2026-01-25 00:10:42 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore lang="sa">५४२</ignore>
<ignore lang="sa">बालचरिते</ignore>
<verse lang="sa">गिरितटकठिनांसावेव बाहू ममैतौ
प्रहरणमपरं तु त्वादृशां दुर्बलानाम् ।
अथ मम भुजदण्डैः पीड्यमानश्च शीघ्रं
यदि न पतसि भूमौ नास्मि दामोदरोऽहम् ॥ ११ ॥</verse>

<speaker>अरिष्टर्षभः -</speaker> तेन हि प्रवर्ततां युद्धम् ।

<speaker>दामोदरः -</speaker> भो गोवृषाधम ! यदि ते शक्तिरस्ति, मां पादेनैकेन
स्थितं स्थानात् कम्पय ।

<speaker>अरिष्टर्षभः -</speaker> कोऽत्र संशयः । <stage>( तथा कर्तुं चेष्टयित्वा मूर्च्छितः पतति । )</stage>

<speaker>दामोदरः -</speaker> भो गोवृष ! समाश्वसिहि समाश्वसिहि । अनेन वीर्येण
भवान् गर्वितः ।

<speaker>अरिष्टर्षभः-</speaker> <stage>(आश्वस्य, आत्मगतम् )</stage> अहो दुष्प्रसह्योऽयं बालः ।

<verse>रुद्रो वायं भवेच्छक्रो विष्णुर्वापि स्वयं भवेत् ।
अमिथ्या खल मे तर्कः स एव पुरुषोत्तमः ॥ १२ ॥</verse>

आ,

<pverse lang="sa">यत्र यत्र वयं जातास्तत्र तत्र त्रिलोकधृत् ।
दानवानां वधार्थाय व<ref>१</ref>र्तते मधुसूदनः ॥ १३ ॥</pverse>

भवतु । विष्णुना हतस्याप्यक्षयो लोको मे भविष्यति । तस्माद् युद्धं
करिष्यामि । <stage>(प्रकाशम्)</stage> भो नन्दगोपपुत्र ! पुनरपि जातो मे दर्पः ।

<speaker>दामोदरः -</speaker> हम् । तिष्ठ तिष्ठेदानीम् ।

<verse lang="sa">किं गर्जसे भुजगतो मम गोवृषेन्द्र !
पातप्रवृद्ध इव वार्षिककालमेघः ।
एहि क्षिपामि धरणीतलमभ्युपेहि
वज्राहतस्तट इवाञ्जनपर्वतस्य ॥ १४ ॥</verse>
<footnote lang="sa">१. ( सौवर्त्त ? संवृत्तो )</footnote>
<ignore lang="sa">३२</ignore>
</page>
<ignore lang="sa">५४२</ignore>
<ignore lang="sa">बालचरिते</ignore>
<verse lang="sa">गिरितटकठिनांसावेव बाहू ममैतौ
प्रहरणमपरं तु त्वादृशां दुर्बलानाम् ।
अथ मम भुजदण्डैः पीड्यमानश्च शीघ्रं
यदि न पतसि भूमौ नास्मि दामोदरोऽहम् ॥ ११ ॥</verse>

<speaker>अरिष्टर्षभः -</speaker> तेन हि प्रवर्ततां युद्धम् ।

<speaker>दामोदरः -</speaker> भो गोवृषाधम ! यदि ते शक्तिरस्ति, मां पादेनैकेन
स्थितं स्थानात् कम्पय ।

<speaker>अरिष्टर्षभः -</speaker> कोऽत्र संशयः । <stage>( तथा कर्तुं चेष्टयित्वा मूर्च्छितः पतति । )</stage>

<speaker>दामोदरः -</speaker> भो गोवृष ! समाश्वसिहि समाश्वसिहि । अनेन वीर्येण
भवान् गर्वितः ।

<speaker>अरिष्टर्षभः-</speaker> <stage>(आश्वस्य, आत्मगतम् )</stage> अहो दुष्प्रसह्योऽयं बालः ।

<verse>रुद्रो वायं भवेच्छक्रो विष्णुर्वापि स्वयं भवेत् ।
अमिथ्या खल मे तर्कः स एव पुरुषोत्तमः ॥ १२ ॥</verse>

आ,

दानवानां वधार्थाय व<ref>१</ref>र्तते मधुसूदनः ॥ १३ ॥</