2026-01-21 14:26:34 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<pverse n="46cd" lang="sa">व्यपनय बलदर्पं दृष्टसारोऽसि वीर !
नहि मम परिखेदो विद्यते बाहुयुद्धे ॥ ४६ ॥</pverse>

<speaker>घटोत्कचः -</speaker> कथमनेनापि न शक्यते हन्तुम् । किं नु खलु करिष्ये ।
भवतु, दृष्टम् । अस्ति मातृप्रसादलब्धो मायापाशः । तेन बध्वैनं
नेष्यामि । कुतः खल्वापः । भो गिरे ! आपस्तावत् । हन्त स्रवति ।
<stage>( आचम्य मन्त्रं जपति । )</stage> भोः पुरुष !

<verse n="47" lang="sa">मायापाशेन बद्धस्त्वं विवशोऽनुगमिष्यसि ।
राजसे रज्ज्जुभिर्बद्धः शक्रध्वज इवोत्सवे ॥ ४७ ॥</verse>

<stage>( इति मायया बध्नाति । )</stage>

<speaker>भीमः - </speaker>कथं मायापाशेन बद्धोऽस्मि । किमिदानीं करिष्ये । भवतु
दृष्टम् । अस्ति मे महेश्वरप्रसादालब्धो मायापाशमोक्षो मन्त्रः ।
तं जपामि । कुतः खल्वापः । भो ब्राह्मणकुमार ! आनय कमण्डलु-
गता आपः ।

<speaker>वृद्धः -</speaker> इमा आपः ।

<stage>( भीमः आदायाचम्य मन्त्रं जप्त्वा मायामपनयति । )</stage>

<speaker>घटोत्कचः - </speaker>अये पतितः पाशः । किमिदानीं करिष्ये । भवतु, दृष्टम् ।
भोः पुरुष ! पूर्वसमयं स्मर ।

<speaker>भीमः -</speaker> समयमिति । एष स्मरामि । गच्छाग्रतः । <stage>( उभौ परिक्रामतः । )</stage>

<speaker>वृद्धः – </speaker>पुत्रकाः किं कुर्मः । अयं गच्छति वृकोदरः ।

<verse lang="sa">आक्रम्य राक्षसमिमं ज्वलदुग्ररूप-
मुग्रेण बाहुबलवीर्यगुणेन युक्तम् ।
एष प्रयाति शनकैरवधूय शीघ्र-
मासारवर्षमिव गोवृषभस्सलीलम् ॥ ४८ ॥</verse>
<footnote mark="१" lang="sa">न गमिष्यसि ।</footnote>
</page>

नहि मम परिखेदो विद्यते बाहुयुद्धे ॥ ४६ ॥</