2026-01-19 23:11:44 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<verse n="22" lang="sa">वाक्यं वदत्युपहसन्न तु भीम ! दीनं
वीरो निहन्ति समरेषु भयं त्यजेति ॥ २२ ॥</verse>

<speaker>द्वितीयः - </speaker>एष इदानीमपहास्यमानं भीमसेनं दृष्ट्रा स्वमूरुमभिहत्य
कामपि संज्ञां प्रयच्छति जनार्दनः ।

<speaker>तृतीयः- </speaker>एष संज्ञया समाश्वासितो मारुतिः,

<verse lang="sa">संहृत्य भ्रुकुटीललाटविवरे स्वेदं करेणाक्षिपन्
बाहुभ्यां परिगृह्य भीमवदनश्चित्राङ्गदां स्वां गदाम् ।
पुत्रं दीनमुदीक्ष्य सर्वगतिना लब्ध्वेव दत्तं बलं
गर्जन सिंहवृषेक्षणः क्षितितलाद्भूयः समुत्तिष्ठति ॥२३॥</verse>

प्रथमः- हन्त पुनः प्रवृत्तं गदायुद्धम् । अनेन हि,

<verse>भूमौ पाणितले निघृष्य तरसा बाहू प्रमृज्याधिकं
सन्दष्टोष्ठपुटेन विक्रमबलात् क्रोधाधिकं गर्जता ।
त्यक्त्वा धर्मघृणां विहाय समयं कृष्णस्य संज्ञासमं
गान्धारीतनयस्य पाण्डुतनयेनोर्वोर्विमुक्ता गदा ॥ २४ ॥</verse>

<speaker>सर्वे- </speaker>हा धिक् पतितो महाराजः ।

<speaker>तृतीयः - </speaker>एष रुधिरपतनद्योतिताङ्गं निपतन्तं कुरुराजं दृष्ट्रा खमुत्पतितो
भगवान् द्वैपायनः । य एषः,

<verse lang="sa">मा<ref>१</ref>लासंवृतलोचनेन हलिना नेत्रोपरोधः कृतः
दृष्ट्वा क्रोधनिमीलितं हलधरं दुर्योधनापेक्षया ।
संभ्रान्तैः करपञ्जरान्तरगतो द्वैपायनज्ञापितो
भीमः कृष्णभुजावलंबितगतिर्निर्वाह्यते पाण्डवैः ॥ २५ ॥</verse>

<speaker>प्रथमः-</speaker>अये अयमप्यमर्षोन्मीलितरभसलोचनो भीमसेनापक्रमण-
मुद्वीक्षमाणः इत एवाभिवर्तते भगवान् हलायुधः । य एषः,

<footnote mark="१" lang="sa">हेला० ।</footnote>
</page>