This page has been fully proofread once and needs a second look.

५०८

ऊरुभङ्गे

<page>
<verse lang="sa">
पितृविक्रमदायाद्ये राज्ये भुजबलार्जिते ।

विनाभिषेकं राजा त्वं विप्रोक्तैर्वचनैर्भव ॥ ६५ ॥

[ i 65.-

</verse>

<speaker>
राजा - </speaker>हन्त ! कृतं मे हृदयानुज्ञातम् । परित्यजन्तीव मे प्राणाः ।

इमेऽत्रभवन्तः शन्तनुप्रभृतयो मे पितृपितामहाः । एतत्कर्णमग्रतः

कृत्वा समुत्थितं भ्रातृशतम् । अयमप्यैरावतशिरोविषक्तः काक-

पक्षधरो महेन्द्रकरतलमवलम्ब्य क्रुद्धोऽभिभाषते मामभिमन्युः ।

उर्वश्यादयोऽप्सरसो मामभिगताः । इमे महार्णवा मूर्तिमन्तः । एता

गंगाप्रभृतयो महानद्यः । ए सहस्रहंसप्रयुक्तो मां नेतुं वीरवाही

विमानः कालेन प्रेषितः । अयमयमागच्छामि । <speaker>( स्वर्गं गतः । )
</speaker>

<speaker>
( यवनिकास्तरणं करोति । )

</speaker>

<speaker>
धृतराष्ट्रः-

</speaker>

<verse n="66ab" lang="sa">
याम्येष सज्जनधनानि तपोवनानि

पुत्रप्रणाशविफलं हि धिगस्तु राज्यम् ।

</verse>

<speaker>
अश्वत्थामा--

</speaker>

यातोऽद्य सौप्तिकवधोद्यतबाणपाणिः

<stage>
( भरतवाक्यम् । )

</stage>

<speaker>
बलदेवः - </speaker>गां पातु नो नरपतिः शमितारिपक्षः ॥ ६६ ॥

<stage>
(निष्क्रान्ताः सर्वे । )

</stage>

<trailer lang="sa">
ऊरुभङ्गं नाम नाटकं समाप्तम् ॥

२०

</trailer>
</page>