This page has not been fully proofread.

४३६
 
मध्यमव्यायोगे
 
[i. 48.-
 
घटोत्कचः - इह तिष्ठ । त्वदागमनमम्बायै निवेदयामि ।
 
भीम: - बाढम् । गच्छ ।
 
३ घटोत्कचः - ( उपसृत्य ) अम्ब! अयमभिवादये । चिराभिलषितो
भवत्या आहारार्थमानीतो मानुषः ।
 
( प्रविश्य )
 
६ हिडिम्बा -जाद ! चिरं जीव । [ जात ! चिरं जीव । ]
 
घटोत्कचः - अनुगृहीतोऽस्मि ।
 
हिडिम्बा - जाद ! कीदिसो माणुसो आणीदो । [ जात, कीदृशो
 
९ मानुप आनीत: । ]
 
घटोत्कचः - भवति रूपमात्रेण मानुपः । न वीर्येण ।
 
हिडिम्बा - किं ब्रम्हणो । [ किं ब्राह्मणः । ]
 
१२ घटोत्कचः - न ब्राह्मणः ।
 
हिडिम्बा - आदु थेरो । [ अथवा स्थविर: । ]
 
घटोत्कचः - न वृद्धः ।
 
१५ हिडिम्बा - किं वाळो । [ किं बालः । ]
 
घटोत्कचः-
 
:-न बालः ।
 
हिडिम्बा - जइ एवं पेक्खामि दाव णं । (उभी परिक्रामतः । ) [ यद्येवं
१८ पश्यामि तावदेनम् । ]
 
हिडिम्बा - किं एसो माणुसो आणीदो । [ किमेष मानुप आनीतः । ]
घटोत्कचः - अम्ब ! कोऽयम् ।
 
२१ हिडिम्बा - उम्मत्तअ दव्वदं खु अम्हाअं । [ उन्मत्तक दैवतं खल्वस्मा-
कम् । ]
 
घटोत्कचः-आः कस्य दैवतम् ।
 
२४ हिडिम्बा - तव अ, मम अ । [ तव च मम च । ]
 
घटोत्कचः - कः प्रत्ययः ।
 
१६