनाद् रथमारूढवान् रामः । तृतीया: - एष हि, सुरवरजयदर्पदेशिकेऽस्मिन् दितिसुतनाशकरे रथे विभाति । रजनिचरविनाशकारणः संस्त्रिपुरवधाय यथा पुरा कपर्दी ॥१२॥ प्रथमः- अहो महत् प्रवृत्तं युद्धम् । शरवरपरिपीततीव्रबाणं नरवरनैर्ऋतयोः समीक्ष्य युद्धम् । विरतविविधशस्त्रपातमेते हरिवरराक्षससैनिकाः स्थिताश्च ॥ १३॥ द्वितीय:- अहोतुखलु, चारीभिरेतौ परिवर्तमानौ रथे स्थितौ बाणगणान् वमन्तौ । स्वरश्मिजालैर्धरणिं दहन्तौ सूर्याविव द्वौ नभसि भ्रमन्तौ ॥ १४ ॥ तृतीयः - रावणमपि पश्येतां भवन्तौ । शरैर्भीमवेगैर्हयान् मर्दयित्वा ध्वजं चापि शीघ्रं बलेनाभिहत्य । महद् बाणवर्षं सृजन्तं नदन्तं हसन्तं नृदेवं भृशं भीषयन्तम् ॥१५॥ प्रथमः- एष हि रामः, स्थानाक्रामणवामनीकृततनुः किञ्चित् समाश्वास्य वै तीव्रं वाणमवेक्ष्य रक्तनयनो मध्याह्नसूर्यप्रभः । व्यक्तं मातलिना स्वयं नरपतिर्दत्तास्पदो वीर्यवान् क्रुद्धः संहितवान् वरास्त्रममितं पैतामहं पार्थिवः ॥ १६ ॥ द्वितीय:- एतदस्त्रं, रघुवरभुजवेगविप्रमुक्तं ज्वलनदिवाकरयुक्ततीक्ष्णधारम् । रजनिचरवरं निहत्य सङ्ख्ये पुनरभिगच्छति राममेव शीघ्रम् ॥ १७॥ सर्वे - हन्त निपातितो रावणः । प्रथमः- रावणं निहतं दृष्ट्वा पुष्पवृष्टिर्निपातिता । एता नदन्ति गम्भीरं भेर्यस्त्रिदिवसद्मनाम् ॥ १८ ॥ द्वितीयः-भवतु । सिद्धं देवकार्यम् । प्रथमः- तदागम्यताम् । वयमपि तावत् सर्वहितं रामं सम्भाव- यिष्यामः । उभौ-बाढम् । प्रथमः कल्पः । (निष्क्रान्ताः सर्वे । ) विष्कम्भकः । ( ततः प्रविशति रामः । ) राम:- हत्वा रावणमाहवेऽद्य तरसा मद्बाणवेगार्दितं कृत्वा चापि विभीषणं शुभमतिं लङ्केश्वरं साम्प्रतम् । तीर्त्वा चैवमनल्पसत्त्वचरितं दोर्भ्यां प्रतिज्ञार्णवं लङ्कामभ्युपयामि बन्धुसहितः सीतां समाश्वासितुम् ॥ १९ ॥ ( प्रविश्य ) लक्ष्मणः- जयत्वार्यः । आर्य ! एषा ह्यार्यार्यस्य समीपमुपसर्पति । रामः - वत्स ! लक्ष्मण ! अपायाच्च हि वैदेह्या उषिताया रिपुक्षये । दर्शनात् साम्प्रतं धैर्यं मन्युर्मे वारयिष्यति ॥ २० ॥ लक्ष्मणः- यदाज्ञापयत्यार्यः । (निष्क्रान्तः । ) ( प्रविश्य ) विभीषणः - जयतु देवः । एषा हि राजंस्तव धर्मपत्नी त्वद्बाहुवीर्येण विधूतदुःखा । लक्ष्मीः पुरा दैत्यकुलच्युतेव तव प्रसादात् समुपस्थिता सा ॥ २१ ॥ रामः - विभीषण ! तत्रैव तावत् तिष्ठतु रजनिचरावमर्शजातकल्मषा इक्ष्वाकुकुलस्याङ्कभूता । राजानं दशरथं पितरमुद्दिश्य न युक्तं भो लङ्काधिपते ! मां द्रष्टुम् । अपिच, मज्जमानमकार्येषु पुरुषं विषयेषु वै । निवारयति यो राजन् ! स मित्रं रिपुरन्यथा ॥ २२ ॥ विभीषणः - प्रसीदतु देवः । रामः - नार्हति भवानतः परं पीडयितुम् । ( प्रविश्य ) लक्ष्मण:- जयत्वार्यः । आर्यस्याभिप्रायं श्रुत्वैवाग्निप्रवेशाय प्रसादं प्रतिपालयत्यार्या । राम:-लक्ष्मण ! अस्याः पतिव्रतायाइछन्दमनुतिष्ठ । लक्ष्मणः- यदाज्ञापयत्यार्यः । (परिक्रम्य) भोः ! कष्टम् । विज्ञाय देव्याः शौचं च श्रुत्वा चार्यस्य शासनम् । धर्मस्नेहान्तरे न्यस्ता बुद्धिर्दोलायते मम ॥ २३ । कोऽत्र । ( प्रविश्य ) हनूमान् - जयतु कुमारः । लक्ष्मणः - हनूमन् ! यदि ते शक्तिरस्ति, एवमाज्ञापयत्यार्यः हनुमान् - अत्र किं तर्कयति कुमारः । लक्ष्मणः- निष्फलो मम तर्कः । अथवा वयमार्यस्याभिप्रायमनुवर्ति- तारः । गच्छामस्तावत् । हनूमान् - यदाज्ञापयति कुमारः । (निष्क्रान्तौ । ) ( प्रविश्य ) लक्ष्मणः - प्रसीदत्वार्यः । आर्य ! आश्चर्यमाश्चर्यम् । एषा ह्यार्यां, विकसितशतपत्रदामकल्पा ज्वलनमिहाशु विमुक्तजीविताशा । श्रममिह तव निष्फलं च कृत्वा प्रविशति पद्मवनं यथैव हंसी ॥ २४ ॥ रामः- आश्चर्यमाश्चर्यम् । लक्ष्मण ! निवारय निवारय । लक्ष्मणः–यदाज्ञापयत्यार्थः । ( प्रविश्य ) हनूमान् - जयतु देवः । एषा कनकमालेव ज्वलनाद् वर्धितप्रभा । पावना पावकं प्राप्य निर्विकारमुपागता ॥ २५ ॥ रामः - ( सविस्मयम् ) किमिति किमिति । लक्ष्मणः - अहो, आश्चर्यम् । ( प्रविश्य ) सुग्रीवः - जयतु देवः । कोनुखल्वेष जीवन्तीमादाय जनकात्मजाम् । प्रणम्यरूपः सम्भूतो ज्वलतो हव्यवाहनात् ॥ २६ ॥ लक्ष्मणः - अये अयमार्यां पुरस्कृत्येत एवाभिवर्तते भगवान् विभावसुः । रामः-अये अयं भगवान् हुताशनः । उपसर्पामस्तावत् । ( सर्वे उपसर्पन्ति । ) ( ततः प्रविश्यत्यग्निः सीतां गृहीत्वा । ) अग्निः - एष भगवान् नारायणः । जयतु देवः । रामः - भगवन् ! नमस्ते । अग्निः- न मे नमस्कारं कर्तुमर्हति देवेशः । इमां गृह्णीष्व राजेन्द्र ! सर्वलोकनमस्कृताम् । अपापामक्षतां शुद्धां जानकी पुरुषोत्तम ! ॥ २७ ॥ अपिच, इमां भगवती लक्ष्मीं जानीहि जनकात्मजाम् । सा भवन्तमनुप्राप्ता मानुषीं तनुमास्थिता ॥ २८ ॥ राम: - अनुगृहीतोऽस्मि । जानतापि च वैदेह्याः शुचितां धूमकेतन ! । प्रत्ययार्थं हि लोकानामेवमेव मया कृतम् ॥ २९ ॥ ( नेपथ्ये दिव्यगन्धर्वा गायन्ति । ) नमो भगवते त्रैलोक्यकारणाय नारायणाय । ब्रह्मा ते हृदयं जगत्रयपते ! रुद्रश्च कोपस्तव नेत्रे चन्द्रदिवाकरौ सुरपते ! जिह्वा च ते भारती । सब्रह्मेन्द्रमरुद्गणं त्रिभुवनं सृष्टं त्वयैव प्रभो ! सीतेयं जलसम्भवालयरता विष्णुर्भवान् गृह्यताम् ॥ ३० ॥ ( पुनर्नेपथ्ये अपरे गायन्ति । ) मग्नेयं हि जले वराहवपुषा भूमिस्त्वयैवोद्धृता विक्रान्तं भुवनत्रयं सुरपते ! पादत्रयेण त्वया । स्वैरं रूपमुपस्थितेन भवता देव्या यथा साम्प्रतं हत्वा रावणमाहवे न हि तथा देवाः समाश्वासिताः ॥३१॥ अग्निः - भद्रमुख ! एते देवदेवर्षिसिद्धविद्याधरगन्धर्वाप्सरोगणाः स्वविभवैर्भवन्तं वर्धयन्ति । रामः - अनुगृहीतोऽस्मि । अग्निः-भद्रमुख ! अभिषेकार्थमित इतो भवान् । रामः - यदाज्ञापयति भगवान् । (निष्क्रान्तौ । ) ( नेपथ्ये ) जयतु देवः । जयतु स्वामी । जयतु भद्रमुखः । जयतु महाराजः जयतु रावणान्तकः । जयत्वायुष्मान् । विभीषण: - एष एष महाराजः, तीर्त्वा प्रतिज्ञार्णवमाहवेऽद्य सम्प्राप्य देवीं च विधूतपापाम् । देवैः समस्तैश्च कृताभिषेको विभाति शुभ्रे नभसीव चन्द्रः ॥ ३२ ॥ लक्ष्मणः - अहोतुखल्वार्यस्य वैष्णवं तेजः । यमवरुणकुबेरवासवाद्यैस्त्रिदशगणैरभिसंवृतो विभाति । दशरथवचनात् कृताभिषेकस्त्रिदशपतित्वमवाप्य वृत्रहेव ॥ ३३ ॥ ( ततः प्रविशति कृताभिषेको रामः सीतया सह । ) रामः - वत्स ! लक्ष्मण ! येनाहं कृतमङ्गलप्रतिसरो भद्रासनारोपितो- ऽप्यम्बायाः प्रियमिच्छता नृपतिना भिन्नाभिषेकः कृतः । व्यक्तं दैवगतिं गतेन गुरुणा प्रत्यक्षतः साम्प्रतं तेनैवाद्य पुनः प्रहृष्टमनसा प्राप्ताभिषेकः कृतः ॥ ३४ ॥ अग्नि: - भद्रमुख ! एता हि महेन्द्रनियोगाद् भरतशत्रुघ्नपुरःसराः प्रकृतयो भवन्तमुपस्थिताः । रामः - भगवान् ! प्रहृष्टोऽस्मि । अभिः - इमे महेन्द्रादयोऽमृतभुजो भवन्तमभिवर्धयन्ति । रामः - अनुगृहीतोऽस्मि । अभिः - भद्रमुख ! किं ते भूयः प्रियमुपहरामि । राम: - यदि मे भगवान् प्रसन्नः, किमतः परमहमिच्छामि । ( भरतवाक्यम् । ) भवन्त्वरजसो गावः परचक्रं प्रशाम्यतु । इमामपि महीं कृत्स्नां राजसिंहः प्रशास्तु नः ॥ ३५ ॥ ( निष्क्रान्ताः सर्वे ) षष्ठोऽङ्कः । अभिषेकनाटकं समाप्तम् । ॥ श्रीः ॥ भासनाटकचक्रे पञ्चरात्रम् ( नान्द्यन्ते ततः प्रविशति सूत्रधारः । ) सूत्रधारः- द्रोणः पृथिव्यर्जुनभीमदूतो यः कर्णधारः शकुनीश्वरस्य । दुर्योधनो भीष्मयुधिष्ठिरः स पायाद् विराडुत्तरगोऽभिमन्युः ॥ १ ॥ ( परिक्रम्य ) एवमार्यमिश्रान् विज्ञापयामि । अये किन्नुखलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते । अङ्ग ! पश्यामि । ( नेपथ्ये ) अहो कुरुराजस्य यज्ञसमृद्धिः । सूत्रधारः - भवतु, विज्ञातम् । सर्वैरन्तःपुरैः सार्धं प्रीत्या प्राप्तेषु राजसु । यज्ञो दुर्योधनस्यैष कुरुराजस्य वर्तते ॥ २ ॥ ( निष्क्रान्तः । ) स्थापना । ( ततः प्रविशन्ति ब्राह्मणास्त्रयः । ) सर्वे - अहो ! कुरुराजस्य यज्ञसमृद्धिः । प्रथमः- इह हि, द्विजोच्छिष्ठैरन्नैः प्रकुसुमितकाशा इव दिशो हविर्धूमैः सर्वे हृतकुसुमगन्धास्तरुगणाः । मृगैस्तुल्या व्याघ्रा वधनिभृतसिंहाश्च गिरयो नृपे दीक्षां प्राप्ते जगदपि समं दीक्षितमिव ॥ ३ ॥ द्वितीयः- सम्यग् भवानाह । तृप्तोऽग्निर्हविषामरोत्तममुखं तृप्ता द्विजेन्द्रा धनै- स्तृप्ताः पक्षिगणाश्च गोगणयुतास्ते ते नराः सर्वशः । हृष्टं सम्प्रति सर्वतो जगदिदं गर्जन्नृपे सद्गुणै- रेवं लोकमुदारुरोह सकलं देवालयं तद्गुणैः ॥ ४ ॥ तृतीयः - इमेऽत्रभवन्तो द्विजातयः, राज्ञां वेष्टनपट्टघृष्टचरणाः श्लाघ्यप्रभूतश्रवा वार्द्धक्येऽप्यभिवर्धमाननियमाः स्वाध्यायशूरैर्मुखैः । विप्रा यान्ति वयःप्रकर्षशिथिला यष्टित्रिपादक्रमाः शिष्यस्कन्धनिवेशिताञ्चितकरा जीर्णा गजेन्द्रा इव ॥ ५ ॥ सर्वे - भो भो माणवकाः भो भो माणवकाः ! अनवसितेऽव- भृथस्नाने न खलु तावदग्निरुत्स्रष्टव्यो भवद्भिः । प्रथमः- हा धिग्, दर्शितमेव तावद् वटुचापलम् । एषा दीप्तैकयूपा कनकमयभुजेवाभाति वसुधा चैत्याग्निर्लौकिकाग्निं द्विज इव वृषलं पार्श्वे न सहते । नात्यर्थं प्लुष्टपृष्ठा हरितकुशतया वेदी परिवृता प्राग्वंशं चैष धूमो गज इव नलिनी फुल्लां प्रविशति ॥ ६ ॥ द्वितीयः - एवमेतद्, अग्निरग्निभयादेष भीतैर्निर्वास्यते द्विजैः । कुले व्युत्क्रान्तचारित्रे ज्ञातिर्ज्ञातिभयादिव ॥ ७ ॥ तृतीय:- शकटी च घृतापूर्णा सिच्यमानापि वारिणा । नारीवोपरतापत्या बालस्नेहेन दह्यते ॥ ८ ॥ प्रथमः- सम्यग् भवानाह । एतां चक्रधरस्य धर्मशकटीं दग्धुं समभ्युद्यतो दर्भे शुष्यति नीलशाद्वलतया वह्निः शनैर्वामनः । वातेनाकुलितः शिखापरिगतश्चक्रं क्रमेणागतो नेमीमण्डलमण्डलीकृतवपुः सूर्यायते पावकः ॥ ९ ॥ द्वितीयः - इदमपरं पश्य, वल्मीकमूलाद् दहनेन भीता- स्तत्कोटरैः पञ्च समं भुजङ्गाः । समं विपन्नस्य नरस्य देहाद् विनिःसृताः पञ्च यथेन्द्रियाणि ॥ १० ॥ तृतीयः- इदमपरं पश्येतां भवन्तौ, दह्यमानस्य वृक्षस्य सानिलेन मखाग्निना । कोटरान्तरदेहस्थाः खगाः प्राणा इवोद्गताः ॥ ११ ॥ प्रथमः- एवमेतत्, शुष्केणैकेन वृक्षेण वनं पुष्पितपादपम् । कुलं चारित्रहीनेन पुरुषेणेव दह्यते ॥ १२ ॥ वनं सवृक्षक्षुपगुल्ममेतत् प्रकाममाहारमिवोपभुज्य । कुशानुसारेण हुताशनोऽसौ नदीमुपस्प्रष्टुमिवावतीर्णः ॥ १३ ॥ द्वितीयः - एष एपः गतो वृक्षाद् वृक्षं विततकुशचीरेण दहनः कदल्या विप्लुष्टं पतति परिणामादिव फलम् । असौ चाम्रे तालो मधुपटलचक्रेण महता चिरं मूले दग्धः परशुरिव रुद्रस्य पतति ॥ १४ ॥ तृतीयः - हन्त सत्पुरुषरोष इव प्रशान्तो भगवान् हुताशनः । एतदग्नेर्बलं नष्टमिन्धनानां परिक्षयान् । दानशक्तिरिवार्यस्य विभवानां परिक्षयान् ॥ १५ ॥ प्रथमः- स्रुग्भाण्डमरणीं दर्भानुपभुङ्के हुताशनः । व्यसनित्वान्नरः क्षीणः परिच्छदमिवात्मनः ॥ १६ ॥ द्वितीय:- अवनतविटपो नदीपलाश: पवनवशाच्चलितैकपर्णहस्तः । दवदहनविपन्नजीविताना- मुदकमिवैष करोति पादपानाम् ॥ १७ ॥ तृतीयः - तदागम्यताम् । वयमपि तावदुपस्पृशामः । उभौ-बाढम् । ( सर्वे उपस्पृश्य ) प्रथमः- अये अयमत्रभवता कुरुराजो दुर्योधनो भीष्मद्रोणपुरःसरः सर्वराजमण्डलेनानुगम्यमान इत एवाभिवर्तते । इमे हि, यज्ञेन भोजय महीं जय विक्रमेण रोषं परित्यज, भव स्वजने दयावान् । इत्येवमागतकथामधुरं ब्रुवन्तः कुर्वन्ति पाण्डवपरिग्रहमेव पौराः ॥ १८ ॥ तदागम्यताम् । वयमपि तावत् कुरुराजं सम्भावयामः । उभौ-बाढम् । सर्वे-जयतु भवान् जयतु । (निष्क्रान्ताः सर्वे । ) विष्कम्भकः । ( ततः प्रविशतो भीष्मद्रोणौ । ) द्रोणः- धर्ममालम्बमानेन दुर्योधनेनाहमेवानुगृहीतो नाम । कुतः, अतीत्य बन्धूनवलङ्घ्य मित्रा- ण्याचार्यमागच्छति शिष्यदोषः । बालं ह्यपत्यं गुरवे प्रदातु- र्नैवापराधोऽस्ति पितुर्न मातुः ॥ १९॥ भीष्मः - एष दुर्योधनः, अवाप्य रुप्यग्रहणात् समुच्छ्रयं रणप्रियत्वादयशो निपीतवान् । निषेव्य धर्मं सुकृतस्य भाजनं स एव रूपेण चिरस्य शोभते ॥ २० ॥ ( ततः प्रविशति दुर्योधनः कर्णः शकुनिश्व । ) दुर्योधनः- कृतश्रद्धो ह्यात्मा वहति परितोषं गुरुजनो जगद् विश्वस्तं मे निवसति गुणो नष्टमयशः । मृतैः प्राप्यः स्वर्गे यदि कथयत्येतदनृतं परोक्षो न स्वर्गे बहुगुणमिहैवैष फलति ॥ २१ ॥ कर्णः - गान्धारीमातः ! न्यायेनागतमर्थमतिसृजता न्याय्यमेव भवता कृतम् । कुतः, बाणाधीन क्षत्रियाणां समृद्धिः पुत्रापेक्षी वञ्च्यते सन्निधाता । विप्रोत्सङ्गे वित्तमावर्ज्य सर्वं राज्ञा देयं चापमात्रं सुतेभ्यः ॥ २२ ॥ शकुनिः- सम्यगाह गङ्गोपस्पर्शनाद् धौतकल्मषाङ्गोऽङ्गराजः । कर्णः - इक्ष्वाकुशर्य्यातिययातिराम- मान्धातृनाभागनृगाम्बरीषाः । एते सकोशाः पुरुषाः सराष्ट्रा नष्टाः शरीरैः क्रतुभिर्धरन्ते ॥ २३ ॥ सर्वे - गान्धारीमातः ! यज्ञसमाप्त्या दिष्ट्या भवान् वर्धते । दुर्योधनः- अनुगृहीतोऽस्मि । भो आचार्य ! अभिवादये । द्रोणः - एह्येहि पुत्र ! अयमक्रमः । दुर्योधनः- अथ कः क्रमः । द्रोणः - किं न पश्यति भवान्, दैवतं मानुषीभूतमेष तावन्नमस्यताम् । अन्यायाचरणं मन्ये भीष्ममुत्क्रम्य वन्दितुम् ॥ २४॥ भीष्मः- मा मा भवानेवम् । बहुभिः कारणैरपकृष्टोऽहं भवतः । कुतः, अहं हि मात्रा जनितो भवान् स्वयं ममायुधं वृत्तिरपह्नवस्तव । द्विजो भवान् क्षत्रियवंशजा वयं गुरुर्भवान् शिष्यमहत्तरा वयं ॥ २५ ॥ द्रोणः- नोत्सहन्ते महात्मानो ह्यात्मानमपस्तोतुम् । एहि पुत्र ! अभिवादयस्व माम् । दुर्योधनः- आचार्य ! अभिवादये । द्रोणः - एह्येहि पुत्र ! एवमेवावभृथस्नानेषु खेदमवाप्नुहि । दुर्योधनः -- अनुगृहीतोऽस्मि । पितामह ! अभिवादये । भीष्मः - एह्येहि पौत्र ! एवमेव ते बुद्धिप्रशमनं भवतु दुर्योधनः- अनुगृहीतोऽस्मि । मातुल ! अभिवादये । शकुनि:-वत्स ! एवमेव क्रतून् सर्वान् समानीयाप्तदक्षिणान् । राजसूये नृपान् जित्वा जरासन्ध इवानय ॥ २६ ॥ द्रोणः - अहो ! आशीर्वचनेऽपि शकुनिरुद्योगं जनयति । अहो ! प्रियविरोधः खल्वयं क्षत्रियकुमारः । दुर्योधनः- वयस्य कर्ण! गुरुजनप्रणामावसाने प्राप्तक्रममुपभुज्यतां वयस्यविस्रम्भः । कर्णः - गान्धारीमातः ! क्रतुव्रतैस्ते तनु गात्रमेतत् सोढुं बलं शिक्ष्यसि पीडयानि । अन्तस्त्वनामन्त्र्य न धर्षयामि राजर्षिधीराद् वचनाद् भयं मे ॥ २७ ॥ दुर्योधनः- एवमेव ते बुद्धिरस्तु । द्रोणः - पुत्र दुर्योधन ! एष महेन्द्रप्रियसखो भीष्मको नाम भवन्तं सभाजयति । दुर्योधनः – स्वागतमार्याय । अभिवादये । भीष्मः - पौत्र दुर्योधन ! एष दक्षिणापथपरिघभूतो भूरिश्रवा नाम भवन्तं सभाजयिष्यति । दुर्योधनः – स्वागतमार्याय । द्रोणः - पुत्र दुर्योधन ! भवतो यज्ञं सभाजयता वासुभद्रेण प्रेषितोऽभिमन्युर्भवन्तं सभाजयति । शकुनि:-वत्स दुर्योधन ! एप जरासन्धपुत्रः सहदेवो भवन्तमभि- वादयति । दुर्योधनः- एह्येहि वत्स ! पितृसदृशपराक्रमो भव । सर्वे - एतत् सर्वराजमण्डलं भवन्तं सभाजयति । दुर्योधनः- अनुगृहीतोऽस्मि । भोः ! किन्नुखलु समागते सर्वराज- मण्डले विराटो नागच्छति । शकुनिः - प्रेषितोऽस्य मया दूतः, शङ्के पथि वर्तत इति । दुर्योधनः- भो आचार्य ! धर्मे धनुषि चाचार्य ! प्रतिगृह्यतां दक्षिणा । द्रोणः - दक्षिणेति । भवतु भवतु । व्यपश्रयिष्ये तावद् भवन्तम् । दुर्योधनः- कथमाचार्योऽपि व्यपश्रयिष्यते । भीष्मः - भोः ! किन्नुखलु प्रयोजनं, यदा--- पीतः सोमो बाल्यदत्तो नियोगा- च्छत्रच्छाया सेव्यते ख्यातिरस्ति । किं तद् द्रव्यं किं फलं को विशेष: क्षत्राचार्यो यत्र विप्रो दरिद्रः ॥ २८ ॥ दुर्योधनः- आज्ञापयतु भवान् किमिच्छति । किमनुतिष्ठामि । द्रोणः - पुत्र दुर्योधन ! कथयामि । दुर्योधनः- किमिदानीं भवता विचार्यते, प्राणाधिकोऽस्मि भवता च कृतोपदेशः शूरेषु यामि गणनां कृतसाहसोऽस्मि । स्वच्छन्दतो वद किमिच्छसि किं ददानि हस्ते स्थिता मम गदा भवतश्च सर्वम् ॥ २९ ॥ द्रोणः - पुत्र ! ब्रवीमि खलु तावत् । बाष्पवेगस्तु मां बाधते । सर्वे - कथमाचार्योऽपि बाष्पमुत्सृजति । भीष्मः - पौत्र दुर्योधन ! अफलस्ते परिश्रमः । दुर्योधनः- कोऽत्र । ( प्रविश्य ) भटः - जयतु महाराजः । दुर्योधनः- आपस्तावत् । भटः - यदाज्ञापयति महाराजः । (निष्क्रम्य प्रविश्य) जयतु महा- राजः । इमा आपः । दुर्योधनः- आनय । ( कलशं गृहीत्वा ) भो आचार्य ! अश्रुपातो- च्छिष्टस्य क्रियतां शौचम् । द्रोणः - भवतु भवतु । मम कार्यक्रियैव मुखोदकमस्तु । दुर्योधनः- हा धिग्, यदि विमृशसि पूर्वजातां मे यदि च समर्थयसे न दास्यतीति । शरशतकठिनं प्रयच्छ हस्तं सलिलमिदं करणं प्रतिग्रहाणाम् ॥ ३० ॥ द्रोणः - हन्त लब्धो मे हृदयविश्वासः । पुत्र ! श्रूयतां, येषां गतिः कापि निराश्रयाणां संवत्सरैर्द्वादशभिर्न दृष्टा । त्वं पाण्डवानां कुरु संविभाग- मेषा च भिक्षा मम दक्षिणा च ॥ ३१ ॥ शकुनिः - ( सोद्वेगम् ) मा तावद् भोः ! उपन्यस्तस्य शिष्यम्य विश्वस्तस्य च गौरवे । यदप्रस्तुतमुत्पाद्य युक्तेयं धर्मवञ्चना ॥ ३२ ॥ द्रोणः- कथं धर्मवञ्चनेति । मा तावद् भो गान्धारविषयविस्मित शकुने ! त्वदनार्यभावात् सर्वलोकमनार्यमिति मन्यसे । हन्त भोः ! भ्रातॄणां पैतृकं राज्यं दीयतामिति वञ्चना । किं वरं याचितैर्दत्तं बलात्कारेण तैर्हृतम् ॥ ३३॥ सर्वे- कथं बलात्कारेण नाम । भीष्मः- पौत्र दुर्योधन ! अवभृथस्नानमात्रमेव खलु तावत् । मित्रमुखस्य शत्रोः शकुनेर्वचनं न श्रोतव्यम् । पश्य पौत्र ! यत् पाण्डवा दुपदराजसुतासहायाः कान्ताररेणुपरुषाः पृथिवीं भ्रमन्ति । यत् त्वं च तेषु विमुखस्त्वयि ते च वामा- स्तत् सर्वमेव शकुनेः परुषावलेपः ॥ ३४ ॥ दुर्योधनः - भवतु, एवं तावदाचार्य ! पृच्छामि । द्रोण:- पुत्र ! कथय । दुर्योधनः- यत् पुरा ते सभामध्ये राज्ये माने च धर्षिताः । बलात्कारसमर्थैस्तैः किं रोषो धारितस्तदा ॥ ३५ ॥ द्रोणः-अत्रेदानीं धर्मच्छलेन वञ्चितो द्यूताश्रयवृत्तिर्युधिष्ठिरः प्रष्टव्यः, येन भीमः सभास्तम्भं तुलयन्नेव वारितः । यद्येकस्मिन् विमुक्तः स्यान्नास्माञ्छकुनिराक्षिपेत् ॥ ३६ ॥ १. परम् । भीष्मः-अन्यत् प्रस्तुतमन्यदापतितम् । भो आचार्य ! कार्यमत्र गुरुतरं, न कलहः । द्रोणः - मात्र कदर्थनं कार्यं, कलह एव भवतु । भीष्मः - प्रसीदत्वाचार्यः । पश्य पौत्र ! ये दुर्बलाश्च कृपणा निराश्रयाश्च त्वत्तश्च शर्म मृगयन्ति न गर्वयन्ति । ज्येष्ठो भवान् प्रणयिनस्त्वयि ते कुटुम्बे तान् धारयिष्यसि मृगैः सह वर्तयन्तु ॥ ३७ ॥ शकुनिः- वर्तयन्तु वर्तयन्तु । कर्णः-भो आचार्य ! अलममर्षेण । दुर्योधनो हि नाम, हितमपि परुषार्थं रुष्यति श्राव्यमाणो वरपुरुषविशेषं नेच्छति स्तूयमानम् । गतमिदमवसानं रक्ष्यतां शिष्यकार्यं गज इव बहुदोषो मार्दवेनैव बाह्यः ॥ ३८ ॥ द्रोण: - वत्स कर्ण ! तेजस्वि ब्राह्मण्यम् । काले सम्बोधितोऽस्मि । एषोऽहं भवच्छन्दमनुवर्ते । पुत्र दुर्योधन ! अहं तव प्रभावी ननु । भीष्मः - एष इदानीं मार्गेणारब्धः । सान्त्वं हि नाम दुर्विनीताना- मौषधम् । दुर्योधनः- न ममैव, कुलस्यापि मे भवान् प्रभुः । द्रोणः- एतत् तवैव युक्तम् । तत् पुत्र ! त्वं वञ्च्यसे यदि मया न तवात्र दोष- स्त्वां पीडयामि यदि वास्तु तवैष लाभः । भेदाः परस्परगता हि महाकुलानां धर्माधिकारवचनेषु शमीभवन्ति ॥ ३९ ॥ दुर्योधनः- तेन हि समर्थयितुमिच्छामि । द्रोणः - पुत्र ! केन समर्थयितुमिच्छसि । भीष्मेण कर्णेन कृपेण केन किं सिन्धुराजेन जयद्रथेन । किं द्रौणिनाहो विदुरेण सार्धं पित्रा स्वमात्रा वद पुत्र ! केन ॥ ४० ॥ दुर्योधनः- नहि नहि, मातुलेन । द्रोणः - शकुनिना । हन्त विपन्नं कार्यम् । दुर्योधनः- मातुल ! इतस्तावत् । वयस्य कर्ण ! इतस्तावत् । द्रोणः - भवतु, एवं तावत् करिष्ये । वत्स गान्धारराज ! इतस्तावत् । शकुनिः - अयमस्मि । द्रोणः - वत्स ! क्रोधप्रायं वयो जीर्णं क्षन्तव्यं बटुचापलम् । अस्य रूक्षस्य वचसः परिष्वङ्गः शमीक्रिया ॥ ४१ ॥ भीष्मः - ( आत्मगतम् ) एष शिष्यस्य वात्सल्याच्छकुनिं याचते गुरुः । एवं सान्त्वीकृतो ह्येष नैव मुञ्चति जिह्यताम् ॥। ४२ ॥ शकुनिः - ( आत्मगतम् ) अहो शठः खल्वाचार्यः स्वकार्यलोभान्मां सान्त्वयति । ( सर्वे परिक्रम्यापविशन्ति । ) दुर्योधनः- मातुल ! पाण्डवानां राज्यार्धं प्रति को निश्चयः । शकुनिः - न दातव्यमिति मे निश्चयः । दुर्योधनः- दातव्यमिति वक्तुमर्हति मातुलः । १. सान्त्वीकृतोऽप्येष । शकुनिः - यदि दातव्ये राज्ये किमस्माभिः सह मन्त्रयसे । ननु सर्वमेव प्रदीयताम् । दुर्योधनः- वयस्य अङ्गराज ! भवानिदानीं न किञ्चिदाह । कर्णः - इदानीं किमभिधास्यामि, रामेण भुक्तां परिपालितां च सुभ्रातृतां न प्रतिषेधयामि । क्षमाक्षमत्वे तु भवान् प्रमाणं सङ्ग्रामकालेषु वयं सहायाः ॥ ४३ ॥ दुर्योधनः- मातुल ! बलवत्प्रत्यमित्रोऽनुपजीव्यश्च कश्चित् कुदेशश्चि- न्त्यताम् । तत्र वसेयुः पाण्डवाः । शकुनिः - हन्त भोः ! शून्यमित्यभिधास्यामि कः पार्थाद् बलवत्तरः । ऊषरेष्वपि सस्यं स्याद् यत्र राजा युधिष्ठिरः ॥ ४४ ॥ दुर्योधनः- अथेदानीं, गुरुकरतलमध्ये तोयमावर्जितं मे श्रुतमिह कुलवृद्धैर्यत् प्रमाणं पृथिव्याम् । तदिदमपनयो वा वञ्चना वा यथा वा भवतु नृप ! जलं तत् सत्यमिच्छामि कर्तुम् ॥ ४५ ॥ शकुनि:- अनृतवचनान्मोचयितव्यो भवान् ननु । दुर्योधनः- अथकिम् । शकुनिः - तेन हि इतस्तावत् । (उपसृत्य ) भो आचार्य ! इहात्रभवान् कुरुराजो भवन्तं विज्ञापयति । द्रोणः - वत्स गान्धारराज ! अभिधीयताम् । शकुनि:- यदि पञ्चरात्रेण पाण्डवानां प्रवृत्तिरुपनेतव्या, राज्यस्यार्धं प्रदास्यति किल । समानयतु भवानिदानीम् । द्रोण:- मा तावद् भोः ! ये कर्तुकामैश्छलनं भवद्भिः संवत्सरैर्द्वादशभिर्न दृष्टाः । ते पञ्चरात्रेण मयोपनेया वरं ह्यदत्तं विशदाक्षरेण ॥ ४६ ॥ भीष्मः-पौत्र दुर्योधन ! अच्छलो धर्मः । वयमपि तावदस्मिन्नर्थे प्रीताः स्मः । पश्य पौत्र ! वर्षेण वा वर्षशतेन तेषां त्वं पाण्डवानां कुरु संविभागम् । तस्मात् प्रतिज्ञां कुरु वीर ! सत्यां सत्या प्रतिज्ञा हि सदा कुरूणाम् ॥ ४७ ॥ दुर्योधनः- एष एव मे निश्चयः । द्रोण:- ( आत्मगतम्) अद्य मे कार्यलोभेन हनूमत्त्वं गता स्पृहा । लङ्घयित्वार्णवं येन नष्टा सीता निवेदिता ॥ ४८ ॥ तत् कुतोनुखलु पाण्डवानां प्रवृत्तिरूपनेतव्या । ( प्रविश्य ) भटः - जयतु महाराजः । विराटनगराद् दृतः प्राप्तः । सर्वे - शीघ्रं प्रवेश्यताम् । भटः- यदाज्ञापयथ । (निष्क्रान्तः । ) ( प्रविश्य ) दूतः - जयतु महाराजः । सर्वे - किमागतो विराटेश्वरः । भटः - विषादेनावृतो नोपगच्छति, यत्तत्सम्बन्धि सन्निकृष्टं कीचकानां भ्रातृशतं, रात्रौ छन्नेन केनापि बाहुभ्यामेव हिंसितम् । दृश्यते हि शरीराणामशस्त्रजनितो वधः ॥ ४९ ॥ इति । भीष्मः–कथमशस्त्रेणेति । भो आचार्य ! अभ्युपगम्यतां पञ्चरात्रम् । द्रोणः–किमर्थम् । भीष्म:- भीमसेनस्य लीलैषा सुव्यक्तं बाहुशालिनः । योऽस्मिन् भ्रातृशते रोषः स तस्मिन् फलितः शते ॥ ५० ॥ द्रोणः - कथं भवान् जानाति । भीष्म:- कथं पण्डित ! कूलेषु भ्रान्तानां बालचापलम् । नाभिजानन्ति वत्सानां शृङ्गस्थानानि गोवृषाः ॥ ५१ ॥ द्रोण: - गोवृषा इति । हन्त सिद्धं कार्यम् । पुत्र दुर्योधन ! अस्तु पञ्चरात्रम् । दुर्योधनः- अथकिम् । द्रोणः - भो भो यज्ञमनुभवितुमागता राजानः ! शृण्वन्तु शृण्वन्तु भवन्तः । इहात्रभवान् कुरुराजो दुर्योधनः, न, न, मातुलसहितः यदि पाण्डवानां प्रवृत्तिरूपनेतव्या, राज्यस्यार्धं प्रदास्यति किल । ननु पुत्र ! दुर्योधनः- अथकिम् । द्रोणः - एतद् द्विस्त्रिः सम्प्रधार्यताम् । शकुनिः - काले ज्ञास्यामि । द्रोणः - ननु गाङ्गेय ! भीष्म: - ( आत्मगतम् ) आचार्यस्य यदा हर्षो धैर्यमुत्क्रम्य सूचितः । शङ्के दुर्योधनेनैष वञ्च्यमानेन वञ्चितः ॥ ५२ ॥ (प्रकाशम् ) पौत्र दुर्योधन ! अस्ति मम विराटेनाप्रकाशं वैरम्, अथ भवतो यज्ञमनुभवितुमनागत इति । तस्मात् क्रियतां तस्य गोग्रहणम् । ब्राह्मणार्जवबुद्धे ! धर्षिता रथशब्देन रोषमेष्यन्ति पाण्डवाः । अस्ति तेषां कृतज्ञत्वमिष्टं गोग्रहणे स्थितम् ॥ ५३ ॥ ( प्रविश्य ) भटः- सज्जाः खलु रथा वाहाः प्रवेशाभिमुखाय ते । दुर्योधन:- एभिरेव रथैः शीघ्रं क्रियतां तस्य गोग्रहः । गदा यज्ञप्रशान्ता च पुनर्मे करमेष्यति ॥ ५४ ॥ द्रोण:- तस्मान्मे रथमानयन्तु पुरुषाः, शकुनिः - हस्ती ममानीयतां, कर्णः - भारार्थं भृशमुद्यतैरिह हयैर्युक्तो रथः स्थाप्यताम् । भीष्म:- बुद्धिर्मे त्वरते विराटनगरं गन्तुं धनुस्त्वर्यतां सर्वे- मुक्त्वा चापमिहैव तिष्ठतु भवानाज्ञाविधेया वयम् ॥ ५५ ॥ द्रोण:- पुत्र दुर्योधन ! आवां तव युद्धे पराक्रमं द्रष्टुमिच्छावः । दुर्योधनः- यदभिरुचितं भवते । द्रोणः - वत्स गान्धारराज ! अस्मिन् गोग्रहणे तव खलु प्रथमरथः । शकुनिः - बाढम् । प्रथमः कल्पः । (निष्क्रान्ताः सर्वे । ) प्रथमोऽङ्कः । अथ द्वितीयोऽङ्कः । ( ततः प्रविशति वृद्धगोपालकः ) वृद्धगोपालकः - गावो मे अहीणवच्छा होन्तु । अविहवा अ गोव- जुवदीओ होन्तु । णो ळाआ विळाडो एकच्छत्तप्पुहुवीपदी होदु । महाळाअप्प विळाडश्श वष्षवदुणगोप्पाणनिमित्तं इमष्षिं णअळो- ववणवीहीए आअन्तु गोधणं पव्वे च किमङ्गळमोदआ गोवदाळआ दाळिआ अ दाव । एषु ज्जेष्ठं गच्छिअ अणुभविष्षम् । (विलोक्य) किण्णुहु एषो वाअषो पुक्खलुक्खं आळुहिअ पुक्खषाखाणिघट्टि- अतुण्डं आदिच्चाहिमुहं विष्षळं विळवदि । षन्ती होदु षन्ती होदु अम्हाणं गोधणष्प अ । जाव एषु ज्जेष्ठं गच्छिअ गोवदाळआणं दाळिआणं वाहळामि । गोमित्तअ ! गोमित्तअ ! [ गावो मेऽहीन- १२ वत्सा भवन्तु । अविधवाश्च गोपयुवतयो भवन्तु । अस्माकं राजा विराट एकच्छत्रपृथिवीपतिर्भवतु । महाराजस्य विराटस्य वर्ष वर्धनगोप्रदान- निमित्तमस्यां नगरोपवनवीथ्यामायान्तु गोधनं सर्वे च कृतमङ्गलमोदका १५ गोपदारका दारिकाश्च तावत् । एषु ज्यैष्ठयं गत्वानुभविष्यामि । किंनु - खल्वेष वायसः शुष्कवृक्षमारुह्य शुष्कशाखानिघट्टिततुण्डमादित्याभिमुखं विस्वरं विलपति । शान्तिर्भवतु शान्तिर्भवतु अस्माकं गोधनस्य च । यावदेषु ज्यैष्ठ्यं गत्वा गोपदारकाणां दारिकाणां व्याहरामि । गोभित्रक ! गोमित्रक ! ] ( प्रविश्य ) गोमित्रक: - मातुळ ! वन्दामि । [ मातुल ! वन्दे । ] वृद्धगोपालकः–पन्ती होदु षन्ती होदु अम्हाअं गोधणष्ष अ । अळे गोमित्तअ ! महाळाजष्ष विळाडश्श वष्षवद्डणगोप्पदाणणिमित्तं इमष्पिं णअळोववणवीहीए आअन्तु गोधणं पव्वे च किदमङ्ग- ळमोदआ गोवदाळिआ अ । अळे गोमित्तअ ! गोवदाळआणं दाळिआणं वाहळ । [ शान्तिर्भवतु शान्तिर्भवतु अस्माकं गोधनस्य च । अरे गोमित्रक ! महाराजस्य विराटस्य वर्षवर्धनगोप्रदाननिमित्त- मस्यां नगरोपवनवीथ्यामायान्तु गोधनं सर्वे च कृतमङ्गलमोदका गोपदारका दारिकाश्च । अरे गोमित्रक ! गोपदारकाणां दारिकाणां व्याहर । ] गोमित्रक:- जं मादुळो आणवेदि । गोळक्खिणिए ! घिदपिण्ड ! षामिणि! वषभदत्त ! कुम्भदत्त ! महिषदत्त ! आअच्छह आहच्छह शिग्धं । [ यन्मातुल आज्ञापयति । गोरक्षिणिके ! घृतपिण्ड ! स्वामिनि ! वृषभदत्त ! कुम्भदत्त ! महिषदत्त ! आगच्छतागच्छत शीघ्रम् । ] ( ततः प्रविशन्ति सर्वे । ) सर्वे - मादुळ ! वन्दामा । [ मातुल ! वन्दामहे । ] वृद्धगोपालकः - षन्ती होदु षन्ती होदु अम्हाणं गोवदाळआणं । महाळाअष्ष विळाडष्ष वष्षवड्ढणगोप्पदाणणिमित्तं इमष्षिं णअळो- ववणवीहीए आअन्तु गोधणं । तत्तअं वेळं गाअन्तो णच्चन्तो होम । [ शान्तिर्भवतु शान्तिर्भवतु अस्माकं गोपदारकाणां दारिकाणां च । महाराजस्य विराटस्य वर्षवर्धनगोप्रदाननिमित्तमस्यां नगरोपव- नवीथ्यामायातु गोधनम् । तावतीं वेलां गायन्तो नृत्यन्तो भवामः । ] सर्वे - जं मादुळो आणवेदि । ( सर्वे नृत्यन्ति । ) [ यन्मातुल आज्ञा- ४५ पयति । ] वृद्धगोपालकः–हीही षुष्ठु णच्चिदम्, षुट्ठु गाइदं । जाव अहं पि णच्चेमि । [ हीही सुष्ठु नर्तितं, सुष्ठु गीतं, यावदहमपि नृत्यामि । ] सर्वे - हाहा मादुळ ! अदिमहन्तं ळेणुं उप्पदिदो । [ हाहा मातुल ! अतिमहान् रेणुरुत्पतितः । ] वृद्धगोपालकः - ण हु ळेणुं एव्व षंक्खुदुन्दुभिघोषं उप्पदिदो । [ न खलु रेणुरेव, शङ्खदुन्दुभिघोषः उत्पतितः । ] सर्वे-दिवाचन्दप्पभापण्डुळजोह्णावगुण्ठिदो षदमण्डळु षुय्यो अस्थि अ णत्थि अ । [ दिवाचन्द्रप्रभापाण्डुरज्योत्स्नावगुण्ठितः शतमण्डलः सूर्योऽस्ति च नास्ति च । ] गोमित्रकः - हाहा मादुळ ! एदे के वि मणुष्षा दहिपिण्डपण्डरेहि छत्तेहि घोडअषअडिअं आळुहिअ पव्वं घोषुं विद्दवन्ति चोळा । [ हाहा मातुल ! एते केऽपि मनुष्या दधिपिण्डपाण्डरैश्छत्रैर्घोटकशक- टिकामारुह्य सर्वं घोषं विद्रवन्ति चोराः । ] वृद्धगोपालकः - हीही परषंपादा उट्ठिदा । दारआ ! दाळिआ ! षिग्धं पक्कणं पविषह । [ हीही शरसंपाता उत्थिताः । दारकाः ! दारिकाः ! शीघ्रं पक्कणं प्रविशत । ] सर्वे - जं मादुळो आणवेदि । (निष्क्रान्ता: । ) [ यन्मातुल आज्ञा- पयति । ] वृद्धगोपालकः–हाहा चिट्ठह चिट्ठह । पहरह पहरह । गह्णह गह्णह । इमं वुत्तन्तं महाळाअविळाडश्श णिवेदइष्षामो । [ हाहा तिष्ठत तिष्ठत । प्रहरत प्रहरत । गृह्णीत गृह्णीत । इमं वृत्तान्तं महाराजविराटाय निवेदयिष्यामः । ] ( निष्क्रान्तः । ) प्रवेशकः । ( ततः प्रविशति भट: ) भट:- भोभो निवेद्यतां निवेद्यतां महाराजाय विराटेश्वराय -- एता हि दस्युकर्मप्रच्छन्नविक्रमैर्धार्तराष्ट्रैर्हियन्ते गाव इति । तत्र हि, तैश्च वत्सैर्व्यथितैश्च गोगणै- र्निरीक्षणत्रस्तमुखैश्च गोवृषैः । कृतार्तनादाकुलितं समन्ततो गवां कुलं शोच्यमिहाकुलाकुलम् ॥ १ ॥ इति । ( नेपथ्ये ) किं धार्तराष्ट्रैरिति । भटः- आर्य ! अथकिम् । ( प्रविश्य ) काञ्चुकीयः- सदृशमेतद् भ्रातृजनेष्वपि द्रोहिणाम् । सज्जैश्चौपर्बद्धगोधाङ्गलित्रा वर्मच्छन्नाः कल्पितस्यन्दनस्थाः । वीर्येत्सिक्ता युद्धसज्जाः कृतास्त्रा राज्ञो वैरं गोषु निर्यातयन्ति ॥ २ ॥ जयसेन ! जन्मनक्षत्रक्रियाव्यापृतस्य महाराजस्य तावदकाल- निवेदनं मन्युमुत्पादयति । तस्मात् पुण्याहावसाने निवेदयिष्ये । भटः--आर्य ! अतिपाति कार्यमिदं शीघ्रं निवेद्यताम् । काञ्चुकीयः - इदं निवेद्यते । ( ततः प्रविशति राजा । ) राजा- मा तावद् व्यथितविकीर्णबालवत्सा गावो मे रथरवशङ्कया ह्रियन्ते । पीनांसश्चलवलयः सचन्दनार्द्रो निर्लज्जो मम च करः कराणि भुङ्के ॥ ३ ॥ जयसेन ! जयसेन ! ( प्रविश्य ) भट: - जयतु जयतु महाराजः । राजा - अलं महाराजशब्देन । अवधूतं मे क्षत्रियत्वम् । उच्यतां रणविस्तरः । भटः- न विस्तरार्हाणि विप्रियाणि । एष समासः, एकवर्णेषु गात्रेषु गवां स्यन्दनरेणुना । कशापातेषु दृश्यन्ते नानावर्णविभक्तयः ॥ ४ ॥ राजा - तेन हि, धनुरुपनय शीघ्रं कल्प्यतां स्यन्दनो मे मम गतिमनुयातु च्छन्दतो यस्य भक्तिः । रणशिरसि गवार्थे नास्ति मोघः प्रयत्नो निधनमपि यशः स्यान्मोक्षयित्वा तु धर्मः ॥ ५ ॥ भटः- यदाज्ञापयति महाराज: । (निष्क्रान्तः । ) राजा-भोः ! किन्नुखलु दुर्योधनस्य मामन्तरेण वैरम् । आ यज्ञ- मनुभवितुमनागत इति । कथमनुभवामि । कीचकानां विना- ३९४ पचरात्रे [ii. 5. - शेन वयमुन्नीतसन्तापाः संवृत्ताः । अथवा परोक्षमपि पाण्डवानां स्निग्ध इति । सर्वथा योद्धव्यम् । हस्तिनपुरनिवासाच्छीलज्ञो भगवान् दुर्योधनस्य । अथवा, कामं दुर्योधनस्यैष न दोषमभिधास्यति । अर्थित्वादपरिश्रान्तः पृच्छत्येव हि कार्यवान् ॥ ६ ॥ कोऽत्र । ( प्रविश्य ) भटः - जयतु महाराजः । राजा - भगवांस्तावदाहूयताम् । (निष्क्रान्त: । ) ( ततः प्रविशति भगवान् । ) भगवान् - ( सर्वतो विलोक्य) भोः ! किन्नुखल्विदम् । गजेन्द्राः कल्प्यन्ते तुरगपतयो वर्मरचिताः रथाः सानूकर्षाः कृतपरिकरा योधपुरुषाः । समुद्योगं दृष्ट्वा भयमननुभूतं स्पृशति मां न खल्वात्मन्यस्तं कृतमतिरहं ते तु चपलाः ॥ ७ ॥ राजा-जयतु भगवान् जयतु । विराटो भगवन् ! अभिवादये । भगवान् - स्वस्ति । विराटः - भगवन् ! एतदासनमास्यताम् । भगवन्- ( उपविश्य) भो राजन् ! उद्योगः प्रस्तुतः कस्माच्छ्रीर्न सन्तोषमिच्छति । पीडयिष्यति सोत्सेकान् पीडितान् मोक्षयिष्यति ॥ ८ ॥ राजा - भगवन् ! गोग्रहणादवमानितोऽस्मि । भगवान् - केन कारणेन । राजा - धार्तराष्ट्रैः । ii. 12.] द्वितीयोऽङ्कः । भगवन्- ( आत्मगतम्) भोः कष्टम्, कोदकत्वं खलु नाम लोके मनस्विनां कम्पयते मनांसि । वैरप्रियैस्तैर्हि कृतेऽपराधे यत्सत्यमस्माभिरिवापराद्धम् ॥ ९ ॥ विराट:- भगवन् ! किमिदानीं विचार्यते । भगवान् न खलु किञ्चित् । तेषामुत्सुकः । ३ राजा - अद्यप्रभृति निभृता भविष्यन्ति । यदि शक्तोऽपि युधिष्ठिरो मर्षयति, अहं न मर्षयामि । भगवान् - (आत्मगतम् ) अद्येदानीं पर्णशय्या च भूमौ राज्यभ्रंशो द्रौपदीघर्षणं वा । वेषान्यत्वं संश्रितानां निवासः सर्वं श्लाघ्यं यत्क्षमा ज्ञायते मे ॥१०॥ ( प्रविश्य ) ( प्रकाशम् ) ( प्रविश्य ) भटः- जयतु महाराजः । ३ राजा - अथ किं चेष्टते दुर्योधनः । भटः- न खलु दुर्योधन एव, पृथिव्यां राजानः सर्वे प्राप्ताः । द्रोणश्च भीष्मश्च जयद्रथश्च शल्योऽङ्गराजः शकुनिः कृपश्च ! तेषां रथोत्कम्पचलत्पताकैर्भग्ना ध्वजैरेव वयं न बाणैः ॥ ११ ॥ राजा - (उत्थाय कृताञ्जलिः ) कथं तत्रभवान् गाङ्गेयोऽपि प्राप्तः । भगवान् - साधु धर्षितेनापि नातिक्रान्तः समुदाचारः । (आत्म- ३ गतम् ) भोः, किमर्थं खलु सम्प्राप्तः कुरूणां गुरुरुत्तमः । शक् तीर्णा प्रतिज्ञेति स्मारणं क्रियते मम ॥ १२ । राजा - कोऽत्र । भटः - जयतु महाराजः । विराटः - सूतस्तावदाहूयताम् भटः - यदाज्ञापयति महाराजः । (निष्क्रान्तः । ) ( प्रविश्य ) सूतः - जयत्वायुष्मान् । विराट:- रथमानय शीघ्रं मे श्लाघ्यः प्राप्तो रणातिथिः । तोषयिष्ये शरैर्भीष्मं जेष्यामीत्यमनोरथः ॥ १३॥ सूतः - यदाज्ञापयत्यायुष्मान् । आयुष्मन् ! रिपूणां सैन्यभेदेषु यस्ते परिचितो रथः । रथचर्यां बहिष्कर्तुं तमास्थायोत्तरो गतः ॥ १४ ॥ विराटः - कथं निर्यातः कुमारः । भगवान्- भो राजन् ! संवार्यतां संवार्यतां कुमारः । अगणितगुणदोषो युद्धतीक्ष्णश्च बाल्या- न्न च दहति न कश्चित् सन्निकृष्टो रणाग्निः । अथच परिहरन्ते धार्तराष्ट्रा न किञ्चि- न्न खलु परिभवात् ते युद्धदोषान् ब्रवीमि ॥ १५ ॥ राजा - तेन हि शीघ्रमन्यो रथः कल्प्यताम् । सूतः - यदाज्ञापयत्यायुष्मान् । राजा - अथवा एहि तावत् । सूतः - आयुष्मन् ! अयमस्मि । राजा- त्वमिदानीं कुमारस्य किं न वाहितवान् रथम् । अनुज्ञातोऽसि किं तेन न राज्ञां सारथिर्भवान् ॥ १६ ॥ सूतः-प्रसीदत्वायुष्मान् । रथं कल्पयित्वा तु सूतसमुदाचारेणो- पस्थितः खल्वहम् । कुमारेण, किन्नु तत्परिहासार्थं किन्नु तत्रास्ति कौशलम् । मामतिक्रम्य सारथ्ये विनियुक्ता बृहन्नला ॥ १७ ॥ भगवान् - राजन् ! अलमलं सम्भ्रमेण । यदि स्वचक्रोद्धतरेणुदुर्दिनं रथं समास्थाय गता बृहन्नला । परान् क्षणैर्नेमिरवैर्निवारयन् विनापि बाणान् रथ एव जेष्यति ॥ १८ ॥ राजा - तेन हि शीघ्रमन्यो रथः कल्प्यताम् । सूतः - यदाज्ञापयत्यायुष्मान् । (निष्क्रान्तः । ) ( प्रविश्य ) भटः - भग्नः खलु कुमारस्य रथः । राजा - कथं भग्नो नाम । भटः- श्रोतुमर्हति महाराजः । बहुभिः समराभिज्ञैराच्छिन्नोऽश्वपथः परैः । भग्नो वाहनलोभेन श्मशानाभिमुखो रथः ॥ १९ ॥ भगवान् –( आत्मगतम्) आः अत्र खलु गाण्डीवम् । ( प्रकाशम् ) भो राजन् ! निमित्तं किञ्चिदुत्पन्नं श्मशानाभिमुखे रथे । धार्तराष्ट्राः स्थिता यत्र श्मशानं तद् भविष्यति ॥ २० ॥ राजा-भगवन् ! अकाले स्वस्थवाक्यं मन्युमुत्पादयति । भगवान् - अलं मन्युना । कदाचिदनृर्तं नोक्तपूर्वम् । राजा - आ अस्त्येतत् । गच्छ भूयो ज्ञायतां वृत्तान्तः । १. गहनलोभेन । भट: - यदाज्ञापयति महाराजः । (निष्क्रान्तः । ) राजा- को नु खल्वेष सहसा कम्पयन्निव मेदिनीम् । नदीस्रोत इवाविद्धः क्षणात् संवर्तते ध्वनिः ॥ २१ ॥ ज्ञायतां शब्दः । ( प्रविश्य ) भटः- जयतु महाराजः । श्मशानान्मुहूर्तविश्रान्ततुरगेण कुमारेण तु--- भगवान्-एष मामनृतवादिनं न कुर्यात् । भटः- कृता नीला नागाः शरशतनिपातेन कपिला यो वा योधो वा न वहति न कश्चिच्छरशतम् । शरैः स्तम्भीभूताः शरपरिकराः स्यन्दनवराः शरैश्छन्ना मार्गाः स्रवति धनुरूग्रां शरनदीम् ॥ २२ ॥ भगवान् - ( आत्मगतम् ) एतदक्षयतूणीत्वं येन शक्रस्य खाण्डवे । यावत्यः पतिता धारास्तावन्तः प्रेषिताः शराः ॥ २३ ॥ राजा - अथ परेष्विदानीं को वृत्तान्तः । भटः - अप्रत्यक्षं हि तत्र मे । प्रवृत्तिपुरुषाः कथयन्ति --- धनुर्घोषं द्रोणस्तदिदमिति बुddhvA प्रतिगतः ध्वजे बाणं दृष्ट्वा कृतमिति न भीष्मः प्रहरति । शरैर्भग्नः कर्णः किमिदमिति चान्ये नृपतयो भयेऽप्येको बाल्यान्न भयमभिमन्युर्गणयति ॥ २४ ॥ भगवान् - कथमभिमन्युः प्राप्तः । भो राजन् ! १. स्वजे । युध्यते यदि सौभद्रस्तेजोग्निर्वंशयोर्द्वयोः । सारथिः प्रेष्यतामन्यो विक्लवात्र बृहन्नला ॥ २५ ॥ राजा - मा मा भवानेवम् । भीष्मं रामशरैरभिन्नकवचं द्रोणं च मन्त्रायुधं कृत्वा कर्णजयद्रथौ च विमुखौ शेषांश्च तांस्तान् नृपान् । सौभद्रं स्वशरैर्न धर्षयति किं भीतः पितुः प्रत्ययात् संसृष्टोऽपि वयस्यभावसदृशं तुल्यं वयो रक्षति ॥ २६ ॥ भटः- एष खलु कुमारस्य रथः, आलम्बितो भ्रमति धावति तेन मुक्तो न प्राप्य धर्षयति नेच्छति विप्रकर्तुम् आसन्नभूमिचपलः परिवर्तमानो योग्योपदेशमिव तस्य रथः करोति ॥ २७ ॥ राजा - गच्छ । भूयो ज्ञायतां वृत्तान्तः । भटः- यदाज्ञापयति महाराजः । (निष्क्रम्य प्रविश्य) जयतु महा- राजः । जयतु विराटेश्वरः । प्रियं निवेदये महाराजाय । अवजितं गोग्रहणम् । अपयाता धार्तराष्ट्राः । भगवान्- दिष्ट्या भवान् वर्धते । राजा - न न । भगवतो वृद्धिरेषा । अथ कुमार इदानीं क्व । भटः–दृष्टपरिस्पन्दानां योधपुरुषाणां कर्माणि पुस्तकमारोपयति कुमारः । राजा - अहो श्लाघनीयव्यापारः खल्वयं कुमारः । ताडितस्य हि योधस्य श्लाघनीयेन कर्मणा । अकालान्तरिता पूजा नाशयत्येव वेदनाम् ॥ २८ ॥ अथ बृहन्नलेदानीं क्व । पञ्चरात्रे भटः- प्रियनिवेदनार्थमभ्यन्तरं प्रविष्टा । ३ राजा - बृहन्नला तावदाहूयताम् । भटः - यदाज्ञापयति महाराजः । ( ततः प्रविशति बृहन्नला । ) ६ बृहन्नला - ( निरूप्य सविमर्शम् ) गाण्डीवेन मुहूर्तमात तगुणेनासीत् प्रतिस्पर्धितं बाणानां परिवर्तनेष्व विशदा मुष्टिर्न मे संहता । [ii. 28. गोधास्थानगता न चास्ति पटुता स्थाने हृतं सौष्ठवं स्त्रीभावाच्छिथिलीकृतः परिचयादात्मा तु पश्चात् स्मृतः ॥२९॥ मया हि, अनेन वेषेण नरेन्द्रमध्ये लज्जायमानेन धनुर्विकृष्टम् । यात्रा तु तावच्छरदुर्दिनेषु शीघ्रं निमग्नः कलुषश्च रेणुः ॥ ३० ॥ भोः ! जित्वापि गां विजयमप्युपलभ्य राज्ञो नैवास्ति मे जयगतो मनसि प्रहर्षः । दुःशासनं समरमूर्धनि सन्निगृह्य बा यद्य न विराटपुरं प्रविष्टः ॥ ३१ ॥ उत्तराप्रीतिदत्तालङ्कारेणालङ्कृतो श्रीळित इवास्मि राजानं द्रष्टुम् । तस्माद् विराटेश्वरं पश्यामि । अये ! अयमार्यो युधिष्ठिरः, सयौवनः श्रेष्ठतपोवने रतो नरेश्वरो ब्राह्मणवृत्तमाश्रितः । विमुक्तराज्योऽप्यभिवर्धितः श्रिया त्रिदण्डधारी न च दण्डधारकः ॥ ३२ ॥ ( उपगम्य ) भगवन् ! अभिवादये । —ii. 35.! ] भगवान् -स्वस्ति । द्वितीयोऽङ्कः । ३ बृहन्नला - जेदु भट्टा । [ जयतु भर्ता । ] राजा- अकारणं रूपमकारणं कुलं महत्सु नीचेषु च कर्म शोभते । इदं हि रूपं परिभूत पूर्वकं तदेव भूयो बहुमानमागतम् ॥ ३३ ॥ बृहन्नले ! परिश्रान्तामपि भवतीं भूयः परिश्रमयिष्ये । उच्यतां विस्तरः । ३ बृहन्नला – सुणादु भट्टा । [ श्रृणोतु भर्ता । ] राजा - - ऊर्जितं कर्म । संस्कृतमभिधीयताम् । बृहन्नला - श्रोतुमर्हति महाराजः । ( प्रविश्य ) भटः- जयतु महाराजः । राजा- भट:- अपूर्व इव ते हर्षो ब्रूहि केनासि विस्मितः । अश्रद्धेयं प्रियं प्राप्तं सौभद्रो ग्रहणं गतः ॥ ३४ ॥ बृहन्नला - कथं गृहीतः । ( आत्मगतम् । ) तुलितबलमिदं मयाद्य सैन्यं परिगणितं च रणेऽद्य मे स दृष्टः । सदृश इह तु तेन नास्ति कश्चित् क इह भवेन्निहतेषु कीचकेषु ॥ ३५ ॥ भगवान् - बृहन्नले ! किमेतत् । बृहन्नला-भगवन् ! पचरात्रे [ ii. 35.2- न जाने तस्य जेतारं बलवाञ्छिक्षितस्तु सः । पितॄणां भाग्यदोषेण प्राप्नुयादपि धर्षणम् ॥ ३६ ॥ राजा - कथमिदानीं गृहीतः । भटः- रथमासाद्य निःशङ्कं बाहुभ्यामवतारितः । राजा-केन । II- भटः- यः किलैष नरेन्द्रेण विनियुक्तो महानसे ॥ ३७ ॥ बृहन्नला - ( अपवार्य) एवमार्य भीमेन परिष्वक्तः, न गृहीतः । दूरस्था दर्शनादेव वयं सन्तोषमागताः । पुत्रस्नेहस्तु निर्विष्टो येन सुव्यक्तकारिणा ॥ ३८ ॥ - तेन सत्कृत्य प्रवेश्यतामभिमन्युः । राजा- भगवान् - भो राजन् ! वृष्णिपाण्डवनाथस्याभिमन्योः पूजां भया- ३ दिति लोको ज्ञास्यति । तदवधीरणमस्य न्याय्यम् । राजा-नावधीरणमर्हति यादवीपुत्रः । कुतः, पुत्रो ह्येष युधिष्ठिरस्य तु वयस्तुल्यं हि नः सूनुना सम्बन्धो द्रुपदेन नः कुलगतो नप्ता हि तस्माद् भवेत् । जामातृत्वमदूतोऽपि च भवेत् कन्यापितृत्वं हि नः पूजार्होऽप्यतिथिर्भवेत् स्वविभवैरिष्टा हि नः पाण्डवाः ॥३९॥ भगवान् - एवमेतत् । वक्तव्यं परिहर्तव्यं च । राजा - अथ केनायं प्रवेशयितव्यः । ३ भगवान् - बृहन्नलया प्रवेशयितव्यः । राजा - बृहन्नले ! प्रवेश्यतामभिमन्युः । ii. 43. ' ] द्वितीयोऽङ्कः । बृहन्नला - यदाज्ञापयति महाराजः । ( आत्मगतम् ) चिरस्य ख- ६ ल्वाकाङ्क्षितोऽयं नियोगो लब्धः । भगवान् - ( आत्मगतम् ) अद्येदानीं यातु सन्दर्शनं वा शून्ये दृष्ट्रा गाढमालिङ्गनं वा । स्वैरं तावद् यातुमुद्राष्पतां वा मत्प्रत्यक्षं लज्जते ह्येष पुत्रम् ॥४०॥ राजा - पश्यतु भवान् कुमारस्य कर्म । नृपा भीष्मदयो भग्नाः सौभद्रो ग्रहणं गतः । उत्तरेणाद्य संक्षेपादर्थतः पृथिवी जिता ॥ ४१ ॥ भीमसेनः- ( ततः प्रविशति भीमसेनः । ) ( ततः प्रविशत्यभिमन्युः । ) आदीपिते जतुगृहे स्वभुजावसक्ता मातरश्च जननी च मयोपनीताः । सौभद्रमेकमवतार्य रथात्तु बालं तं च श्रमं प्रथममद्य समं हि मन्ये ॥ ४२ । इत इतः कुमारः । अभिमन्युः - भोः ! को नु खल्वेपः, विशालवक्षास्त निमार्जितोदरः स्थिरोन्नतां सोरुमहान् कटीकृशः । हातो येन भुजैकयन्त्रितो बलाधिकेनापि न चास्मि पीडितः ॥ ४३ ॥ बृहन्नला - इत इतः कुमारः । अभिमन्युः - अये अयमपरः कः, पचरात्रे अयुज्यमानैः प्रमदाविभूषणैः करेणुशोभाभिरिवार्पितो गजः । लघुश्च वेषेण महानिवौजसा [ ii. 44. - विभात्युमावेषमिवाश्रितो हरः ॥ ४४ ॥ बृहन्नला-( अपवार्यं ) इममिहानयता किमिदानीमार्येण कृतम् । अवजित इति तावद् दृषितः पूर्वयुद्धे दयितसुतवियुक्ता शोचनीया सुभद्रा । जित इति पुनरेनं रुध्यते वासुभद्रो भवतु बहु किमुक्त्वा दूषितो हस्तसारः ॥ ४५ ॥ भीमसेन:- अर्जुन ! बृहन्नला - अथकिमथकिमर्जुनपुत्रोऽयम् । ३ भीमसेनः - ( अपवार्य ) जानाम्येतान् निग्रहादस्य दोषान् को वा पुत्रं मर्षयेच्छत्रुहस्ते । इष्टापत्त्या किन्तु दुःखे हि मग्ना पश्यत्वेनं द्रौपदीत्याहृतोऽयम् ॥ ४६ ॥ बृहन्नला - ( अपवार्य) आर्य ! अभिभाषणकौतूहलं मे महत् । वाचालयत्वेनमार्यः । ३ भमिसेनः -बाढम् । अभिमन्यो ! अभिमन्युः - अभिमन्युर्नाम । भीमसेनः - रुष्यत्येष मया । त्वमेवैनमभिभाषय । ६ बृहन्नला – अभिमन्यो ! अभिमन्युः–कथं कथम् । अभिमन्युर्नामाहम् । भोः ! नीचैरप्यभिभाष्यन्ते नामभिः क्षत्रियान्वयाः । इहायं समुदाचारो ग्रहणं परिभूयते ॥ ४७ ॥ ii. 52. ] द्वितीयोऽङ्कः । बृहन्नला - अभिमन्यो ! सुखमास्ते ते जननी । अभिमन्युः - कथं कथम् । जननी नाम । किं भवान् धर्मराजो मे भीमसेनो धनञ्जयः । यन्मां पितृवदाक्रम्य स्त्रीगतां पृच्छसे कथाम् ॥ ४८ ॥ बृहन्नला - अभिमन्यो ! अपि कुशली देवकीपुत्रः केशवः । अभिमन्युः–कथं तत्रभवन्तमपि नाम्ना । अथकिम्, अथकिम् । ३ कुशली भवता संसृष्टः । ( उभौ परस्परमवलोकयतः । ) अभिमन्युः - कथमिदानीं सावज्ञमिव मां हस्यते । ६ बृहन्नला - न खलु किञ्चित् । पार्थं पितरमुद्दिश्य मातुलं च जनार्दनम् । तरुणस्य कृतास्त्रस्य युक्तो युद्धपराजयः ॥ ४९ ॥ अभिमन्युः - अलमात्मस्तवं कर्तुं नाम्माकमुचितं कुले । हतेषु हि शरान् पश्य नाम नान्यद् भविष्यति ॥ ५० ॥ बृहन्नला - ( आत्मगतम् ) सम्यगाह कुमारः । सरथतुरगदृप्तनागयौधे शरनिपुणेन न कश्चिदप्यविद्धः । अहमपि च परिक्षतो भवेयं यदि न मया परिवर्तितो रथः स्यात् ॥ ५१ ॥ (प्रकाशम्) एवं वाक्यशौण्डीर्यम् । किमर्थं तेन पदातिना गृहीतः । अभिमन्यु:- अशस्त्रो मामभिगतस्ततोऽस्मि ग्रहणं गतः । न्यस्तशस्त्रं हि को हन्यादर्जुनं पितरं स्मरन् ॥ ५२ ॥ भीमसेनः- धन्यः खल्वर्जुनो येन प्रत्यक्षमुभयं श्रुतम् । पुत्रस्य च पितुः श्लाघ्यं सङ्ग्रामेषु पराक्रमः ॥ ५३ ॥ राजा-त्वर्यतां त्वर्यतामभिमन्युः । बृहन्नला–इत इतः कुमारः । एष महाराजः । उपसर्पतु कुमारः । अभिमन्युः- आः कस्य महाराजः । बृहन्नला-न न । ब्राह्मणेन सहास्ते । अभिमन्युः-ब्राह्मणेनेति । भगवन् ! अभिवादये । भगवान् - एह्येहि वत्स ! शौण्डीर्यं धृतिविनयं दयां स्वपक्षे माधुर्यं धनुषि जयं पराक्रमं च । एकस्मिन् पितरि गुणानवाप्नुहि त्वं शेषाणां यदपि च रोचते चतुर्णाम् ॥ ५४ ॥ राजा - एह्येहि पुत्र ! कथं न मामभिवादयसि । अहो उत्सिक्तः खल्वयं क्षत्रियकुमारः । अहमस्य दर्पप्रशमनं करोमि । अथ केनायं गृहीतः । भीमसेनः - महाराज ! मया । अभिमन्युः - अशस्त्रेणेत्यभिधीयताम् । भीमसेनः - शान्तं शान्तं पापम् । सहजौ मे प्रहरणं भुजौ पीनांसकोमलौ । तावाश्रित्य प्रयुध्येयं दुर्बलैर्गृह्यते धनुः ॥ ५५ ॥ अभिमन्युः - मा तावद् भोः ! बाहुरक्षौहिणी यस्य निर्व्याजो यस्य विक्रमः । किं भवान् मध्यमस्तातस्तस्यैतत् सदृशं वचः ॥ ५६ ॥ भगवान् - पुत्र ! कोऽयं मध्यमो नाम । अभिमन्युः- श्रूयताम् । नन्वनुत्तरा वयं ब्राह्मणेषु, साध्वन्यो ब्रूयात् । राजा - भवतु भवतु । मद्वचनात् पुत्र ! कोऽयं मध्यमो नाम । अभिमन्युः - श्रूयताम् । येन, तुलयित्वा जरासन्धं कण्ठश्लिष्टेन बाहुना । असह्यकर्म तत् कृत्वा नीतः कृष्णोऽतदर्हताम् ॥ ५७ ॥ न ते क्षेपेण रुष्यामि रुष्यता भवता रमे । किमुक्त्वा नापराद्धोऽहं कथं तिष्ठति यात्विति ॥ ५८ ॥ अभिमन्युः- यद्यहमनुग्राह्यः, पादयोः समुदाचारः क्रियतां निग्रहोचितः । बाहुभ्यामाहृतं भीमो बाहुभ्यामेव नेष्यति ॥ ५९ ॥ ( ततः प्रविशत्युत्तरः । ) उत्तरः- मिथ्याप्रशंसा खलु नाम कष्टा येषां तु मिथ्यावचनेषु भक्तिः । अहं हि युद्धाश्रयमुच्यमानो वाचानुवर्ती हृदयेन लज्जे ॥ ६० ॥ ( उपसृत्य ) भगवन् ! अभिवादये । भगवान् -स्वस्ति । उत्तरः- तात ! अभिवादये । राजा - एह्येहि पुत्र ! आयुष्मान् भव । पुत्र ! पूजिताः कृतकर्माणो योधपुरुषाः । उत्तर:- पूजिताः । पूज्यतमस्य क्रियतां पूजा । राजा - पुत्र ! कस्मै । उत्तरः- इहात्रभवते धनञ्जयाय । राजा - कथं धनञ्जयायेति । उत्तरः- अथकिम् । अत्रभवता, श्मशानाद्धनुरादाय तूणी चाक्षयसायके । नृपा भीष्मादयो भग्ना वयं च परिरक्षिताः ॥ ६१ ॥ बृहन्नला - प्रसीदतु प्रसीदतु महाराजः । अयं बाल्यात्तु सम्भ्रान्तो न वेत्ति प्रहरन्नपि । कृत्स्नं कर्म स्वयं कृत्वा परस्येत्यवगच्छति ॥ ६२ ॥ उत्तर:- व्यपनयतु भवाञ्छङ्काम् । इदमाख्यास्यते, प्रकोष्ठान्तरसङ्गढं गाण्डीवज्याहतं किणम् । यत्तद् द्वादशवर्षान्ते नैव याति सवर्णताम् ॥ ६३ ॥ बृहन्नला- एतन्मे पारिहार्याणां व्यावर्तनकृतं किणम् । सन्निरोधविवर्णत्वाद् गोधास्थानमिहागतम् ॥ ६४ ॥ राजा - पश्यामस्तावत् । बृहन्नला- रुद्रबाणावलीढाङ्गो यद्यहं भारतोऽर्जुनः । अव्यक्तं भीमसेनोऽयमयं राजा युधिष्ठिरः ॥ ६५ ॥ राजा - भो धर्मराज ! वृकोदर ! धनञ्जय ! कथं न मां विश्वसिथ । भवतु भवतु प्राप्तकाले । बृहन्नले ! प्रविश त्वमभ्यन्तरम् । बृहन्नला - यदाज्ञापयति महाराजः । भगवान् - अर्जुन ! नखलु नखल प्रवेष्टव्यम् । तीर्णप्रतिज्ञा वयम् । अर्जुन : - यदाज्ञापयत्यार्यः । राजा- शूराणां सत्यसन्धानां प्रतिज्ञां परिरक्षताम् । पाण्डवानां निवासेन कुलं मे नष्टकल्मषम् ॥ ६६ ॥ अभिमन्युः - इहात्रभवन्तो मे पितरः । तेन खलु, न रुष्यन्ति मया क्षिप्ता हसन्तश्च क्षिपन्ति माम् । दिष्ट्या गोग्रहणं स्वन्तं पितरो येन दर्शिताः ॥ ६७ ॥ (भीमसेनमुद्दिश्य) भोस्तात ! अज्ञानात्तु मया पूर्वं यद् भवान् नाभिवादितः । तस्य पुत्रापराधस्य प्रसादं कर्तुमर्हसि ॥ ६८ । भीमसेन: - एह्येहि पुत्र ! पितृसदृशपराक्रमो भव । पुत्र ! अभि- वादयस्व पितरम् । अभिमन्युः - भोम्तात ! अभिवादये । अर्जुन :- एह्येहि पुत्र ! अयं स हृदयह्लादी पुत्रगात्रसमागमः । यत्तद् द्वादशवर्षान्ते प्रोषितः पुनरागतः ॥ ६९ ॥ पुत्र ! अभिवाद्यतां विराटेश्वरः । अभिमन्युः - अभिवादये । राजा- - एह्येहि वत्स ! यौधिष्ठिरं धैर्यमवाप्नुहि त्वं भैमं बलं नैपुणमर्जुनस्य । माद्रीसुतात् कान्तिमथाभिरूप्यं कीर्तिं च कृष्णस्य जगत्प्रियस्य ॥७०॥ ( आत्मगतम् ) उत्तरासन्निकर्षस्तु मां बाधते । किमिदानीं करिष्ये । भवतु दृष्टम् । कोऽत्र । ( प्रविश्य ) भटः- जयतु महाराजः । राजा - आपस्तावत । पचरात्रे [ ii. 70. - ६ भट: - यदाज्ञापयति महाराजः । (निष्क्रम्य प्रविश्य ) इमा आपः । राजा - अर्जुन ! गोग्रहण विजयशुल्कार्थं प्रतिगृह्यतामुत्तरा । भगवान् एतदवनतं शिरः । ९ अर्जुनः - कथं चारित्रं मे तुलयति । भो राजन् ! इष्टमन्तःपुरं सर्वं मातृवत् पूजितं मया । उत्तरेपा त्वया दत्ता पुत्रार्थे प्रतिगृह्यते ॥ ७१ ॥ भगवान् - एतदुन्नतं शिरः । राजा - भवतु पितामहसकाशमुत्तरं प्रेपयामः । धर्मराज ! वृकोदर ! ३ धनञ्जय ! इत इतो भवन्तः । (निष्क्रान्ताः सर्वे । ) ( ततः प्रविशति भटः । ) ( तत: प्रविशतो भीष्मद्रोणौ । ) द्वितीयोऽङ्कः । अथ तृतीयाऽङ्कः । ३ भटः- भो भोः ! निवेद्यतां निवेद्यतां सर्वक्षत्राचार्यपुरोगाणां क्षत्रि- याणाम् । एष हि, इति । अपास्य नारायणचक्रजं भयं चिरप्रनष्टान् परिभूय बान्धवान् । धनुः सहायैः कुरुभिर्न रक्षितो हृतोऽभिमन्युः क्रियतां व्यपत्रपा ॥ १ ॥ द्रोणः - मूत ! कथय कथय । iii. 6. ] तृतीयोऽङ्कः । रणभुव उपनीतः केन मे शिष्यपुत्रः क इह मम शरैस्तैर्दैवतैर्योद्धुकामः । कथय पुरुषसारं यावदत्रं बलं वा बलवत इव दूतांस्तत्र सम्प्रेषयामि ॥ २ ॥ भीष्मः - सूत ! कथय कथय । भग्नापयानेष्वनभिज्ञदोषस्तारुण्यभावेन विलम्बमानः । केनैष हस्तिग्रहणोद्यतेन यूथे प्रयाते कलभो गृहीतः ॥ ३॥ (ततः प्रविशति दुर्योधनः कर्णः शकुनिश्व । ) दुर्योधनः- मूत ! कथय कथय । केनापनीतोऽभिमन्युः । अहमेवैनं मोक्षयामि । कुतः, मम हि पितृभिरस्य प्रस्तुतो ज्ञातिभेद- स्तदिह मम च दोषो वक्तृभिः पातनीयः । अथ च मम स पुत्रः पाण्डवानां तु पश्चात् सति च कुलविरोधे नापराध्यन्ति बालाः ॥। ४ ॥ कर्णः - अतिस्निग्धमनुरूपं चाभिहितम् । गान्धारीमातः ! मा तावत् स्वजनधिया तु बालभावाद् व्यापन्नः समरमुखे तव प्रियार्थम् । अस्माभिर्न च परिरक्षितोऽभिमन्यु- गृह्यन्तां धनुरपनीय वल्कलानि ॥ ५ ॥ शकुनिः–बहुनाथः खलु सौभद्रः । मुक्त एवेति सम्प्रधार्यताम् । कुतः, दर्जुनपुत्र इत्यवगतो राजा विराटः स्वयं स्मृत्वा चाद्य रणाजिरादपगतं मुञ्चेत् स दामोदरम् । क्रोधोद्धूतहलात् प्रलम्बमधनाद् भीतेन मुच्येत वा भीमस्त्वेन मिहानयेद् बलमहान् हत्वा रिपूनूर्जितान् ॥ ६ ॥ १. रणपटुरपनीतः । पचरात्रे [ iii. 6. —— द्रोणः - सूत ! कथय कथय । कथमिदानीं गृहीतः । पर्यस्तोऽस्य रथो या नु चपलाश्वकाक्षमा मेदिनी तूणी क्षीणशरे त्वमस्य विगुणो ज्याच्छेदवन्ध्यं धनुः । एता देवकृता भवन्ति रथिनां युद्धाश्रया व्यापदो बाणैरप्यवकृष्यते खलु परैः स्वाधीनशिक्षस्तु सः ॥ ७ ॥ सूतः - आयुष्मन् ! परुषमयो धनुर्वेदः । किमायुष्मता न ज्ञायते । न चापि दोषा भवताभिभाषिताः स चापि बाणौघमयो महारथः । अलातचक्रप्रतिमस्तु मे रथो गृहीत एवापतता पदातिना ॥ ८ ॥ सर्वे कथं पदातिनेति । अथ कीदृशः म पदातिः । - सूतः - किमभिधास्यामि रूपं वा पराक्रमं वा । भीष्मः - रूपेण स्त्रियः कथ्यन्ते । पराक्रमेण तु पुरुषाः । तत् पराक्रमो- ऽस्याभिधीयताम् । सूतः - आयुष्मन् ! दुर्योधनः- किमर्थं स्तूयते कोऽपि भवता गर्विताक्षरैः । arrai नास्ति मे त्रासो यद्येष पवनो जवे ॥ ९ ॥ सूतः - श्रोतुमर्हति महाराजः । तेन खलु, लङ्घयित्वा जवेनाश्वान् न्यस्त आपम्करे करः । प्रसारितहयग्रीवो निष्कम्पश्च रथः स्थितः ॥ १० ॥ भीष्मः - तेन हि न्यस्यन्तामायुधानि । 1 सवें- किमर्थम् । १. अवातचक्र । iii. 16. ] तृतीयोऽङ्कः । भीष्म:-- हृतप्रवेगो यदि वा न वा रथो वृकोदरस्याङ्कगतः स चिन्त्यताम् । पुरा हि तेन द्रुपदात्मजां हरन् पदातिनैवावजितो जयद्रथः ॥ ११ ॥ द्रोणः - सम्यगाह गाङ्गेयः । बाल्योपदेशात् प्रभृत्यहं तस्य जवमव- गच्छामि । इष्वस्त्रशालायां हि, कर्णायते तेन शरे विमुक्ते विकम्पितं तस्य शिरो मयोक्तम् । गत्वा तदा तेन च बाणतुल्य- मप्राप्तलक्षः स शरो गृहीतः ॥ १२ ॥ शकुनि:- अहो हास्यमभिधानम् । नास्त्यन्यो बलवाँलोके सर्वमिष्टेषु कभ्यते । जगद्व्याप्तान् भवन्तः किं सर्वे पश्यन्ति पाण्डवान् ॥ १३ ॥ भीष्मः - गान्धारराज ! सर्वमनुमानात् कथ्यते । वयं व्यपाश्रित्य रणं प्रयामः शस्त्राणि चापानि रथाधिरूढाः । द्वावेव दोर्भ्यां समरे प्रयातौ हलायुधश्चैव वृकोदरश्च ॥ १४ ॥ शकुनि: - - एकेनैव वयं भग्नाः सहसा साहसप्रियाः । उत्तरं च तमप्येके कथयिष्यन्ति फल्गुनम् ॥ १५ ॥ द्रोणः - भो गान्धारराज ! अत्रापि तावद् भवतः सन्देहः । किमुत्तरेणापि रणे विकृष्यते निमृष्टशुष्काशनिगर्जितं धनुः । किमुत्तरस्यापि शरैर्हतातपः १. बाहुना । कृतो मुहूर्तास्तमितो दिवाकरः ॥ १६ ॥ पञ्चरात्रे [ iii. 16. भीष्मः- गान्धारीमातः ! विस्पष्टं खलु कथ्यते । ननु जानीते भवान् । बाणपुङ्खाक्षरैर्वाक्यैयजिह्वापरिवर्तिभिः । विकृष्टं खलु पार्थेन न च श्रोत्रं प्रयच्छति ॥ १७ ॥ ( प्रविश्य ) ( सूत उपनयति । ) सूतः - जयत्वायुष्मान् । शान्तिकर्मानुष्ठीयताम् । ३ भीष्मः - किमर्थम् । सूतः - उचितं ते पुरा कर्तुं ध्वजे बाणप्रधर्षिते । अयं हि बाणः कस्यापि पुखे नामाभिधीयते ॥ १८ ॥ भीष्मः - आनय । भीष्मः - (गृहीत्वा निरीक्ष्य ) वत्स ! गान्धारराज ! जराशिथिलं मे चक्षुः । वाच्यतामयं शरः । शकुनिः - ( गृहीत्वानुवाच्य ) अर्जुनस्य । ( इति क्षिपति । द्राणस्य . पादयोः पतति । ) द्रोणः - ( शरं गृहीत्वा ) एह्येहि वत्स ! एप शिष्येण मे क्षिप्तो गाङ्गेयं वन्दितुं शरः । पादयोः पतितो भूमौ मां क्रमेणाभिवन्दितुम् ॥ १९ ॥ शकुनि:- यौधः स्यादर्जुनो नाम तेनायं चोज्झितः शरः । लिखितं चोत्तरेणापि प्रकाशमुपनीयताम् ॥ २० ॥ दुर्योधनः- तेषां राज्यप्रदानार्थमनृतं कथ्यते यदि । राज्यस्यार्धं प्रदास्यामि यावद् दृप्रे युधिष्ठिरे ॥ २१ ॥ -iii. 24.] तृतीयोऽङ्कः । ( प्रविश्य ) ( ततः प्रविशत्युत्तरः । ) भटः- जयतु महाराजः । विराटनगराद् दूतः प्राप्तः । दुर्योधनः- प्रवेश्यताम् । भटः- यदाज्ञापयति महाराजः । (निष्क्रान्तः ) उत्तर:- अध्वानमल्पमतिमुक्तजवैस्तुरङ्गै- रागच्छता पथि रथेन विलम्बितं मे । कौन्तेयबाणनिहतैर्द्विरदैः समन्ताद् दुःखेन यान्ति तुरगा विषमा हि भूमिः ॥ २२ ॥ ( प्रविश्य कृताञ्जलिः ) भो भो ! आचार्यपितामहपुरोगं सर्व- राजमण्डलमभिवादये । सर्वे - आयुष्मान् भव । द्रोणः - किमाह तत्रभवान् विराटेश्वरः । उत्तरः- नाहं तत्रभवता प्रेषितः । द्रोणः - अथ केन त्वं प्रेषितः । उत्तरः- तत्रभवता युधिष्ठिरेण । द्रोणः - किमाह धर्मराजः । उत्तर:- रः - श्रूयताम्, उत्तरा मे स्नुषा लब्धा प्रतीक्षे राजमण्डलम् । तत्रैव किमिवास्तु विवाहः क प्रवर्तताम् ॥ २३ ॥ शकुनिः- तत्रैव तत्रैव । द्रोण:- इत्यर्थं वयमानीताः पञ्चरात्रोऽपि वर्तते । धर्मेणावर्जिता भिक्षा धर्मेणैव प्रदीयताम् ॥ २४ ॥ दुर्योधन:- बाढं दत्तं मया राज्यं पाण्डवेभ्यो यथापुरम् । मृतेऽपि हि नराः सर्वे सत्ये तिष्ठन्ति तिष्ठति ॥ २५ ॥ द्रोण:- हन्त सर्वे प्रसन्नाः स्मः प्रवृद्धकुलसङ्ग्रहाः । इमामपि महीं कृत्स्नां राजसिंहः प्रशास्तु नः ॥ २६ ॥ ( निष्क्रान्ताः सर्वे । ) अवसितं पञ्चरात्रम् । ॥ श्रीः ॥ भासनाटकचक्रे मध्यमव्यायोगः । ( नान्द्यन्ते ततः प्रविशति सूत्रधारः । ) सूत्रधारः - पायात्स वोऽसुरवधूहृदयावसादः पादो हरेः कुवलयामलखड्गनीलः । यः प्रोद्यतस्त्रिभुवनक्रमणे रराज वैडूर्यसंक्रम इवाम्बरसागरस्य ॥ १ ॥ एवमार्यमिश्रान्त्रिज्ञापयामि । अये किंनु खलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते । अङ्ग पश्यामि । ( नेपथ्ये ) भोस्तात ! कोनु खल्वेषः । सूत्रधारः - भवतु, विज्ञातम् । भोः शब्दोच्चारणादस्य ब्राह्मणोऽयं न संशयः । त्रास्यते निर्विशङ्केन केनचित्पापचेतसा ॥ २ ॥ ( पुनर्नेपथ्ये ) भोस्तात ! कोनुखल्वेषः । सूत्रधारः - हन्त दृढं विज्ञातं । एष खलु पाण्डवमध्यमस्यात्मजो हिडिम्बारणिसंभूतो राक्षसाभिरकृतवैरं ब्राह्मणजनं वित्रासयति । भोः कष्टम् । अत्रहि [^१] भुवनैकमणे । [^२] कष्टं कष्टं खलु पत्नीसुतपरिवृतस्य ब्राह्मणस्य वृत्तान्तः । भ्रान्तैः सुतैः परिवृतस्तरुणैः सदारैः वृद्धो द्विजो निशिचरानुचरः स एषः । व्याघ्रानुसारचकितो वृषभः सधेनुः सन्त्रस्तवत्सक इवाकुलतामुपैति ॥ ३ ॥ (निष्क्रान्ताः । ) स्थापना । (ततः प्रविशति तत्रयकलत्रपरिवृतो ब्राह्मणः पृष्ठतो घटोत्कचश्च । ) ब्राह्मणः-भोः कोनु खल्वेषः । तरुणरविकरप्रकीर्णकेशो भ्रुकुटिपुटोज्ज्वलपिङ्गलायताक्षः । सतडिदिव घनः सकण्ठसूत्रो युगनिधने प्रतिमाकृतिर्हरस्य ॥४॥ प्रथमः- भोस्तात ! कोनु खल्वेषः । ग्रहयुगलनिभाक्षः पीनविस्तीर्णवक्षाः कनककपिलकेशः पीतकौशेयवासाः । तिमिरनिवहवर्ण: पाण्डरोद्वृत्तदंष्ट्रो नव इव जलगर्भो लीयमानेन्दुलेखः ॥ ५ ॥ द्वितीय:- क एष भोः ! कलभदशनदंष्ट्रो लाङ्गलाकारनासः करिवरकरबाहुर्नीलजीमूतवर्णः । हुतहुतवहदीप्तो यः स्थितो भाति भीम- स्त्रिपुरपुरनिहन्तुः शङ्करस्येव रोषः ॥ ६ ॥ तृतीयः - भोरतात ! कोनुखल्वयमस्मान्पीडयति । [^१] श्रान्तैः। [^२] सरोषः । [^३] व्याघ्रानुचारचकितो, व्याघ्रानुसारचरितो । वज्रपातोऽचलेन्द्राणां श्येनः सर्वपतत्रिणाम् । मृगेन्द्रो मृगसंघानां मृत्युः पुरुषविग्रहः ॥ ७ ॥ ब्राह्मणी- अय्य को एसो अम्हाअं सन्दावेइ । [ आर्य ! क एषोऽ- स्मान् सन्तापयति । ] घटोत्कचः - भो ब्राह्मण ! तिष्ठ तिष्ठ । किं यासि मद्भयविनाशितधैर्यसारो वित्रस्तदारसुतरक्षणहीनशक्ते ! । तार्क्ष्याग्र्यपक्षपवनोद्धतरोषवह्नि- तीव्रः कलत्रसहितो भुजगो यथार्तः ॥ ८ ॥ भो ब्राह्मण ! न गन्तव्यं न गन्तव्यम् । वृद्ध: - ब्राह्मणि ! न भेतव्यम् । पुत्रकाः न भेतव्यम् । सविमर्शा ह्यस्य वाणी । घटोत्कचः - भोः ! कष्टम् । जानामि सर्वत्र सदा च नाम द्विजोत्तमाः पूज्यतमाः पृथिव्याम् । अकार्यमेतश्च मयाद्य कार्यं मातुर्नियोगादपनीयशङ्काम् ॥ ९ ॥ वृद्धः - ब्राह्मणि ! किं न स्मरसि तत्रभवता जलक्लिन्नेन मुनिनोक्तं-- अनपेतराक्षसमिदं वनमप्रमादेन गन्तव्यमिति । तदेवोत्पन्नं भयम् । ब्राह्मणी - किं दाणि अय्यो मज्झत्थवण्णो विअ दिस्सदि । [ कि- मिदानीमार्यो मध्यस्थवर्ण इव दृश्यते । ] वृद्धः- किं करिष्यामि मन्दभाग्यः । ब्राह्मणी - णं विक्कोसामो । [ ननु विक्रोशामः । ] प्रथमः- भवति कस्य वयं विक्रोशामः । [^१] भुजङ्गानाम् । [^२] अपनीतशङ्कम् । इदं हि शून्यं तिमिरोत्करप्रभैर्नगप्रकारैरवरुद्धदिक्पथम् । खगैर्मृगैश्चापि समाकुलान्तरं वनं निवासाभिमतं मनस्विनाम् ॥१०॥ वृद्धः - ब्राह्मणि ! न भेतव्यं, न भेतव्यम् । मनस्विजननिवास- योग्यमिति श्रुत्वा विगत इव मे संत्रासः । शङ्के नातिदूरेण पाण्डवाश्रमेण भवितव्यं । पाण्डवास्तु, युद्धप्रियाश्च शरणागतवत्सलाच दीनेषु पक्षपतिताः कृतसाहसाश्च । एवंविधप्रतिभयाकृतिचेष्टितानां दण्डं यथार्हमिह धारयितुं समर्थाः ॥ ११ ॥ प्रथमः- भोस्तात ! न तत्र पाण्डवा इति मन्ये । वृद्ध: - कथं त्वं जानीषे । प्रथमः- श्रुतं मया तस्मादागच्छता केनचिद्ब्राह्मणेन शतकुम्भं नाम यज्ञमनुभवितुं महर्षेर्धौम्यस्याश्रमं गता इति । वृद्ध: - हन्त हताः स्मः । प्रथमः- तात ! न तु सर्व एव । आश्रमपरिपालनार्थमिह स्थापितः किल मध्यमः । वृद्धः - यद्येवं सन्निहिताः सर्वे पाण्डवाः । प्रथमः- स चाप्यस्यां वेलायां व्यायामपरिचयार्थं विप्रकृष्टदेशस्थ इति श्रूयते । वृद्धः-हन्त निराशाः स्मः । भवतु पुत्र व्यपाश्रयिष्ये तावदेनम् । प्रथमः- अलमलं परिश्रमेण । वृद्धः-पुत्र ! निर्वेदप्रत्यार्थिनी खलु प्रार्थना । भवतु पश्यामस्तावत् । भो भोः पुरुष ! अस्त्यस्माकं मोक्षः । [^१] नात्रातिदूरेण । [^२] व्यपश्रयिष्ये । [^३] 'कथितं' इति विवक्षितं भाति । घटोत्कचः - मोक्षोऽस्ति समयतः । वृद्धः - कः समयः । घटोत्कचः - अस्ति मे तत्रभवती जननी । तयाहमाज्ञप्तः । पुत्र ! ममोपवासनिसर्गार्थमस्मिन्वनप्रदेशे कश्चिन्मानुषः प्रतिगृह्यानेतव्य इति । ततो मयासादितो भवान् । पन्या चारित्रशालिन्या द्विपुत्रो मोक्षमिच्छसि । बलाबलं परिज्ञाय पुत्रमेकं विसर्जय ॥ १२ ॥ वृद्ध : - हं भो राक्षसापसद ! किमहमब्राह्मणः । ब्राह्मणः श्रुतवान्वृद्धः पुत्रं शीलगुणान्वितम् । पुरुषादस्य दत्वाहं कथं निर्वृतिमाप्नुयाम् ॥ १३ ॥ घटोत्कच:- यद्यर्थितो द्विजश्रेष्ठ ! पुत्रमेकं न मुञ्चसि । सकुटुम्बः क्षणेनैव विनाशमुपयास्यसि ॥ १४ ॥ वृद्ध: - एष एव मे निश्चयः । कृतकृत्यं शरीरं मे परिणामेन जर्जरम् । राक्षसाग्नौ सुतापेक्षी होण्यामि विधिसंस्कृतम् ॥ १५ ॥ ब्राह्मणी- अय्य! मा मा एवं । पदिमत्तधम्मिणी पदिव्वदत्ति णाम । गहीदफळेण एदिणा सरीरेण अय्यं कुळं च रक्खिदुमिच्छामि ! [आर्य, मा मैवम् । पतिमात्रधर्मिणी पतिव्रतेति नाम । गृहीतफलेनैतेन शरीरेणार्यं कुलं च रक्षितुमिच्छामि । ] घटोत्कचः - भवति ! न खलु स्त्रीजनोऽभिमतस्तत्रभवत्या ? । वृद्धः - अनुगमिष्यामि भवन्तम् । घटोत्कचः - आः वृद्धस्त्वमपसर । [^१] परिमृग्या° । [^२] किमहं श्रुतवान् । प्रथमः- भोस्तात ! ब्रवीमि खलु तावत्किंचित् । वृद्धः - ब्रूहि ब्रूहि शीघ्रम् । प्रथमः- मम प्राणैर्गुरुप्राणानिच्छामि परिरक्षितुम् । रक्षणार्थं कुलस्यास्य मोक्तुमर्हति मां भवान् ॥ १६ ॥ द्वितीयः - आर्य ! मा मैवम् । ज्येष्ठः श्रेष्ठः कुले लोके पितॄणां च सुसंप्रियः । ततोऽहमेव यास्यामि गुरुवृत्तिमनुस्मरन् ॥ १७ ॥ तृतीयः - आर्यौ ! मा मैवम् । ज्येष्ठो भ्राता पितृसमः कथितो ब्रह्मवादिभिः। ततोऽहं कर्तुमस्म्यर्हो गुरूणां प्राणरक्षणम् ॥ १८ ॥ प्रथमः- वत्स ! मा मैवम् । आपदं हि पिता प्राप्तो ज्येष्ठपुत्रेण तार्यते । ततोऽहमेव यास्यामि गुरूणां प्राणरक्षणात् ॥ १९ ॥ वृद्धः - ज्येष्ठमिष्टतमं न शक्नोमि परित्यक्तुम् । ब्राह्मणी -जह अय्यो ज्येष्ठमिच्छदि तह अहं पि कणिट्ठमिच्छामि । [ यथार्यो ज्येष्ठमिच्छति तथाहमपि कनिष्ठमिच्छामि । ] द्वितीयः - पित्रोरनिष्टः कस्येदानीं प्रियः । घटोत्कचः - अहं प्रीतोऽस्मि । शीघ्रमागच्छ । द्वितीयः- धन्योऽस्मि यद् गुरुप्राणाः स्वैः प्राणैः परिरक्षिताः । बन्धुस्नेहाद्धि महतः कायस्नेहस्तु दुर्लभः ॥ २० ॥ घटोत्कचः- अहो स्वजनवात्सल्यमस्य ब्राह्मणबटोः । द्वितीयः - भोस्तात ! अभिवादये । [^१] 'मनुस्मर । [^२] धार्यते । [^३] कालस्नेहस्तु । वृद्धः - एह्येहि पुत्र विनिमाय गुरुप्राणान् स्वैः प्राणैर्गुरुवत्सल । अकृतात्मदुरावापं ब्रह्मलोकमवाप्नुहि ॥ २१ ॥ द्वितीयः - अनुगृहीतोऽस्मि । अम्ब ! अभिवादये । ब्राह्मणी - जाद ! चिरं जीव । [ जात ! चिरं जीव । ] द्वितीयः- अनुगृहीतोऽस्मि । आर्य ! अभिवादये । प्रथमः- एह्येहि वत्स । परिष्वजस्य गाढं मां परिष्वक्तः शुभैर्गुणैः । कीर्त्या तव परिष्वक्ता भविष्यति वसुन्धरा ॥ २२ ॥ द्वितीयः - अनुगृहीतोऽस्मि । तृतीयः - आर्य ! अभिवादये । द्वितीय:- स्वस्ति । तृतीय:- अनुगृहीतोऽस्मि । द्वितीयः - भोः पुरुष ! किंचिद्ब्रवीमि । घटोत्कचः - ब्रूहि ब्रूहि शीघ्रम् । द्वितीयः - एतस्मिन्वनान्तरे जलाशय इव दृश्यते । तत्र मे प्रकल्पित- परलोकस्य पिपासाप्रतीकारं करिष्यामि । घटोत्कचः - दृढव्यवसायिन् ! गम्यताम् । अतिक्रामति मातुराहार- कालः । शीघ्रमागच्छ । द्वितीयः - भोस्तात ! एष गच्छामि । (निष्क्रान्तः । ) वृद्ध: - हा हा परिमुषिताः स्मो भोः ! परिमुषिताः स्मः । यस्त्रिशृंगो मम त्वासीन्मनोज्ञो वंशपर्वतः । स मध्यशृंगभङ्गेन मनस्तपति मे भृशम् ॥ २३ ॥ हा पुत्रक ! कथं गत एव । तरुण ! तरुणानुरूपकान्ते ! नियमपराध्ययनप्रसक्तबुद्धे ! । कथमिव गजराजदन्तभग्न- स्तरुरिव यास्यसि पुष्पितो विनाशम् ॥ २४ ॥ घटोत्कचः - चिरायते खलु ब्राह्मणबटुः । अतिक्रामति मातुराहार- कालः । किंनु खलु करिष्ये । भवतु दृष्टम् । भो ब्राह्मण ! आहूयतां तव पुत्रः । वृद्ध: - आः अतिराक्षसं खलु ते वचनम् । घटोत्कचः-कथं रुष्यति । मर्षयतु भवान्मर्षयतु । अयं मे प्रकृति- दोषः । अथ किंनामा तव पुत्रः । वृद्ध: - एतदपि न शक्यं श्रोतुम् । घटोत्कचः - युक्तं भोः ! । ब्राह्मणकुमार ! किंनामा ते भ्राता । प्रथमः- तपस्वी मध्यमः । घटोत्कचः - मध्यम इति सदृशमस्य । अहमेवाह्वयामि । भो मध्यम ! मध्यम ! शीघ्रमागच्छ । (ततः प्रविति भीमसेनः । ) भीमः कस्यायं स्वरः । खगशतविरुते विरौति तारं द्रुमगहने दृढसंकटे वनेऽस्मिन् । जनयति च मनोज्वरं स्वरोऽयं बहुसदृशो हि धनंजयस्वरस्य ॥ २५ ॥ घटोत्कचः - चिरायते खलु ब्राह्मणबटुः । अतिक्रामति मातुराहार कालः । किं नु खलु करिष्ये । भवतु दृष्टम् । उच्चैः शब्दापयामि । भो मध्यम ! शीघ्रमागच्छ । [^१] धनंजयस्य शब्दः । भीमः - भोः ! कोनु खल्वेतस्मिन्वनान्तरे मम व्यायामविघ्नमुत्पाद्य मध्यम इति मां शब्दापयति । भवतु पश्यामस्तावत् । ( परिक्रम्या- वलोक्य सविस्मयं ) अहो दर्शनीयोऽयं पुरुषः । अयं हि, सिंहास्यः सिंहदंष्ट्रो मधुनिभनयनः स्निग्धगम्भीरकण्ठो बभ्रुभ्रुः श्येननासो द्विरदपतिहनुर्दीप्तविश्लिष्टिकेशः । व्यूढोरा वज्रमध्यो गजवृषभगतिर्लंबपीनांसबाहुः सुव्यक्तं राक्षसीजो विपुलबलयुतो लोकवीरस्य पुत्रः ॥२६॥ घटोत्कचः - चिरायते खलु ब्राह्मणबटुः । उच्चैः शब्दापयामि । भो भो मध्यम ! शीघ्रमागच्छ । भीमः - भोः ! प्राप्तोऽस्मि । घटोत्कचः-न खल्वयं ब्राह्मणबटुः । अहो दर्शनीयोऽयं पुरुषः । य एषः- सिंहाकृतिः कनकतालसमानबाहुः मध्ये तनुर्गरुडपक्षविलिप्तपक्षः । विष्णुर्भवेद्विकसिताम्बुजपत्रनेत्रो नेत्रे ममाहरति बन्धुरिवागतोऽयम् ॥ २७ ॥ भो मध्यम ! त्वां खल्वहं शब्दपयामि । भीमः - अतः खल्वहं प्राप्तः । घटोत्कचः - किं भवानपि मध्यमः । भीमः - न तावदपरः । मध्यमो ऽहमवध्यानामुत्सिक्तानां च मध्यमः । मध्यमोऽहं क्षितौ भद्र भ्रातॄणामपि मध्यमः ॥ २८ ॥ घटोत्कचः - भवितव्यम् । [^१] दीर्घ० । [^२] विलिप्तवक्षाः । भीम:-अपिच, मध्यमः पञ्चभूतानां पार्थिवानां च मध्यमः । भये च मध्यमो लोके सर्वकार्येषु मध्यमः ॥ २९ ॥ वृद्धः- मध्यमस्त्विति संप्रोक्ते नूनं पाण्डवमध्यमः । अस्मान्मोक्तुमिहायातो दर्पान्मृत्योरिवोत्थितः ॥ ३० ॥ ( प्रविश्य ) मध्यमः- अभ्यामाचम्य पद्मिन्यां परलोकेषु दुर्लभम् । आत्मनैवात्मनो दत्तं पद्मपत्रोज्ज्वलं जलम् ॥ ३१ ॥ ( उपगम्य ) भोः पुरुष ! प्राप्तोऽस्मि । घटोत्कचः - भवानिदानिं खल्वसि मध्यमः । मध्यम ! इत इतः । वृद्धः–( भीमसेनमुपगम्य ) भो मध्यम ! परित्रायस्व ब्राह्मणकुलम् । भीमः - न भेतव्यम् न भेतव्यम् । मध्यमोऽहमभिवादये । वृद्ध: - वायुरिव दीर्घायुर्भव । भीमः - अनुगृहीतोऽस्मि । कुतो भयमार्यस्य । वृद्धः-श्रूयताम् । अहं खलु कुरुराजेन युधिष्ठिरेणाधिष्ठितपूर्वे कुरुजाङ्गले यूपग्रामवास्तव्यो माठरसगोत्रश्च कल्पशाखाध्वर्युः केशवदासो नाम ब्राह्मणः । तस्य ममोत्तरस्यां दिशि उद्यामकग्राम- वासी मातुलः कौशिकसगोत्रो यज्ञबन्धुर्नामास्ति । तस्य पुत्रोपनय- नार्थं सकलोऽस्मि प्रस्थितः । भीमः - अरिष्टोऽस्तु पन्थाः । ततस्ततः । वृद्धः- ततो मामेष हि- [^१] भवे । [^२] प्राप्तवान् इदानीं खल्वसि । सजलजलदगात्रः पद्मपत्रायताक्षो मृगपतिगतिलीलो राक्षसः प्रोग्रदंष्ट्रः । जगति विगतशङ्कस्त्वद्विधानां समक्षं ससुतपरिजनं भो ! हन्तुकामोऽभ्युपैति ॥ ३२ ॥ भीमः - एवम् । अनेन ब्राह्मणजनस्य मार्गविघ्नः कृतः । भवतु निग्रहिष्यामि तावदेनम् । भोः पुरुष ! तिष्ठ तिष्ठ । घटोत्कचः - एष स्थितोऽस्मि । भीमः - किमर्थं ब्राह्मणजनम१पराध्यसि । पुत्रनक्षत्रकीर्णस्य पत्नीकान्तप्रभस्य च । वृद्धस्य विप्रचन्द्रस्य भवान् राहुरिवोत्थितः ॥ ३३॥ घटोत्कचः - अथ किम् । राहुरेव । भीमः - आः, निवृत्तव्यवहारोऽयं सदारस्तनयैः सह । सर्वापराधेऽवध्यत्वान्मुच्यतां द्विजसत्तमः ॥ ३४ ॥ घटोत्कचः-न मुच्यते । भीमः - ( आत्मगतम्) भोः ! कस्य पुत्रेणानेन भवितव्यम् । भ्रातॄणां मम सर्वेषां कोऽयं भोः ! गुणतस्करः । दृष्ट्वैतद्बालशौण्डीर्यं सौभद्रस्य स्मराम्यहम् ॥ ३५ ॥ ( प्रकाशम् ) भोः पुरुष ! मुच्यताम् । घटोत्कचः-न मुच्यते । मुच्यतामिति विस्रब्धं ब्रवीति यदि मे पिता । न मुच्यते तथा ह्येष गृहीतो मातुराज्ञया ॥ ३६ ॥ [^१] पर ( रा ) स्यसि । भीमः - ( आत्मगतम् ) कथं मातुराज्ञेति । अहो गुरुशुश्रूषः खल्वयं तपस्वी । माता किल मनुष्याणां दैवतानां च दैवतम् । मातुराज्ञां पुरस्कृत्य वयमेतां दशां गताः ॥ ३७ ॥ ( प्रकाशम्) भो: पुरुप ! प्रष्टव्यं खलु तावदस्ति घटोत्कचः - ब्रूहि ब्रूहि, शीघ्रम् । भीमः - का नाम भवतो माता । घटोत्कचः - श्रूयतां, हिडिम्बा नाम राक्षसी, कौरव्यकुलदीपेन पाण्डवेन महात्मना । सनाथा या महाभागा पूर्णेन द्यौरिवेन्दुना ॥ ३८ ॥ भीमः-( सहर्षमात्मगतम् ) एवं हिडिम्बायाः पुत्रोऽयम् । सदृशो ह्यस्य गर्वः । रूपं सत्त्वं बलं चैव पितृभिः सदृशं बहु । प्रजासु वीतकारुण्यं मनश्चैवास्य कीदृशम् ॥ ३९ ॥ ( प्रकाशम् ) भोः पुरुष ! गुच्यताम् । घटोत्कचः- न मुच्यते । भीमः - भो ब्राह्मण ! गृह्यतां तव पुत्रः । वयमेनमनुगमिष्यामः । द्वितीय:- मा मा भवानेवम् । त्यक्ताः प्रागेव मे प्राणाः गुरुप्राणेष्वपेक्षया । युवा रूपगुणोपेतो भवांस्तिष्ठतु भूतले ॥ ४० ॥ भीमः - आर्य ! मा मैवम् । क्षत्रियकुलोत्पन्नोऽहम् । पूज्यतमाः खलु ब्राह्मणाः । तस्माच्छरीरेण ब्राह्मणशरीरं विनिमातुमिच्छामि । घटोत्कचः - एवं क्षत्रियोऽयं, तेनास्य दर्पः । भवतु, इममेव हत्वा नेष्यामि । अथ केनायं वारितः । [^१] ०रिवात्मना । भीमः - मया । ९घटोत्कचः - किं त्वया । भीमः - अथ किम् । घटोत्कचः - तेन हि भवानेवागच्छतु । भीमः - एवमतिबलवीर्यान्नानुगच्छामि । यदि ते शक्तिरस्ति बला- त्कारेण मां नय । घटोत्कचः - किं मां प्रत्यभिजानीते भवान् । भीम: - मत्पुत्र इति जाने । घटोत्कचः-कथं कथं तव पुत्रोऽहम् । भीमः- कथं रुष्यति । मर्पयतु भवान् । सर्वाः प्रजाः क्षत्रियाणां पुत्रशब्देनाभिधीयन्ते । अत एवं मयाभिहितम् । घटोत्कचः - भीतानामायुधं गृहीतम् । भीम:- शपामि सत्येन भयं न जाने ज्ञातुं तदिच्छामि भवत्समीपे । किं रूपमेतद्वद भद्र तस्य गुणागुणज्ञः सदृशं प्रपत्स्ये ॥ ४१ ॥ घटोत्कचः- एष ते भयमुपदिशामि । गृह्यतामायुधम् । भीम: - आयुधमिति, गृहीतमेतत् । घटोत्कचः - कथमिव । भीम:- काञ्चनस्तम्भसदृशो रिपूणां निग्रहे रतः । अयं तु दक्षिणो बाहुरायुधं सहजं मम ॥ ४२ ॥ घटोत्कचः - इदमुपपन्नं पितुर्मे भीमसेनस्य । भीमः - अथ कोऽयं भीमो नाम । [^१] अतिवीर्यबलं । [^२] सदृशं । विश्वकर्ता शिवः कृष्णः शक्रः शक्तिधरो यमः । एतेषु कथ्यतां भद्र केन ते सदृशः पिता ॥ ४३ ॥ घटोत्कचः–सर्वैः । भीमः - धिगनृतमेतत् । घटोत्कचः -कथं कथमनृतमित्याह । क्षिपसि मे गुरुम् । भवत्विमं स्थूलं वृक्षमुत्पाट्य प्रहरामि । ( उत्पाट्य प्रहरति । ) कथमनेनापि न शक्यते हन्तुम् । किं नु खलु करिष्ये । भवतु, दृष्टम् । एतद्द्विरि- कूटमुत्पाट्य प्रहरामि । शैलकूटं मयाक्षिप्तं प्राणानादाय यास्यति । भीम:- रुष्टोऽपि कुञ्जरो वन्यो न व्याघ्रं धर्षयेद्वने ॥ ४४ ॥ घटोत्कचः - (प्रहृत्य) कथमनेनापि न शक्यते हन्तुम् । किंनु खलु करिष्ये । भवतु दृष्टम् । नन्वहं भीमसेनस्य पुत्रः पौत्रो नभस्वतः । तिष्ठेदानीं सुसन्नद्धो नियुद्धे नास्ति मत्समः ॥ ४५ ॥ ( इत्युभौ नियुद्धं कुरुत: । ) घटोत्कचः - ( भीमसेनं बद्धा ) व्रजसि कथमिह त्वं वीर्यमुल्लङ्घ्य बाह्वो- र्गज इव दृढपाशैः पीडितो मद्भुजाभ्याम् । भीम:-( आत्मगतम् ) कथं गृहीतोऽस्म्यनेन । भोः सुयोधन! वर्धते ते शत्रुपक्षः । कृतरक्षो भव । ( प्रकाशम् ) भोः पुरुष ! अवहितो भव । घटोत्कचः - अवहितोऽस्मि । भीम: - ( नियुद्धबन्धमवधूय ) व्यपनय बलदर्पं दृष्टसारोऽसि वीर ! नहि मम परिखेदो विद्यते बाहुयुद्धे ॥ ४६ ॥ घटोत्कचः - कथमनेनापि न शक्यते हन्तुम् । किं नु खलु करिष्ये । भवतु, दृष्टम् । अस्ति मातृप्रसादलब्धो मायापाशः । तेन बध्वैनं नेष्यामि । कुतः खल्वापः । भो गिरे ! आपस्तावत् । हन्त स्रवति । ( आचम्य मन्त्रं जपति । ) भोः पुरुष ! मायापाशेन बद्धस्त्वं विवशोऽनुगमिष्यसि । राजसे रज्ज्जुभिर्बद्धः शक्रध्वज इवोत्सवे ॥ ४७ ॥ ( इति मायया बध्नाति । ) भीमः - कथं मायापाशेन बद्धोऽस्मि । किमिदानीं करिष्ये । भवतु दृष्टम् । अस्ति मे महेश्वरप्रसादालब्धो मायापाशमोक्षो मन्त्रः । तं जपामि । कुतः खल्वापः । भो ब्राह्मणकुमार ! आनय कमण्डलु- गता आपः । वृद्धः - इमा आपः । ( भीमः आदायाचम्य मन्त्रं जप्त्वा मायामपनयति । ) घटोत्कचः - अये पतितः पाशः । किमिदानीं करिष्ये । भवतु, दृष्टम् । भोः पुरुष ! पूर्वसमयं स्मर । भीमः - समयमिति । एष स्मरामि । गच्छाग्रतः । ( उभौ परिक्रामतः । ) वृद्धः – पुत्रकाः किं कुर्मः । अयं गच्छति वृकोदरः । आक्रम्य राक्षसमिमं ज्वलदुग्ररूप- मुग्रेण बाहुबलवीर्यगुणेन युक्तम् । एष प्रयाति शनकैरवधूय शीघ्र- मासारवर्षमिव गोवृषभस्सलीलम् ॥ ४८ ॥ [^१] न गमिष्यसि । घटोत्कचः - इह तिष्ठ । त्वदागमनमम्बायै निवेदयामि । भीम: - बाढम् । गच्छ । घटोत्कचः - ( उपसृत्य ) अम्ब! अयमभिवादये । चिराभिलषितो भवत्या आहारार्थमानीतो मानुषः । ( प्रविश्य ) हिडिम्बा -जाद ! चिरं जीव । [ जात ! चिरं जीव । ] घटोत्कचः - अनुगृहीतोऽस्मि । हिडिम्बा - जाद ! कीदिसो माणुसो आणीदो । [ जात, कीदृशो मानुप आनीत: । ] घटोत्कचः - भवति रूपमात्रेण मानुषः । न वीर्येण । हिडिम्बा - किं बम्हणो । [ किं ब्राह्मणः । ] घटोत्कचः - न ब्राह्मणः । हिडिम्बा - आदु थेरो । [ अथवा स्थविर: । ] घटोत्कचः - न वृद्धः । हिडिम्बा - किं वाळो । [ किं बालः । ] घटोत्कचः- न बालः । हिडिम्बा - जइ एव्वं पेक्खामि दाव णं । (उभौ परिक्रामतः । ) [ यद्येवं पश्यामि तावदेनम् । ] हिडिम्बा - किं एसो माणुसो आणीदो । [ किमेष मानुप आनीतः । ] घटोत्कचः - अम्ब ! कोऽयम् । हिडिम्बा - उम्मत्तअ दव्वदं खु अम्हाअं । [ उन्मत्तक दैवतं खल्वस्मा- कम् । ] घटोत्कचः-आः कस्य दैवतम् । हिडिम्बा - तव अ, मम अ । [ तव च मम च । ] घटोत्कचः - कः प्रत्ययः । हिडिम्बा -अअं पञ्चओ । जेदु अय्यउत्तो । [ अयं प्रत्ययः । २७ जयत्वार्यपुत्रः । ] भीमः - ( विलोक्य) का पुनरियम् । अये देवी हिडिम्बा । अस्माकं भ्रष्टराज्यानां भ्रमतां गहने वने । जातकारुण्यया देवि ! संतापो नाशितस्त्वया ॥ ४९ ॥ हिडिम्बे ! किमिदम् । हिडिम्बा -(कर्णे) अय्यउत्त ! ईदिसं विअ । [आर्यपुत्र ! ईदृशमिव । ] भीम:- जात्या राक्षसी, न समुदाचारेण । हिडिम्बा - उम्मत्तअ ! अभिवादेहि पिढरं । [ उन्मत्तक ! अभिवादय पितरम् । ] घटोत्कचः - भोस्तात ! अज्ञानात्तु मया पूर्वं यद्भवान्नाभिवादितः । अस्य पुत्रापराधस्य प्रसादं कर्तुमर्हसि ॥ ५० ॥ अहं स धार्तराष्ट्रवनदवाग्निर्घटोत्कचोऽभिवादये । पुत्रचापलं क्षन्तु- मर्हास । भीमः - एह्येहि पुत्र व्यतिक्रमकृतं श्रान्तमेव ( इति परिष्वज्य ) अयं स धार्तराष्ट्रवनवाग्निः । पुत्रापेक्षीणि खलु पितृहृदयानि । पुत्र, अतिबलपराक्रमो भव । घटोत्कचः - अनुगृहीतोऽस्मि । वृद्धः - एवं भीमसेनपुत्रोऽयं घटोत्कचः । भीम: - पुत्र ! अभिवादयात्रभवन्तं केशवदासम् । घटोत्कचः - भगवन्नभिवादये । [^१] अयं श्लोकः मुद्रितपुस्तकेषु न दृश्यते । [^२] कान्तमेव । [^३. ] धार्तराष्ट्र- वनदवाग्निपुत्रापेक्षिणि । वृद्धः - पितृसदृशगुणकीर्तिर्भव । घटोत्कचः - अनुगृहीतोऽस्मि । वृद्धः–भो वृकोदर ! रक्षितमस्मत्कुलं, स्वकुलमुद्धृतं च । गच्छाम- स्तावत् । भीमः - अनुग्रहात्तु भवतः सर्वमासीदिदं शुभम् । आश्रमोऽदूरतोऽस्माकं तत्र विश्रम्य गम्यताम् ॥ ५१ ॥ वृद्धः - कृतमातिथ्यमनेन जीवितप्रदानेन । तस्माद्गच्छामस्तावत् । भीमः- गच्छतु भवान् सकुटुम्बः पुनर्दर्शनाय । वृद्धः- बाढम् । प्रथमः कल्पः । (सपुत्रत्रयकलत्रो निष्क्रान्तः केशवदासः। ) भीमः - हिडिम्बे ! इतस्तावत् । वत्स घटोत्कच ! इतस्तावत् । तत्र- भवन्तं केशवदासं आश्रमपदद्वारमात्रमपि संभावयिष्यामः । यथा नदीनां प्रभवः समुद्रो यथाहुतीनां प्रभवो हुताशनः । यथेन्द्रियाणां प्रभवं मनोऽपि तथा प्रभुर्नो भगवानुपेन्द्रः ॥ ५२ ॥ ( निष्क्रान्ताः सर्वे । ) ॥ मध्यमव्यायोगं नाम नाटकं समाप्तम् ॥ ॥ श्रीः ॥ भासनाटकचके दूतवाक्यम् । ( नान्द्यन्ते ततः प्रविशति सूत्रधारः । ) सूत्रधारः- पादः पायादुपेन्द्रस्य सर्वलोकोत्सवः स वः । व्याविद्धो नमुचिर्येन तनुताम्रनखेन खे ॥ १ ॥ एवमार्यमिश्रान् विज्ञापयामि । अये किन्नुखलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते । अङ्ग ! पश्यामि । ( नेपथ्य ) भो भोः प्रतिहाराधिकृताः ! महाराजो दुर्योधनः समाज्ञापयति । सूत्रधारः - भवतु, विज्ञातम् । उत्पन्ने धार्तराष्ट्राणां विरोधे पाण्डवैः सह । मन्त्रशालां रचयति भृत्यो दुर्योधनाज्ञया ॥ २ ॥ ( निष्क्रान्तः । ) स्थापना । ( ततः प्रविशति काञ्चुकीयः ) काञ्चुकीयः- भो भोः प्रतिहाराधिकृताः ! महाराजो दुर्योधनः समा- ज्ञापयति--अद्य सर्वपार्थिवैः सह मन्त्रयितुमिच्छामि । तदा- हूयतां सर्वे राजान इति । ( परिक्रम्यावलोक्य) अये अयं महाराजो दुर्योधन इत एवाभिवर्तते । य एषः, श्यामो युवा सितदुकूलकृतोत्तरीयः सच्च्छत्रचामरवरो रचिताङ्गरागः । श्रीमान् विभूषणमणिद्युतिरञ्जिताङ्गो नक्षत्रमध्य इव पर्वगतः शशाङ्कः ॥ ३ ॥ ( ततः प्रविशति यथानिर्दिष्टो दुर्योधनः । ) दुर्योधनः- उद्भूतरोषमिव मे हृदयं सहर्षं प्राप्तं रणोत्सवमिमं सहसा विचिन्त्य । इच्छामि पाण्डवबले वरणारणाना- मुत्कृत्तदन्तमुसलानि मुखानि कर्तुम् ॥ ४ ॥ काञ्चुकीयः- जयतु महाराजः । महाराजशासनात् समानीतं सर्व- राजमण्डलम् । दुर्योधनः–सम्यक् कृतम् । प्रविश त्वमवरोधनम् । कान्चुकीयः- यदाज्ञापयति महाराजः । (निष्क्रान्तः । ) दुर्योधनः- आर्यौ वैकर्णवर्षदेवौ! उच्यताम्--अस्ति ममैकादशाक्षौ- हिणीबलसमुदयः । अस्य कः सेनापतिर्भवितुमर्हति । किं किमाह- तुर्भवन्ती -- महान खल्वयमर्थः । मन्त्रयित्वा वक्तव्यमिति । सदृशमेतत् । तदागम्यतां मन्त्रशालामेव प्रविशामः । आचार्य अभिवादये । प्रविशतु भवान् मन्त्रशालाम् । पितामह ! अभिवा- दये । प्रविशतु भवान् मन्त्रशालाम् । मातुल ! अभिवादये । प्रविशतु भवान् मन्त्रशालाम् । आर्यौ वैकर्णवर्षदेवौ! प्रविशतां भवन्तौ । भो भोः सर्वक्षत्रियाः ! स्वैरं प्रविशन्तु भवन्तः । वयस्य ! कर्ण ! प्रविशामस्तावत् । (प्रविश्य) आचार्य ! एतत् कूर्मासनम्, आस्यताम् । पितामह ! एतत् सिंहा- सनम्, आस्यताम् । मातुल ! एतच्चर्मासनम्, आस्यताम् । आर्यौ वैकर्णवर्षदेवौ! आसातां भवन्तौ । भो भोः सर्वक्षत्रियाः ! स्वैरमासतां भवन्तः । किमिति किमिति महाराजो नास्त इति । अहो सेवाधर्मः । नन्वयमहमासे । वयस्य कर्ण ! त्वमप्यास्स्व । ( उपविश्य) आर्यौ वैकर्णवर्षदेवौ! उच्यताम् अस्ति ममैकादशा- क्षौहिणीबलसमुदयः । अस्य कः सेनापतिर्भवितुमर्हतीति कः सेनापतिर्भवितुमर्हतीति । किमाहतुर्भवन्तौ -- अत्रभवान् गान्धारराजो वक्ष्यतीति । भवतु, मातुलेनाभिधीयताम् । किमाह मातुलः - अत्रभवति गाङ्गेये स्थिते कोऽन्यः सेनापतिर्भवितुमर्हतीति । सम्यगाह मातुलः । भवतु भवतु, पितामह एव भवतु । वयमप्येतदभिलषामः । सेनानिनादपटहस्वनशङ्खनादै- श्चण्डानिलाहतमहोदधिनादकल्पैः । गाङ्गेयमूर्ध्नि पतितैरभिषेकतोयैः सार्धं पतन्तु हृदयानि नराधिपानाम् ॥ ५ ॥ ( प्रविश्य ) काञ्चुकीयः- जयतु महाराजः । एष खलु पाण्डवस्कन्धावाराद् दौत्येनागतः पुरुषोत्तमो नारायणः । दुर्योधनः- मा तावद् भो बादरायण ! । किं किं कंसभृत्यो दामोदर- स्तव पुरुषोत्तमः । स गोपालकस्तव पुरुषोत्तमः । बार्हद्रथापहृतवि- षयकीर्तिभोगस्तव पुरुषोत्तमः । अहो पार्थिवासन्नमाश्रितस्य भृत्य- जनस्य समुदाचारः । सगर्वं खल्वस्य वचनम् । आ अपध्वंस । काञ्चुकीयः- प्रसीदतु महाराजः । संभ्रमेण समुदाचारो विस्मृतः । ( पादयोः पतति । ) दुर्योधनः- संभ्रम इति । आ मनुष्याणामस्त्येव संभ्रमः । उत्तिष्ठोत्तिष्ठ । कान्न्चुकीयः- अनुगृहीतोऽस्मि । दुर्योधनः- इदानीं प्रसन्नोऽस्मि । क एष दूतः प्राप्तः । काञ्चुकीयः- दूतः प्राप्तः केशवः । दुर्योधनः- केशव इति । एवमेष्टव्यम् । अयमेव समुदाचारः । भो भो राजानः ! दौत्येनागतस्य केशवस्य किं युक्तम् । किमाहुर्भवन्तः- अर्घ्यप्रदानेन पूजयितव्यः केशव इति । न मे रोचते । ग्रहणमस्यात्र हितं पश्यामि । ग्रहणमुपगते तु वासुभद्रे हृतनयना इव पाण्डवा भवेयुः । गतिमतिरहितेषु पाण्डवेषु क्षितिरखिलापि भवेन्ममासपत्ना ॥ ६ ॥ अपिच योऽत्र केशवस्य प्रत्युत्थाम्यति, स मया द्वादशसुवर्णभारेण दण्ड्यः । तदप्रमत्ता भवन्तु भवन्तः । कोनुखलु ममाप्रत्युत्था- नम्योपायः । हन्त दृष्ट उपायः । बादरायण ! आनीयतां स चित्रपटो ननु, यत्र द्रौपदीकेशाम्बरावकर्षणमालिखितम् । ( अपवार्य) तस्मिन् दृष्टिविन्यासं कुर्वन् नोत्थास्यामि केशवस्य । काञ्चुकीयः- यदाज्ञापयति महाराजः । (निष्क्रम्य प्रविश्य) जयतु महाराज: । अयं स चित्रपटः । दुर्योधनः- ममाग्रतः प्रसारय । काञ्चुकीयः - यदाज्ञापयति महाराजः । ( प्रसारयति । ) दुर्योधनः- अहो दर्शनीयोऽयं चित्रपटः । एष दुःशासनो द्रौपदीं केशहस्ते गृहीतवान् । एषा खलु द्रौपदी, दुःशासनपरामृष्टा सम्भ्रमोत्फुल्ललोचना । राहुवक्त्रान्तरगता चन्द्रलेखेव शोभते ॥ ७ ॥ एष दुरात्मा भीमः सर्वराजसमक्षमवमानितां द्रौपदीं दृष्ट्वा प्रवृद्धामर्षः सभास्तम्भं तुलयति । एष युधिष्ठिरः, सत्यधर्मघृणायुक्तो द्यूतविभ्रष्टचेतनः । करोत्यपाङ्गविक्षेपैः शान्तामर्षं वृकोदरम् ॥ ८ ॥ एष इदानीमर्जुनः, रोषाकुलाक्षः स्फुरिताधरोष्ठ- स्तृणाय मत्वा रिपुमण्डलं तत् । उत्सादयिष्यन्निव सर्वराज्ञः शनैः समाकर्षति गाण्डिवज्याम् ॥ ९ ॥ एष युधिष्ठिरोऽर्जुनं निवारयति । एतौ नकुलसहदेवौ, कृतपरिकरबन्धी चर्मनिस्त्रिंशहस्ती परुषितमुखरागी स्पष्टदष्टाधरोष्ठौ । विगतमरणशङ्कौ सत्वरं भ्रातरं मे हरिमिव मृगपोती तेजसाभिप्रयातौ ॥ १० ॥ एप युधिष्ठिरः कुमारावुपेत्य निवारयति - नीचोऽहमेव विपरीतमतिः कथं वा रोषं परित्यजतमद्य नयानयज्ञौ । द्यूताधिकारमवमानममृष्यमाणाः सत्वाधिकेषु वचनीयपराक्रमाः स्युः ॥ ११ ॥ इति । एष गान्धारराजः, अक्षान् क्षिपन् सकितवं प्रहसन् सगर्वं सङ्कोचयन्निव मुदं द्विषतां स्वकीर्त्त्या । स्वैरासनो द्रुपदराजसुतां रुदन्तीं काक्षेण पश्यति लिखत्यभिखां नयज्ञः ॥ १२ ॥ एतावाचार्यपितामहौ तां दृष्ट्वा लज्जायमानौ पटान्तान्तर्हितमुखौ स्थितौ । अहो अस्य वर्णाढ्यता । अहो भावोपपन्नता । अहो युक्त- लेखता । सुव्यक्तमालिखितोऽयं चित्रपटः । प्रीतोऽस्मि । कोऽत्र । काञ्चुकीयः- जयतु महाराजः । दुर्योधनः- बादरायण ! आनीयतां स विहगवाहनमात्रविस्मितो दूतः । काञ्चुकीयः - यदाज्ञापयति महाराजः । (निष्क्रान्त: ) दुर्योधनः- वयस्य कर्ण ! प्राप्तः किलाद्य वचनादिह पाण्डवानां दौत्येन भृत्य इव कृष्णमतिः स कृष्णः । श्रोतुं सखे ! त्वमपि सज्जय कर्ण ! कर्णौ नारीमृदूनि वचनानि युधिष्ठिरस्य ॥ १३ ॥ ( ततः प्रविशति वासुदेवः काञ्चुकीयश्च । ) वासुदेवः - अद्य खलु धर्मराजवचनाद् धनञ्जयाकृत्रिममित्रतया चाहवदर्पमनुक्तप्राहिणं सुयोधनं प्रति मयाप्यनुचितदौत्यसमयोऽ नुष्ठितः । अथच, कृष्णा पराभवभुवा रिपुवाहिनीभ- कुम्भस्थलीदलनतीक्ष्णगदाधरस्य । भीमस्य कोपशिखिना युधि पार्थपत्त्रि- चण्डानिलैश्च कुरुवंशवनं विनष्टम् ॥ १४ ॥ इदं सुयोधनशिबिरम् । इह हि, आवासाः पार्थिवानां सुरपुरसदृशाः स्वच्छन्दविहिता विस्तीर्णाः शस्त्रशाला बहुविधकरणैः शस्त्रैरुपचिताः । हेषन्ते मन्दुरास्थास्तुरगवरघटा बृंहन्ति करिण ऐश्वर्यं स्फीतमेतत् स्वजनपरिभवादासन्नविलयम् ॥ १५ ॥ भोः! दुष्टवादी गुणद्वेषी शठः स्वजननिर्दयः । सुयोधनो हि मां दृष्ट्वा नैव कार्यं करिष्यति ॥ १६ ॥ भो बादरायण ! किं प्रवेष्टव्यम् । काञ्चुकीयः-अथकिमथकिम् । प्रवेष्टुमर्हति पद्मनाभः । वासुदेवः - ( प्रविश्य) कथं कथं मां दृष्ट्रा संभ्रान्ताः सर्वक्षत्रियाः । अलमलं संभ्रमेण । स्वैरमासतां भवन्तः । दुर्योधनः- कथं कथं केशवं दृष्ट्वा संभ्रान्ताः सर्वक्षत्रियाः । अल- मलं संभ्रमेण । स्मरणीयः पूर्वमाश्रावितो दण्डः । नन्वहमाज्ञप्ता । वासुदेवः - भोः सुयोधन ! किमास्से । दुर्योधनः - (आसनात् पतित्वा आत्मगतम् ) सुव्यक्तं प्राप्त एव केशवः । उत्साहेन मतिं कृत्वाप्यासीनोऽस्मि समाहितः । केशवस्य प्रभावेन चलितोऽस्म्यासनादहम् ॥ १७ ॥ अहो बहुमायोऽयं दूतः । ( प्रकाशम् ) भो दूत ! एतदासन- मास्यताम् । वासुदेवः - आचार्य ! आस्यताम् । गाङ्गेयप्रमुखा राजानः ! स्वैर- मासतां भवन्तः । वयमप्युपविशामः । (उपविश्य ) अहो दर्शनी- योऽयं चित्रपटः । मा तावत् । द्रौपदीकेशधर्षणमत्रालिखितम् । अहोतुखलु, सुयोधनोऽयं स्वजनावमानं पराक्रमं पश्यति बालिशत्वात् । को नाम लोके स्वयमात्मदोषमुद्धाटयेन्नष्टघृणः सभासु ॥ १८ ॥ आः अपनीयतामेष चित्रपटः । दुर्योधनः- बादरायण ! अपनीयतां किल चित्रपटः । काञ्चुकीयः- यदाज्ञापयति महाराजः । ( अपनयति । ) दुर्योधनः- भो दूत ! धर्मात्मजो वायुसुतश्च भीमो भ्रातार्जुनो मे त्रिदशेन्द्रसूनुः । यमौ च तावश्विसुतौ विनीतौ सर्वे सभृत्याः कुशलोपपन्नाः ॥ १९ ॥ वासुदेवः - सदृशमेतद् गान्धारीपुत्रस्य । अथकिमथकिम् । कुश- लिन सर्वे । भवतो राज्ये शरीरे बाह्याभ्यन्तरे च कुशलमनामयं च पृष्ट्वा विज्ञापयन्ति युधिष्ठिरादयः पाण्डवाः-- अनुभूतं महद् दुःखं संपूर्णः समयः स च । अस्माकमपि धर्म्यं यद् दायाद्यं तद् विभज्यताम् ॥ २० ॥ इति । दुर्योधनः- कथं कथं दायाद्यमिति । वने पितृव्यो मृगयाप्रसङ्गतः कृतापराधो मुनिशापमाप्तवान् । तदाप्रभृत्येव स दारनिस्स्पृहः परात्मजानां पितृतां कथं व्रजेत् ॥ २१ ॥ वासुदेवः - पुराविदं भवन्तं पृच्छामि । विचित्रवीर्यो विषयी विपत्तिं क्षयेण यातः पुनरम्बिकायाम् । व्यासेन जातो धृतराष्ट्र एष लभेत राज्यं जनकः कथं ते ॥ २२ ॥ मा मा भवान् एवं परस्परविरोधविवर्धनेन शीघ्रं भवेत् कुरुकुलं नृप ! नामशेषम् । तत् कर्तुमर्हति भवानपकृष्य रोषं यत् त्वां युधिष्ठिरमुखाः प्रणयाद् ब्रुवन्ति ॥ २३ ॥ दुर्योधनः- भो दूत ! न जानाति भवान् राज्यव्यवहारम् । राज्यं नाम नृपात्मजैः सहृदयैर्जित्वा रिपून् भुज्यते तल्लोके न तु याच्यते न तु पुनर्दीनाय वा दीयते । काङक्षा चेन्नृपतित्वमाप्तुमचिरान् कुर्वन्तु ते साहसं स्वैरं वा प्रविशन्तु शान्तमतिभिर्जुष्टं शमायाश्रमम् ॥ २४ ॥ वासुदेवः - भो सुयोधन ! अलं बन्धुजने परुषमभिधातुम् । पुण्यसञ्चयसम्प्राप्तामधिगम्य नृपश्रियम् । वञ्चयेद् यः सुहृद्बन्धून् स भवेद् विफलश्रमः ॥ २५ ॥ दुर्योधनः- स्यालं तव गुरोर्भूपं कंसं प्रति न ते दया । कथमस्माकमेवं स्यात् तेषु नित्यापकारिषु ॥ २६ ॥ वासुदेवः - अलं तन्मद्दोषतो ज्ञातुम् । कृत्वा पुत्रवियोगार्तां बहुशो जननीं मम । वृद्धं स्वपितरं बद्ध्वा हतोऽयं मृत्युना स्वयम् ॥ २७॥ दुर्योधनः- सर्वथा वञ्चितस्त्वया कंसः । अलमात्मस्तवेन । न शौर्य- मेतत् । पश्य, जामातृनाशव्यसनाभितप्ते रोषाभिभूते मगधेश्वरेऽथ । पलायमानस्य भयातुरस्य शौर्यं तदेतत् क्व गतं तवासीत् ॥२८॥ वासुदेवः - भोः सुयोधन ! देशकालावस्थापेक्षितं खलु शौर्यं नया- नुगामिनाम् । इह तिष्ठतु तावदस्मद्गतः परिहासः । स्वकार्य- मनुष्ठीयताम् । कर्तव्यो भ्रातृषु स्नेहो विस्मर्तव्या गुणेतराः । संबन्धो बन्धुभिः श्रेयान् लोकयोरुभयोरपि ॥ २९॥ दुर्योधन:- देवात्मजैर्मनुष्याणां कथं वा बन्धुता भवेत् । पिष्टपेषणमेतावत् पर्याप्तं छिद्यतां कथा ॥ ३० ॥ वासुदेव: - ( आत्मगतम् ) प्रसाद्यमानः साम्नायं न स्वभावं विमुञ्चति । हन्त संक्षोभयाम्येनं वचोभिः परुषाक्षरैः ॥ ३१ ॥ (प्रकाशम्) भोः सुयोधन ! किं न जानीषेऽर्जुनस्य बलपराक्रमम् । दुर्योधनः- न जाने । वासुदेवः - भो ! श्रूयतां, कैरातं वपुरास्थितः पशुपतिर्युद्धेन संतोषितो वह्नेः खाण्डवमश्नतः सुमहती वृष्टिः शरैश्छादिता । देवेन्द्रार्तिकरा निवातकवचा नीताः क्षयं लीलया नन्वेकेन तदा विराटनगरे भीष्मादयो निर्जिताः ॥ ३२ ॥ अपिच, तवापि प्रत्यक्षमपरं कथयामि । ननु त्वं चित्रसेनेन नीयमानो नभस्तलम् । विक्रोशन् घोषयात्रायां फल्गुनेनैव मोक्षितः ॥ ३३ ॥ किं बहुना, दातुमर्हसि मद्वाक्याद् राज्यार्धं धृतराष्ट्रज ! अन्यथा सागरान्तां गां हरिष्यन्ति हि पाण्डवाः ॥ ३४ ॥ दुर्योधनः- कथं कथम् । हरिष्यन्ति हि पाण्डवाः । प्रहरति यदि युद्धे मारुतो भीमरूपी प्रहरति यदि साक्षात् पार्थरूपेण शक्रः । परुषवचनदक्ष ! त्वद्वचोभिर्न दास्ये तृणमपि पितृभुक्ते वीर्यगुप्ते स्वराज्ये ॥ ३५ ॥ वासुदेवः-भोः कुरुकुलकलङ्कभूत ! अयशोलुब्ध ! वयं किल तृणा- न्तराभिभापकाः । दुर्योधनः- भो गोपालक ! तृणान्तराभिभाष्यो भवान् । अवध्यां प्रमदां हत्वा हयं गोवृषमेव च । मल्लानपि सुनिर्लज्जो वक्तुमिच्छसि साधुभिः ॥ ३६ ॥ वासुदेवः - भोः सुयोधन ! ननु क्षिपसि माम् । दुर्योधनः- आः, अभाष्यस्त्वम् । अहमवधृतपाण्डरातपत्रो द्विजवरहस्तधृताम्बुसिक्तमूर्धा । अवनतनृपमण्डलानुयात्रैः सह कथयामि भवद्विधैर्न भाषे ॥३७॥ वासुदेवः - न व्याहरति किल मां सुयोधनः । भोः ! शठ ! बान्धवनिःस्नेह ! काक ! केकर ! पिङ्गल ! । त्वदर्थान् कुरुवंशोऽयमचिरान्नाशमेष्यति ॥ ३८ ॥ भो भो राजानः ! गच्छामस्तावत् । दुर्योधनः- कथं यास्यति किल केशवः । दुःशासन ! दुर्भर्षण ! दुर्मुख ! दुर्बुद्धे ! दुष्टेश्वर ! दूतसमुदाचारमतिक्रान्तः केशवो बध्य- ताम् । कथमशक्ताः । दुःशासन ! न समर्थः खल्वसि । करितुरगनिहन्ता कंसहन्ता स कृष्णः पशुपकुलनिवासादानुजीव्यानभिज्ञः । हृतभुजबलवीर्यः पार्थिवानां समक्षं स्ववचनकृतदोषो बध्यतामेष शीघ्रम् ॥ ३९ ॥ अयमशक्तः । मातुल ! बध्यतामयं केशवः । कथं पराङ्मुखः पतति । भवतु, अहमेव पाशैर्बध्नामि । ( उपसर्पति । ) वासुदेवः - कथं बद्धुकामो मां किल सुयोधनः । भवतु, सुयोधनस्य सामर्थ्यं पश्यामि । ( विश्वरूपमास्थितः । ) दुर्योधनः- भो दूत ! सृजसि यदि समन्ताद् देवमायाः स्वमायाः प्रहरसि यदि वा त्वं दुर्निवारैः सुराः । हयगजवृषभाणां पातनाज्जातदर्पो नरपतिगणमध्ये बध्यसे त्वं मयाद्य ॥ ४० ॥ आः तिष्ठेदानीम् । कथं न दृष्टः केशवः । अयं केशवः । अहो ह्रस्वत्वं केशवस्य । आः तिष्ठेदानीम् । कथं न दृष्टः केशवः । अयं केशवः । अहो दीर्घत्वं केशवस्य । कथं न दृष्टः केशवः । अयं केशवः । सर्वत्र मन्त्रशालायां केशवा भवन्ति । किमिदानीं करिष्ये । भवतु, दृष्टम् । भो भो राजानः ! एकेनैकः केशवो बध्यताम् । कथं स्वयमेव पाशैर्बद्धाः पतन्ति राजानः । साधु भो जम्भक ! साधु । मत्कार्मुकोदरविनिःसृतबाणजालै- र्विद्वक्षरत्क्षतजरञ्जितसर्वगात्रम् । पश्यन्तु पाण्डुतनयाः शिबिरोपनीतं त्वां बाष्परुद्धनयनाः परिनिःश्रमन्तः ॥ ४१ ॥ ( निष्क्रान्तः । ) वासुदेवः - भवतु, पाण्डवानां कार्यमहमेव साधयामि । भोः सुदर्शन ! इतस्तावत् । ( ततः प्रविशति सुदर्शनः । ) सुदर्शनः- एप भोः ! श्रुत्वा गिरं भगवतो विपुलप्रसादा- न्निर्धावितोऽस्मि परिवारिततोयदौघः ! कस्मिन् खलु प्रकुपितः कमलायताक्षः कस्याद्य मूर्धनि मया प्रविजृम्भितव्यम् ॥ ४२ ॥ क्वनुखलु भगवान् नारायणः । अव्यक्तादिरचिन्त्यात्मा लोकसंरक्षणोद्यतः । एकोऽनेकवपुः श्रीमान् द्विषद्बलनिषूदनः ॥ ४३ ॥ ( विलोक्य) अये अयं भगवान् हस्तिनपुरद्वारे दूतसमुदाचारेणोप- स्थितः । कुतः खल्वापः कुतः खल्वापः । भगवति आकाशगङ्गे ! आपस्तावन् । हन्त स्रवति । ( आचम्योपसृत्य ) जयतु भगवान् नारायण: । ( प्रणमति । ) वासुदेवः - सुदर्शन ! अप्रतिहतपराक्रमो भव । सुदर्शनः - अनुगृहीतोऽस्मि । वासुदेव:- दिष्ट्या भवान् कर्मकाले प्राप्तः । सुदर्शनः–कथं कथं कर्मकाल इति । आज्ञापयतु भगवानाज्ञापयतु । किं मेरुमन्दरकुलं परिवर्तयामि संक्षोभयामि सकलं मकरालयं वा । नक्षत्रवंशमखिलं भुवि पातयामि नाशक्यमस्ति मम देव ! तव प्रसादात् ॥ ४४ ॥ वासुदेवः - भोः सुदर्शन ! इतस्तावत् । भोः सुयोधन ! यदि लवणजलं वा कन्दरं वा गिरीणां ग्रहगणचरितं वा वायुमार्गं प्रयासि । मम भुजबलयोगप्राप्तसंजातवेगं भवतु चपल ! चक्रं कालचक्रं तवाद्य ॥ ४५ ॥ सुदर्शनः - भोः सुयोधनहतक ! ( इति पुनर्विचार्य ) प्रसीदतु प्रसीदतु भगवान् नारायणः । महीभारापनयनं कर्तुं जातस्य भूतले । अस्मिन्नेव गते देव ! ननु स्याद् विफलः श्रमः ॥ ४६ ॥ वासुदेवः - सुदर्शन ! रोषात् समुदाचारो नावेक्षितः । गम्यतां स्वनिलयमेव । सुदर्शनः - यदाज्ञापयति भगवान् नारायणः । कथं कथं गोपालक इति । त्रिचरणातिक्रान्तत्रिलोको नारायणः खल्वत्रभवान् । शरणं व्रजन्तु भवन्तः । यावद् गच्छामि । अये एतद् भगवदायुधवरं शार्ङ्गं प्राप्तम् । तनुमृदुललिताङ्गं स्त्रीस्वभावोपपन्नं हरिकरधृतमध्यं शत्रुसङ्गैककालः । कनकवचितपृष्ठं भाति कृष्णस्य पार्श्वे नवसलिलदपार्श्वे चारुविद्युल्लतेव ॥ ४७ ॥ भो भोः ! प्रशान्तरोषो भगवान् नारायणः । गम्यतां स्वनिलयमेव । हन्त निवृत्तः । यावद् गच्छामि । अये इयं कौमोदकी प्राप्ता । मणिकनकविचित्रा चित्रमालोत्तरीया सुररिपुगणगान्रध्वंसने जाततृष्णा । गिरिवरतटरूपा दुर्निवारातिवीर्या व्रजति नभसि शीघ्रं मेघवृन्दानुयात्रा ॥ ४८ ॥ हे कौमोदकि ! प्रशान्तरोषो भगवान् नारायणः । हन्त निवृत्ता । यावद् गच्छामि । अये अयं पाञ्चजन्यः प्राप्तः । पूर्णेन्दुकुन्दकुमुदोदरहारगौरो नारायणाननसरोजकृतप्रसादः । यस्य स्वनं प्रलयसागरघोषतुल्यं गर्भा निशम्य निपतन्त्यसुराङ्गनानाम् ॥ ४९ ॥ हे पाञ्चजन्य ! प्रशान्तरोषो भगवान् । गम्यताम् । हन्त निवृत्तः । अये नन्दकासिः प्राप्तः । वनिताविग्रहो युद्धे महासुरभयङ्करः । प्रयाति गगने शीघ्रं महोल्केव विभात्ययम् ॥ ५० ॥ हे नन्दक ! प्रशान्तरोषो भगवान् । गम्यताम् । हन्त निवृत्तः । यावद् गच्छामि । अये एतानि भगवदायुधवराणि । सोऽयं खड्गः खरांशोरपहसिततनुः स्वैः करैर्नन्दकाख्यः सेयं कौमोदकी या सुररिपुकठिनोरःस्थलक्षोददक्षा । सैषा शार्ङ्गभिधाना प्रलयघनरवज्यारखा चापरेखा सोऽयं गम्भीरघोषः शशिकरविशदः शङ्खराट् पाञ्चजन्यः ॥५१॥ हे शार्ङ्ग ! कौमोदकि ! पाञ्चजन्य ! दैत्यान्तकृन्नन्दक ! शत्रुवह्ने ! । प्रशान्तरोषो भगवान् मुरारिः स्वस्थानमेवात्र हि गच्छ तावत् ॥ ५२ ॥ हन्त निवृत्ताः । यावद् गच्छामि । अये अत्युद्भूतो वायुः । अति- तपत्यादित्यः । चलिताः पर्वताः । क्षुब्धाः सागराः । पतिताः वृक्षाः । भ्रान्ता मेघाः । प्रलीना वासुकिप्रभृतयो भुजङ्गेश्वराः । किन्नुखल्वि- दम् । अये अयं भगवतो वाहनो गरुडः प्राप्तः । सुरासुराणां परिखेदलब्धं येनामृतं मातृविमोक्षणार्थम् । आच्छिन्नमासीद् द्विषतो मुरारेस्त्वामुद्वहामीति वरोऽपि दत्तः ॥ ५३ ॥ हे काश्यपप्रियसुत ! गरुड ! प्रशान्तरोषो भगवान् देवदेवेशः । गम्यतां स्वनिलयमेव । हन्त निवृत्तः । यावद् गच्छामि । एते + + + + + + + + + + + + + संभ्रमचलन्मकुटोत्तमाङ्गाः । रुष्टेऽच्युते विगतकान्तिगुणाः प्रशान्तं श्रुत्वा श्रयन्ति सदनानि निवृत्ततापाः ॥ ५४ ॥ यावदहमपि कान्तां मेरुगुहामेव यास्यामि । (निष्क्रान्तः । ) वासुदेवः - यावदहमपि पाण्डवशिबिरमेव यास्यामि । ( नेपथ्ये ) नखलु नखलु गन्तव्यम् । वासुदेव:- अये वृद्धराजस्वर इव । भो राजन् ! एप स्थितोऽस्मि ( तत: प्रविशति धृतराष्ट्रः । ) धृतराष्ट्रः - क्वनुखलु भगवान् नारायणः । क्वनुखलु भगवान् पाण्डवश्रेयस्करः । क्वनुखलु भगवान् विप्रप्रियः । क्वनुखलु भगवान् देवकीनन्दनः । मम पुत्रापराधात् तु शार्ङ्गपाणे ! तवाधुना । एतन्मे त्रिदशाध्यक्ष ! पादयोः पतितं शिरः ॥ ५५ ॥ वासुदेवः - हा धिक् । पतितोऽत्रभवान् । उतिष्ठोत्तिष्ठ । धृतराष्ट्रः - अनुगृहीतोऽस्मि । भगवन! इदमर्घ्यं पाद्यं च प्रति- गृह्यताम् । वासुदेवः - सर्वं गृह्णामि । किं ते भूयः प्रियमुपहरामि । धृतराष्ट्रः - यदि मे भगवान् प्रसन्नः, किमतःपरमिच्छामि । वासुदेवः - गच्छतु भवान् पुनर्दर्शनाय । धृतराष्ट्रः - यदाज्ञापयति भगवान् नारायणः । (निष्क्रान्तः । ) ( भरतवाक्यम् ) इमां सागरपर्यन्तां हिमवद्विन्ध्यकुण्डलाम् । महीमेकातपत्राङ्कां राजसिंहः प्रशास्तु नः ॥ ५६ ॥ ( निष्कान्ताः सर्वे ) दूतवाक्यं समाप्तम् । ॥ श्रीः ॥ भासनाटकचक्रे दूतघटोत्कचम् । ( नान्यन्ते ततः प्रविशति सूत्रधारः । ) सूत्रधारः- नारायणस्त्रिभुवनैकपरायणो वः पायादुपायशतयुक्तिकरः सुराणाम् । लोकत्रयाविरतनाटकतन्त्रवस्तु- प्रस्तावनप्रतिसमापनसूत्रधारः ॥ १ ॥ ( परिक्रम्य ) एवमार्यमिश्रान्विज्ञापयामि । अये किं नु खलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते । अङ्ग पश्यामि । (नेपथ्ये ) भो भो निवेद्यतां निवेद्यतां तावत् । सूत्रधारः - भवतु । विज्ञातम् । एष खलु संशप्तकानीकनिवाहिते जनार्दनसहाये धनञ्जये तदनन्तरमुपगतभीष्मवधामर्षितैर्धार्तराष्ट्रैः परिवार्य निपातितः कुमारोऽभिमन्युः । तथाहि यान्त्यर्जुनप्रत्यभियानभीता यतोऽर्जुनस्तां दिशमीक्षमाणाः । नराधिपाः स्वानि निवेशनानि सौभद्रबाणाङ्कितनष्टसंज्ञाः ॥ २ ॥ ( निष्क्रान्तः । ) स्थापना । [^१] दुपायगत॰ । [^२] निर्वासिते । ( ततः प्रविशति भटः । ) भटः - भो भोः ! निवेद्यतां तावत्पुत्रशतश्लाघ्यबान्धवाय विज्ञान- विस्तारितविनयाचारदीर्घचक्षुषे महाराजाय धृतराष्ट्राय । एष खलु योधस्यन्दनवाजिवारणवधैर्विक्षोभ्य राज्ञां बलं बालेनार्जुनकर्म येन समरे लीलायता दर्शितम् । सौभद्रः स रणे नराधिपशतैर्वेगागतैः सर्वशः खे शक्रस्य पितामहस्य सहसैवोत्सङ्गमारोपितः ॥ ३ ॥ ( तत: प्रविशति धृतराष्ट्रो गान्धारी दुःशला प्रतिहारी च । ) धृतराष्ट्रः - कथं नु भोः ! केनैतच्छ्रतिपथदूषणं कृतं मे कोऽयं मे प्रियमिति विप्रियं ब्रवीति । कोऽस्माकं शिशुवधपातकाङ्कितानां वंशस्य क्षयमवघोषयत्यभीतः ॥ ४ ॥ गान्धारी - महाराअ ! अत्थि उण जाणीअदि केवळं पुत्तसंखअका- ओ कुळविग्गहो भविस्सिदि त्ति । [ महाराज ! अस्ति पुनर्ज्ञायते केवलं पुत्रसंक्षयकारकः कुलविग्रहो भविष्यतीति ] धृतराष्ट्रः - गान्धारि ! ज्ञायते । गान्धारी - महाराअ कदा णु खु । [ महाराज कदा नु खलु । ] धृतराष्ट्रः - गान्धारि ! शृणु अद्याभिमन्युनिधनाज्जनितप्रकोपः सामर्षकृष्णधृतरश्मिगुणप्रतोदः । पार्थः करिष्यति तदुग्रधनुःसहायः शान्तिं गमिष्यति विनाशमवाप्य लोकः ॥ ५ ॥ गान्धारी- हा वच्छ अभिमञ्ञो ! ईदिसे वि णाम पुरुसखअकारए कुळविग्गहे वत्तमाणे वाळभावणिमज्जहं अम्हाणं भग्गकमेण करअंतो कहिं दाणिं पोत्तअ ! गदोसि । [ हा वत्स अभिमन्यो ! ईदृशोऽपि नाम पुरुषक्षयकारके कुलविग्रहे वर्तमाने बालभावनिमज्जन- मस्माकं भाग्यक्रमेण कुर्वन् कुत्रेदानीं पौत्रक ! गतोऽसि । ] दुःशलाः - जेण दाणि वहूए उत्तराए वेधव्वं दाइदं, तेण अत्तणो जुवदिजणस्स वेधव्वमादिट्ठं । [ येनेदानीं वध्वै उत्तरायै वैधव्यं दत्तं, तेनात्मनो युवतिजनाय वैधव्यमादिष्टम् । ] धृतराष्ट्रः - अथ केनैष व्यसनार्णवस्य सेतुबन्धः कृतः । भट: - महाराज ! मया । धृतराष्ट्रः - को भवान् । भट: - महाराज ! ननु जयत्रातोऽस्मि । धृतराष्ट्रः - जयत्रात ! केनाभिमन्युर्निहतः कस्य जीवितमप्रियम् । पञ्चानां पाण्डवाग्नीनां आत्मा केनेन्धनीकृतः ॥ ६ ॥ भटः- महाराज ! बहुभिः किल पार्थिवैः समागतैर्निहतः कुमारोऽ- भिमन्युः । स्यात्तु जयद्रथो निमित्तभूतः । धृतराष्ट्रः - हन्त जयद्रथो निमित्तभूतः । भटः - महाराज ! अथ किम् । धृतराष्ट्रः - हन्त जयद्रथो निहतः । ( तच्छ्रुत्वा दुःशला रोदिति । ) धृतराष्ट्रः - कैषा रोदिति । प्रतीहारी - महाराअ ! भट्टिदारिआ दुश्शळा । [ महाराज ! भर्तृ- दारिका दुःशला । ] धृतराष्ट्रः - वत्से अलमलं रुदितेन । पश्य, भर्तुस्ते नूनमत्यन्तमवैधव्यं न रोचते । येन गाण्डीवबाणानामात्मा लक्षीकृतः स्वयम् ॥ ७ ॥ दुःशला - तेण हि अणुजागादु मं तादो, अहं वि गमिस्सं बहुए उत्तराए आसं । [ तेन ह्यनुजानातु मां तातः, अहमपि गमिष्यामि वध्वा उत्तरायाः सकाशम् । ] धृतराष्ट्रः - वत्से किमभिधास्यसि । दुःशला - ताद ! एवं च भणिस्सं-अज्जकाळिअं च दे वेसग्गहणं अहं वि उवधारइस्सामिति । [ तात ! एवं च भणिष्यामि - अद्य- कालिकं च ते वेषग्रहणमहमप्युपधारयिष्यामीति ] गान्धारी - पुत्तिए ! माखु मा खु अमंगळं भणाहि । जीवदि खु दे भत्ता । [ पुत्रिके ! मा खलु मा खल्वमङ्गलं भण । जीवति खलु ते भर्ता । ] दुःशला - अम्ब ! कुदो मे एत्तिआणि भाअधेआणि । जो जण- द्दणसहाअस्स धणंजअस्स विप्पिअं करिअ कोहि णाम जीविस्सिदि । [ अम्ब ! कुतो मे एतावन्ति भागधेयानि । यो जनार्दनसहायस्य धनञ्जयस्य विप्रियं कृत्वा को हि नाम जीविष्यति । ] धृतराष्ट्रः - सत्यमाह तपस्विनी दुश्शला । कुतः, कृष्णस्याष्टभुजोपधानरचिते योऽङ्के विवृद्धश्चिरं यो मत्तस्य हलायुधस्य भवति प्रीत्या द्वितीयो मदः । पार्थानां सुरतुल्यविक्रमवतां स्नेहस्य यो भाजनं तं हत्वा क इहोपलप्स्यति चिरं स्वैर्दुष्कृतैर्जीवितम् ॥ ८ ॥ जयत्रात ! अथ तदवस्थं पुत्रं दृष्ट्वा किं प्रतिपन्नं तेन गाण्डीव- धन्वना । भटः - महाराज ! किं वार्जुनसमीपे वृत्तमेतत् । धृतराष्ट्रः- कथमर्जुनोऽपि नात्रासीत् । भटः - महाराज ! अथ किम् । धृतराष्ट्रः - कथमिदानीं वृत्तमेतत् । भटः- श्रूयतां--संशप्तकानीकनिवाहिते जनार्दनसहाये धनंजये स बालभावाददृष्टदोषः संग्राममवतीर्णः कुमारोऽभिमन्युः । धृतराष्ट्रः - हन्त युक्तरूपोऽस्य वधः । कोहि संनिहितशार्दूलां गुहां धर्षयितुं शक्तः । अथ शेषाः पाण्डवाः किमनुतिष्ठन्ति । भट:- महाराज ! श्रूयताम् । चितां न तावत्स्वयमस्य देहमारोपयन्त्यर्जुनदर्शनार्थम् । तेषां च नामान्युपधारयन्ति यैस्तस्य गात्रे प्रहृतं नरेन्द्रैः ॥ ९ ॥ धृतराष्ट्रः - गान्धारि ! तदागम्यताम् । गङ्गाकूलमेव यास्यावः । गान्धारी-महाराअ ! णं तहिं गाहामो । [ महाराज ! ननु तत्र ३ गाहावहे । ] धृतराष्ट्रः- गान्धारि ! शृणु । अद्यैव दास्यामि जलं हतेभ्यः स्वेनापराधेन तवात्मजेभ्यः । न त्वस्मि शक्तः सलिलप्रदानैः कर्तुं नृपाणां शिबिरोपरोधम् ॥१०॥ ( ततः प्रविशति दुर्योधनो दुःशासनः शकुनिध । ) दुर्योधनः- वत्स दुश्शासन ! यातोऽभिमन्युनिधनात् स्थिरतां विरोधः प्राप्तो जयः प्रचलिता रिपवो निरस्ताः । उन्मूलितोऽस्य च मदो मधुसूदनस्य लब्धो मयाद्य सममभ्युदयेन शब्दः ॥ ११ ॥ दुश्शासन:- अहो तु खलु, [^१] निर्वासिते । रुद्धाः पाण्डुसुता जयद्रथबलेनाक्रम्य, शत्रोर्बलं सौभद्रे विनिपातिते शरशतक्षेपैर्द्वितीयेऽर्जुने । प्राप्तैश्च व्यसनानि भीष्मपतनादस्माभिरद्याहवे तीव्राः शोकशराः कृताः खलु मनस्येषां सुतोत्सादनात् ॥ १२ ॥ शकुनिः- जयद्रथेनाद्य महत्कृतं रणे नृपैरसंभावितमात्मपौरुषम् । प्रसह्य तेषां यदनेन संयुगे समं सुतेनाप्रतिमं हृतं यशः ॥ १३ ॥ दुर्योधन: - मातुल ! इतस्तावत् । दुश्शासन ! इतस्तावत् । तत्र- भवन्तं तातमभिवादयिष्यामः । शकुनिः - वत्स दुर्योधन ! मामैवम् । कामं न तस्य रुचितः कुलविग्रहोऽय- मस्मांश्च गर्हयति स प्रियपाण्डवत्वात् । युद्धोत्थितैर्जयमवाप्य हि तुल्यरूपं एवं प्रहृष्टवदनैरभिगन्तुमेनम् ॥ १४ ॥ दुर्योधनः- मातुल ! मा मैवम् । यथा तथा भवतु । तत्रभवन्तं तात- मभिवादयिष्यामः । उभौ - बाढम् । (परिक्रामति । ) दुर्योधनः- तात ! दुर्योधनोऽहमभिवादये । दुश्शासन:-तात ! दुश्शासनोऽहमभिवादये । शकुनिः - शकुनिरहमभिवादये । सर्वे - कथमाशीर्वचनं न प्रयुज्यते । धृतराष्ट्रः - पुत्र ! कथमाशीर्वचनमिति । [^१] मनाक्तेषां । [^२] र्गुरवे हि गन्तुम् । सौभद्रे निहते बाले हृदये कृष्णपार्थयोः । जीविते निरपेक्षाणां कथमाशीः प्रयुज्यते ॥ १५ ॥ दुर्योधनः- तात ! किंकृतोऽयं संभ्रमः । धृतराष्ट्रः - किंकृतोऽयं संभ्रम इति । एका कुलेऽस्मिन्बहुपुत्रनाथे लब्ध्वा सुता पुत्रशताद्विशिष्टा । सा बान्धवानां भवतां प्रसादाद् वैधव्यमश्लाघ्यमवाप्स्यतीति ॥ १६ ॥ दुर्योधनः- तात ! किं चात्र जयद्रथस्य । धृतराष्ट्रः - तेन किल वरविदग्धेन रुद्धाः पाण्डवाः ! दुर्योधनः- आ तेन रुद्धा: । बहुभिः खल्वन्यैः । धृतराष्ट्रः- भोः ! कष्टम् । बहूनां समवेतानामेकस्मिन्निर्घृणात्मनाम् । बाले पुत्रे प्रहरतां कथं न पतिता भुजाः ॥ १७ ॥ दुर्योधनः- तात ! वृद्धं भीष्मं छलैर्हत्वा तेषां न पतिता भुजाः । हत्वास्माकं पतिष्यन्ति तमबालपराक्रमम् ॥ १८ ॥ धृतराष्ट्रः - वत्स ! किं भीष्मस्य निपातनमभिमन्योश्च वधः समः । दुर्योधनः- तात ! कथं न समः । धतराष्ट्रः - पुत्र ! श्रूयताम्, स्वच्छन्दमृत्युर्निहतो हि भीष्मः स्वेनोपदेशेन कृतात्मतुष्टिः । अयं तु बालः कुरुवंशनाथरिछन्नोऽर्जुनस्य प्रथमः प्रवालः ॥ १९ ॥ दुःशासन:- तात ! बालो न बाल इति । अभिमन्युना, धृतराष्ट्रः - किं किं दुश्शासनो व्याहरति । दुश्शासन:- अथ किम् । [^१] कथं । [^२] कृतात्मतुष्टः । सर्वेषां नः पश्यतां युध्यतां च व्यायामोष्णं गृह्य चापं करेण । सूर्येणैवाभ्यागतैरंशुजालैः सर्वे बाणैरङ्किता भूमिपालाः ॥ २० ॥ धृतराष्ट्रः - कष्टं भोः ! बालेनैकेन तावद्भोः ! सौभद्रेणेदृशं कृतम् । पुत्रव्यसनसन्तप्तः पार्थो वः किं करिष्यति ॥ २१ ॥ दुर्योधनः- किं करिष्यति । धृतराष्ट्रः- तत्करिष्यति, यत्सावशेषायुषो द्रक्ष्यथ । दुर्योधनः- तात ! कस्तावदर्जुनो नाम । धृतराष्ट्रः - पुत्र ! अर्जुनमपि न जानीषे । दुर्योधनः- तात ! न जाने । धृतराष्ट्रः- तेन हि अहमपि न जाने । किन्तु, अर्जुनस्य बलवीर्यज्ञाः बहवः सन्ति । तान् पृच्छ । दुर्योधनः- तात ! केऽर्जुनस्य बलवीर्यज्ञा मया प्रष्टव्याः । धृतराष्ट्रः - पुत्र ! श्रूयताम् । शक्रं पृच्छ पुरा निवातकवचप्राणोपहारार्चितं पृच्छास्त्रैः परितोषितं बहुविधैः कैरातरूपं हरम् । पृच्छाग्निं भुजगाहुतिप्रणयिनं यस्तर्पितः खाण्डवे विद्यारक्षितमद्य येन च जितस्त्वं पृच्छ चित्रांगदम् ॥ २२ ॥ दुर्योधनः- यद्येतद्वीर्यमर्जुनस्य किमस्माकं बले न सन्ति प्रतियोद्धा- रोऽर्जुनस्य । धृतराष्ट्रः - पुत्र ! के ते । [^१] व्याधामोष्णं । दुर्योधनः- ननु कर्ण एव तावन् । धृतराष्ट्रः - अहो हास्यः खलु तपस्वी कर्णः । दुर्योधनः- केन कारणेन । धृतराष्ट्रः - श्रूयतां, शक्रापनीतकवचोऽर्धरथः प्रमादी व्याजोपलब्धविफलास्त्रवलो घृणावान । कर्णोऽर्जुनस्य किल यास्यति तुल्यभावं यद्यस्त्रदानगुरवो दहनेन्द्ररुद्राः ॥ २३ ॥ शकुनिः - प्रभवति भवानस्मानवधीरयितुम् । धृतराष्ट्रः - शकुनिरेष व्याहरति । भोः शकुने ! त्वया हि यत्कृतं कर्म सततं द्यूतशालिना । तत्कुलस्यास्य वैराग्निर्बालेष्वपि न शाम्यति ॥ २४ ॥ दुर्योधनः- अये, भूमिकम्पः सशब्दोऽयं कुतो नु सहसोत्थितः । उल्काभिश्च पतन्तीभिः प्रज्वालितमिवाम्बरम् ॥ २५ ॥ धृतराष्ट्रः - पुत्र ! एवं मन्ये, सुव्यक्तं निहतं पौत्रमायस्तचेतसः । उल्कारूपाः पतन्त्येते महेन्द्रस्याश्रुबिन्दवः ॥ २६ ॥ दुर्योधनः- जयत्रात ! गच्छ पाण्डवशिबिरे शङ्खपटहसिंहनादरवो- न्मिश्रः किंकृतोऽयं शब्द इति ज्ञायताम् । भटः - यदाज्ञापयति । ( निष्क्रम्य प्रविश्य ) जयतु महाराजः । संशप्त- कानीकनिवाहितप्रतिनिवृत्तेन धनंजयेन निहतं पुत्रमङ्कस्थमश्रुभिः परिषिच्य जनार्दनावभर्त्सितेन प्रतिज्ञातं किलानेन । दुर्योधनः - किमिति किमिति । भट:- तस्यैव व्यवसायतुष्टहृदयैस्तद्विक्रमोत्साहिभि- स्तुष्टास्यैर्जितमित्यवेक्ष्य सहसा नादः प्रहर्षात्कृतः । आक्रान्ता गुरुभिर्धराधरवरैः संक्षोभितैः पार्थिवै- र्भूमिश्चागतसंभ्रमेव युवतिस्तस्मिन् क्षणे कम्पिता ॥ २७ ॥ धृतराष्ट्रः- प्रतिज्ञासारमात्रेण कम्पितेयं वसुन्धरा । सुव्यक्तं धनुषि स्पृष्टे त्रैलोक्यं विचलिष्यति ॥ २८ ॥ दुर्योधनः- जयत्रात ! किमनेन प्रतिज्ञातम् । भटः- येन मे निहतः पुत्रस्तुष्टिं ये च हते गताः । श्वः सूर्येऽस्तमसम्प्राप्ते निहनिष्यामि तानहम् ॥ २९ ॥ इति । दुर्योधनः- प्रतिज्ञाव्याघाते किं प्रायश्चित्तम् । भटः- चितारोहणं किल गाण्डीवेन सह । दुर्योधनः- मातुल ! चितारोहणं चितारोहणम् । वत्स दुश्शासन ! चितारोहणं चितारोहणम् । वयमपि तावत्प्रतिज्ञाव्याघाते प्रयत्न- मनुतिष्ठामः । धृतराष्ट्रः - पुत्र ! किं करिष्यसि । दुर्योधनः- ननु सर्वाक्षौहिणीसन्दोहेन च्छादयिष्ये जयद्रथं । अपि च, द्रोणोपदेशेन यथा तथाहं संयोजये व्यूहमभेद्यरूपम् । खिन्नाशयास्ते सगजाः सयोधा अप्राप्तकामा ज्वलनं विशेयुः ॥ ३० ॥ [^१] प्रकर्षात् । [^२] स्वरमात्रेण । धृतराष्ट्रः- अपि प्रविष्टं धरणीमप्यारूढं नभस्थलम् । सर्वत्रानुगमिष्यन्ति शरास्ते कृष्णचक्षुषः ॥ ३१ ॥ भटः- क्रूरमेवं नरपतिं नित्यमुद्यतशासनम् । यः कश्चिदपरो ब्रूयान्न तु जीवेत्स तत्क्षणम् ॥ ३२ ॥ ( ततः प्रविशति घटोत्कचः । ) घटोत्कचः - एष भोः ! प्रयामि सौभद्रविनाशचोदिते दिदृक्षुराद्यारिमनार्यचेतसम् । विचिन्तयंश्चक्रधरम्य शासनं यथा गजेन्द्रोऽङ्कशशङ्कितो बलिम् ॥ ३३ ॥ ( अधां विलोक्य) इदेमस्योपस्थानगृहद्वारम् । यावदवतरामि । ( अवतीर्य ) आत्मनैवात्मानं निवेदयिष्ये । भोः ! हैडिम्बोऽस्मि घटोत्कचो यदुपतेर्वाक्यं गृहीत्वागतो द्रष्टव्योऽत्र मया गुरुः स्वचरितैर्दोषैर्गतः शत्रुताम् । दुर्योधनः- एह्येहि प्रविशस्व शत्रुभवनं कौतूहलं मे महत् धृष्टं श्रावय मां जनार्दनवचो दुर्योधनोऽहं स्थितः ॥ ३४ ॥ घटोत्कचः-( प्रविश्य ) अये अयमत्रभवान् धृतराष्ट्रः । अनार्यशत- स्योत्पादयिता । अयं ननु ललितगम्भीराकृतिविशेषः । आश्चर्य- माश्चर्यम् । वृद्धोऽप्यनाततवलीगुरुसंहतांसः श्रद्धेयरूप इव पुत्रशतस्य धृत्या । [^१] चो ( द ) कं । [^२] इदमन्योपस्थानद्वारमुखम् । [^३] ( शत्रु ? शत ) संहतांसः । [^४] सूत्या । मन्ये सुरैस्त्रिदिवरक्षणजातशङ्कै- स्त्रासान्निमीलितमुखोऽत्रभवान् हि सृष्टः ॥ ३५ ॥ ( उपसृत्य ) पितामह ! अभिवादये घटोत्क ( इत्यर्धोक्ते ) न न अयमक्रमः । युधिष्ठिरादयश्च मे गुरवो भवन्तमभिवादयन्ति । पश्चाद्घटोत्कचोऽहमभिवादये । धृतराष्ट्रः - एह्येहि पुत्र ! न ते प्रियं दुःखमिदं ममापि यद् भ्रातृनाशाद् व्यथितस्तवात्मा । इत्थं च ते नानुगतोयमर्थो मत्पुत्रदोषात्कृपणीकृतोऽस्मि ॥ ३६ ॥ घटोत्कचः - अहो कल्याणः खल्वत्रभवान् । कल्याणानां प्रसूर्ति पितामहमाह भगवांश्चक्रायुधः । धृतराष्ट्र:- (आसनादुत्थाय । ) किमाज्ञापयति भगवांश्चक्रायुधः । घटोत्कचः-न न न । आसनस्थेनैव भवता श्रोतव्यो जनार्दनस्य सन्देशः । धृतराष्ट्रः- यदाज्ञापयति भगवांश्चक्रायुधः । ( उपविशति । ) घटोत्कचः - पितामह ! श्रूयताम् । हा वत्स अभिमन्यो ! हा वत्स कुरुकुलप्रदीप ! हा वत्स यदुकुलप्रवाल ! तव जननीं मातुलं च मामपि परित्यज्य पितामहं द्रष्टुमाशया स्वर्गमभिगतोऽसि । पिता- मह ! एक पुत्रविनाशादर्जुनस्य तावदीदृशी खल्ववस्था, का पुन- र्भवतो भविष्यति । ततः क्षिप्रमिदानीमात्मबलाधानं कुरुष्व । यथा ते पुत्रशोकसमुत्थितोऽग्निर्न दहेत्प्राणमयं हविरिति । [^१] न मे ( प्रियादारवमिदं ? ) ममापि । [^२] व्यसितः । धृतराष्ट्रः- सक्रोधव्यवसायेन कृष्णेनैतदुदाहृतम् । पश्यामीव हि गाण्डीवी सर्वक्षत्रवधे धृतः ॥ ३७॥ सर्वे- अहो हास्यमभिधानम् । घटोत्कचः - किमेतद्धास्यते । दुर्योधन: - एतद्धास्यते । देवैर्मन्त्रयते सार्धं स कृष्णो जातमत्सरः । पार्थेनैकेन यो वेत्ति निहतं राजमण्डलम् ॥ ३८ ॥ घटोत्कच:- हससि त्वमहं वक्ता प्रेषितश्चक्रपाणिना । श्रावितं पार्थकर्मेदमहो युक्तं तवैव तु ॥ ३९ ॥ अपि च, भवतापि श्रोतव्यो जनार्दनसन्देशः । दुश्शासनः - मा तावत् भोः ! क्षत्रियावमानिन् ! पृथिव्यां शासनं यस्य धार्यते सर्वपार्थिवैः । सन्देशः श्रोष्यतेऽप्यन्यो न राज्ञस्तस्य संनिधौ ॥ ४० ॥ घटोत्कचः-कथं दुश्शासनो व्याहरति । अरे दुश्शासन ! अराजा नाम भवतां चक्रायुधः । हं भोः ! मुक्ता येन यदा पुरा नृपतयः प्रभ्रष्टमानोच्छ्रयाः येनार्घ्यं नृपमण्डलस्य मिषतो भीष्माग्रहस्ताद्धृतम् । श्रीर्यस्याभिरता नियोगसुमुखी श्रीवक्षशय्यागृहे श्लाघ्यः पार्थिवपार्थिवस्तव कथं राजा न चक्रायुधः ॥ ४१ ॥ दुर्योधनः- दुश्शासन ! अलं विवादेन । [^१] जरापुरानृपतयः । [^२] श्रीवत्स० । राजा वा यदि वा राजा बली वा यदि वा बली । बहुनात्र किमुक्तेन किमाह भवतां प्रभुः ॥ ४२ ॥ घटोत्कचः - अथ किमथ किम् । प्रभुरेव त्रैलोक्यनाथो भगवांश्च- क्रायुधः । विशेषतोऽस्माकं प्रभुः । अपि च, अवसितमवगच्छ क्षत्रियाणां विनाशं नृपशतविनिचित्या लाघवं चास्तु भूमेः । न हि तनयविनाशादुद्यतोग्रास्त्रमुक्तैः समरशिरसि कश्चित्फल्गुनस्यातिभारः ॥ ४३ ॥ शकुनि:- यदि स्याद्वाक्यमात्रेण निर्जितेयं वसुन्धरा । वाक्ये वाक्ये यदि भवेत्सर्वक्षत्रवधः कृतः ॥ ४४ ॥ घटोत्कचः - शकुनिरेष व्याहरति । भोः शकुने ! अक्षान्विमुञ्च शकुने ! कुरु बाणयोग्य- मष्टापदं समरकर्मणि युक्तरूपम् । न ह्यत्र दारहरणं न च राज्यतन्त्रं प्राणाः पणोऽत्र रतिरुग्रबलैश्च बाणैः ॥ ४५ ॥ दुर्योधनः - भो भोः ! प्रकृतिं गतः । क्षिपसि वदसि रूक्षं लंघयित्वा प्रमाणं न च गणयास किञ्चिद्व्याहरन्दीर्घहस्तः । यदि खलु तव दर्पो मातृपक्शोग्ररूपो वयमपि खलु रौद्राः राक्षसोग्रस्वभावाः ॥ ४६ ॥ घटोत्कचः-शान्तं शान्तं पापम् । राक्षसेभ्योऽपि भवन्त एव क्रूरतराः । कुतः, [^१] ०रुग्रफलाश्च बाणाः । [^२] वृत्तं । न तु जतुगृहे सुप्तान् भ्रातृन् दहन्ति निशाचराः शिरास न तथा भ्रातुः पत्नीं स्पृशन्ति निशाचराः । न च सुतवधं संख्ये कर्तुं स्मरन्ति निशाचरा: विकृतवपुषोऽप्युप्राचारा घृणा न तु वर्जिता ॥ ४७ ॥ दुर्योधनः- दूतः खलु भवान् प्राप्तो न त्वं युद्धार्थमागतः । गृहीत्वा गच्छ सन्देशं न वयं दूतघातकाः ॥ ४८ ॥ घटोत्कचः-( सरोषम् ) किं दूत इति मां प्रधर्षयसि । मा तावद् भोः ! न दूतोऽहम् । अलं वो व्यवसायेन प्रहरध्वं समाहताः१ । ज्याच्छेदाद्दुर्बलो नाहमभिमन्युरिह स्थितः ॥ ४९ ॥ महानेष कैशोरकोऽयं मे मनोरथः । अपि च, दष्टोष्ठो मुष्टिमुद्यम्य तिष्ठत्येष घटोत्कचः । उत्तिष्ठतु पुमान् कश्चिद्गन्तुमिच्छेद्यमालयम् ॥ ५० ॥ ( सर्वे उत्तिष्ठन्ति । ) धृतराष्ट्रः - पौत्र घटोत्कच ! मर्षयतु मर्षयतु भवान् । मद्वचनाव- गन्ता भव । घटोत्कचः - भवतु भवतु । पितामहस्य वचनाद् दूतोऽहमस्मि । तथापि हि न शक्नोमि रोषं धारयितुम् । कः प्रतिसंदेशः । दुर्योधनः- आ कस्य विज्ञाप्यम् । मद्वचनादेवं स वक्तव्यः, किं व्यर्थं बहु भाषसे न खलु ते पारुष्यसाध्या वयं कोपान्नार्हसि किंचिदेव वचनं युद्धं यदा दास्यसि । निर्याम्येष निरन्तरं नृपशतच्छत्रावलीभिर्वृत- स्तिष्ठ त्वं सह पाण्डवैः प्रतिवचो दास्यामि ते सायकैः ॥ १५१ ॥ [^१] समागताः । [^२] पौरू(ब? ष्य ) साध्या । घटोत्कचः - पितामह ! एष गच्छामि । धृतराष्ट्रः- पौत्र ! गच्छ, गच्छ घटोत्कचः-भो भो राजानः ! श्रूयतां जनार्दनस्य पश्चिमः सन्देशः । धर्मं समाचर कुरु स्वजनव्यपेक्षां यत्कांक्षितं मनसि सर्वमिहानुतिष्ठ । जात्योपदेश इव पाण्डवरूपधारी सूर्यांशुभिः सममुपैष्यति वः कृतान्तः ॥ ५२ ॥ इति । (निष्क्रान्ताः सर्वे । ) दूतघटोत्कचं नामोत्सृष्टिकाङ्कं समाप्तम् ॥ ॥ श्रीः ॥ भासनाटकचक्रे कर्णभारम् । ( नान्द्यन्ते ततः प्रविशति सूत्रधारः । ) सूत्रधारः - नरमृगपतिवर्ष्मालोकनभ्रान्तनारी- नरदनुजसुपर्वत्रातपाताललोकः । करजकुलिशपालीभिन्नदैत्येन्द्रवक्षाः सुररिपुबलहन्ता श्रीधरोऽस्तु श्रिये वः ॥ १ ॥ एवमार्यमिश्रान्विज्ञापयामि । ( परिक्रम्य, कर्णं दत्वा । ) अये किं नु खलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते । अङ्ग ! पश्यामि । ( नेपथ्ये ) भो भो ! निवेद्यतां निवेद्यतां महाराजायाङ्गेश्वराय । सूत्रधारः - भवतु विज्ञातम् । संग्रामे तुमुले जाते कर्णाय कलिताञ्जलिः । निवेदयति संभ्रान्तो भृत्यो दुर्योधनाज्ञया ॥ २ ॥ ( निष्क्रान्तः । ) प्रस्तावना । ( ततः प्रविशति भटः । ) भटः- भो भोः ! निवेद्यतां निवेद्यतां महाराजायाङ्गेश्वराय युद्धकाल उपस्थित इति । [^१] सुपर्ण॰ इत्यादर्शपुस्तकेषूपलभ्यते । करितुरगरथस्थैः पार्थकेतोः पुरस्तात् मुदितनृपतिसिंहैः सिंहनादः कृतोऽद्य । त्वरितमरिनिनादैर्दुस्सहालोकवीरः समरमधिगतार्थः प्रस्थितो नागकेतुः ॥ ३ ॥ ( परिक्रम्य विलोक्य) अये अयमगङ्गराजः समरपरिच्छदपरिवृतः शल्यराजेन सह स्वभवनान्निष्क्रम्येत एवाभिवर्तते । भोः ! किं नु खलु युद्धोत्सवप्रमुखस्य दृष्टपराक्रमस्याभूतपूर्वो हृदयपरितापः । एष हि अत्युग्रदीप्तिविशदः समरेऽग्रगण्यः शौर्ये च संप्रति सशोकमुपैति धीमान् । प्राप्ते निदाघसमये घनराशिरुद्धः सूर्य: स्वभावरुचिमानिव भाति कर्ण: ॥ ४ ॥ यावदपसर्पामि । (निष्क्रान्तः । ) (ततः प्रविशति यथानिर्दिष्टः कर्णः शल्यश्च । ) कर्ण:- मा तावन्मम शरमार्गलक्षभूताः संप्राप्ताः क्षितिपतयः सजीवशेषाः । कर्तव्यं रणशिरसि प्रियं कुरूणां द्रष्टव्यो यदि स भवेद्धनंजयो मे ॥ ५ ॥ शल्यराज ! यत्रासावर्जुनस्तत्रैव चोद्यतां मम रथः । शल्यः-बाढम् । ( चोदयति । ) कर्णः - अहो नु खलु [^१] दुःसहं लोकवीरः [^२] ० मभिगतार्थः [^३] किं प्राप्ताः । अन्योन्यशस्त्रविनिपातनिकृत्तगात्र- यौधाश्ववारणरथेषु महाहवेषु । क्रुद्धान्तकप्रतिमविक्रमिणो ममापि वैधुर्यमापतति चेतसि युद्धकाले ॥ ६ ॥ भोः कष्टम् । पूर्वं कुन्त्यां समुत्पन्नो राधेय इति विश्रुतः । युधिष्ठिरादयस्ते मे यवीयांसस्तु पाण्डवाः ॥ ७ ॥ अयं स कालः क्रमलब्धशोभनो गुणप्रकर्षो दिवसोऽयमागतः । निरर्थमस्त्रं च मयाहि शिक्षितं पुनश्च मातुर्वचनेन वारितः ॥ ८ ॥ भोः शल्यराज श्रूयतां ममास्त्रस्य वृत्तान्तः । शल्यः - ममाप्यस्ति कौतूहमेनं वृत्तान्तं श्रोतुम् । कर्णः - पूर्वमेवाहं जामदग्न्यस्य सकाशं गतवानस्मि । शल्यः -- ततस्ततः । कर्णः - ततः, विद्युल्लताकपिलतुङ्गजटाकलाप- मुद्यत्प्रभावलयिनं परशुं दधानम् । क्षत्रान्तकं मुनिवरं भृगुवंशकेतुं गत्वा प्रणम्य निकटे निभृतः स्थितोऽस्मि ॥ ९ ॥ शल्यः- ततस्ततः । कर्णः - ततो जमदग्निनो ममाशीर्वचनं दत्वा पृष्टोऽस्मि । को भवान् किमर्थमिहागत इति । [^१] निरस्तमस्त्र । [^२] जामदग्न्येन । शल्य: - ततस्ततः । कर्णः- ततः भगवन् अखिलान्यस्त्राण्युपशिक्षितुमिच्छामीत्युक्त- वानस्मि । शल्यः -- ततस्ततः । कर्णः-ततः उक्तोऽहं भगवता ब्राह्मणेषूपदेशं करिष्यामि न क्षत्रिया- णामिति । शल्यः–अस्ति खलु भगवतः क्षत्रियवंश्यैः पूर्ववैरम् । ततस्ततः । कर्णः - ततो नाहं क्षत्रिय इत्यस्त्रोपदेशं ग्रहीतुमारब्धं मया । शल्यः -- ततस्ततः । कर्णः - ततः कतिपयकालातिक्रमे कदाचित्फलमूलसमित्कुशकुसुमा- हरणाय गतवता गुरुणा सहानुगतोऽस्मि । शल्यः -- ततस्ततः । कर्णः- ततः स गुरुर्वनभ्रमणपरिश्रमान्मदङ्के निद्रावशमुपगतः । शल्यः -- ततस्ततः । कर्णः-ततः कृत्ते वज्रमुखेन नाम कृमिणा दैवान्ममोरुद्वये निद्राच्छेदभयादसह्यत गुरोधैर्यात्तदा वेदना । उत्थाय क्षतजाप्लुतः स सहसा रोषानलोद्दीपितो बुध्वा मां च शशाप कालविफलान्यस्त्राणि ते सन्त्विति ॥१०॥ शल्यः - अहो कष्टमभिहितं तत्रभवता । कर्णः - परीक्षामहे तावदस्त्रस्य वृत्तान्तम् । ( तथा कृत्वा ) एतान्यस्त्राणि निर्वीर्याणीव लक्ष्यन्ते । अपि च । [^१] आरब्धः । इमे हि दैन्येन निमीलितेक्षणा मुहुः स्खलन्तो विवशास्तुरङ्गमाः । गजाश्च सप्तच्छददानगन्धिनो निवेदयन्तीव रणे निवर्तनम् ॥ ११ ॥ शङ्खदुन्दुभयश्च निःशब्दाः । शल्य:- भोः कष्टं किं नु खल्विदम् । कर्णः - शल्यराज ! अलमलं विषादेन । हतोऽपि लभते स्वर्गं जित्वा तु लभते यशः । उभे बहुमते लोके नास्ति निष्फलता रणे ॥ १२ ॥ अपि च इमे हि युद्धेष्वनिवर्तिताशा हयाः सुपर्णेन समानवेगाः । श्रीमत्सु काम्बोजकुलेषु जाताः रक्षन्तु मां यद्यपि रक्षितव्यम् ॥ १३ ॥ अक्षयोऽस्तु गोब्राह्मणानाम् अक्षयोऽस्तु पतित्रतानाम् । अक्षयोऽस्तु रणेष्वपराङ्मुखानां यौधपुरुषाणाम् । अक्षयोऽस्तु मम प्राप्तकालस्य । एष भोः प्रसन्नोऽस्मि । समरमुखमसह्यं पाण्डवानां प्रविश्य प्रथितगुणगणाढयं धर्मराजं च बद्ध्वा । मम शरवरवेगैरर्जुनं पातयित्वा वनमिव हतासिंहं सुप्रवेशं करोमि ॥ १४ ॥ शल्यराज ! यावद्रथमारोहावः । शल्यः- बाढम् । [^१] रक्षन्त्यमी । ( उभौ रथारोहणं नाटयतः । ) कर्णः - शल्यराज ! यत्रासावर्जुनस्तत्रैव चोद्यतां मम रथः । ( नेपथ्ये ) भो कण्ण ! महत्तरं भिक्खं याचेमि । [ भोः कर्ण ! महत्तरां भिक्षां याचे । ] कर्ण:-( आकर्ण्य ) अये वीर्यवान् शब्दः । श्रीमानेष न केवलं द्विजवरो यस्मात्प्रभावो महा- नाकर्ण्य स्वरमस्य धीरनिनदं चित्रार्पिताङ्गा इव । उत्कर्णस्तिभिताञ्चिताक्षवलितग्रीवार्पिताग्रानना- स्तिष्ठन्त्यस्ववशांगयष्टि सहसा यान्तो ममैते हयाः ॥ १५ ॥ आहूयतां स विप्रः । न न । अहमेवाह्वयाभि । भगवन्नित इतः । ( ततः प्रविशति ब्राह्मणरूपेण शक्रः । ) शक्रः- भो मेघाः ! सूर्येणैव निवर्त्य गच्छन्तु भवन्तः । ( कर्णमुपगम्य ) भो कण्ण ! महत्तरं भिक्खं याचेमि । [ भोः कर्ण ! महत्तरां भिक्षां याचे । ] कर्णः - दृढं प्रीतोऽस्मि भगवन् ! यातः कृतार्थगणनामहमद्य लोके राजेन्द्रमौलिमणिरञ्जितपादपद्मः । विप्रेन्द्रपादरजसा तु पवित्रमौलिः कर्णो भवन्तमहमेष नमस्करोमि ॥ १६ ॥ शक्रः-( आत्मगतम् ) किं नु खलु मया वक्तव्यं, यदि दीर्घायुभवेति वक्ष्ये दीर्घायुर्भविष्यति । यदि न वक्ष्ये मूढ इति मां परिभवति । तस्मादुभयं परिहृत्य किं नु खलु वक्ष्यामि । भवतु दृष्टम् । (प्रकाशम्) [^१] धीरमधुरं । भो कण्ण ! सुय्ये विअ, चन्दे विअ, हिमवन्ते विअ, सागळे विअ, चिट्ठदु दे जसो । [ भोः कर्ण ! सूर्य इव, चन्द्र इव, हिमवान् इव, सागर इव तिष्ठतु ते यश: । ] कर्णः - भगवन् ! किं न वक्तव्यं दीर्घायुर्भवेति । अथवा एतदेव शोभनम् । कुतः - धर्मो हि यत्नैः पुरुषेण साध्यो भुजंगजिह्वाचपला नृपश्रियः । तस्मात्प्रजापालनमात्रबुध्या हतेषु देहेषु गुणा धरन्ते ॥ १७ ॥ भगवन्, किमिच्छसि । किमहं ददामि । शक्रः - महत्तरं भिक्खं याचेमि । [ महत्तरां भिक्षां याचे । ] कर्णः - महत्तरां भिक्षां भवते प्रदास्ये । श्रूयन्तां मद्विभवाः । गुणवदमृतकल्पक्षीरधाराभिवर्षि द्विजवर ! रुचितं ते तृप्तवत्सानुयात्रम् । तरुणमधिकमर्थिप्रार्थनीयं पवित्रं विहितकनकशृङ्गं गोसहस्रं ददामि ॥ १८ ॥ शक्रः - गोसहस्सं त्ति । मुहुत्तअं खिरं पिबामि । णेच्छामि कण्ण ! णेच्छामि । [ गोसहस्रमिति । मुहूर्तकं क्षीरं पिबामि । नेच्छामि कर्ण ! नेच्छामि । ] कर्णः - किं नेच्छति भवान् । इदमपि श्रूयताम् । रवितुरगसमानं साधनं राजलक्ष्म्याः सकलनृपतिमान्यं मान्यकाम्बोजजातम् । सुगुणमनिलवेगं युद्धदृष्टापदानं सपदि बहु सहस्रं वाजिनां ते ददामि ॥ १९ ॥ [^१] ०वत्सानुपातम् । शक्रः-अस्स त्ति । मुहुत्तअं आळुहामि । णेच्छामि कण्ण ! णेच्छामि । [ अश्व इति । मुहूर्तकमारोहामि । नेच्छामि कर्णं ! नेच्छामि । ] कर्ण:- किं नेच्छति भगवान् । अन्यदपि श्रूयताम् । मदसरितकपोलं षट्पदैः सेव्यमानं गिरिवरनिचयाभं मेघगम्भीरघोषम् । सितनखदशनानां वारणानामनेकं रिपुसमरविमर्दं वृन्दमेतद्ददामि ॥ २० ॥ शक्रः- गअ अत्ति । मुहुत्तअं आळुहामि । णेच्छामि कण्ण ! णेच्छामि । [ गज इति । मुहूर्तकमारोहामि । नेच्छामि कर्ण ! नेच्छामि । ] कर्णः–किं नेच्छति भवान् । अन्यदपि श्रूयताम् । अपर्याप्तं कनकं ददामि । शक्रः- गहिअ गच्छामि । ( किंचिद्गत्वा ) णेच्छामि कण्ण ! णेच्छामि । [ गृहीत्वा गच्छामि । नेच्छामि कर्ण ! नेच्छामि । ] कर्णः- तेन हि जित्वा पृथिवीं ददामि । शक्रः- पुहुवीए किं करिस्सम् । [ पृथिव्या किं करिष्यामि । ] कर्णः- तेन ह्यग्निष्टोमफलं ददामि । शक्र:-अग्गिट्टोमफळेण किं कय्यं । [ अग्निष्टोमफलेन किं कार्यम् । ] कर्णः - तेन हि मच्छरो ददामि । शक्र: - अविहा अविहा । [ अविहा अविहा । ] कर्णः - न भेतव्यं न भेतव्यम् । प्रसीदतु भवान् । अन्यदपि श्रूयताम् । अङ्गैः सहैव जनितं मम देहरक्षा देवासुरैरपि न भेद्यमिदं सहास्त्रैः । देयं तथापि कवचं सह कुण्डलाभ्यां प्रीत्या मया भगवते रुचितं यदि स्यात् ॥ २१ ॥ शक्रः- ( सहर्षम् । ) देदु, देदु । [ ददातु ददातु । ] कर्णः - ( आत्मगतम् ) एष एवास्य कामः । किं नु खल्वनेककपट- बुद्धेः कृष्णस्योपायः । सोऽपि भवतु । धिगयुक्तमनुशोचितुम् । नास्ति संशयः । ( प्रकाशम् ) गृह्यताम् । शल्यः -- अङ्गराज ! न दातव्यं न दातव्यम् । कर्णः - शल्यराज ! अलमलं वारयितुम् । पश्य शिक्षा क्षयं गच्छति कालपर्ययात् सुबद्धमूला निपतन्ति पादपाः । जलं जलस्थानगतं च शुष्यति हुतं च दत्तं च तथैव तिष्ठति ॥ २२ ॥ तस्मात् गृह्यताम् । ( निकृत्य ददाति । ) शक्रः-( गृहीत्वा आत्मगतम् । ) हन्त गृहीते एते । पूर्वमेवा(हम?)- र्जुनविजयार्थं सर्वदेवैर्यत् समर्थितं तदिदानीं मयानुष्ठितम् । तस्मा- दहमप्यैरावतमारुह्यार्जुनकर्णयोर्द्वन्द्वयुद्धं पश्यामि । (निष्क्रान्तः । ) शल्यः -- भो अङ्गराज ! वञ्चितः खलु भवान् । कर्णः - केन । शल्य:-- शक्रेण । कर्णः-न खलु । शक्रः खलु मया वञ्चितः । कुतः, अनेकयज्ञाहुतितर्पितो द्विजैः किरीटिमान् दानवसंघमर्दनः सुरद्विपाम्फालनकर्कशाङ्गुलि- र्मया कृतार्थः खलु पाकशासनः ॥ २३ ॥ [^१] भगवतो । ( प्रविश्य ब्राह्मणरूपेण ) देवदूतः -भोः कर्ण ! कवचकुण्डलग्रहणाज्जनितपश्चात्तापेन पुरंदरे- णानुगृहीतोऽसि । पाण्डवेष्वेकपुरुषवधार्थममोघमस्त्रं विमला नाम शक्तिरियं प्रतिगृह्यताम् । कर्णः - धिग्, दत्तस्य न प्रतिगृह्णामि । देवदूतः - ननु ब्राह्मणवचनाद् गृह्यताम् । कर्णः - ब्राह्मणवचनमिति । न मयातिक्रान्तपूर्वम् । कदा लभेय । देवदूतः - यदा स्मरसि तदा लभस्व । कर्णः - बाढम् । अनुगृहीतोस्मि । प्रतिनिवर्ततां भवान् । देवदूत: - बाढम् । ( निष्क्रान्तः । ) कर्णः - शल्यराज ! यावद्रथमारोहावः । शल्यः- बाढम् । ( रथारोहणं नाटयतः । ) कर्णः - अये शब्द इव श्रूयते । किं नु खल्विदम् शङ्खध्वनिः प्रलयसागरघोषतुल्यः कृष्णस्य वा न तु भवेत्स तु फाल्गुनस्य नूनं युधिष्ठिरपराजयकोपितात्मा पार्थः करिष्यति यथाबलमद्य युद्धम् ॥ २४ ॥ शल्यराज ! यत्रासावर्जुनस्तत्रैव चोद्यतां मम रथः । शल्यः -- बाढम् । ( भरतवाक्यम् ) सर्वत्र सम्पदः सन्तु नश्यन्तु विपदः सदा । राजा राजगुणोपेतो भूमिमेकः प्रशास्तु नः ॥ २५ ॥ ( निष्क्रान्तौ । ) कर्णभारमवसितम् । ॥ श्रीः ॥ भासनाटकचक्रे ऊरुभङ्गम्। (नान्द्यन्ते ततः प्रविशति सूत्रधारः । ) सूत्रधारः- भीष्मद्रोणतटां जयद्रथजलां गान्धारराजहृदां कर्णद्रौणिकृपोर्मिनक्रमकरां दुर्योधनस्रोतसं । तीर्णः शत्रुनदीं शरासिसिकतां येन प्लवेनार्जुनः शत्रूणां तरणेषु वः स भगवानस्तु वः केशवः ॥ १ ॥ एवमार्यमिश्रान्विज्ञापयामि । अये, किन्नुखलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते । अङ्ग ! पश्यामि । ( नेपथ्ये ) एते स्मो भोः ! एते स्मः । सूत्रधारः - भवतु, विज्ञातम् । ( प्रविश्य ) पारिपार्श्विकः- भाव कुतो नु खल्वेते, स्वर्गार्थमाहवमुखोद्यतगात्रहोमा नाराचतोमरशतैर्विषमीकृताङ्गाः । मत्तद्विपेन्द्रदशनोल्लिखितैः शरीरै- रन्योन्यवीर्यनिकषाः पुरुषा भ्रमन्ति ॥ २ ॥ सूत्रधारः - मार्ष ! किं नावगच्छसि । तनयशतनयनशून्ये दुर्योधनाव- शेषे धृतराष्ट्रपक्षे, पाण्डवजनार्दनावशेषे युधिष्ठिरपक्षे, राज्ञां शरीर- समाकीर्णे समन्तपञ्चके, [^१] शरास० । [^२] देहा । [^३] नयशून्ये । एतद्रणं हतगजाश्वनरेन्द्रयोधं संकीर्णलेख्यमिव चित्रपटं प्रविद्धम् । युद्धे वृकोदरसुयोधनयोः प्रवृत्ते यौधा नरेन्द्रनिधनैकगृहं प्रविष्टाः ॥ ३ ॥ ( निष्क्रान्ती ) स्थापना ( ततः प्रविशति भटास्त्रयः । ) सर्वे - एते स्मो भोः ! एते स्मः । प्रथमः - वैरस्यायतनं बलस्य निकषं मानप्रतिष्ठागृहं युद्धेष्वप्सरसां स्वयंवरसभां शौर्यप्रतिष्ठां नृणाम् । राज्ञां पश्चिमकालवीरशयनं प्राणाग्निहोमक्रतुं संप्राप्ता रणसंज्ञमाश्रमपदं राज्ञां नभःसंक्रमम् ॥ ४ ॥ द्वितीयः - सम्यग्भवानाह । उपलविषमा नागेन्द्राणां शरीरधराधरा दिशि दिशि कृता गृध्रावासा हतातिरथा रथाः । अवनिपतयः स्वर्गं प्राप्ताः क्रियामरणे रणे प्रतिमुखमिमे तत्तत्कृत्वा चिरं निहताहताः ॥ ५ ॥ तृतीयः - एवमेतन् । करिवरकरयूपो बाणविन्यस्तदर्भो हतगजचयनोच्चो वैरवह्निप्रदीप्तः । ध्वजविततवितानः सिंहनादोच्चमन्त्रः पतितपशुमनुष्यः संस्थितो युद्धयज्ञः ॥ ६ ॥ [^१] एतद्रणाहतगजा० । [^२] विमानः । प्रथमः- इदमपरं पश्येतां भवन्तौ । एते परस्परशरैर्हृतजीवितानां देहै रणाजिरमहीं समुपाश्रितानाम् । कुर्वन्ति चात्र पिशितार्द्रमुखा विहङ्गा राज्ञां शरीरशिथिलानि विभूषणानि ॥ ७ ॥ द्वितीय:- प्रसक्तनाराचनिपातपातितः समग्रयुद्धोद्यतकल्पितो गजः । विशीर्णवर्मा सशरः सकार्मुको नृपायुधागारमिवावसीदति ॥८॥ तृतीयः - इदमपरं पश्येतां भवन्तौ । माल्यैर्ध्वजाग्रपतितैः कृतमुण्डमालं लग्नैकसायकवरं रथिनं विपन्नम् । जामातरं प्रवहणादिव बन्धुनार्यो हृष्टाः शिवा रथमुखादवतारयन्ति ॥ ९ ॥ सर्वे - अहोतुखलु निहतपतितगजतुरगनररुधिरकलिलभूमिप्रदेशस्य विक्षिप्तवर्मचर्मातपत्रचामरतोमरशरकुन्तकवचकबन्धादिपर्याकुलस्य शक्तिप्रासपरशुभिण्डिपालशूलमुसलमुद्गरवराहकर्णकणयकर्पणशङ्कु- त्रासिगदादिभिरायुधैरवकीर्णस्य समन्तपञ्चकस्य प्रतिभयता । प्रथमः- इह हि, रुधिरसरितो निस्तीर्यन्ते हतद्विपसंक्रमा नृपतिरहितैः स्रस्तैः सूतैर्वहन्ति रथान् हयाः । पतितशिरसः पूर्वाभ्यासाद् द्रवन्ति कबन्धकाः पुरुषरहिता मत्ता नागा भ्रमन्ति यतस्ततः ॥ १० ॥ [^१] हाटक० । द्वितीयः- इदमपरं पश्येतां भवन्तौ । एते, गृध्रा मधूकमुकुलोन्नतपिङ्गलाक्षा दैत्येन्द्रकुञ्जरनताङ्कुशतीक्ष्णतुण्डाः । भान्त्यम्बरे विततलम्बविकीर्णपक्षा मांसैः प्रवालरचिता इव तालवृन्ताः ॥ ११ ॥ तृतीयः - एषा निरस्तहयनागनरेद्रयोधाः व्यक्तीकृता दिनकरोग्रकरैः समन्तात् । नाराचकुन्तशरतोमरखड्गकीर्णा तारागणं पतितमुद्वहतीव भूमिः ॥ १२ ॥ प्रथमः- अहो ईदृश्यामप्यवस्थायामविमुक्तशोभा विराजन्ते क्षत्रियाः । इह हि, स्रस्तोद्वर्तितनेत्रषट्पदगणा ताम्रोष्ठपत्रोत्करा भ्रूभेदाञ्चितकेसरा स्वमुकुटव्याविद्धसंवर्तिका । वीर्यादित्यविबोधिता रणमुखे नाराचनालोन्नता विष्कम्पा स्थलपद्मिनीव रचिता राज्ञामभीतैर्मुखैः ॥ १३ ॥ द्वितीय: - ईदृशानामपि क्षत्रियाणां मृत्युः प्रभवतीति न शक्यं खलु विषमस्थैः पुरुषैरात्मबलाधानं कर्तुम् । तृतीयः - मृत्युरेव प्रभवति क्षत्रियाणामिति । प्रथमः-कः संशयः । द्वितीय:- मा मा भवानेवम् । स्पृष्ट्वा खाण्डवधूमरञ्जितगुणं संशप्तकोत्सादनं स्वर्गानन्दहरं निवातकवचप्राणोपहारं धनुः । पार्थेनास्त्रबलान्महेश्वररणक्षेपावशिष्टैः शरै- र्दर्पोत्सिक्तवशा नृपा रणमुखे मृत्योः प्रतिग्राहिताः ॥ १४ ॥ सर्वे - अये शब्दः । किं मेघा निनदन्ति वज्रपतनैश्चूर्णीकृताः पर्वता निर्घातैस्तुमुलस्वनप्रतिभयैः किं दार्यते वा मही । किं मुञ्चत्यनिलावधूतचपलक्षुब्धोर्मिमालाकुलं शब्दं मन्दरकन्दरोदरदरीः संहत्य वा सागरः ॥ १५ ॥ भवतु, पश्यामस्तावत् । ( सर्वे परिक्रामन्ति । ) प्रथमः- अये एतत्खलु द्रौपदीकेशधर्षणावमर्षितस्य पाण्डवमध्यमस्य भीमसेनस्य भ्रातृशतवधक्रुद्धस्य महाराजदुर्योधनस्य च द्वैपायन- हलायुधकृष्णविदुरप्रमुखानां कुरुयदुकुलदैवतानां प्रत्यक्षं प्रवृत्तं गदायुद्धम् । द्वितीय:- भीमस्योरसि चारुकांचनारीलापीने प्रतिस्फालिते भिन्ने वासवहस्तिहस्तकठिने दुर्योधनांसस्थले । अन्योन्यस्य भुजद्वयान्तरतटेष्वासज्यमानायुधे यस्मिंश्चण्डगदाभिघातजनितः शब्दः समुत्तिष्ठति ॥ १६ ॥ तृतीय: - एष महाराजः, शीर्षोत्कंपनवल्गमानमकुटः क्रोधाग्निकाक्षाननः स्थानाक्रामणवामनीकृततनुः प्रत्यग्रहस्तोच्छ्रयः । यस्यैषा रिपुशोणितार्द्रकलिला भात्यग्रहस्ते गदा कैलासस्य गिरेरिवाग्ररचिता सोल्का महेन्द्राशनिः ॥ १७ ॥ प्रथम : - एष संप्रहाररुधिरसिक्ताङ्गस्तावद्दश्यतां पाण्डवः । निर्भिन्नाप्ग्रललाटवान्तरुधिरो भग्नांसकूटद्वयः सान्द्रैर्निर्गलितप्रहाररुधिरैराद्रीकृतोरःस्थलः । [^१] शिष्टो० । [^२] क्रोधाधि० । भीमो भाति गदाभिघातरुधिरक्लिन्नावगाढव्रणः शैलो मेरुरिवैष धातुसलिलासारोपदिग्धोपलः ॥ १८ ॥ द्वितीयः - भीमां गदां क्षिपति गर्जति वल्गमानः शीघ्रं भुजं हरति तस्य कृतं भिनत्ति । चारीं गतिं प्रचरति प्रहरत्यभीक्ष्णं शिक्षान्वितो नरपतिर्बलवांस्तु भीमः ॥ १९ ॥ तृतीय:- एष वृकोदरः, शिरसि गुरुनिखातस्रस्तरक्तार्द्रगात्रो धरणिधरनिकाशः संयुगेष्वप्रमेयः । प्रविशति गिरिराजो मेदिनीं वज्रदग्धः शिथिलविसृतधातुर्हेमकूटो यथाद्रिः ॥ २० ॥ प्रथमः- एष गाढप्रहारशिथिलीकृताङ्गं निपतन्तं भीमसेनं दृष्ट्वा, एकाग्रांगुलिधारितोन्नतमुखो व्यासः स्थितो विस्मितः द्वितीय:- दैन्यं याति युधिष्ठिरोऽत्र विदुरो बाष्पाकुलाक्षः स्थितः । तृतीय:- स्पृष्टं गाण्डिवमर्जुनेन गगनं कृष्णः समुद्वीक्षते सर्वे- शिष्यप्रीततया हलं भ्रमयते रामो रणप्रेक्षकः ॥ २१ ॥ प्रथमः- एष महाराजः, वीर्यालयो विविधरत्नविचित्रमौलि- र्युक्तोऽभिमानविनयद्युतिसाहसैश्च । [^१] संशिक्षितो । [^२] प्रीतितया । वाक्यं वदत्युपहसन्न तु भीम ! दीनं वीरो निहन्ति समरेषु भयं त्यजेति ॥ २२ ॥ द्वितीयः - एष इदानीमपहास्यमानं भीमसेनं दृष्ट्वा स्वमूरुमभिहत्य कामपि संज्ञां प्रयच्छति जनार्दनः । तृतीयः- एष संज्ञया समाश्वासितो मारुतिः, संहृत्य भ्रुकुटीललाटविवरे स्वेदं करेणाक्षिपन् बाहुभ्यां परिगृह्य भीमवदनश्चित्राङ्गदां स्वां गदाम् । पुत्रं दीनमुदीक्ष्य सर्वगतिना लब्ध्वेव दत्तं बलं गर्जन सिंहवृषेक्षणः क्षितितलाद्भूयः समुत्तिष्ठति ॥२३॥ प्रथमः- हन्त पुनः प्रवृत्तं गदायुद्धम् । अनेन हि, भूमौ पाणितले निघृष्य तरसा बाहू प्रमृज्याधिकं सन्दष्टोष्ठपुटेन विक्रमबलात् क्रोधाधिकं गर्जता । त्यक्त्वा धर्मघृणां विहाय समयं कृष्णस्य संज्ञासमं गान्धारीतनयस्य पाण्डुतनयेनोर्वोर्विमुक्ता गदा ॥ २४ ॥ सर्वे- हा धिक् पतितो महाराजः । तृतीयः - एष रुधिरपतनद्योतिताङ्गं निपतन्तं कुरुराजं दृष्ट्वा खमुत्पतितो भगवान् द्वैपायनः । य एषः, मालासंवृतलोचनेन हलिना नेत्रोपरोधः कृतः दृष्ट्वा क्रोधनिमीलितं हलधरं दुर्योधनापेक्षया । संभ्रान्तैः करपञ्जरान्तरगतो द्वैपायनज्ञापितो भीमः कृष्णभुजावलंबितगतिर्निर्वाह्यते पाण्डवैः ॥ २५ ॥ प्रथमः-अये अयमप्यमर्षोन्मीलितरभसलोचनो भीमसेनापक्रमण- मुद्वीक्षमाणः इत एवाभिवर्तते भगवान् हलायुधः । य एषः, [^१] हेला० । चलविलुलितमौलिः क्रोधताम्रायताक्षो भ्रमरमुखविदष्टां किंचिदुत्कृष्य मालाम् । असिततनुविलम्बिस्रस्तवस्त्रानुकर्षी क्षितितलमवतीर्णः पारिवेषीव चन्द्रः ॥ २६ ॥ द्वितीयः - तदागम्यतां वयमपि तावन्महाराजस्य प्रत्यनन्तरीभवामः । उभौ - बाढम् । प्रथमः कल्पः । ( निष्कान्ताः । ) विष्कम्भकः । ( ततः प्रविशति बलदेवः । ) बलदेवः - भो भोः पार्थिवाः ! न युक्तमिदम् । मम रिपुबलकालं लाङ्गलं लङ्घयित्वा रणकृतमतिसंधिं मां च नावेक्ष्य दर्पान् । रणशिरसि गदां तां तेन दुर्योधनोर्वोः कुलविनयसमृध्या पातितः पातयित्वा ॥ २७ ॥ भो दुर्योधन ! मुहूर्तं तावदात्मा धार्यताम् । सौमोच्छिष्टमुखं महासुरपुरप्राकारकूटाङ्कुशं कालिन्दीजलदेशिकं रिपुबलप्राणोपहारार्चितम् । हस्तोत्क्षिप्तहलं करोमि रुधिरस्वेदार्द्रपंकोत्तरं भीमस्योरसि यादवद्य विपुले केदारमार्गाकुलम् ॥ २८ ॥ ( नेपथ्ये ) प्रसीदतु प्रसीदतु भगवान् हलायुधः । बलदेवः - अये एवंगतोऽप्यनुगच्छति मां तपस्वी दुर्योधनः । य एषः, श्रीमान् संयुगचन्दनेन रुधिरेणार्द्रानुलिप्तच्छवि- र्भूसंसर्पणरेणुपाटलभुजो बालव्रतं ग्राहितः । [^१] प्रचलललित॰ । निर्वृत्तेऽमृतमन्थने क्षितिधरान्मुक्तः सुरैः सामुरै- राकर्षन्निव भोगमर्णवजले श्रान्तोज्झितो वासुकिः ॥ २९ ॥ ( ततः प्रविशति भग्नोरुयुगलो दुर्योधनः । ) दुर्योधनः- एष भोः ! भीमेन भित्वा समयव्यवस्थां गदाभिघातक्षतजर्जरोरुः । भूमौ भुजाभ्यां परिकृष्यमाणं स्वं देहमर्धोपरतं वहामि ॥ ३० ॥ प्रसीदतु प्रसीदतु भगवान हलायुधः । त्वत्पादयोर्निपतितं पतितस्य भूमा- वेतच्छिरः प्रथममद्य विमुञ्च रोषम् । जीवन्तु ते कुरुकुलस्य निवापमेघा वैरं च विग्रहकथाश्च वयं च नष्टाः ॥ ३१ ॥ बलदेवः - भोः दुर्योधन ! मुहूर्तं तावदात्मा धार्यताम् । दुर्योधनः- किं भवान्करिष्यति । बलदेवः - भो श्रूयताम्, आक्षिप्तलाङ्गलमुखोल्लिखितैः शरीरै- निर्दारितांसहृदयान्मुसलप्रहारैः । दास्यामि संयुगहतान्सरथाश्वनागान् स्वर्गानुयात्रपुरुषांस्तव पाण्डुपुत्रान् ॥ ३२ ॥ दुर्योधनः- मा मा भवानेवम् । प्रतिज्ञावसिते भीमे गते भ्रातृशते दिवम् । मयि चैवं गते राम ! विग्रहः किं करिष्यति ॥ ३३ ॥ बलदेवः - मत्प्रत्यक्षं वञ्चितो भवानित्युत्पन्नो मे रोषः । दुर्योधनः- वञ्चित इति मां भवान् मन्यते । बलदेवः - कः संशयः । दुर्योधनः- हन्त भोः ! दत्तमूल्या इव मे प्राणाः । कुतः आदीप्तानलदारुणाज्जतुगृहाद्बुध्यात्मनिर्वाहिणा युद्धे वैश्रवणालयेऽचलशिलावेगप्रतिस्फालिना । भीमेनाद्य हिडिंबराक्षसपतिप्राणप्रतिग्राहिणा यद्येवं समवैषि मां छलजितं भो राम ! नाहं जितः ॥३४॥ बलदेवः - भीमसेन इदानीं तव युद्धवञ्चनामुत्पाद्य स्थास्यति । दुर्योधनः- किं चाहं भीमसेनेन वञ्चितः । बलदेवः - अथ केन भवानेवंविधः कृतः । दुर्योधनः- श्रूयताम् , येनेन्द्रस्य स पारिजातकतरुर्मानेन तुल्यं हृतो दिव्यं वर्षसहस्रमर्णवजले सुप्तश्च यो लीलया । तीव्रां भीमगदां प्रविश्य सहसा निर्व्याजयुद्धप्रिय- स्तेनाहं जगतः प्रियेण हरिणा मृत्योः प्रतिग्राहितः ॥ ३५ ॥ ( नेपथ्ये ) उस्सरह उस्सरह अय्या ! उस्सरह । [ उत्सरतोत्सरतार्याः ! उत्सरत । ] बलदेव:-( विलोक्य) अये अयमत्रभवान् धृतराष्ट्रः गान्धारी च दुर्जयेनादेशितमार्गोऽन्तःपुरानुबन्धः शोकाभिभूतहृदयश्चकितगति- रित एवाभिवर्तते । य एषः, वीर्याकरः सुतशतप्रविभक्तचक्षु- र्दर्पोद्यतः कनकयूपविलम्बबाहुः । सृष्टो ध्रुवं त्रिदिवरक्षणजातशंकै- र्देवैररातितिमिराञ्जलिताडिताक्षः ॥ ३६ ॥ [^१] परित्राण ० । ( ततः प्रविशति धृतराष्ट्र गान्धारी देव्यौ दुर्जयश्च । ) धृतराष्ट्रः - पुत्र क्कासि । गान्धारी - पुत्तअ ! कहिं सि । [ पुत्रक ! क्वासि । ] देव्यौ - महाराअ ! कहिं सि । [ महाराज ! क्वासि । ] धृतराष्ट्रः - भोः ! कष्टम् । वञ्चनानिहतं श्रुत्वा सुतमद्याहवे मम । मुखमन्तर्गतास्राक्षमन्धमन्धतरं कृतम् ॥ ३७ ॥ गान्धारि ! किं धरसे । गान्धारी - जीवाविद म्हि मन्दभाआ । [ जीवितास्मि मन्दभागा । ] देव्यौ - महाराअ ! महाराअ ! [ महाराज ! महाराज ! । ] राजा - भोः ! कष्टम् । यन्ममापि स्त्रियो रुदन्ति । पूर्वं न जानामि गदाभिघात- रुजामिदानीं तु समर्थयामि । यन्मे प्रकाशीकृतमूर्धजानि रणं प्रविष्टान्यवरोधनानि ॥ ३८ ॥ धृतराष्ट्रः - गान्धारि ! किं दृश्यते दुर्योधननामधेयः कुलमानी । गान्धारी - महाराअ ! ण दिस्सदि । [ महाराज ! न दृश्यते । ] धृतराष्ट्रः- कथं न दृश्यते । हन्त भो ! अद्यास्म्यहमन्धो योऽहम- न्वेष्टव्ये काले पुत्रं न पश्यामि । भोः कृतान्तहतक ! रिपुसमरविमर्दं मानवीर्यप्रदीप्तं सुतशतमतिधीरं वीरमुत्पाद्य मानम् । धरणितलविकीर्णं किं स योग्यो न भोक्तुं सकृदपि धृतराष्ट्रः पुत्रदत्तं निवापम् ॥ ३९ ॥ [^१] 'मानी ' इति स्यात् । गान्धारी - जाद सुयोधण ! देहि मे पडिवअणं । पुत्तसदविणास- दुत्थिदं समस्सासेहि महाराअं । [ जात सुयोधन ! देहि मे प्रति- ३ वचनम् । पुत्रशतविनाशदुःस्थितं समाश्वासय महाराजम् । ] बलदेवः - अये ! इयमत्रभवती गान्धारी । या पुत्रपौत्रवदनेष्वकुतूहलाक्षी दुर्योधनास्तमितशोकनिपीतधैर्या । अस्त्रैरजस्रमधुना पतिधर्मचिह्न- माद्रीकृतं नयनबन्धमिदं दधाति ॥ ४० ॥ धृतराष्ट्रः- पुत्र दुर्योधन ! अष्टादशाक्षौहिणीमहाराज ! कासि । राजा - अद्यास्मि महाराजः । धृतराष्ट्र : - एहि पुत्रशतज्येष्ठ ! देहि मे प्रतिवचनम् । राजा - ददामि खलु प्रतिवचनम् । अनेन वृत्तान्तेन व्रीलितोऽस्मि । धृतराष्ट्रः - एहि पुत्र ! अभिवादयस्व माम् । राजा - अयमयमागच्छामि । ( उत्थानं रूपयित्वा पतति ) हा धिक् ! अयं मे द्वितीयः प्रहारः । कष्टं भोः ! हृतं मे भीमसेनेन गदापातकचग्रहे । सममूरुद्वयेनाद्य गुरोः पादाभिवन्दनम् ॥ ४१ ॥ गान्धारी - एत्थ जादा ! । [ अत्र जाते ! ] देव्यौ - अय्ये ! इमा म्ह । [ आयें ! इमे स्व: । ] गान्धारी - अण्णेसह भत्तारं । [ अन्वेषेथां भर्तारम् । ] देव्यौ - गच्छाम मन्दभाआ [ गच्छावः मन्दभागे । ] धृतराष्ट्रः - क एष भो ! मम वस्त्रान्तमाकर्षन् मार्गमादेशयति । दुर्जय:- ताद ! अहं दुज्जओ । [ तात ! अहं दुर्जय: । ] धृतराष्ट्रः - पौत्र दुर्जय ! पितरमन्विच्छ । दुर्जयः - ताद ! परिस्संतो खु अहं । [तात ! परिश्रान्तः खल्वहम् । ] धृतराष्ट्रः- गच्छ पितुरङ्के विश्रमस्व । दुर्जयः - ताद ! अहं गच्छामि । ( उपसृत्य ) ताद ! कहिं सि [ तात ! अहं गच्छामि । तात क्वासि । ] राजा–अयमप्यागतः । भोः ! सर्वावस्थायां हृदयसंनिहितः पुत्र- स्नेहो मां दहति । कुतः, दुःखानामनभिज्ञो यो ममाङ्कशयनोचितः । निर्जितं दुर्जयो दृष्ट्वा किन्नु मामभिधास्यति ॥ ४२ ॥ दुर्जयः - अअं महाराओ भूमीए उवविट्ठो । [ अयं महाराजो भूम्या- पविष्टः । ] राजा - पुत्र किमर्थमिहागतः । दुर्जयः - तुवं चिरायसि त्ति । [ त्वं चिरायसीति । ] राजा- अहो अस्यामवस्थायामपि पुत्रस्नेहो हृदयं दहति । दुर्जयः - अहं पि खु दे अङ्के उवविसामि । ( अङ्कमारोहति ) [ अह- मपि खलु ते अङ्के उपविशामि । ] राजा - (निवार्य ) दुर्जय ! दुर्जय ! भोः ! कष्टम् । हृदयप्रीतिजननो यो मे नेत्रोत्सवः स्वयम् सोऽयं कालविपर्यासाञ्चन्द्रो वह्नित्वमागतः ॥ ४३ ॥ दुर्जयः - अङ्के उववेसं किण्णिमित्तं तुवं वारोस । [ अङ्क उपवेशं किनिमित्तं त्वं वारयसि । ] राजा- त्यक्त्वा परिचितं पुत्र ! यत्र यत्र त्वयास्यताम् । अद्यप्रभृति नास्तीदं पूर्वभुक्तं तवासनम् ॥ ४४ ॥ दुर्जयः - कहिहु महाराओ गमिस्सिदि । [ कुन नु खलु महाराजो गमिष्यति । ] राजा - भ्रातृशतमनुगच्छामि । दुर्जय:- मं पितहि हि । [ मामपि तत्र नय । ] राजा - गच्छ पुत्र ! एवं वृकोदरं ब्रूहि । दुर्जय: - एहि महाराअ ! अण्णेसीअसि । [ एहि महाराज ! अन्विष्यसे । ] राजा - पुत्र केन । दुर्जय:- अय्याए अय्येण सव्वेण अन्तेउरेण अ । [ आर्ययार्येण सर्वेणान्तःपुरेण च । ] राजा - गच्छ पुत्र ! नाहमागन्तुं समर्थः । दुर्जयः - अहं तुमं णइस्सं । [ अहं त्वां नेष्यामि । ] राजा - बालस्तावदसि पुत्र ! । दुर्जयः - ( परिक्रम्य ) अय्या ! अअं महाराओ । [ आर्याः ! अयं महाराज: । ] देव्यौ - हा हा ! महाराओ । [ हा हा ! महाराज: । ] धृतराष्ट्रः- क्वासौ महाराजः । गान्धारी - कहिं मे पुत्तओ । [ कुत्र मे पुत्रकः । ] दुर्जयः - अअं महाराओ भूमीए उवविट्ठो । [ अयं महाराजो भूम्यामुपविष्टः । ] धृतराष्ट्रः- हन्त भोः ! किमयं महाराजः । यः काञ्चनस्तम्भसमप्रमाणो लोके किलैको वसुधाधिपेन्द्रः । कृतः स मे भूमिगतस्तपस्वी द्वारेन्द्रकीलार्धसमप्रमाणः ॥ ४५ ॥ गान्धारी - जाद सुयोधण ! परिस्संतोसि । [ जात सुयोधन ! परि- श्रान्तोऽसि । ] राजा - भवत्याः खल्वहं पुत्रः । धृतराष्ट्रः - केयं भोः ! । गान्धारी - महाराअ ! अहमभीदपुत्तप्पसविणी । [ महाराज ! अहमभीतपुत्रप्रसविनी । ] राजा - अद्योत्पन्नमिवात्मानमवगच्छामि । भोस्तात किमिदानीं वैक्लव्येन । धृतराष्ट्रः - पुत्र कथमविक्लवो भविष्यामि । यस्य वीर्यबलोत्सिक्तं संयुगाध्वरदीक्षितम् । पूर्वं भ्रातृशतं नष्टं त्वय्येकस्मिन्हते हतम् ॥ ४६ ॥ ( पतति । ) राजा - हा धिक् । पतितोऽत्रभवान् । तात ! समाश्वासयात्र- भवतीम् । धृतराष्ट्र: - पुत्र ! किमिति समाश्वासयामि । राजा - अपराङ्मुखो युधि हत इति । भोस्तात ! शोकनिग्रहेण क्रियतां ममानुग्रहः । त्वत्पादमात्रप्रणताप्रमौलिर्ज्वलन्तमप्यग्निमचिन्तयित्वा । येनैव मानेन समं प्रसूतस्तेनैव मानेन दिवं प्रयामि ॥ ४७ ॥ धृतराष्ट्रः- वृद्धस्य मे जीवितनिःस्पृहस्य निसर्गसंमीलितलोचनस्य । धृतिं निगृह्यात्मनि संप्रवृत्तस्तीत्रस्समाक्रामति पुत्रशोकः ॥ ४८ ॥ बलदेवः - भोः ! कष्टम् । दुर्योधननिराशस्य नित्यास्तमितचक्षुषः । न शक्नोम्यत्रभवतः कर्तुमात्मनिवेदनम् ॥ ४९ ॥ राजा - विज्ञापयाम्यत्रभवतीम् । गान्धारी - भणाहि जाद ! । [ भण जात ! ] [^१] कथं विक्लवो । राजा - नमस्कृत्य वदामि त्वां यदि पुण्यं मया कृतम् । अन्यस्यामपि जात्यां मे त्वमेव जननी भव ॥ ५० ॥ गान्धारी - मम मणोरहो खु तुए भणिदो । [ मम मनोरथः खलु स्वया भणित: । ] राजा - मालवि ! त्वमपि शृणु । भिन्ना मे भ्रुकुटी गदानिपतितैर्व्यायुद्धकालोत्थितैः- र्वक्षस्युत्पतितैः प्रहाररुधिरैर्हारावकाशो हृतः । पश्येमौ व्रणकाञ्चनाङ्गदधरौपर्याप्तशोभौ भुजौ भर्ता ते नपराङ्मुखो युधि हतः किं क्षत्रिये ! रोदिषि ॥ ५१ ॥ देवी - बाळा एसा सहधर्मचारिणी रोदामि । [ बाला एषा सहधर्म- चारिणी रोदिमि । ] राजा- पौरवि ! त्वमपि श्रृणु । वेदोक्तैर्विविधैर्मखैरभिमतैरिष्टं धृता बान्धवाः शत्रूणामुपरि स्थितं प्रियशतं न व्यंसिताः संश्रिताः । युद्धेऽष्टादशवाहिनी नृपतयः संतापिता निग्रहे मानं मानिनि ! वीक्ष्य मे न हि रुदन्त्येवंविधानां स्त्रियः ॥ ५२ ॥ पौरवी - एक्ककिदप्पवेसणिचआ ण रोदामि । [ एककृतप्रवेशनिश्चया न रोदिमि । ] राजा - दुर्जय ! त्वमपि श्रुणु । धृतराष्ट्रः - गान्धारि ! किं नु खलु वक्ष्यति । गान्धारी - अहं पितं एव्व चिन्तेभि । [ अहमपि तदेव चिन्तयामि । ] राजा - अहमिव पाण्डवाः शुश्रूषयितव्याः, तत्रभवत्याश्वांबायाः कुन्त्या निदेशो वर्तयितव्यः । अभिमन्योर्जननी द्रौपदी चोभे मातृ- वत्पूजयितव्ये । पश्य पुत्र ! श्लाघ्यश्रीरभिमानदीप्तहृदयो दुर्योधनो मे पिता तुल्येनाभिमुखं रणे हत इति त्वं शोकमेवं त्यज । स्पृष्ट्रा चैव युधिष्ठिरस्य विपुलं क्षौमापसत्र्यं भुजं देयं पाण्डुसुतैस्त्वया मम समं नामावसाने जलम् ॥ ५३ ॥ बलदेवः - अहो वैरं पश्चात्तापः संवृत्तः । अये शब्द इव । सन्नाहदुन्दुभिनिनाद वियोगमूके विक्षिप्तबाणकवचव्यजनातपत्रे । तस्यैष कार्मुकरवो हतसूतयोधे विभ्रान्तवायसगणं गगनं करोति ॥ ५४ ॥ ( नेपथ्ये ) दुर्योधनेनाततकार्मुकेण यो युद्धयज्ञः सहितः प्रविष्टः । तमेव भूयः प्रविशामि शून्यमध्वर्युणा वृत्तमिवाश्वमेधम् ॥ ५५ ॥ बलदेवः - अये अयं गुरुपुत्रोऽश्वत्थामेत एवाभिवर्तते । य एषः, स्फुटितकमलपत्रस्पष्टविस्तीर्णदृष्टी रुचिरकनकयूपव्यायतालम्बबाहुः । सरभसमयमुग्रं कार्मुकं कर्षमाणः सदहन इव मेरुः शृङ्गलग्नेन्द्रचापः ॥ ५६ ॥ ( ततः प्रविशत्यश्वत्थामा । ) अश्वत्थामा - ( पूर्वोक्तमेव पठित्वा ) भो भोः ! समरसंरम्भोभयबल- जलधिसङ्गमसमयसमुत्थितशस्त्रनक्रकृत्तविग्रहाः स्तोकावशेषश्वासा- नुबद्धमन्दप्राणाः समरश्लाघिनो राजानः ! शृण्वन्तु शृण्वन्तु भवन्तः । छलबलदलितोरुः कौरवेन्द्रो न चाहं शिथिलविफलशस्त्रः सूतपुत्रो न चाहम् । [^१] प्रविशाम्य शून्य ० । इह तु विजयभूमौ द्रष्टुमद्योद्यतास्त्रः सरभसमहमेको द्रोणपुत्रः स्थितोऽस्मि ॥ ५७ ॥ किमनया ममाप्यप्रतिलाभविजयश्लाघया समरश्रिया । ( परिक्रम्य ) मा तावन् । मयि गुरुनिवपनव्यग्रे वञ्चितः किल कुरुकुलतिलक- भूतः कुरुराजः । के एतच्छ्रद्धास्यति । कुतः, उद्यत्प्राञ्जलयो रथद्विपगताञ्चापद्वितीयैः करै- र्यस्यैकादशवाहिनीनृपतयस्तिष्ठन्ति वाक्योन्मुखाः । भीष्मो रामशरावलीढकवचस्तातश्च योद्धा रणे व्यक्तं निर्जित एव सोऽप्यतिरथः कालेन दुर्योधनः ॥ ५८ ॥ तत् क्वनु खलु गतो गान्धारीपुत्रः । ( परिक्रम्यावलोक्य) अये अयमभिहतगजतुरगनररथप्राकारमध्यगतः समरपयोधिपारगः कुमराजः । य एषः, मौलीनिपातचलकेशमयूखजालै- र्गात्रैर्गदानिपतनक्षतशोणितार्द्रैः । भात्यस्तमस्तकशिलातलसंनिविष्टः सन्ध्यावगाढ इव पश्चिमकालसूर्यः ॥ ५९ ॥ ( उपसृत्य ) भोः कुरुराज ! किमिदम् । राजा - गुरुपुत्र ! फलमपरितोषस्य । अश्वत्थामा-भोः कुरुराज ! सत्कारमूलमावर्जयिष्यामि राजा-किं भवान् करिष्यति । अश्वत्थामा- श्रूयताम् । युद्धोद्यतं गरुडपृष्ठनिविष्टदेहं स्पष्टाष्टभीमभुजमुद्यतशार्ङ्गचक्रम् । [^१] यात्य । कृष्णं सपाण्डुतनयं युधि शस्त्रजालैः संकीर्णलेख्यमिव चित्रपटं क्षिपामि ॥ ६० ॥ राजा - मा मा भवानेवम् । गतं धात्र्युत्संगे सकलमभिषिक्तं नृपकुलं गतः कर्णः स्वर्गं निपतिततनुः शन्तनुसुतः । गतं भ्रातॄणां मे शतमभिमुखं संयुगमुखे वयं चैवंभूताः गुरुसुत ! धनुर्मुञ्चतु भवान् ॥ ६१ ॥ अश्वत्थामा - भोः कुरुराज ! संयुगे पाण्डुपुत्रेण गदापातकचग्रहे । सममूरुद्वयेनाद्य दर्पोऽपि भवतो हृतः ॥ ६२ ॥ राजा - मा मैवम् । मानशरीरा राजानः । मानार्थमेव मया निग्रहो गृहीतः । पश्य गुरुपुत्र ! यत्कृष्टा करनिग्रहाञ्चितकचा द्यूते तदा द्रौपदी यद्बालोऽपि हतस्तदा रणमुखे पुत्रोऽभिमन्युः पुनः । अक्षय्याजजिता वनं वनमृगैर्यत्पाण्डवाः संश्रिता नन्वल्पं मयि तैः कृतं विमृश भो ! दर्पाहृतं दीक्षितैः ॥ ६३॥ अश्वत्थामा- सर्वथा कृतप्रतिज्ञोऽस्मि । भवता चात्मना चैव वीरलोकैः शपाम्यहम् । निशासमरमुत्पाद्य रणे धक्ष्यामि पाण्डवान् ॥ ६४ ॥ बलदेवः - एतद्भविष्यत्युदाहृतं गुरुपुत्रेण । अश्वत्थामा- हलायुधोऽत्रभवान् । धृतराष्ट्रः - हन्त ! साक्षिमती खलु वञ्चना । अश्वत्थामा - दुर्जय ! इतस्तावत् । [^१] दर्पव्रतं । पितृविक्रमदायाद्ये राज्ये भुजबलार्जिते । विनाभिषेकं राजा त्वं विप्रोक्तैर्वचनैर्भव ॥ ६५ ॥ राजा - हन्त ! कृतं मे हृदयानुज्ञातम् । परित्यजन्तीव मे प्राणाः । इमेऽत्रभवन्तः शन्तनुप्रभृतयो मे पितृपितामहाः । एतत्कर्णमग्रतः कृत्वा समुत्थितं भ्रातृशतम् । अयमप्यैरावतशिरोविषक्तः काक- पक्षधरो महेन्द्रकरतलमवलम्ब्य क्रुद्धोऽभिभाषते मामभिमन्युः । उर्वश्यादयोऽप्सरसो मामभिगताः । इमे महार्णवा मूर्तिमन्तः । एता गंगाप्रभृतयो महानद्यः । एष सहस्रहंसप्रयुक्तो मां नेतुं वीरवाही विमानः कालेन प्रेषितः । अयमयमागच्छामि । ( स्वर्गं गतः । ) ( यवनिकास्तरणं करोति । ) धृतराष्ट्रः- याम्येष सज्जनधनानि तपोवनानि पुत्रप्रणाशविफलं हि धिगस्तु राज्यम् । अश्वत्थामा-- यातोऽद्य सौप्तिकवधोद्यतबाणपाणिः ( भरतवाक्यम् । ) बलदेवः - गां पातु नो नरपतिः शमितारिपक्षः ॥ ६६ ॥ (निष्क्रान्ताः सर्वे । ) ऊरुभङ्गं नाम नाटकं समाप्तम् ॥ ॥ श्रीः ॥ भासनाटकचक्रे बालचरितम् । ( नान्द्यन्ते ततः प्रविशति सूत्रधारः । ) सूत्रधार :- शङ्खक्षीरवपुः पुरा कृतयुगे नाम्ना तु नारायण- स्त्रेतायां त्रिपदार्पितत्रिभुवनो विष्णुः सुवर्णप्रभः । दूर्वाश्यामनिभः स रावणवधे रामो युगे द्वापरे नित्यं योऽञ्जनसन्निभः कलियुगे वः पातु दामोदरः ॥ १॥ एवमार्यमिश्रान् विज्ञापयामि । अये किन्नुखलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते । अङ्ग ! पश्यामि । ( नेपथ्ये ) अहं गगनसञ्चारी । सूत्रधारः - भवतु, विज्ञातम् । पतत्यसौ पुष्पमयी च वृष्टिर्नदन्ति तूर्याणि च देवतानाम् । द्रष्टुं हरिं वृष्णिकुले प्रसूतमभ्यागतो नारद एष तूर्णम् ॥ २ ॥ ( निष्क्रान्त: : ) स्थापना ( ततः प्रविशति नारदः । ) नारदः- अहं गगनसञ्चारी त्रिषु लोकेषु विश्रुतः । ब्रह्मलोकादिह प्राप्तो नारदः कलहप्रियः ॥ ३ ॥ भोः ! क्षीणेषु देवासुरविग्रहेषु नित्यप्रशान्ते न रमेऽन्तरिक्षे । अहं हि वेदाध्ययनान्तरेषु तन्त्रीश्च वैराणि च घट्टयामि ॥ ४ ॥ अपिच, भक्तिः परा मम पितामहभाषितेषु सर्वाणि मे बहुमतानि तपोवनानि । सत्यं ब्रवीमि करजाग्रहता च वीणा वैराणि भीमकठिनाः कलहाः प्रिया मे ॥ ५ ॥ तद् भगवन्तं लोकादिमनिधनमव्ययं लोकहितार्थे कंसवधार्थं वृष्णिकुले प्रसूतं नारायणं द्रष्टुमिहागतोऽस्मि । अये, इयमत्र- भवती देवकी । मायया शिशुत्वमुपागतं त्रिलोकेश्वरं प्रगृह्य वसु- देवेन सह शनैः स्वगृहान्निष्क्रामति । यैषा, लोकानामभयकरं गुरुं सुराणां दैत्यानां निधनकरं रथाङ्गपाणिम् । शोकार्ता शशिवदना निशि प्रशान्ता बाहुभ्यां गिरिमिव मन्दरं वहन्ती ॥ ६ ॥ एष एप भगवान् नारायणः, अनन्तवीर्यः कमलायताक्षः सुरेन्द्रनाथोऽसुरवीर्यहन्ता । त्रिलोककेतुर्जगतश्च कर्ता भर्ता जनानां पुरुषः पुराणः ॥ ७ ॥ हन्तैतदुत्पन्नं कलहस्य मूलम् । यावदहमपि भगवन्तं नारायणं प्रदक्षिणीकृत्य ब्रह्मलोकमेव यास्यामि । नमो भगवते त्रैलोक्य- कारणाय । [^१] जगतां च कर्ता । नारायणाय नरलोकपरायणाय लोकाननाय कमलामललोचनाय । रामाय रावणविरोचनपातनाय वीराय वीर्यनिलयाय नमो वराय ॥ ८ ॥ ( निष्क्रान्तः । ) (ततः प्रविशति बालहस्ता देवकी । ) देवकी - हद्धि, पुत्तअस्स मे महाणुभावत्तणं सूअइम्सन्दाणि जम्म- समअसमुब्भूदाणि महानिमित्ताणि पच्चक्खीकरअन्ती अवि कंस- हदअणिसंसत्तणं चिन्तअन्ती सुट्ठु ण पञ्चआमि मन्दभाइणी । कहिंणु गदो अय्यउत्तो । (परिक्रम्य अग्रतो विलोक्य) अम्मो, एसो अय्यउत्तो हरिसविम्हअफुळ्ळणअणो इदो एव्व आअच्छदि । [ हा धिक्, पुत्रकस्य मे महानुभावत्वं सूचयिष्यन्ति जन्मसमयसमु- द्भूतानि महानिमित्तानि प्रत्यक्षीकुर्वत्यपि कंसहतकनृशंसत्वं चिन्तयन्ती सुष्ठु न प्रत्येमि मन्दभागिनी । क्वनु गत आर्यपुत्रः । अम्मो, एष आर्य- पुत्री हर्षविस्मयफुल्लनयन इत एवागच्छति । ] ( तत: प्रविशति वसुदेवः । ) वसुदेवः - ( सविमर्शम् ) भोः ! किन्नुखल्विदम् । भ्रमति नभासे विद्युच्चण्डवातानुविद्धै- र्नवजलदनिनादैर्मेदिनी सप्रकम्पा । इह तु जगति नूनं रक्षणार्थं प्रजाना- मसुरममितिहन्ता विष्णुरद्यावतीर्णः ॥ ९ ॥ ( विलोक्य) एषा देवकी, १. रहसि । अगणितपरिखेदा याति षण्णां सुताना- मपचयगमनार्थं सप्तमं रक्षमाणा । बहुगुणकृतलोभा जन्मकाले निमित्तैः सुत इति कृतसंज्ञं कंसमृत्युं वहन्ती ॥ १० ॥ देवकी - ( उपसृत्य ) जेदु अय्यउत्तो । [ जयत्वार्यपुत्रः । ] वसुदेवः- देवकि ! अर्धरात्रः खलु वर्तते । प्रसुप्तो मधुरायां सर्वो जनः । तस्माद् यावन्न कश्चित् पश्यति, तावद् बालं गृहीत्वा- पक्रामामि । देवकी-कहिं अय्यउत्तो इमं णइस्सदि । [ क्वार्यपुत्र इमं नेष्यति । ] वसुदेवः - देवकि ! सत्यं ब्रवीषि । अहमपि न जाने । किन्तु, एकच्छत्रच्छायां पृथिवीं समाज्ञापयति दुरात्मा कंसः । तत् क्वनु खल्वयमायुष्मान् नेतव्यो भविष्यति । अथवा यत्र दैवं विधा- स्यति, तत्र बालं गृहीत्वापक्रामामि । देवकी - अय्यउत्त ! इच्छामि दाव णं सुदिट्ठे कत्तुं । [ आर्यपुत्र ! इच्छामि तावदेनं सुदृष्टं कर्तुम् । ] वसुदेवः - अयि अतिपुत्रवत्सले ! किं द्रष्टव्यः शशाङ्कोऽयं राहोर्वदनमण्डले । त्वयाप्यस्य सुदृष्टस्य कंसो मृत्युर्भविष्यति ॥ ११ ॥ देवकी - सव्वहा ण भविस्सदि । [ सर्वथा न भविष्यति । ] वसुदेवः - यद् भवत्याभिहितं, तत् सर्वदैवतैरभिहितं भवतु । आनय । देवकी - गह्णदु अय्यउत्तो । [ गृह्णात्वार्यपुत्रः । ] वसुदेवः - ( गृहीत्वा ) अहो गुरुत्वं बालस्य । साधु, १. अर्धरात्रं । विन्ध्यमन्दरसारोऽयं बालः पद्मदलेक्षणः । गर्भे यया धृतः श्रीमानहो धैर्यं हि योषितः ॥ १२ ॥ देवकि ! प्रविश त्वमभ्यन्तरम् । देवकी - एसा गच्छामि मन्दमाआ । (निष्क्रान्ता । ) [ एषा गच्छामि मन्दभागा । ] वसुदेव:- एषा देवकी, हृदयेनेह तत्राङ्गैर्द्विधाभूतेव गच्छति । यथा नभसि तोये च चन्द्रलेखा द्विधाकृता ॥ १३ ॥ हन्त प्रविष्टा देवकी । यावदहमपि नगरद्वारं संश्रयामि । एष भोः, प्रथमसुतविनाशजातमन्युर्नृपतिभयाकुलितः प्रगृह्य बालम् । त्वरिततरमिह प्रयामि मार्गे गिरिमिव मन्दरमुद्वहन्भुजाभ्याम् ॥१४॥ ( परिक्रम्य ) इदं नगरद्वारम् । यावत् प्रविशामि । ( प्रविश्य) अये प्रसुप्तो मधुरायां सर्वो जनः । यावदपक्रामामि । ( परिक्रम्य ) निष्क्रान्तोऽस्मि मधुरायाः । अहो बलवांश्चायमन्धकारः । सम्प्रति हि, लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः । असत्पुरुषसेवेव दृष्टिर्निष्फलतां गता ॥ १५ ॥ अहो तमसः प्रभुत्वम् । अप्रकाशा इव दिशो घनीभूता इव द्रुमाः । सुनिविष्टस्य लोकस्य कृतो रूपविपर्ययः ॥ १६ ॥ नाहं गन्तुं समर्थः । अये दीपिकालोकः । किन्नुखलु दुरात्मा कंसो ममापक्रमणं ज्ञात्वा दीपिकाभिः परिवृतो मां ग्रहीतुमागतो भवेत् । भवत्वहमस्य दर्पप्रशमनं करोमि । ( खड्गमुत्कोशयति । निवृत्यावलोक्य) अये न कश्चिद् दृश्यते । आ, तमसा संवृते लोके भम मार्गमपश्यतः । अपक्रमणहेतोस्तु कुमारेण प्रभा कृता ॥ १७ ॥ एष मार्गः । यावदपक्रामामि । अये इयं भगवती यमुना काल- वर्षसम्पूर्णा स्थिता । अहो व्यर्थो मे परिश्रमः । किमिदानीं करिष्ये । भवतु, दृष्टम् । इमां नदीं ग्राहभुजङ्गसङ्कुलां महोर्मिमालां मनसापि दुस्तराम् । भुजप्लवेनाशु गतार्थविक्लवो वहामि सिद्धिं यदि दैवतं स्थितम् ॥ १८ ॥ ( तथा कृत्वा सविस्मयम् ) हन्त द्विधा छिन्नं जलम्, इतः स्थितम्, इतः प्रधावति । दत्तो मे भगवत्या मार्गः । यावदपक्रामामि । (अवतीर्य) निष्क्रान्तोऽस्मि यमुनायाः । अये हुङ्कारशब्द इव श्रूयते । व्यक्तं घोषसमीपे वर्तते मन्दभाग्यः । आ, अत्र च समीपघोषे मम वयस्यो नन्दगोपः प्रतिवसति । स खलु मया कंसाज्ञया निगलितः कशाभिहतश्च । यावत् प्रविशामि । अथवा रात्रौ वसुदेवः प्रविष्ट इति शङ्किता गोपालका भविष्यन्ति । तस्मादिह न्यग्रोधपादपस्याधस्तात् प्रभातवेलां रजन्याः प्रतिपाल- यामि । भो भो न्यग्रोधदेवताः ! यद्ययं बालो लोकहितार्थं कंस - वधार्थं वृष्णिकुले प्रसूतश्चेद्, घोषात् कश्चिदिहागच्छतु । न, न, मम वयस्यो नन्दगोप एवागच्छतु । ( ततः प्रविशति दारिकां गृहीत्वा नन्दगोपः । ) नन्दगोपः - ( सशोकम् ) दाळिए ! दाळिए ! किं दाणि णो गेहळाष्षिं पळमिa तदो णो उज्झिअ णं गच्छषि । षम्पदि हि महिषपद- सम्पादषदिषं अहो बळिअं अन्धआळं । १. लोकहितार्थः । दुद्दिणविणट्ठ जोह्णा ळत्ती बट्टइ णिमीळिकाळा । षम्पाउदप्पपुत्ता णीळणिवषणा जहा गोवी ॥ १९ ॥ अज्ज हि अड्ढळत्ते अम्हाणं कुडुम्बिणीए जषोदाए पषूदा इअं च दाळी तवष्षिणी जादमत्ता एव्व ओग्गदप्पाणा षंवुत्ता । षुवे अम्हाणं घोषष्ष उइदो इन्दयञ्ञो णाम उष्पुवो भविष्षदि । ता मा खु एदं दुक्खं गोवजणेहि अणुहूअमाणं त्ति मए एक्काइणा णिगळगुळचळणेण इमं दाळिअं गह्णिअ णिग्गदो म्हि । जषोदा वि तवष्षिणी णैव जाणादि दाळओ वा दाळिआ वा पषूद त्ति मोहं गदा । दाळिए ! दाळिए ! [ दारिके ! दारिके ! किमिदानीं नो गेहलक्ष्म्यां न रन्त्वा ततो न उज्झित्वा ननु गच्छसि । संप्रति ह महिषशतसंपातसदृशोऽहो बलवानन्धकारः । दुर्दिनविनष्टज्योत्स्ना रात्रिर्वर्तते निमीलिताकारा । संप्रावृतप्रसुप्ता नीलनिवसना यथा गोपी ॥ १९ ॥ अद्य ह्यर्धरात्रेऽस्माकं कुटुम्बिन्या यशोदया प्रसूतेयं च दारी तपस्विनी जातमात्रैवापगतप्राणा संवृत्ता । श्वोऽस्माकं घोषस्थोचित इन्द्रयज्ञो नामोत्सवो भविष्यति । तद् मा खल्वेतद् दुःखं गोपजनैरनुभूयमान- मिति मयैकाकिना निगलगुरुचरणेनेमां दारिकां गृहित्वा निर्गतोऽस्मि । यशोदापि तपस्विनी नैव जानाति दारको वा दारिका वा प्रसूत इति मोहं गता । दारिके ! दारिके ! । ] वसुदेवः - को नु खल्वयं रात्रौ परिदेवयति । अस्मत्सब्रह्मचारी खल्वयं तपस्त्री । नन्दगोपः - किं दाणिं णो गेहळष्षिं ण ळमिअ तदो णो उज्झिअ णं गच्छषि । [ किमिदानीं नो गेहलक्ष्म्यां न रन्त्वा ततो न उज्झित्वा ननु गच्छसि । ] बालचरिते [i.19.13_ १२ वसुदेवः - स्वरेण प्रत्यभिजानामि । मम वयस्येन नन्दगोपेन भवि- तव्यम् । यावच्छब्दापयामि । वयस्य नन्दगोप ! इतस्तावन् । नन्दगोपः-( सभयम् ) अविहा को दाणि मं पुपुवेण विअ पळ- १५ योगेण णन्दगोव ! गन्दगोव ! ति मं पद्दावेदि । किष्णु लक्खशा वा, आदु पिपाषो वा । ईडिपीए पदिभअळणीए मदळिआ दालिआ मम हत्थे । किंणुहु कळिष्षं । [ अविहा क इदानीं मां १८ श्रुतपूर्वेणेव स्वरयोगेन नन्दगोप ! नन्दगोप ! इति मां शब्दयति । किंनु राक्षसो वा, उत पिशाचो वा । ईदृश्यां प्रतिभयरजन्यां मृता दारिका मम हस्ते । किन्नुखलु करिष्यामि । ] २१ वसुदेवः- :- वयस्य नन्दगोप ! अलमन्यशङ्कया । इतस्तावत् । नन्दगोपः–( कर्णे दत्त्वा । सावधानम् ) अम्मो, पळयोगेण भट्टा वपुदेव त्ति जाणाभि ! जाव उवपप्पिष्पं । अहव तहि मम किं कय्यं । २४ एदिणा कंपष्प लञ्ञो वअणं पुणिअ अवळद्धो कषाहि ताळिअ णिअळेहि बद्धो हि । ताण गमिष्पं । अव धिक्खु मे पिंप- भावं । मम गुणपहष्पं किंद, दुक्खे दुक्खड़, पुहे पुहिणो होदि, २७ तहवि पुमलामि ळाअपापणेण किदं एक्कबन्धणं । जाव उवषप्पिष्ं । इयं दाळी । किं कळिष्षं । होदु एवं दाव कळिष्पं । ( उपसृत्याव- लोक्य च । सविस्मयम् ) पभादा अणी । एषो भट्टा वपुदेवो ३० दाळअं गअिट्ठदो । ( उपसृत्य ) जेदु भट्टा जेदु । [अम्मो, स्वर- योगेन भर्ता वसुदेव इति जानामि । यावदुपसप्र्स्यामि । अथवा तत्र मम किं कार्यम् । एतेन कंसस्य राज्ञो वचनं श्रुत्वापराद्ध: कशाभिस्ताड- ३३ यित्वा निगलैर्बद्धोऽस्मि । तन्न गमिष्यामि । अथवा धिक् खलु मे नृशंसभावम् । मम गुणसहस्रं कृतं दुःखे दुःख्यति, सुखे सुखी भवति, तथापि स्मरामि राजशासनेन कृतमेकबन्धनम् । यावदुपस- ३६ प्स्यामि । इयं दारी । किं करिष्यामि । भवत्वेवं तावत् करिष्यामि । , -i. 19.60] प्रथमोऽङ्कः । प्रभाता रजनी । एष भर्ता वसुदेवो दारकं गृहीत्वा स्थितः । जयतु भर्ता जयतु । ] ३९ वसुदेवः– वयस्य नन्दगोप ! अपि भगवतीभ्यो गोभ्यः कुशलम् । नन्दगोप :- : -आम भट्टा ! कुषळं । [ आम भर्तः ! कुशलम् । ] :- अथ भवतः परिजनस्य कुशलम् । वसुदेव:- ४२ नन्दगोपः - परिजणमिति । आम भट्टा ! कुषळं । [ परिजनमिति । आम भर्तः ! कुशलम् । ] वसुदेवः - वयस्य ! किमिदानीं प्रच्छाद्यते । ४५ नन्दगोपः - भट्टा ! णत्थि किवि । [ भर्तः ! नास्ति किंचित् । ] वसुदेवः- मम खलु प्राणैः शापितः म्याद्, यदि सत्यं न ब्रूयात् । नन्दगोपः- :- का गई । पुणादु भट्टा । अज्ज्ञ अड्ढळत्ते अम्हाणं कुडु- ४८ म्बिणीए, हि हि, तुम्हाणं दाषीए जषोदाए पपूदा इअं च दाळी तवष्पिणी जादमत्ता एव ओग्गदप्पाणा पंवृत्ता । पुवे अम्हाणं घोषष्ष उइटो इन्दयज्ञो णाम उष्षवो भविष्षदि । ता मा ५१ खु एदं दुक्खं गोवजणेहि अणुहूअमाणं त्ति मए एक्काइणा णिगळ- गुळुचळणेण इमं दालिअं गहि णिग्गदो म्हि । जोदा वि तवष्षिणी णैव जाणादि दाळओ दाळिआ वा पपूढ़ त्ति मोहं ५४ गदा । [ का गतिः । शृणोतु भर्ता । अद्यार्धरात्रेऽस्माकं कुटुम्बिन्या, नहि नहि, युष्माकं दास्या यशोदया प्रसूतेयं च दारी तपस्विनी जातमात्रैवापगतप्राणा संवृत्ता । श्वोऽस्माकं घोषस्योचित इन्द्रयज्ञो ५७ नामोत्सवो भविष्यति । तद् मा खल्वेतद् दुःखं गोपजनैरनुभूयमान- मिति मयैकाकिना निगलगुरुचरणेनेमां दारिकां गृहित्वा निर्ग- तोऽस्मि । यशोदापि तपस्विनी नैव जानाति दारको दारिका वा ६० प्रसूत इति मोहं गता । ] [ i. 19.64 वसुदेवः - हन्त भोः ! न शक्यं लोकस्याधिष्ठानभूतं कृतान्तं वन- यितुम् । वयम्य ! काष्ठभूतं कलेवरं त्यज्यताम् । ६३ नन्दगोपः - ण पक्कुणोमि । भट्टा ! ण षक्कुणोमि । [ न शक्नोमि भर्त: ! न शक्नोमि । ] वसुदेवः - ईदृशो लोकधर्मः । त्यज्यताम् । ६६ नन्दगोपः-जं भट्टा आणवेदि । दाळिए ! दाळिए ! । (इति रोदिति । ) [ यद् भर्ताज्ञापयति । दारिके ! दारिके ! । ] वः - वयम्य ! अलमलं रुदितेन । उतिष्ठोत्तिष्ठ । वसुदेव:- ६ ९ नन्दगोप:-( तथा कृत्वोपगम्य ) जेदु भट्टा । इमिणा दाषजणेण किं कत्तव्वं । [ जयतु भर्ता । अनेन दासजनेन किं कर्तव्यम् । ] वसुदेवः – वयस्य ! ननु त्वमपि जानासि दुरात्मना कंसेन मम ७२ पट् पुत्रा निधनमुपानीता इति । नन्दगोप : - जाणामि भट्टा ! जागामि । [ जानामि भर्तः ! जानामि । ] वसुदेवः- तत् सप्तमोऽयं दीर्घायुः । नास्ति मम पुत्रेषु भाग्यम् । ७५ तव भाग्याज्जीवितुं गृह्यताम् । नन्दगोपः- भाआमि भट्टा ! भाआमि । जदि कंषो ळाआ पुणादि- वपुदेवष्प दाळओ गन्दगोवष्ण हत्थे णाषो णिक्खित्तो त्ति, किं ७८ बहुणा, गर्द एव मे षीषं । [ बिभेमि भर्तः ! बिभेमि । यदि कंसो राजा शृणोति - वसुदेवस्य दारको नन्दगोपस्य हस्ते न्यामो निक्षिप्त इति, किं बहुना, गतमेव मे शीर्षम् । ] ८१ वसुदेवः-( आत्मगतम् ) हन्त विपन्नं कार्यम् । उक्तज्ञाः खलु नृशंसाः । तदेवं कथयामि । ( प्रकाशम् ) वयस्य नन्दगोप ! यद्यमि भवतः किञ्चिन्मया पूर्वकृतं भवेत् । तस्य प्रत्युपकारस्य कालस्ते समुपागतः ॥ २० ॥ -i. 20.25] प्रथमोऽङ्कः । नन्दगोपः - किं किं पच्चुवकाळं त्ति । जदि कंषो वा होदु, कंषष्ष पिदा उग्गषेणो वा होदु । आणेदु भट्टा दाळअं । [ किं किं प्रत्यु- ३ पकार इति । यदि कंसो वा भवतु, कंसस्य पितोग्रसेनो वा भवतु । आनयतु भर्ता दारकम् । ] :- वयस्य ! गृह्यताम् । वसुदेव:- ६ नन्दगोपः - भट्टा! अचोक्खिदम्हि मदाळआ दाळिआ गहीदा । मुहुत्तअं पडिवाळेदु भट्टा । जाव जमुणाहळं गच्छिअ चोवखं कळेमि । [ भर्तः ! अशौचितोऽस्मि, मृता दारिका गृहीता । ९ मुहूर्त प्रतिपालयतु भर्ता, यावद् यमुनाजलं गत्वा शौचं करोमि । ] वसुदेवः - वयस्य ! घोषवासात् प्रकृत्या शुचिरेव भवान् । नन्दगोपः- तेण हि अम्हाणं घोपष्प उइदं पदखुणा चोक्खं कळेमि । १२ [ तेन ह्यस्माकं घोपस्योचितं पांसुना शौचं करोमि । ] वसुदेवः - कोऽत्र दोपः । क्रियतां शौचम् । नन्दगोप :- जं भट्टा आणवेदि । ( तथा कुर्वन् सविस्मयम् ) अच्छ- १५ ळीअं अच्छळीअं भट्टा ! अच्छळीअं । पङ्कणि मग्गमाणष्प धळण भिन्दिअ जुगप्पमाणा पळिळधाळा उट्टिदा । [ यद् भर्ताज्ञापयति । आश्चर्यमाश्चर्यं भर्त: ! आश्चर्यम् । पांसून् मार्गयतो धरणीं भित्वा युग- ९८ प्रमाणा सलिलधारोत्थिता । ] वसुदेवः - बालस्यैव प्रभावः । क्रियतां शौचम् । नन्दगोपः - भट्टा ! तह । ( तथा कृत्वोपसृत्य ) भट्टा ! अअम्हि । २१ [ भर्ती ! तथा । भर्तः ! अयमस्मि । ] वसुदेवः - गृह्यताम् । नन्दगोपः - भट्टा ! अदिदुब्बळा मे बाहा मन्दळषदिषं बाळअं २४ हिदु ण मत्था । [ भर्तः ! अतिदुर्बलौ मे बाहू मन्दरसदृशं बालकं ग्रहीतुं न समर्थौ । ] बाल. ३० बालचरिते वसुदेवः - वयस्य ! महाबलपराक्रमः खलु भवान् । [ i. 20.36_ २७ नन्दगोप :- पुणादु भट्टा मम बळपळकमं । पन्दालिअमाणे वषभे षि गअि मोचेमि । पङ्कणिमग्गाणि भण्डपअडआणि आघ- आमि । ईदिषो दाणि अहं दाळअं गहिरं ण मत्थो हि । ३० [ शृणोतु भर्ता मम बलक्रमम् । सन्दारयमाणे वृषभे शृङ्खं गृहीत्वा मोचयामि । पङ्कनिमग्नान् भाण्डशकटकान् आघट्टयामि । ईदृश इदानी- महं दारकं ग्रहीतुं न समर्थोऽस्मि । ] गरुड:- ( ततः प्रविशन्ति पञ्चायुधानि गरुडच ) अहं सुपर्णो गरुडो महाजवः शार्ङ्गयुधस्याम्य रथो ध्वजश्च । पुरा हि देवासुरविग्रहेषु वहामि भो विष्णुचलेन विष्णुम् ॥२१॥ चक्र:- चक्रोऽस्मि कृष्णस्य कराम शोभी मध्याह्नसूर्यप्रतिमोग्रतेजाः । त्रिविक्रमे चामृतमन्थने च मया हता दानवदैत्यसङ्काः ॥ २२ ॥ शार्ङ्ग:- शार्ङ्गऽस्मि विष्णुकर लग्नसुवृत्तमध्या स्त्री विमहान् पुरुपवीर्यबलातिदर्पा । यस्यार्थमाह्वमुखेषु मयारिसङ्काः कौमोदकी- प्रभ्रष्टनागरथवाजिनराः प्रभग्नाः ॥ २३ ॥ कौमोदकी नाम हरेर्गदाहमाज्ञावशान् सर्वरिपून् प्रमध्य । मया हतानां युधि दानवानां प्रक्रीडितं शोणितनिम्नगासु ॥ २४ ॥ शङ्खः- अहं हि शङ्खः क्षीरोदाद् विष्णुना स्वयमुद्धृतः । मम शब्देन नश्यन्ति युद्धे ते देवशत्रवः ॥ २५ ॥ ―i. 28.*] प्रथमोऽङ्कः । नन्दकः- चक्रः -- नन्दकोऽहं न मे कश्चित् सङ्ग्रामेष्वपराङ्मुखः । गच्छामि स्मृतमात्रेण विष्णुना प्रभविष्णुना । २६ ॥ चक्रशार्ङ्गगदाशङ्खनन्दका दैत्यमर्दनाः । वासुदेवस्य कार्यार्थं प्राप्ताः पारिषदा वयम् ॥ २७ ॥ तम्मादागम्यताम् । वयमपि मनुष्यलोकमवतीर्णस्य भगवतो विष्णोर्बालचरितमनुचरितुं गोपाल कवेषप्रच्छन्ना घोपमेवावतरि व्यामः । सर्वे-तथास्तु । ( विष्णुमुपस्थिताः ) वसुदेव: - वयस्य ! बाल एव नमस्यनाम् । ६ नन्दगोपः - भट्टा ! तह । लाअदाळअ ! णमो दे णमो दे । ही, होदु, अत्ताणं एवं अत्ताणं णिग्वावेहि । अम्हाणं गोपजणष्प तुम गह्निर्दु को लपक्कमो । [ भर्तः ! तथा । राजदारक ! नमस्ते ५ नमस्ते । ही, भवतु, आत्मनैवात्मानं निर्वाहय । अस्माकं गोपजनम्यं त्वां ग्रहीतुं को बलपराक्रम: । ] चक्र:- -नमो भगवते नारायगाय । भगवन् ! महाविष्णो ! कार्याण्यकार्याग्यमरासुराणां त्वया भविष्यन्ति बहूनि लोके । तस्माज्जनस्यास्य लघुत्वयोगान् कुरु प्रसादं यदुवंशकेतो ! ॥ २८ ॥ वसुदेवः- गृह्यताम् । नन्दगोपः - जं भट्टा आणवेदि । ( गृह्णाति ) [ यद् भर्ताज्ञापयति । ] ३ वसुदेवः- वयस्य ! प्रभाता रजनी । प्रतिनिवर्ततां भवान् । नन्दगोपः - अच्छळीअं अच्छळीअं भट्टा! अच्छळीअं । इमे बालचरित [i. 28.5- बन्धणे पडिदे । [ आश्चर्यमाश्चर्यं भर्तः ! आश्चर्यम् । इमे बन्धने ६ पतिते । ] वसुदेवः - सर्वमेतत् कुमारस्य प्रभावः । प्रतिनिवर्ततां भवान । नन्दगोपः - जं भट्टा आणवेदि । [ यद् भर्नाज्ञापयति । ] ९ वसुदेवः - अथवा एहि तावत् । नन्दगोपः - भट्टा ! अअम्हि । [ भर्नः ! अयमस्मि । ] वसुदेवः- जाने नित्यं वत्सलं त्वां प्रकृत्या स्नेहोऽप्यस्मिन्नर्यते रूढभावः । अस्मिन् काले भूयिष्ठशेपं न्यस्तं बीजं रक्षितुं यादवानाम् ॥ २९ ॥ कुमारम्य किं करिष्यति भवान् । नन्दगोपः - पुणादु भट्टा । एकष्पि गेहे गच्छिअ खीरं पित्र, ३ अण्णष्पि गेहे गच्छि दधिं भक्वइ । अपरपिं गेहे गच्छिअ त्रणी गिळइ । अगष्पिं गेहे गच्छिअ पापं भुञ्जइ । इद- पि गेहे गच्छ तकघटं पलोअदि । किं बहुगा, अम्हाणं ६ घोपष्प पढ़ी होइ । [ श्रुणोतु भर्ता । एकस्मिन् गेहे गत्वा क्षीरं पिबति । अन्यस्मिन् गेहे गत्वा दधि भक्षयति । अपरस्मिन् गेहे गत्वा नवनीतं गिलति । अन्यस्मिन् गेहे गत्वा पायसं भुङ्क्ते । ९ इतरस्मिन् गेहे गत्वा तक्रघटं प्रलोकते । किं बहुना, अस्माकं घोषस्य पतिर्भवति । ] वसुदेव: - एवमस्तु । प्रतिनिवर्ततां भवान् । १२ नन्दगोपः-जं भट्टा आणवेदि । (निष्क्रान्तः । ) [यद भर्ताज्ञापयति । ] वसुदेव:- ननु निर्गतो नन्दगोपः । यावदहमपि मधुरामेव यास्यामि। (परिक्रम्य) रुदितशब्द इव श्रूयते । किन्नुखलु कंसभयात् —ii. 1. ] द्वितीयोऽङ्कः । १५ प्रतिनिवृत्तो नन्दगोपः । ( परिक्रम्य ) अये प्रत्यागतप्राणेयं दारिका । मां गृहीत्वा देवया हस्ते निक्षिप्य दुरात्मानं कंसं वच- यामि । ( गृहीत्वा ) अहो गुरुत्वमस्याः । एतदपि कुमारान १८ किञ्चिदन्तरं महद् भूतम् । यावदपक्रामामि । अये इयं भगवती यमुना तथैव स्थिता । यावदपक्रम । निष्क्रान्तोऽम्मि यमुनायाः । एतन्नगरद्वारम् । तथैव प्रसुप्तो मधुरायां सर्वो जनः । २१ यावत् प्रविशामि । ( प्रविश्य) इदं खलु दुरात्मनः कंसस्य गृहं ज्येष्ठाश्रितमिव दृश्यते । इदमम्मदीयं गृहं श्रियारूढमिव दृश्यते । यावदहमप्यन्तःपुरं प्रविश्य देवकीं समाश्वासयामि । ईश्वराः २४ वस्ति कुर्वन्तु । (निष्क्रान्तः । ) प्रथमोऽङ्कः । अथ द्वितीयोऽङ्कः । ( ततः प्रविशन्ति चण्डालयुवतयः । ) ( ततः प्रविशति राजा । ) ३ सर्वा: - आअच्छ भट्टा ! आअच्छ । अम्हाणं कण्णाणं तुए सह विवाहो होदु । [ आगच्छ भर्तः ! आगच्छ । अस्माकं कन्यानां त्वया सह विवाहो भवतु । ] राजा - भोः ! किन्नुखल्विदम् । यन्मेदिनी प्रचलिता पतिताग्रहयि सन्तानौरिव विकीर्णमहोर्मिमाला । सेन्यैः प्रधानगुणकर्मफलैर्निमित्तैः किं वामतो व्यसनमभ्युदयो नु तन्मे ॥ १ ॥ बालचरित [ii.. सर्वा:- आअच्छ भट्टा ! आअच्छ । अम्हाणं कण्णआणं तुए सह विवाहो होदु । [ आगच्छ । भर्तः ! आगच्छ । अस्माकं कन्यकानां ३ स्वया सह विवाहो भवतु । ] राजा- यस्मान्न रक्षिपुरुषाः प्रचरन्ति केचिद् यस्मान्न दीपकधराः प्रमदाचरन्ति । तस्मादिमा मम गृहं समनुप्रविष्टा नीलोत्पलाञ्जननिभा भयदाः श्वपाक्यः ॥ २ ॥ सर्वा:- आअच्छ भट्टा ! आअच्छ । अम्हाणं कण्णआणं तुए सह विवाहो हो । [ आगच्छ भर्तः ! आगच्छ । अस्माकं कन्यकानां ३ त्वया सह विवाहो भवतु । ] - अहो सृष्टाः खल्वेताश्चण्डालयुवतयः- राजा- क्रोधेन नश्यति सदा मम शत्रुपक्षः सूर्यः शशी हुतवहश्च वशे स्थिता में । योsहं यमस्य च यमो भयदो भयम्य तं मापवादवचनैः परिधर्षयन्ति ॥ ३ ॥ सर्वा:- आअच्छ भट्टा ! आअच्छ । [ आगच्छ भर्तः ! आगच्छ । ] राजा- आ अपध्वंस । कथं सहसैव नष्टाः । यावदिदानीमभ्य- ३ न्तरमेव प्रविशामि । ( ततः प्रविशति शापः । ) शाप:- हं, केदानीं प्रविशसि । इदं खलु मम गृहं संवृत्तम् । ६ राजा- कोऽयं विनिष्पतति गर्भगृहं विगाह्य उल्कां प्रगृह्य सहसाञ्जनराशिवर्णः । -ii. 6.1] द्वितीयोऽङ्कः । भीमप्रवदनो हिपिङ्गलाक्षः क्रोधो महेश्वरमुखादिव गां प्रपन्नः ॥ ४ ॥ को भवान् । शापः - किं न जानीषे माम् । अहं खलु मधूकम्य ऋषेः शापो ३ वज्रबाहुर्नाम । श्मशानमध्यादहमागतोऽस्मि चण्डालवेषेण विरूपचण्डम् । कपालमालातिविचित्रवेपः कंसस्य राज्ञो हृदयं प्रवेष्टुम् ॥ ५ ॥ कंसः - असम्भाव्यमर्थं प्रार्थयसि । सौवर्णकान्ततरकन्दर कूटकुखं मेरुं न कम्पयति वायसपक्षवातः । हास्योऽसि भोः ! समकरक्षुभितोर्मिमालं पातुं य इच्छसि कराञ्जलिना समुद्रम् ॥ ६ । शाप:- काले ज्ञास्यसि । राजा - हं, कथं सहसैव नष्टः । यावदहमपि शयनमुपगम्य नयन- ३ व्याक्षेपं करोमि । ( स्वपिति । ) शापः - अये प्रसुप्तः । अलक्ष्मि ! खलति ! कालरात्रि ! महानिद्रे ! पिङ्गलाक्ष ! तदागम्यतामभ्यन्तरं प्रविशामः । ६ सर्वाः - एवं होदु । [ एवं भवतु । ] ( प्रविश्य ) राजश्रीः- न खलु प्रवेष्टव्यम् । ९ शापः - का भवती । श्रीः - किं मां न जानीषे । अहं खल्वस्य लक्ष्मीः । शापः - एवम् । राजश्रीः ! अपक्रामतु भवती । इदं खलु मम गृह १२ संवृत्तम् । श्री:- हं, बालचरिते लङ्कोपमं मम गृहं नविचिन्त्य मृढ ! कम्याश्रयाद् विशसि मामध्य रात्रौ 1 किं भाषितंन बहुना न च शक्यमेतद् द्रष्टुं प्रवहितेऽद्य मयाभिजुष्टम् ॥ ७ ॥ [ ii. 6. - शाप:- भगवति पद्मालये ! अपक्रामतु किल कंसशरीरान् । विष्णुराज्ञापयति । ३ श्रीः - कथं विष्णुराज्ञापयतीति भोः ! कष्टम् । न चाहं चिरसंवासात् त्यक्तुं शक्नोमि पार्थिवम् । बलवान गुणसङ्ग्राहो दृढं तपति मामयम् ॥ ८ ॥ भवतु । अनतिक्रमणीया विष्णोराज्ञा । तस्मादहमपि विष्णुस काश- मेव यास्यामि । (निष्क्रान्ता । ) ३ शापः - अपक्रान्ता राजश्रीः । हन्तेदानीमिदमस्माकमावासः संवृत्तः । अलक्ष्मि ! खलति ! कालरात्रि ! महानिद्रे ! पिङ्गलाक्षि ! अभ्य- न्तरं प्रविश्य स्वजातिसदृशी क्रीडा क्रियताम् । ६ सर्वाः - अज्ज पहुदि अवणीदधम्मचारित्तो होहि । [ अद्यप्रभृ- त्यपनीतधर्मचारित्रो भव । ] शाप:- परिष्वजामि गाढं त्वां नित्याधर्मपरायणम् । प्राप्नोमि मुनिशापस्त्वामचिरान्नाशमेष्यास ॥ ९ ॥ ( अन्तर्हितः । ) ( प्रविश्य ) ३ प्रतिहारी - जेदु भट्टा । [ जयतु भर्ता । ] राजा - ह ! —ii. 11. ] ६ राजा- द्वितीयोऽङ्कः । प्रतिहारी- भट्टा ! जसोधरा खु अहं । [ भर्तः ! यशोधरा खल्वहम् । ] - यशोधरे ! किं त्वया मातङ्गीजनप्रवेशो न दृष्टः । प्रतिहारी- हं मादङ्गिजणत्ति । णिचं भट्टिपादमूळे वत्तमाणम्स व जणम्स इह पवेसो दुळहो, किं उण मादङ्गिजणम्स । [ हं ९ मातीजन इति । नित्यं भर्तृपादमूले वर्तमानस्यैव जनस्येह प्रवेशो दुर्लभः, किं पुनर्मातङ्गीजनस्य । ] राजा - किं स्वप्नो नु मयानुभूतः । यशोधरे ! गच्छ । बालाकि : १२ काञ्चुकीयः प्रवेश्यताम् । प्रतिहारी - जं भट्टा आणवेदि । (निष्कान्ता । ) [ यद् भर्ताज्ञापयति । ] ( ततः प्रविशति काञ्चुकीयः । ) १५ काञ्चुकीयः- जयतु महाराजः । राजा - आर्य बालाके! प्रष्टव्यौ सांवत्सरिकपुरोहितौ — अद्य रात्रौ वातोद्धामभूमिकम्पोल्कापाता दैवतप्रतिमाश्च प्रतिभासिताः १८ किमर्थमिति । काञ्चुकीयः- महाराज ! सांवत्सरिकपुरोहितौ विज्ञापयतः । राजा - किमिति । २१ काञ्चुकीयः - श्रूयताम् । राजा- इति । भूतं नभस्तलनिवासि नरेन्द्र ! नित्यं कार्यान्तरेण नरलोकमिह प्रपन्नम् । आकाश दुन्दुभिरवैः समहीप्रकम्पै- स्तस्यैष जन्मनि विशेषकरो विकारः ॥ १० ॥ कस्मिञ्जाते सशैलेन्द्रा कम्पितेयं वसुन्धरा । ज्ञायतां कस्य पुत्रोऽयं किं वा जन्मप्रयोजनम् ॥ ११ ॥ बालचरिते [ii. 11. ' - काञ्चुकीयः- यदाज्ञापयति महाराज: । (निष्क्रम्य प्रविश्य) जयतु ३ महाराजः । प्रसूतवती किल देवकी । राजा- -किं प्रसूतम् 1 काम्चुकीयः- दारिका प्रसूता । ६ राजा - मा तावत् । एतानि महानिमित्तानि दारिकाप्रसूतिमात्रेण उत्पद्यन्ते । काञ्चुकीयः- प्रसीदतु महाराजः । अनृतं नाभिहितपूर्वं मया । भवतो ९ भृत्यवर्ग परिवृतायाः धात्र्या हस्ते दृष्टा सा । राजा - अथवा ब्राह्मणवचनमनृतमपि सत्यं पश्यामि । वसुदेवस्तावदाहूयताम् । १२ काञ्चुकीयः - यदाज्ञापयति महाराजः । (निष्क्रान्तः । ) गच्छ, राजा - धर्मशीलः सत्यवादी वसुदेवः । अथ तु मम समीपेऽनृतं न ब्रवीति । भवतु, श्रोष्यामस्तावत् । वसुदेव:- ( ततः प्रविशति वमुदेवः । ) पणां सुतानां समुपेत्य नाशं वहन्निदं शोककृशं शरीरम् । मानोsana राज्ञा गच्छाम्यहं भृत्य इवास्वतन्त्रः ॥ १२ ॥ भोः ! एवंविधा लोकवृत्तिः । स्मरतापि भयं राजा भयं न स्मरतापि वा । उभाभ्यामपि गन्तव्यो भयादप्यभयादपि ॥ १३ ॥ ( उपसृत्य ) शौरसेनीमातः ! आस्यते । राजा - यादवीमातः ! आस्यताम् । ३ वसुदेवः-बाढम् । (उपविश्य) शौरसेनीमातः ! किमर्थं वयमाहूताः । राजा - यादवीमातः ! प्रसूतवती किल देवकी । वसुदेवः - अथकिम्, प्रसूतवती । -ii. 15.10] ६ राजा - किं प्रसूतम् । द्वितीयोऽङ्कः । वसुदेवः - (आत्मगतम् ) मयापि नामानृतं वक्तव्यं भविष्यति । अथवा कुमाररक्षणार्थमनृतमपि सत्यं पश्यामि । किमिदानी ९ करिष्ये । भवतु, दृष्टम् । ( प्रकाशम् ) दारिका प्रसूता तथा । -दारिका वा कुमारो वा हन्तव्यः सर्वथा मया । दैवं पुरुपकारेण वञ्चयिष्याम्यहं ध्रुवम् ॥ १४ ॥ ( प्रविश्य ) राजा- प्रतिहारी- जेदु भट्टा । अम्हाअं भट्टिणी विष्णवेदि-दारिअत्ति ३ बाळेत्ति अ करीअदु किळ : महाराष्ण अणुक्कोसो। [ जयतु भर्ता । अस्माकं भट्टिनी विज्ञापयति-दारिकेति बालेति च क्रियतां किल महा- राजेनानुक्रोश: । ] ६ वसुदेव:- शौरसेनीमातः ! क्रियतां तपस्विन्या देवक्या वाक्यम् । दारिकासु स्त्रीणामधिकतरः स्नेहो भवति । राजा - किं भवान् स्मरति समयम् । मधूकस्य ऋषेः शापं श्रुत्वा मे समयस्तदा । देवक्या धारितान् गर्भान् दास्यामीति त्वया कृतः ॥ १५ ॥ वसुदेवः - समय इति । एष न व्याहरामि । प्रतिहारी- भट्टा ! किंत्ति अम्हाअं भट्टिणीए णिवेदिदवं । [ भर्तः ! ३ किमित्यस्माकं भट्टिन्यै निवेदयितव्यम् । ] राजा - यशोधरे ! उच्यतां देवक्याः न युक्तमिदानीं निर्बन्धमभि- धातुम् । अन्यन् प्रियतरं करिष्यामीति । ६ प्रतिहारी - जं भट्टा आणवेदि । [ यद् भर्ताज्ञापयति । ] राजा - यशोधरे ! एवं क्रियताम् । प्रतिहारी - सुहं पविसदु किळ भट्टा । [ सुखं प्रविशतु किल भर्ता । ] ९ वसुदेवः - विविक्तमिच्छता मयापि नाम परापत्यं निधनमुपनेतव्यं भवति । किन्नुखलु कुमारमेवानीय प्रयच्छामि । अथवा, बालचरिते द्वारिकेयं मृता पूर्वं पुनरेव समुत्थिता । [ ii. 16. - अस्य बालस्य माहात्म्यान्नपा वधमवास्यति ॥ १६ ॥ मपि देव समाश्वासयामि । (निष्क्रान्तः । ) राजा - यशोधरे ! प्रवेश्यतां सा दारिका । ३ प्रतिहारी - जं भट्टा आणवेदि । (निष्कान्ता ) ( ततः प्रविशति दारिकां गृहीत्वा धात्री रक्षिनुरुपाव । ) ( ततः प्रविशति कार्त्यायनी सपरिवारा । ) सर्वे-सणिअं सणिअं अय्या । इदं मज्झमदुवालं । पविसदु ६ अय्या । [ शनैः शनैरार्या । इदं मध्यमद्वारम् । प्रविशत्वार्या । ] धात्री - ( प्रविश्य) जेदु भट्टा । इअं दारिआ अम्हेहि चिर पहुदि रक्खदा । [ जयतु भर्ता । इयं दारिकास्माभिश्चिरात् प्रभृति रक्षिता । ] : राजा - अहो राजदर्शनीयेयं दारिका । मयापि नाम स्त्रीवधः कर्तव्यो भवति । धात्री-सणिअं णिअं भट्टा ! । [ शनैः शनैः भर्तः ! । ] १२ राजा - इयं कंसशिला । यावत् साहममनुष्ठास्यामि । अयं हि सप्तमो गर्भ ऋषिशापवलोत्थितः । अस्मिन् नाशं गते गर्भे मम शान्तिर्भविष्यति ॥ १७ ॥ ( गृहीत्वा प्रहृत्य ) अये, एकांशः पतितो भूमावेकांशी दिवमुन्नतः । : मां निहन्तुमिहोद्भूतः करैः शस्त्रसमुज्ज्वलैः ॥ १८ ॥ अइयमिदानी तीक्ष्णामं शूलमालम्ब्य रौद्रवेषेण जृम्भते । विनाशकाले सम्प्राप्ते कालरात्रिरिवोत्थिता ॥ १९ ॥ कार्त्यायनी - सुम्भ निशुम्भं महिपं च हत्वा कृत्वा सुरांस्तान् हतशत्रुपक्षान् । अहं प्रसूता वसुदेववंशे कात्यायनी कंसकुलक्षयाय ॥ २० ॥ ii. 25.' ] कुण्डोदर:- द्वितीयोऽङ्कः । शूल:- नील:- कुण्डोदरोऽहमजितो रणचण्डकर्मा देव्याः प्रसृतिजनितो महानिनादः । शीघ्रं प्रयामि गगनादवनीं विशालां प्राञ् जिघांसुरसुरानतिवीर्यदर्पान् ॥ २१ ॥ शूलोऽस्मि भूतमिह भूमितले प्रपन्नो देव्याः प्रसादजनितोज्ज्वलचाम्वेपः । कंसं निहत्य समरे परिकर्पयामि तं पादपं जलनिधेखि कार्त्तिकेयः ॥ २२ । अहं हि नीलः कलहम्य कर्ता सङ्ग्रामा नपराग्वश्च 1 निहन्मि कंसं युधि दुर्विनीतं क्रौञ्चं यथा शक्तिधरः प्रकृष्टः ॥२३॥ मनोजव:- मनोजवो मारुततुल्यवेगो देव्यास्तु कार्यार्थमिहोपयातः । करोमि सङ्ग्रामशिरःसु दैत्यान् वह्निर्नलानां निलयं यथैव ॥२४॥ कार्त्यायनी -कुण्डोदर ! शङ्ककर्ण ! महानील ! मनोजव ! तदागम्य- ताम् । भगवतो विष्णोर्बालचरितमनुभवितुं गोपालकवेषप्रच्छन्ना घोपमेवावतरिष्यामः । सर्वे - यदाज्ञापयति भगवती । (निष्क्रान्ता सपरिवारा कार्त्यायनी । ) -अये प्रभाता रजनी राजा- अतः प्रविश्य शान्त्यर्थं शान्तिकर्मोचितं गृहम् । करोमि विपुलां शान्ति मम शान्तिर्भविष्यति ॥ २५ ॥ (निष्क्रान्ताः सर्वे । ) द्वितीयोऽङ्कः । ५.३४ ( ततः प्रविशति वृद्धगोपालकः । ) ( ततः प्रविशति दामकः । ) बालचरिते अथ तृतीयोऽङ्कः । [ iii. ______ ३ वृद्वगोपालकः-भो मेघदिष्ण ! क्खु, वषभदिष्ण ! क्खु, कुम्भदिन्ग ! क्खु, घोपदिष्ण ! क्खु पकाळेथ पकाळेथ गोधणं । एवं चुन्दा- वणे पकामं पाणी पादूणं हुम्भारवं करन्तो आअन्तु गोधणं । ६ एषो गोवज्जहादो णिक्कमिअ परिघट्टिअवम्मीअमूलो भुजङ्गेहि कुण्णेहिं गीळुप्पळादामेहि पिंगळगंगेहि विअ वपभो षोभदि । अण्णो वि एषो वषभो उपिदप्पपारिअपुच्छो णिकुञ्चि- ९ अजाणू पषीव धवळङ्गो अग्गविपाणेहि महीं उवहन्तो विअ षोभदि । जाव दाणि दामअं पहावआमि । अछे दाम ! भअवदीर्ण पुथळे ओदाळिस पहवच्छाणं तुवं पि आअच्छ । १२ [ भो मेघदत्त ! खलु, वृषभदत्त ! खलु, कुम्भदत्त ! खलु घोपदत्त ! स्व, प्रकालयत प्रकालयत गोधनम् । एतस्मिन् वृन्दावने प्रकामं पानीयं पीत्वा हुम्भारवं कुर्वदायाति गोधनम् । एप गोव्रजानू ( ? ) १५ निष्क्रम्य परिघट्टितवल्मीकमूलो भुजङ्गैः कुवर्णैः नीलोत्पलदामभिः श्रृङ्गलग्नैरिव वृषभः शोभते । अन्योऽप्येष वृषभ उच्छ्रितप्रसा- रितपुच्छो निकुञ्चितजानुः शशीव धवलाङ्गोऽग्रविषाणाभ्यां महीमुद्वि- १८ हन्निव शोभते । यावदिदानीं दामकं शब्दयामि । अरे दामक ! भग- वती: सुस्थलेऽवतार्य सहवत्सास्त्वमप्यागच्छ । ] २१ दामक:- -अहो महन्तं तिगजाळं पामिणो णन्दगोवष्ष । पुजण- णदिणादो आळहि अहिअदळं आणन्दुभुदं वड्डुइ । भोदु, इह चिट्ठदु गोधणं, जाव मादुळं उवषप्पिष्षं । ( उपसृत्य ) २४ मादुळ ! वन्दामि । [ अहो महत् तृणजालं स्वामिनो नन्दगोपस्य । -iii."9] तृतीयोऽङ्कः । सुतजननदिनादारभ्याधिकतरमानन्दाद्भुतं वर्धते । भवतु, इह तिष्ठतु गोधनं, यावन्मातुलमुपसस्यामि । मातुल ! वन्दे । ] २७ वृद्धगोपालकः - पन्ती होदु पन्ती होदु अम्हाणं गोधण अ । [ शान्तिर्भवतु शान्तिर्भवत्वस्माकं गोधनस्य च । ] दामक:- मादुळ ! जदप्पहृदि नन्दगोवपुत्ते पपूद, तदप्यहुदि अम्हाणं ३० गोधणं वज्जिअरोअं पंवृत्तं । ण ( ? ) पव्वाणं गोवजगाणं पीढ़ी वड । अगं च, खाढ़े खादे मूळाणि, फळाणि गुम्हे गुम्हे । मधु केत्ति दुदि खीरं तत्तअं एत्र धिदं । [ मातुल ! यदा- ३३ प्रभृति नन्दगोपपुत्रः प्रसूतः, तदाप्रभृत्यस्माकं गोधनं वर्जितरोगं संवृ- तम् । ननु सर्वेषां गोपजनानां प्रीतिर्वर्धते, अन्यच्च, खाते खाते मूलानि, फलानि गुल्मे गुल्मे । मधु कियद दुह्यते क्षीरं तावद् एव घृतम् । ] ३६ वृद्धगोपालकः-अण्णां च इदं अच्छलिअं । उपरत्तपपूदे णन्दगोव- वृत्ते पूतना नाम दाणवी विषषम्पूरित्थणा णन्दगोवीए रूवं गहि आअदा । तदो ताए दाळअं गअि तष्ष मुहे त्थणं ३९ पक्खित्तं । तदो तं विजाणिअ पुविदा पाडिदा चम्मवषेपा दावी भविअ तत्तो व मुदा । तदो माषमत्ते णन्दगोववत्ते अडो णाम दाणवो षअडवेषं गहि आउदो । तं पि जाणि ४२ एकपादप्पहारण चुण्णीकिदो षो वि दाणवो भविअ तत्तो एव्व मुदो । तदो माषपरिवृत्ते नन्दगोवबुत्ते एकष्पिं गेहे गच्छिअ खीरं पिबइ, अण्णष्षि गेहे गच्छिअ दधिं भक्खर, एकष्षि गेहे ४५ गच्छिअ णवणीदं मिळदि, अण्णां गेहे गच्छिअ पाअसं भुञ्जइ, अपरषि गेहे गच्छिअ तकघटं पळोअदि । तदो छुट्ठाहि गोवजुवदीहि णन्दगोवीए उत्तं । तदो छुट्टाए णन्द- ४८ गोवीए दामं गहिअ तष्ष मज्झे बन्धिअ षेषं उळूहळे बज्झं । तदो तं पि उळूहळ आघट्टअन्तं पेक्खिअ जमळज्जुणे बालचरिते [ iii. 50 णाम दाणवे णिक्खित्तं । तदो दुवे एक्कीभूदे । तेषं अन्त ५४ गच्छन्तेण गन्दगोववत्तेण आघट्टअन्तेण पमूळविडवं चुण्णीकि वि दावे भवितत्तो एब्व मुद्दे । तदो गोवजणेहि उत्तं. महापको अपहृदि भट्टिदामोदको नाम हो दुति । तद ५४ आहावण पहावणमत्ते जन्दगांवकुत्ते पळंबो नाम दानवो गन्द गोववेस गहि आउदो । तदो पङ्कळिषणं कण्ठे णिक्खिवि गच्छन्तं तं विजाणिअ भट्टिणा पङ्कळिषणेण तप्प दाणवष्प पी ५७ मुट्ठिष्पहारो किदां । तेण पहारेण उक्खित्तच पो वि दाणव भविअ तत्तो व मुदो । गोवजणेहि परिवुदो ताळहळाणि गहि तळवणं गढ़ो । तहिं ताळवणे घेणुओ नाम दाणवो गद्दभवेर ६० गह्निअ आअदो । तदो तं पि जाणिअ भट्टिदामोदळेण तब वामपादं हि उक्यविअ पादिदाणि ताळफळाणि । पो दाणवो भविअ तत्तों एव मुद्रो । तदो केसी णाम दाव ६३ तुळङ्गवेसं गह्निअ आउदो । तदो तं पि जाणिअ भट्टिदामो दळेण तष्प मुहे कोपरो दिण्णो । तदो तेण दुवी ( ? पाब्दिो तुळङ्गो । षो वि दाणवो भविअ तत्ता एव मुदो ६६ दाणि अण्णाणि ( अ ) कम्माणि किदाणि भट्टिदामोदळेण [ अन्यच्चदमाश्वर्यम् । दशरात्रप्रसूते नन्दगोपपुत्रे पूतना नाम दानव विपसम्पूरितस्तना नन्दगोप्या रूपं गृहीत्वागता । ततस्तया दाख ६९ गृहीत्वा तस्य मुखे स्तनः प्रक्षिप्तः । ततस्तां विज्ञाय सुप्ता पातित सापि दानवी भूत्वा तत एव मृता । ततो मासमात्रे नन्दगोपपुत्रे शकटं नाम दानवः शकटवेषं गृहीत्वागतः । तमपि ज्ञात्वैकपादप्रहारेण चूर्णी ७२ कृतः सोऽपि दानवो भूत्वा तत एव मृतः । ततो मासपरिवृत्तं नन्दगोपपुत्र एकस्मिन् गेहे गत्वा क्षीरं पिबति, अन्यस्मिन् गों गत्वा दधि भक्षयति, एकस्मिन् गेहे गत्वा नवनीतं गिरति, अन्य -iii. 99 .99] तृतीयोऽङ्कः । ७५ स्मिन् गेहे गत्वा पायसं भुङ्क्ते अपरस्मिन् गेहे गत्वा तक्रघटं प्रलोकते । ततो रुष्टाभिर्गोपयुवतिभिर्नन्दगोप्यै उक्तम् । ततो रुष्टया नन्दगोप्या दाम गृहीत्वा तस्य मध्ये बद्ध्वा शेषमुलूखले बद्धम् । ७८ ततस्तदप्युलूखलमाघट्टयत् प्रेक्ष्य यमलार्जुनयोर्नाम दानवयोर्निक्षिप्तम् । ततो द्वावेकीभूतौ । तयोरन्तरेण गच्छता नन्दगोपपुत्रेणाघट्टयता समूल- विटपं चूर्णीकृता तावपि दानवौ भूत्वा तत एव मृतौ । ततो ८१ गोपजनैरुक्तं – महाबलपराक्रमोऽद्यप्रभृति भर्तृदामोदरो नाम भवतु इति । तन आधावनप्रधावनमात्रे नन्दगोपपुत्रे प्रलम्बो नाम दानवो नन्दगोपवेषं गृहीत्वागतः । ततः संकर्षणं कण्ठे निक्षिप्य गच्छन्तं तं ८४ विज्ञाय भर्त्रा संकर्षणेन तस्य दानवस्य शीर्षे मुष्टिप्रहारः कृतः । तेन प्रहारेणोत्क्षिप्तचक्षुः सोऽपि दानवो भूत्वा तत एव मृतः । गोपजनैः परिवृतस्तालफलानि ग्रहीतुं तालवनं गतः । तत्र तालवने धेनुको नाम ८७ दानवो गर्दभवेषं गृहीत्वा गतः । ततस्तमपि ज्ञात्वा भर्तृदामोदरेण तम्य वामपादं गृहीत्वोत्क्षिप्य पातितानि तालफलानि । सोऽपि दानवो भूत्वा तत एव मृतः । ततः केशी नाम दानवः तुरङ्गवेयं गृहीत्वा- ०० गतः । ततस्तमपि ज्ञात्वा भर्तृदामोदरेण तस्य मुखे कूर्परो दत्तः ततस्तेन द्विधा पाटितस्तुरङ्गः । सोऽपि दानवो भूत्वा तत एव मृतः । एतान्यन्यानि (च ) कर्माणि कृतानि भर्तृदामोदरेण । ] ९३ दामक: - मादुळ ! फवं दाव चिट्ठदु । अज्ज भट्टिदामोदको इमपि वृन्दावणे गोवकण्णआहि पह हळीषअं णाम पकीलितुं आअ- च्छदि । [ मातुल ! सर्वं तावत् तिष्ठतु । अद्य भर्तृदामोदरोऽस्मिन्न ९६ वृन्दावने गोपकन्यकाभिः सह हल्लीसकं नाम प्रक्रीडितुमागच्छति । ] वृद्धगोपालक :- तेण हि पव्वेहि गोवजणेहि पह भट्टिदामोदळष्ष हळ्ळीषअं पेक्खम्ह । [ तेन हि सर्वैगोपजनैः सह भर्तृदामोदरस्य ९९ हल्लीसकं पश्यामः ] बाल. ३१ बालचरित [ iii. 100 दामक:- जं मादुलो आणवेदि । [ यद् मातुल आज्ञापयति । ] (निष्क्रान्तौ । ) ( प्रविश्य ) ( ततः प्रविशन्ति सर्वाः । ) ( ततः प्रविशति गोपजनपरिवृतो दामोदरः सङ्कर्षणश्च । ) प्रवेशकः । वृद्धगोपालक:- अणुदिअमत्ते पुय्येपणमह पव्वादळेण षीषेण । णिश्वं जगमादूणं गोणाणं अमिदपुण्गाणं ॥ १ ॥ अहो अम्हाणं पक्कणाणं षमिद्धी । आडोवषज्जाओ पडहरूववेसाओ वाहळिदुं गच्छामो । अम्हाअं गोवकण्णआओ ! घोपपुन्दळि ! ३ वणमाळे ! चन्दळेहे ! मिअक्खि ! आअच्छह आअच्छह षिग्धं । [ अनुदितमात्रे सूर्ये प्रणमत सर्वादरेण शर्पिण । नित्यं जगन्मातॄणां गवाममृतपूर्णानाम् ॥ १ ॥ अहो अस्माकं पक्कणानां समृद्धि: । आटोपसजाः पटहरूपवेषा व्याहर्तुं गच्छामः । अस्माकं गोपकन्यकाः ! घोपसुन्दरि ! वनमाले ! चन्द्ररेखे ! ३ मृगाक्षि ! आगच्छतागच्छत शीघ्रम् । ] सर्वाः - मादुळ ! वन्दामा । [ मातुल ! वन्दामहे । ] ६ वृद्धगोपालकः - दाळिआ ! एषो भट्टा दामोदळो गोक्खीरपण्डरेण भट्टिणा षङ्कळिषणेण पह गोवाळएहि अ परिवुदो गुहाणिक्खित्ता पिंहो विअ इदो एव आअच्छदि । [ दारिकाः ! एप भर्ता दामो- ९ दरः गोक्षीरपाण्डरेण भर्त्रा सङ्कर्षणेन सह गोपालकैश्च परिवृतः गुहा- निक्षिप्तः सिंह इवेत एवागच्छति । ] १२ दामोदरः - ( सविस्मयम् ) अहो प्रकृत्या रमणीयानां गोपकन्यकानां वेषणविशेषः । -iii.3.15] तृतीयोऽङ्कः । एताः प्रफुल्लकमलोत्पलवक्त्रनेत्रा गोपाङ्गनाः कनकचम्पकपुष्पगौराः । नानाविरागवसना मधुरप्रलापाः क्रीडन्ति वन्यकुसुमाकुल केशहम्ताः ॥ २ ॥ सङ्कर्षण:- एते गोपदारकाः समागताः । रक्तैर्वेसुकडिण्डिमैः प्रमुदिताः केचिन्नदन्तः स्थिताः केचित् पङ्कजपत्रनेत्रवदनाः क्रीडन्ति नानाविधम् । घोषे जागरिमा (?) गुरुप्रमुदिता हुम्भारशब्दाकुले वृन्दारण्यगते समप्रमुदिता गायन्ति केचित् स्थिताः ॥ ३ ॥ वृद्धगोपालक:- आम भट्टा ! पव्वा पण्णद्धा आअदा । [ आम भर्तः ! पर्वे सन्नद्धा आगताः । ] ३ दामकः - जेदु भट्टा । [ जयतु भर्ता । ] सङ्कर्षण. - दामक ! सर्वे गोपदारकाः समागताः । दामक:- आम भट्टा ! कवे पण्णद्धा आअदा । [ आम भर्तः ! सर्वे ६ सन्नद्धा आगताः । ] दामोदरः - घोषसुन्दरि ! वनमाले ! चन्द्ररेखे ! मृगाक्षि ! घोषवा- सस्यानुरूपोऽयं हल्ली सकनृत्तबन्ध उपयुज्यताम् । ९ सर्वा: - जं भट्टा आणवेदि । [ यद् भर्ताज्ञापयति । ] सङ्कर्षण:- दामक ! मेघनाद ! वाद्यन्तामातोद्यानि । उभौ - भट्टा ! तह । [ भर्त: ! तथा । ] १२ वृद्धगोपालकः- भट्टा ! तुम्हे हळीसअं पकीळन्ति । अहं एत्थ किं करोमि । [ भर्तः ! यूयं हल्लीसकं प्रक्रीडथ । अहमत्र किं करोमि । ] दामोदरः - प्रेक्षको भवान् ननु । १५ वृद्धगोपालकः - भट्टा ! तह । [ भर्तः ! तथा । ] बालचरित ( सर्वे नृत्यन्ति । ) ( प्रविश्य ) ( सङ्कर्षणस्तैः सह निष्क्रान्तः । ) ( ततः प्रविशत्यरिष्टप्रभः । ) वृद्धगोपालक:- ही ही ईदं । पुडु वाइदं । पुट्टु [iii.3.1% चिदं । जाव १८ अहं विच्चेमि । परिस्सन्तो खु अहं । [ ही ही सुष्ठु गीतम् । सुष्टुवादितम् । सुष्ठु नर्तितम् । यावदहमपि नृत्यामि । परिश्रान्तः हम् । ] २१ गोपालकः - हा हा भट्टा अवकमदु इमादा देसादो । [ हा हा भर्ता अपक्रामत्वस्माद्देशाद् । ] दामोदरः - दामक ! किमसि सम्भ्रान्तः । २४ गोपालकः - एपो अळिवषभो णाम दाणवो पिण्डीकिदणिग्घादरुवो भूमिदलं खुरपुडेहि हिन्तो, जष्प घोषो मेघरवत्ति पङ्किदो जादो । [ एपोऽरिष्टवृषभो नाम दानवः पिण्डीकृत निर्घात रूपो भूमितल २७ खुरपुटैर्लिखन्, यस्य घोषो मेघरव इति शङ्कितो जातः । ] , दामोदर:- एवं प्राप्तोऽरिष्टषभः । इमा नो गोपदारिका द्वारकांच गृहीत्वैतन् पर्वतशिखरमामा दुरात्मनो मम च युद्धविशेषं पश्य- : । अहमस्य दर्पप्रशमनं करोमि । ३० त्वार्यः दामोदरः - एप एप दुरात्मारिष्टर्पभः कृत्वा खुरैर्भूमितलं प्रभिन्नं शृङ्गैश्च कूलानि समाक्षिपंश्च । भयार्तगोपैः प्रसमीक्ष्यमाणो नदन् समाधावति गोवृषेन्द्रः ॥ ४ ॥ अरिष्टर्षभः- एप भोः ! शृङ्गामकोटि किरणैः खमिवालिखंश्च शत्रोर्वधार्थमुपगम्य वृषस्य रूपम् । बृन्दावने सललितं प्रतिगर्जमान- माक्रम्य शत्रुमहमद्य सुखं चरामि ॥ ५ ॥ -iii. 10.6] तृतीयोऽङ्कः । हुङ्कारशब्देन ममेह घोषे स्रवन्ति गर्भा वनिताजनस्य । खुराग्रपातालखितार्धचन्द्रा प्रकम्पते सद्मकानना भूः ॥ ६ ॥ कनुखलु गतो नन्दगोपपुत्रः । भो नन्दगोपपुत्र ! कासि । दामोदर :- भो गोवृषाधम ! इत इत: । एप स्थितोऽस्मि । ३ अरिष्टर्षभः- ( दृष्ट्वा ) अहो, सारवान् खल्वयं बालो यो मां दृष्ट्वा महाबलम् । उग्ररूपं महानादं नैव भीतो न विस्मितः ॥ ७ ॥ दामोदर:-- किमेतद् भो ! भयं नाम भवतोऽद्य मया श्रुतम् । भीतानामभयं दातुं समुत्पन्नो महीतले ॥ ८ ॥ अरिष्टर्षभ: - भो ! बालस्त्वम् । अतः खलु भयं न जानासि । दामोदरः - भो गोवृपाधम ! किं बाल इति मां प्रधर्षयसि । किं दृष्टः कृष्णसर्पेण बालेन न निहन्यते । बालेन हि पुरा क्रौञ्चः स्कन्देन निधनं गतः ॥ ९ ॥ भवितव्यम् । अपीदं शृणु मूर्ख ! त्वं कठिनोपलसञ्चयः । किं न पल्लवमात्रेण शैलो वज्रेण पातितः ॥ १० ॥ अरिष्टर्षभः- भो नन्दगोपपुत्र ! किंव्यवसितम् । दामोदरः - त्वां निधनमुपनेतुम् । ३ अरिष्टर्षभः- समर्थो भवान् । दामोदर:- रः - कः संशयः । अरिष्टर्षभः- तेन हि गृह्यतां स्वजातिसदृशं प्रहरणम् । ६ दामोदरः - प्रहरणमिति । हं भोः ! गिरितटकठिनांसावेव बाहू ममैतौ प्रहरणमपरं तु त्वादृशां दुर्बलानाम् । अथ मम भुजदण्डैः पीड्यमानश्च शीघ्रं यदि न पतसि भूमौ नास्मि दामोदरोऽहम् ॥ ११ ॥ अरिष्टर्षभः - तेन हि प्रवर्ततां युद्धम् । दामोदरः - भो गोवृषाधम ! यदि ते शक्तिरस्ति, मां पादेनैकेन स्थितं स्थानात् कम्पय । अरिष्टर्षभः - कोऽत्र संशयः । ( तथा कर्तुं चेष्टयित्वा मूर्च्छितः पतति । ) दामोदरः - भो गोवृष ! समाश्वसिहि समाश्वसिहि । अनेन वीर्येण भवान् गर्वितः । अरिष्टर्षभः- (आश्वस्य, आत्मगतम् ) अहो दुष्प्रसह्योऽयं बालः । रुद्रो वायं भवेच्छक्रो विष्णुर्वापि स्वयं भवेत् । अमिथ्या खल मे तर्कः स एव पुरुषोत्तमः ॥ १२ ॥ आ, यत्र यत्र वयं जातास्तत्र तत्र त्रिलोकधृत् । दानवानां वधार्थाय वर्तते मधुसूदनः ॥ १३ ॥ भवतु । विष्णुना हतस्याप्यक्षयो लोको मे भविष्यति । तस्माद् युद्धं करिष्यामि । (प्रकाशम्) भो नन्दगोपपुत्र ! पुनरपि जातो मे दर्पः । दामोदरः - हम् । तिष्ठ तिष्ठेदानीम् । किं गर्जसे भुजगतो मम गोवृषेन्द्र ! पातप्रवृद्ध इव वार्षिककालमेघः । एहि क्षिपामि धरणीतलमभ्युपेहि वज्राहतस्तट इवाञ्जनपर्वतस्य ॥ १४ ॥ १. ( सौवर्त्त ? संवृत्तो ) iii. 19.' ] तृतीयोऽङ्कः । ( तथा कृत्वा ) एष एष दुरात्मारिष्टर्षभः, विसृतरुधिरधाराक्लिन्ननासास्यनेत्रं चलितककुदवालः प्रस्फुरत्पादकर्णः । निपतति विगतात्मा भूतले वज्रभिन्नो गिरिरिव शिखरायैर्गोवृषो दानवेन्द्रः ॥ १५ ॥ ( प्रविश्य ) ( निष्क्रान्तौ । ) दामक:- जेदु भट्टा । एषो भट्टा षङ्कळिषणो पव्वदादो जमुनाहळे ३ काळिओ नाम महाणाओ उट्ठिदो त्ति पुणिअ तं पडिगओ । वाळेहि वाळेहि भट्टा ! षङ्कळिषणं । [ जयतु भर्ता । एष भर्ता संकर्षणः पर्वताद् यमुनाहूदे कालियो नाम महानाग उत्थित इति ६ श्रुत्वा तं प्रतिगतः । वारय वारय भर्तः ! संकर्षणम् । ] दामोदरः-कालियो नाम मयापि श्रूयते सदर्पः पन्नगपतिः । भव- त्वमस्य दर्पप्रशमनं करोमि । गोब्राह्मणादयस्तेन सुजूष्यन्ते किल प्रजाः । अद्यप्रभृति शान्तात्मा निष्प्रभः स भविष्यति ॥ १६ ॥ तृतीयोऽङ्कः । दामोदर:- बालचरित अथ चतुर्थोऽङ्कः । ( ततः प्रविशति दामोदरः । ) ( ततः प्रविशन्ति गोपकन्यकाः । ) ( प्रविश्य ) [ i. iv. एता मत्तचकोरशावनयनाः प्रद्भिन्नकस्तनाः कान्ताः प्रस्फुरिताधरोष्ठरुचयो विस्रस्तकेशस्रजः । सम्भ्रान्ता गलितोत्तरीयवसनास्त्रासाकुलय्याहृता- म्ता मामनुयान्ति पन्नगपतिं प्रैव गोपाङ्गनाः ॥ १ ॥ सर्वा: - माखु मावु भट्टा ! एदं जळासअं पविसितुं । एसो खु ३ दुट्टमहारअकुळावासों । [ माग्खलु माखलु भर्तः ! एवं जलाशयं प्रवेष्टुम् । एष खलु दुष्टमहोरगकुलावास: । ] दामोदरः-न खलु न खलु विषादः कार्यः । पश्यन्तु भवत्यः । निष्पक्षिव्यालयूथं भयचकितकरित्रात विप्रेक्षिताम्भो- गम्भीरं स्निग्धनीरं हृदमुदधिनिभं क्षोभयन् सम्प्रविश्य । गोपीभिः शङ्किताभिः प्रियहितवचनैः पेशलैर्वार्यमाणः कालिन्दीवासरक्तं भुजगमतित्रलं कालियं धर्षयामि ॥ २ ॥ सर्वा: - भट्टा ! पङ्कळिपण ! वाळेहि वाळेहि भट्टिदामोदळ । [ भर्त: ! संकर्षण ! वारय वारय भर्तृदामोदरम् । ] सङ्कर्षणः- अलमलं भयविपादाभ्याम् । दर्शितोऽनुरागः । पश्यन्तु भवत्यः । विपदहन शिखाभिर्यन्मुखान् प्राताभिः कपिशितमशिवाभिश्चक्रवालं दिशानाम् । सरभसम भियान्तं कृष्णमालक्ष्य शङ्की नमयति शिरसान्तर्मण्डलं चण्डनागः ॥ ३ ॥ —iv. 5. ' ] चतुर्थोऽङ्कः । सर्वाः-हं भट्टिदामोदळो वि तादिसो एव । [ हं भर्तृदामोदरोऽपि तादृश एव । ] ३ दामोदरः - सर्वप्रजाहितार्थं द्रुततरं नागं मे वशं करोमि । ( इति हृदं प्रविष्टः । ) सर्वा:- हा हा धूमो उदो । [ हा हा धूम उत्थितः । ] ६ दामोदर:- अहो हृदस्य गाम्भीर्यम् । इह हि, सितेतराभुग्नदुकूलकान्ति तेन्द्रनील प्रतिमानवीचिम् । इमाम कालियधूमधूम्रां सान्तर्विपाग्निं यमुनां करोमि ॥ ४ ॥ ( निष्क्रान्तः । ) ( ततः प्रविशति वृद्धगोपालकः । ) ३ वृद्वगोपालक:- हा भट्टा ! एपो कण्णआहि वाळिअमाणो जमुणा- हलं पविट्ठो । माखु माखु पाहपं कळिअ पविपिदुं । एत्थ वग्धा वराहा हत्थिणो पाणी पिबिअ तहिं तहिं एव विमरन्ति । कहं ण दिस्सदि । किं दाणिं करोमि । होदु, इमं दाव कुम्भवळाअं आळुहिअ णिज्झामि । ( आरुह्यावलोक्य) हा हा धूमो उट्टो । [ हा भर्तः ! एप कन्यकाभिर्वार्यमाणां यमुनाहृदं प्रविष्टः । मालु माखलु साहसं कृत्वा प्रवेष्टुम् । अत्र व्याघ्रा वराहा हस्तिनः पानीयं पीत्वा तत्र तत्रैव विम्रियन्ते । कथं न दृश्यते । किमिदानीं करोमि । भवतु, इमं तावत् कुम्भपलाशमारुह्य निध्यायामि । हा हा भ्रम १२ उत्थित: । ] सङ्कर्षणः - पश्यन्तु भवत्यः । दामोदरोऽयं परिगृह्य नागं विक्षोभ्य तोयं च समूलमस्य । भोगे स्थितो नीलभुजङ्गमस्य मेघे स्थितः शक्र इवावभाति ॥५॥ वृद्धगोपालक:- ही ही पाहु भट्टा ! बाहु । [ ही ही साधु भर्तः ! साधु । ] बालचरिते ( ततः प्रविशति कालियं गृहीत्वा दामोदरः । ) दामोदर:- रः - एष भोः ! निर्भ कालियमहं परिविष्फुरन्तं मूर्धाविर्तकचरणश्चलबाहुकेतुः । भोगे विषोल्बणफणस्य महोरगम्य हल्ली सकं सललितं रुचिरं वहामि ॥ ६ ॥ [ iv.5.3- सर्वा:- अच्छळीअं भट्टा! अच्छळीअं । काळिअस्स पच फणाणि अक्कमन्तो हळीषअं पकीळदि । [ आश्चर्य भर्तः ! आश्वर्यम् । ३ कालियस्य पञ्च फणानाक्रामन् हल्लीसकं प्रक्रीडति । ] दामोदरः- यावदहमपि पुष्पाण्यपचिनोमि । कालिय: - आः, लोकालोकमहीधरेण भुवनाभोगं यथा मन्दरं शैलं शर्वधनुर्गुणेन फणिना यद्वच्च यादोनिधी । स्थूलाखण्डलहस्तिहस्त कठिनो भोगेन संवेष्टितं त्वामेष त्रिदशाधिवास मधुना सम्प्रेषयामि क्षणात् ॥ ७ ॥ वृद्धगोपालकः - हा हा भट्टा ! । एसो भट्टिदामोदळो पुष्फाणुकारेहि. पदेहि आआरवन्तं विअ जमुणाहळं महाणाअं पादेण परिघट्ट- ३ अन्तो पुष्पाणि अवइणोदि । ( अवतीर्य ) बाहु भट्टा ! बाहु । फळेहि फळेहि । अहं वि पहाओ होमि । अहो भाआमि भट्टा ! भाआमि । जाव इमं वुत्तन्तं णन्दगोवष्ष णिवेदेमि । ६ (निष्क्रान्तः । ) [ हा हा भर्तः ! एष भर्तृदामोदरः पुष्पानुकाराभ्यां पदा- भ्यामाकारवन्तमिव यमुनाहृदं महानागं पातेन परिघट्टयन् पुष्पाण्य- वचिनोति । साधु भर्तः ! साधु । फालय फालय । अहमपि सहायो ९ भवामि । अहो बिभेमि भर्तः ! बिभेमि । यावदिमं वृत्तान्तं नन्द- गोपाय निवेदयामि । ] —iv. 11.' ] चतुर्थोऽङ्कः । दामोदर:- विध्वस्तमीन मकरा यमुनादान्ताद् दर्पोच्छ्रयेण महता दृढमुच्छ्रसन्तम् । आशीविषं कलुषमायतवृत्तभोग- मेष प्रसह्य सहसा भुवि विक्षिपामि ॥ ८ ॥ कालिय: - एष भोः ! रोषेण धूमायति यस्य देहस्तेनैव दाहं पृथिवी प्रयाति । ३ ज्वालावलीभिः प्रदहामि सोऽहं रक्षन्तु लोकाः समरुद्गणास्त्वाम् ॥९॥ दामोदरः- कालिय ! यदि ते शक्तिरस्ति, दह्यतां ममैको भुजः 1 कालिय: - हहह, चतुः सागरपर्यन्तां ससप्तकुलपर्वताम् । दहेयं पृथिवीं कृत्स्नां किं भुजं न दहामि ते ॥ १० ॥ हं, तिष्ठेदानीम् । एष त्वां भस्मीकरोमि । ( विषाग्निं मुञ्चति । ) दामोदरः - हन्त दर्शितं ते वीर्यम् । ३ कालिय: - प्रसीदतु प्रसीदतु भगवान् नारायणः । दामोदर:- अनेन वीर्येण भवान् गर्वितः । कालिय:- प्रसीदतु भगवान् । गोवर्धनोद्धरणमप्रतिमप्रभावं बाहुं सुरेश ! तव मन्दरतुल्यसारम् । का शक्तिरस्ति मम दग्धुमिमं सुवीर्यं यं संश्रितास्त्रिभुवनेश्वर ! सर्वलोकाः ॥ ११ । भगवन् ! अज्ञानादतिक्रान्तवान्, सान्तःपुरः शरणागतोऽस्मि । दामोदर:- कालिय ! किमर्थमिदानीं यमुनाहूदं प्रविष्टोऽसि । बालचरित [ iv. 11. 3- ३ कालिय:- भगवतो वरवाहनाद् गरुडाद् भीतोऽहमिह प्रविष्टोऽस्मि । तदिच्छामि गरुडाद्भयं भगवत्प्रसादान् । दामोदरः - भवतु भवतु । मम पादेन नागेन्द्र ! चिह्नितं तव मूर्धनि । सुपर्ण एव प्रेदमभयं ते प्रदाम्यति ॥ १२ ॥ कालिय: - अनुगृहीतोऽस्मि । दामोदरः - प्रविशतु भवान् । ३ कालिय: - यदाज्ञापयति भगवान् नारायणः । दामोदर:- अथवा एहि तावत् । कालिय:- भगवन ! अयमस्मि । ६ दामोदरः - अद्यप्रभृति गोब्राह्मणपुरोगासु सर्वप्रजास्वप्रमादः कर्तव्यः । कालिय:- भगवन ! मद्विपदूपितमिदं जलम् । तदिदानीमेव विपं संहृत्य यमुनादान्निष्क्रामामि । ९ दामोदरः - प्रतिनिवर्ततां भवान । कालिय: - यदाज्ञापयति भगवान नारायणः । ( सपरिजनां निष्क्रान्तः । ) दामोदर:- यावदहमपि हृदाद गृहीतानि पुष्पाणि गोपकन्यकाभ्यः १२ प्रयच्छामि । सर्वा: - एसो भट्टा अम्हाणं हिअआणन्दं करन्तां अक्खदसरीरो इदो एव आच्छदि । जेदु भट्टा । [ एप भर्तास्माकं हृदयानन्द १५ कुर्वन् अक्षतशरीर इत एवागच्छति । जयतु भर्ता । ] सङ्कर्षणः- दिष्टया गोत्राह्मणहितं कृतम् । दामोदर:- गृह्यन्तां पुष्पाणि । सर्वा:- भट्टा ! दाणि मुणिस केहि अणवइदपुत्र्वाणि पुष्फाणि पळा- १८ मिट्ठाणि चन्द्रादिवकिरणेहि अपरिमद्दिदाणि । भाआमो भट्टा ! । iv. 13. ' ] चतुर्थोऽङ्कः । [ भर्त: ! एतानि मुनिसङ्घैरनवचितपूर्वाणि पुष्पाणि परामृष्टानि चन्द्रा- दिव्याकरणैरपरिमर्दितानि । बिभीमो भर्तः ! । ] २१ दामोदरः - पूर्वं दृष्टुभया वित्रस्तास्तपस्विन्यः । न भेतव्यं न भेतव्यम् । इदानीं खलु मत्करस्पर्शनान् मौम्यभावमुपगता गृह्यन्ताम् । २४ सर्वाः -- जं भट्टा आणवेदि । [ यद् भर्ताज्ञापयति । ] ( प्रविश्य ) ( निष्क्रान्ताः सर्वे । ) :- भो गोपालक ! क गतो नन्दगोपपुत्रः । भटः- २७ गोपालकः - एषो भट्टा काळिअं णाम महाणाअं परिपीडिअ गोव- आहि परिवुदो ओ । [ एप भर्ता कालियं नाम महानागं परिपीड्य गोपकन्यकाभिः परिवृतः स्थितः । ] ३० भटः- ( उपगम्य ) भो नन्दगोपपुत्र ! अनुगतार्थनामधेयस्य महा- राजम्योग्रसेनम्य पुत्रः कंसराजो भवन्तमाज्ञापयति । दामोदरः- कथमाज्ञापयतीति । ३३ भटः - मधुरायां धनुर्महो नाम महोत्सवो भविष्यति । तमनुभवितुं सपरिजनाभ्यां भवद्भयामागन्तव्यमिति । दामोदरः- आर्य ! अयं ननु देवरहस्यकालः । ३६ सङ्कर्षण:- शीघ्रमिदानीं गमिष्यावः । दामोदर:- बाढम् । प्रथमः कल्पः । एप भोः ! प्रभ्रष्टरत्नमकुटं परिकीर्णकेशं विच्छिन्नहारपतिताङ्गदलम्बसूत्रम् । आकृष्य कंसमहमद्य दृढं निहन्मि नागं मृगेन्द्र इव पूर्वकृतावलेपम् ॥ १३ ॥ चतुर्थोऽङ्कः । ३ राजा- बालचरिते अथ पञ्चमोऽङ्कः । ( ततः प्रविशति राजा । ) ( प्रविश्य ) श्रुत्वा जे विपुलविक्रमवीर्यसत्त्वं दामोदरं सह समाचरन्तम् । 1 आदिश्य कार्मुकमहं तमिहोपनीय मल्लेन रङ्गगतमद्य तु घातयामि ॥ १ ॥ ध्रुवसेन ! ध्रुवसेन ! ३ भटः- जयतु महाराजः । राजा-ध्रुवसेन ! किमागतो नन्दगोपपुत्रः । भटः - [ v. ''— : - श्रोतुमर्हति महाराजः --- प्रविशत्रेव दामोदरः ससङ्कर्षणो ६ गोपजनपरिवृतो रजकेभ्यो वस्त्राण्याच्छिद्य गृहीतवानिति श्रुत्वा महामात्रेणोत्पलापीडो नाम गन्धहस्ती सञ्चोदितस्तमभिघात- यितुम् । ततः, तमापतन्तं सहसा समीक्ष्य सभीतगोपालकवृन्दमध्ये । बालो बलेनाद्रिनिभं गजेन्द्रं दन्तं समाकृष्य जघान शीघ्रम् ॥ 11 राजा-कथं जघानेति । गच्छ । भूयो ज्ञायतां वृत्तान्तः । भट: - यदाज्ञापयति महाराजः ( निष्क्रम्य प्रविश्य ) जयतु ३ महाराजः । एष इदानीं नन्दगोपपुत्र उत्सवाधिकारोच्छ्रितध्वजप- ताक्रमवसक्तमाल्यदामालङ्कृतमुत्थापितागुरुधूपसमाकुलं राजमहा- पथं प्रविश्य राजकुलद्वारे गन्धसमुद्रावसक्तहस्तां मदनिकां नाम ६ कुब्जिकां दृष्ट्वा तस्या हस्ताद् गन्धमादाय स्वगात्रमनुलिप्य तेनैव हस्तेन कुब्जस्यानुमार्जनेन विगतकुब्जभावां तां कृत्वा -v. 4.] पचमोऽङ्कः । मालाकारापणेभ्यः पुष्पाण्याहृत्यावबध्य धनुःशालाभिमुखो गतः । - किन्नुखलु तेन व्यवसितम् । तेन हि शीघ्रं गच्छ । भूयो ज्ञायतां वृत्तान्तः । ९ राजा- भट: - यदाज्ञापयति महाराजः । (निष्क्रम्य प्रविश्य) जयतु महाराजः । १२ धनुःशालारक्षकेण सिंहबलेन वार्यमाणस्तं कर्णमूले प्रहृत्य हत्वा धनुः समादाय द्विखण्डं कृत्वा साम्प्रतमुपस्थानाभिमुखो गतः । सहि, आपीडदामशिबिर्हविचित्रवेपः पीताम्बरः सजलतोयदराशिवर्णः । अभ्येति रोषपरिवृत्तविशालनेत्रो रामेण सार्धमिह मृत्युरिवावतीर्णः ॥ ३ ॥ राजा - सावेगमिव मे हृदयम् । गच्छ यथानिर्दिष्टौ चाणूरमुष्टिको प्रवेशय, वृष्णिकुमाराणां सन्नाहमाज्ञापय । ३ भटः - यदाज्ञापयति महाराजः । (निष्क्रान्तः । ) राजा - यावदहमपि प्रासादमारुह्य चाणूरमुष्टिकयोर्युद्धं पश्यामि । ( आरुह्य ) मधुरि के ! विघयतां द्वारम् । ६ प्रतिहारी - जं भट्टा आणवेदि । [ यद भर्ताज्ञापयति । ] ९ चाणूर:- ( राजा प्रविश्यांपविशति । ) ( ततः प्रविशतश्चाणूरमुष्टिको । ) एसो म्हि जुद्धसज्जो मत्तो हत्थीव दप्पसम्पुण्णो । भञ्जमि अज्ज बाळं दामोदळं लंगमज्झम्मि ॥ ४ ॥ [ एषोऽस्मि युद्धसज्जो मत्तो हस्तीव दर्पसंपूर्णः । भनज्म्यद्य बाले दामोदरं रङ्गमध्ये ॥ ] मुष्टिक:- बालचरिते [ v. 4. लोहमयमुत्थिो णामेण अ मुट्ठिओ लुट्टि । पामि अज्ज कामं गिळिवळकूटं जहा वज्जो ॥ ५ ॥ [ लोहमयमुष्टिहस्तो नाम्ना च मुष्टिको रुष्टः । पातयाम्यद्य रामं गिरिवरकूटं यथा वज्रः ॥ ] भट: - एष महाराजः । उपसर्पेतां भवन्तौ । उभौ - ( उपत्य) जेदु भट्टा । [ जयतु भर्ता । ] ३ राजा - चाणूरमुष्टिको ! सर्वप्रयत्नेन युवाभ्यामानृण्यं कर्तव्यम् । उभौ - सुणादु भट्टा । अड्डिकरणसन्धाबन्धप्पहारेहि जुद्धाविसेसंहि मिद्धिं गच्छामो । हं पेक्खटु भट्टा । [ श्रृणोतु भर्ता । ६ ( अडिद ? ) करणसन्धाबन्धप्रहारैर्युद्धविशेषैः सिद्धिं गच्छामः । पश्यतु भर्ता । ] राजा - बाढमेवं क्रियताम् । ध्रुवसन ! प्रवेश्येतां गोपदारकौ । ९ भट: - यदाज्ञापयति महाराजः । (निष्क्रान्तः । ) ( ततः प्रविशतो दामोदरसङ्कर्षणी ध्रुवसेनेन सह । ) दामोदरः- आर्य ! मर्त्येषु जन्म विफलं मम तानि घोषे कर्माणि चाद्य नगरे धृतये न तावत् । यावन्न कंसहतकं युधि पातयित्वा जन्मान्तरासुरमहं परिकर्पयामि ॥ ६ ॥ सङ्कर्षण:- प्रविश्य रङ्गं कृतलोहमुष्टिं तं मुष्टिना मुष्टिकमद्य रुष्टम् । हं हत्वा चरिष्याम्यनिलप्रचण्डः प्रलम्बमम्भोदमिवान्तरिक्षे ॥ ७ ॥ भटः- एप महाराजः । उपसर्पेतां भवन्तौ । ―v. 10.1 पञ्चमोऽङ्कः । उभौ- -आः कस्य महाराजः । ३ भटः - सर्वस्य जगतोऽस्माकं च । दामोदर:- अद्यप्रभृति न भविष्यति । भट: - जयतु महाराजः । एतौ तौ । ६ राजा - ( विलोक्य) अयं स दामोदरः । अहो, श्रीमान मदान्धगजधीरविलासगामी श्यामः स्थिरांसभुजपीनविकृष्टवक्षाः । पूर्वं श्रुतानि चरितानि न चित्रमस्य लोकत्रयं हि परिवर्तयितुं समर्थः ॥ ८ ॥ अयं नु ललितगम्भीराकृतिः पूर्वजोऽम्य राम इति श्रूयते । अभिनवकमलामलायताक्षः शशिनिभमूर्तिरुदारनीलवामाः । रजतपरिघवृत्तदीर्घबाहुश्चलद सितोत्पलपत्रचित्रमालः ॥ ९ ॥ दामोदरः - आर्य ! एतावेवावाभ्यां युद्धसन्नद्धाविति मन्ये । सङ्कर्षणः - भवितव्यम् । ३ राजा- -ध्रुवसेन ! प्रवर्ततां युद्धम् । भटः- यदाज्ञापयति महाराजः ( मालां क्षिपति । ) मल्ली - अङ्को ! वादेथ वादेथ ६ यत वादयत सङ्ख्यपटहान् । ] सङ्कपटहाणि । [ अङ्को ! वाद- चाणूर:- एहि दामोदळ ! अज्ज मे भुजजुअळेहि सिद्धिं गच्छ । [ एहि दामोदर ! अद्य मे भुजयुगलेन सिद्धिं गच्छ । ] ९ दामोदर:- प्राप्तोऽस्मि तिष्ठ मम वेगमिमं सहस्व मुष्टिकः - ए ए काम ! अज्ज में मुट्ठिपिट्ठगत्तगळि अळुहिळपडळमज्जो जीवि उज्झसि । [ ए ए राम ! अद्य मे मुष्टिपिष्टा । त्रगलित रुधिर- ३ पटलमज्जो जीवितमुज्झसि । ] बाल. ३२ सङ्कर्षण:- त्वामद्य मुष्टिक ! यमाय निवेदयामि । ( सर्वे नियुद्धं कुर्वन्ति । ) दामोदर:- ( चाणूरं निहत्य ) भग्नास्थिरेष निहतो सङ्कर्षण:- निहतो मयापि दामोदर:- कंसासुरं च यमलोकमहं नयामि ॥ १० ॥ ( प्रासादमारुह्य कंसं शिरसि निगृह्य पातयित्वा ) एष एष दुरात्मा कंसः, विस्तीर्णलोहितमुखः परिवृत्तनेत्रो भग्नांसकण्ठकटिजानुकरोरोजङ्घः । विच्छिन्नहारपतिताङ्गदलम्बसूत्रो वज्रप्रभग्नशिखरः पतितो यथाद्रिः ॥ ११ ॥ ( नेपथ्ये ) हा हा महाराजः । ( पुनर्नेपथ्ये ) भो भो वृष्णियोधाः ! अनावृष्टिशिवकहृदिकपृथुकसोमदत्ताक्रूर- प्रमुखाः ! अयं खलु भर्तृपिण्डनिष्क्रयस्य कालः । शीघ्रमागच्छन्तु भवन्तः । दामोदरः- आर्य ! संवार्यतां सैन्यम् । सङ्कर्षणः-अयमयं वारयामि । द्रुततुरगरथेभभ्रान्तयोधोप्रनादं विलसदमलखड्गप्रासशक्त्यृष्टिकुन्तम् । —v. 13.46 ] पञ्चमोऽङ्कः । पवनबलविकीर्ण फेनजालोर्मिमालं जलनिधिमिव दोर्भ्यां क्षोभयाम्येष सैन्यम् ॥ १२ ॥ ( ततः प्रविशति वसुदेवः । ) ( प्रविश्य ) वसुदेवः - भो भो मधुरावासिनः ! अलमलं साहसेन ज्येष्ठोऽयं मम तनयस्तु रौहिणेयो देवक्यास्तनयमिमं च किं न वित्थ । सन्नाहं त्यजत किमायुधैश्च कार्यं कंसार्थं स्वयमिह विष्णुराजगाम ॥ १३ ॥ सङ्कर्षण:- ( विलोक्य) अये तातः । तात ! सङ्कर्षणोऽहमभिवादये । दामोदरः - तात ! दामोदरोऽहमभिवादये । ३ वसुदेवः - अक्षयविजयिनौ भवेतां भवन्तौ । सत्पुत्रजन्मफलमद्य प्राप्तवानस्मि । उभौ - अनुगृहीतौ स्वः । ६ वसुदेवः - कोऽत्र । भट: - जयत्वार्यपुत्रः । ९ वसुदेवः - अपविध्यन्तां कलेवराणि । भटः- यदाज्ञापयत्यार्यपुत्रः । गोपालकाः सर्वे - ही ही गोवाळआणं रज्जं संवृत्तं । [ ही ही १२ गोपालकांनां राज्यं संवृत्तम् । ] वसुदेवः - कोऽत्र । भटः - जयत्वार्यपुत्रः । १५ वसुदेवः - गच्छ, शीघ्रं दामोदरस्यादेशादनावृष्टिमाज्ञापय-महा- राजमुग्रसेनमपनीय निगलान्निर्वृत्ताभिषेकं कृत्वा प्रवेशयेति । .. बालचरिते भट: - यदाज्ञापयत्यार्यपुत्रः । (निष्क्रान्तः । ) १८ वसुदेव:- अय, [v.13.17_ नदन्ति सुरतूर्याणि वृष्टिः पतति कौमी । कंमान्तकस्य पूजार्थं प्रायो देवाः समागताः ॥ १४ ॥ (नेपथ्ये ) ( ततः प्रविशत्युग्रसेनः । ) ( ततः प्रविशति नारदः । ) श्रीमानिमां कनकचित्रितहर्म्यमालां विस्तीर्णराजभवनापणगोपुराट्टाम् । पायान् सदैव मधुरां कमलायताक्ष- स्त्रैलोक्यजिन सुरवरस्त्रिदशेन्द्रनाथः ॥ १५ ॥ वसुदेवः - भो भो मधुरावासिनः ! शृण्वन्तु शृण्वन्तु भवन्तः । अस्य खलु दैत्येन्द्रपुरार्गलोत्पाटनपटोः सर्वक्षत्रपराङ्मुखावलोकिनो ३ वसुदेवसम्भवस्य वासुदेवस्य प्रसादान् पुनरधिगतराज्यस्योप्रसेनस्य शासनमिदानीमवघुष्यते । सर्वे-प्रतिष्ठितमिदानीं वृष्णिराज्यम् । ६ वसुदेवः - प्रवेश्यतां महाराजः । भटः - यदाज्ञापयत्यार्यपुत्रः । (निष्क्रान्तः । ) ९ उग्रसेनः- चिरोपरोधसम्प्राप्तः क्लेशो मे केशिसूदनात् । अपनीतः स्ववीर्येण यथा विष्णोः शतक्र( तु ? तो): ॥ १६ ॥ भगवत्प्रसादाद् व्यसनार्णवादुत्तारितोऽस्मि । नारद:- कंसे प्रमथिते विष्णोः पूजार्थं देवशासनात् । सगन्धर्वाप्सरोभिश्व देवलोकादिहागतः ॥ १७ ॥ v, 20.3 ] पञ्चमोऽङ्कः । दामोदरः- अये देवर्षिर्नारदः । देवर्षे ! स्वागतम् । इदमर्घ्यं पाद्यं च । नारद:- सर्वं गृह्णामि । गन्धर्वाप्सरसो गायन्ति । नारायण ! नमस्तेऽस्तु प्रणमन्ति च देवताः । अनेनासुरनाशेन मही च परिरक्षिता ॥ १८ ॥ दामोदरः - देवर्षे ! परितुष्टोऽस्मि । किं ते भूयः प्रियमुपहरामि । नारद:- प्रहृष्टो यदि मे विष्णुः सफलो मे परिश्रमः । गमिष्ये विधावासं सह सर्वैः सुरोत्तमैः ॥ १९ ॥ दामोदर:- गच्छतु भवान् पुनर्दर्शनाय । नारद: - यदाज्ञापयति भगवान् नारायणः । (निष्क्रान्तः । ) ( भरतवाक्यम ) (निष्क्रान्ताः सर्वे ) इमां सागरपर्यन्तां हिमवद्विन्ध्यकुण्डलाम् । महीमेकातपत्राङ्कां राजसिंहः प्रशास्तु नः ॥ २० ॥ पञ्चमोऽङ्कः । अवसितं बालचरितम् ॥