This page has been fully proofread once and needs a second look.

५१६
 
बालचरिते
 
[1.17.-
 
<page>
<verse>
तमसा संवृते लोके भम मार्गमपश्यतः ।
 

अपक्रमण हेतोस्तु कुमारेण प्रभा कृता ॥ १७ ॥
 
</verse>
<p>
एष मार्गः । यावदपक्रामामि । अये इयं भगवती यमुना काल-

वर्षसम्पूर्णा स्थिता । अहो व्यर्थो मे परिश्रमः । किमिदानीं

करिष्ये । भवतु, दृष्टम् ।
 
</p>
<verse>
इमां नदीं ग्राहभुजङ्गसङ्कुलां
 

महोर्मिमालां मनसापि दुस्तराम् ।

भुजप्लवेनाशु गतार्थविक्लवो
 

हामि सिद्धिधिं यदि दैवतं स्थितम् ॥ १८ ॥
 
</verse>
<p><stage>
( तथा कृत्वा सविस्मयम् )</stage> हन्त द्विधा छिन्नं जलम्, इतः स्थितम्,

इतः प्रधावति । दत्तो मे भगवत्या मार्गः । यावदपक्रामामि ।

<stage>
(अवतीर्य)</stage> निष्क्रान्तोऽस्मि यमुनायाः । अये हुङ्कारशब्द इव

श्रूयते । व्यक्तं घोषसमीपे वर्तते मन्दभाग्यः । आ, अत्र च

समीप घोपेषे मम वयस्यो नन्दगोपः प्रतिवसति । स खलु मया

कंसाज्ञया निगलितः कशाभिहतश्च । यावत् प्रविशामि । अथवा

रात्रौ वसुदेवः प्रविष्ट इति शङ्किता गोपालका भविष्यन्ति ।

तस्मादिह न्यग्रोधपादपस्याधस्तान्त् प्रभातवेलां रजन्याः प्रतिपाल-

यामि । भो भो न्यग्रोधदेवताः ! यद्ययं बालो लोकहिता<ref>१</ref>र्थं कंस -

वधार्थं वृष्णिकुले प्रसूतश्चेद्, घोषात् कश्चिदिहागच्छतु । न, न,

मम वयस्यो नन्दगोप एवागच्छतु ।
 
१२
 
</p>
<p><stage>
( ततः प्रविशति दारिकां गृहीत्वा नन्दगोपः । )
 
</stage></p>
<p><speaker>
नन्दगोपः - </speaker> <stage>( सशोकम् )</stage> दाळिए ! दाळिए ! किं दाणि णो गेहळा
ष्षिं
पळमिa तदो णो उज्झिअ णं गच्छषि । षम्पदि हि महिषपद -
१५

सम्पादषदिषं अहो बळिअं अन्धआळं ।
 
</p>
<footnote>
१. लोकहितार्थः ।
 
</footnote>
</page>