2025-12-29 10:00:51 by ambuda-bot
This page has not been fully proofread.
―i. 50.9]
प्रथमोऽङ्कः ।
४३७
हिडिम्बा -अअं पञ्चओ । जेदु अय्यउत्तो । [ अयं प्रत्ययः ।
२७ जयत्वार्यपुत्रः । ]
भीमः - ( विलोक्य) का पुनरियम् । अये देवी हिडिम्बा ।
अस्माकं भ्रष्टराज्यानां भ्रमतां गहने वने ।
जातकामा देवि ! संतापो नाशितस्त्वयाः ॥ ४९ ॥
हिडिम्बे ! किमिदम् ।
हिडिम्बा -(कर्णे) अय्यउत्त ! ईदिसं विअ । [आर्यपुत्र ! ईदृशमिव । ]
भीम:-
:- जात्या राक्षसी, न समुदाचारेण ।
हिडिम्बा - उम्मत्तअ ! अभिवादेहि पिढरं । [ उन्मत्तक ! अभिवादय
पितरम् । ]
६ घटोत्कचः - भोस्तात !
अज्ञानात्तु मया पूर्वं यद्भवान्नाभिवादितः ।
अस्य पुत्रापराधस्य प्रसादं कर्तुमर्हसि ॥ ५० ॥
अहं स धार्तराष्ट्रवनदवाग्निर्घटोत्कचोऽभिवादये । पुत्रचापलं क्षन्तु-
मर्हास ।
३ भीमः - एह्येहि पुत्र व्यतिक्रमकृतं श्रान्तमेव । ( इति परिष्वज्य )
अयं स धार्तराष्ट्रवनवाग्निः । पुत्रापेक्षीणि खलु पितृहृदयानि । पुत्र,
अतिबलपराक्रमो भव ।
६ घटोत्कचः - अनुगृहीतोऽस्मि ।
वृद्धः - एवं भीमसेनपुत्रोऽयं घटोत्कचः ।
भीम: - पुत्र ! अभिवादयात्रभवन्तं केशवदासम् ।
९ घटोत्कचः - भगवन्नभिवादये ।
१. अयं श्लोकः मुद्रितपुस्तकेषु न दृश्यते । २. कान्तमेव । ३. धार्तराष्ट्र-
वनदवाभिपुत्रापेक्षिणि ।
१७