This page has been fully proofread once and needs a second look.

<page>
<ignore>
५१४

</ignore>
<ignore>
बालचरिते

</ignore>
<verse>
अगणित परिखेदा याति षण्णां सुताना-

मपचयगमनार्थं सप्तमं रक्षमागा ।
णा ।
बहुगुणकृतलोभा जन्मकाले निमित्तैः

[ i. 10. -

सुत इति कृतसंज्ञं कंस मृत्युं वहन्ती ॥ १० ॥
</verse>

<speaker>
देवकी - </speaker> <stage>( उपसृत्य )</stage> जेदु अय्यउत्तो । <chaya>[ जयत्वार्यपुत्रः । ]
</chaya>

<speaker>
वसुदेवः-</speaker> देवकि ! अर्धरा<ref>१</ref>त्रः खलु वर्तते । प्रसुप्तो मधुरायां सर्वो

जनः । तस्माद् यावन्न कश्चित् पश्यति, तावद् बालं गृहीत्वा -

पक्रामामि ।

<speaker>
देवकी-</speaker>कहिं अय्यउत्तो इमं णइस्सदि । <chaya>[ क्वार्यपुत्र इमं नेष्यति । ]
</chaya>

<speaker>
वसुदेवः -</speaker> देवकि ! सत्यं ब्रवीषि । अहमपि न जाने । किन्तु,

एकच्छत्रच्छायां पृथिवीं समाज्ञापयति दुरात्मा कंसः । तत् क्वनु

खल्वयमायुष्मान् नेतत्र्व्यो भविष्यति । अथवा यत्र दैवं विधा-

स्यति, तत्र बालं गृहीत्वापक्रामामि ।

<speaker>
देवकी -</speaker> अय्यउत्त ! इच्छामि दाव णं सुदिट्ठे कत्तुं । <chaya>[ आर्यपुत्र !

इच्छामि तावदेनं सुदृष्टं कर्तुम् । ]

१२
</chaya>

<speaker>
वसुदेवः -</speaker> अयि अतिपुत्रवत्सले !

<verse>
किं द्रष्टव्यः शशाङ्कोऽयं राहोर्वदनमण्डले ।

त्वयाप्यस्य सुदृष्टस्य कंसो मृत्युर्भविष्यति ॥ ११ ॥

</verse>

<speaker>
देवकी -</speaker> सव्वावहा ण भविस्सदि । <chaya>[ सर्वथा न भविष्यति । ]
</chaya>

<speaker>
वसुदेवः -</speaker> यद् भवत्याभिहितं, तत् सर्वदैवतैरभिहितं भवतु ।

आनय ।

<speaker>
देवकी -</speaker> गह्णदु अय्यउत्तो । <chaya>[ गृह्णात्वार्यपुत्रः । ]
</chaya>

<speaker>
वसुदेवः - </speaker> <stage>( गृहीत्वा )</stage> अहो गुरुत्वं बालस्य । साधु,

<footnote>
१. अर्धरात्रं ।

</footnote>
</page>