This page has been fully proofread once and needs a second look.

<page>
<ignore lang="sa">
५४२

</ignore>
<ignore lang="sa">
बालचरिते

</ignore>
<verse lang="sa">
गिरितटकठिनांसावेव बाहू ममैतौ

प्रहरणमपरं तु त्वादृशां दुर्बलानाम् ।

अथ मम भुजदण्डैः पीड्यमानश्च शीघ्रं

[iii. 11. -

यदि न पतसि भूमौ नास्मि दामोदरोऽहम् ॥ ११ ॥
</verse>

<speaker>
अरिष्टर्षभः -</speaker> तेन हि प्रवर्ततां युद्धम् ।

<speaker>
दामोदरः -</speaker> भो गोवृषाधम ! यदि ते शक्तिरस्ति, मां पादेनैकेन

स्थितं स्थानात् कम्पय ।

<speaker>
अरिष्टर्षभः -</speaker> कोऽत्र संशयः । <stage>( तथा कर्तुं चेष्टयित्वा मूर्च्छितः पतति । )
</stage>

<speaker>
दामोदरः -</speaker> भो गोवृष ! समाश्वसिहि समाश्वसिहि । अनेन वीर्येण

भवान् गर्वितः ।

<speaker>
अरिष्टर्षभः- </speaker> <stage>(आश्वस्य, आत्मगतम् )</stage> अहो दुष्प्रसह्योऽयं बालः ।

<verse>
रुद्रो वायं भवेन्टकोच्छक्रो विष्णुर्वापि स्वयं भवेत् ।

अमिथ्या खल मे तर्कः स एव पुरुषोत्तमः ॥ १२ ॥

</verse>

आ,

यत्र यत्र वयं जातास्तत्र तत्र त्रिलोकधृत् ।

दानवानां वधार्थाय व<ref>१</ref>र्तते मधुसूदनः ॥ १३ ॥

भवतु । विष्णुना हतस्याप्यक्षयो लोको मे भविष्यति । तस्माद् युद्धं

करिष्यामि । <stage>(प्रकाशम्)</stage> भो नन्दगोपपुत्र ! पुनरपि जातो मे दर्पः ।

<speaker>
दामोदरः -</speaker> हम् । तिष्ठ तिष्ठेदानीम् ।

9.

<verse lang="sa">
किं गर्जसे भुजगतो मम गोवृषेन्द्र !

पातप्रवृद्ध इव वार्षिककालमेघः ।

एहि क्षिपामि धरणीतलमभ्युपेहि

वज्राहतस्तट इवाञ्जनपर्वतस्य ॥ १४ ॥

</verse>
<footnote lang="sa">१.
( सौवर्त्त ? संवृत्तीतो )

</footnote>
<ignore lang="sa">
३२

</ignore>
</page>