This page has been fully proofread once and needs a second look.

<page>
<ignore lang="sa">
i. 16.4 ]

</ignore>
<ignore lang="sa">
प्रथमोऽङ्कः ।

</ignore>
<verse>
विन्ध्यमन्दरसारोऽयं बालः पद्मदलेक्षणः ।

गर्भे यया धृतः श्रीमानहो धैर्यं हि योषितः ॥ १२ ॥

</verse>

देवकि ! प्रविश त्वमभ्यन्तरम् ।

५१५

<speaker>
देवकी -</speaker> एसा गच्छामि मन्दमाआ । <stage>(निष्क्रान्ता । ) (</stage> <chaya>[ एषा गच्छामि

मन्दभागा । ]

</chaya>

<speaker>
वसुदेव:-</speaker> एषा देवकी,

<verse>
हृदयेनेह तत्राद्वैङ्गैर्द्विधाभूतेव गच्छति ।

यथा नभसि तांतोये च चन्द्रलेखा द्विधाकृता ॥ १३ ॥
</verse>

हन्त प्रविष्टा देवकी । यावदहमपि नगरद्वारं संश्रयामि । एष भोः,

<verse>
प्रथमसुतविनाशजातमन्युर्नृपतिभयाकुलितः प्रगृह्य बालम् ।

त्वरिततरमिह प्रयामि मार्गे गिरिमिव मन्दरमुद्वहन्भुजाभ्याम् ॥१४॥
</verse>

<stage>
( परिक्रम्य )</stage> इदं नगरद्वारम् । यावत् प्रविशामि । <stage>( प्रविश्य)</stage> अये

प्रसुप्तो मधुरायां सर्वो जनः । यावदपक्रामामि । <stage>( परिक्रम्य )
</stage>
निष्क्रान्तोऽस्मि मधुरायाः । अहो बलवांश्चायमन्धकारः । सम्प्रति

हि,

<verse>
लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः ।

असत्पुरुसेवेव दृष्टिर्निष्फलतां गता ॥ १५ ॥

</verse>

अहो तमसः प्रभुत्वम् ।

<verse>
अप्रकाशा इव दिशो घनीभूता इव द्रुमाः ।

सुनिविष्टस्य लोकस्य कृतो रूपविपर्ययः ॥ १६

॥</verse>

नाहं गन्तुं समर्थः । अये दीपिकालोकः । किन्नुखलु दुरात्मा कंसो

ममापक्रमणं ज्ञात्वा दीपिकाभिः परिवृतो मां ग्रहीतुमागतो भवेत् ।

भवत्वहमस्य दर्पप्रशमनं करोमि । <stage>( खङ्ड्गमुत्कोशयति । निवृत्यावलोक्य)
</stage>
अये न कश्चिद् दृश्यते । आ,

</page>