This page has been fully proofread once and needs a second look.

―i. 48. ]

प्रथमोऽङ्कः ।

<page>

व्यपनय बलदर्पं दृष्टसारोऽसि वीर !

नहि मम परिखेदो विद्यते बाहुयुद्धे ॥ ४६ ॥

४३५

<speaker>
घटोत्कचः -</speaker> कथमनेनापि न शक्यते हन्तुम् । किं नु खलु करिष्ये ।

भवतु, दृष्टम् । अस्ति मातृप्रसादलब्धो मायापाशः । तेन बध्वैनं

नेष्यामि । कुतः खल्वापः । भो गिरे ! आपस्तावत् । हन्त स्रवति ।

<stage>
( आचम्य मन्त्रं जपति । )</stage> भोः पुरुष !

<verse lang="sa">
मायापाशेन बद्धस्त्वं विवशोऽनुगमिष्यसि ।

राजसे रज्ज्जुभिर्बद्धः शक्रध्वज इवोत्सवे ॥ ४७ ॥
</verse>

<stage>
( इति मायया बध्नाति । )

</stage>

<speaker>
भीमः - </speaker>कथं मायापाशेन बद्धोऽस्मि । किमिदानीं करिष्ये । भवतु

दृष्टम् । अस्ति मे महेश्वरप्रसादालब्धो मायापाशमोक्षो मन्त्रः ।

तं पामि । कुतः खल्वापः । भो ब्राह्मणकुमार ! आनय कमण्डलु-

गता आपः ।

<speaker>
वृद्धः -</speaker> इमा आपः ।

<stage>
( भीमः आदायाचम्य मन्त्रं जप्त्वा मायामपनयति । )

</stage>

<speaker>
घटोत्कचः - </speaker>अये पतितः पाशः । किमिदानीं करिष्ये । भवतु, दृष्टम् ।

भोः पुरुष ! पूर्वसमयं स्मर ।

<speaker>
भीमः -</speaker> समयमिति । एष स्मरामि । गच्छाग्रतः । <stage>( उभौ परिक्रामतः । )
</stage>

<speaker>
वृद्धः – </speaker>पुत्रकाः किं कुर्मः । अयं गच्छति वृकोदरः ।

<verse lang="sa">
आक्रम्य राक्षसमिमं ज्वलदुग्ररूप-

मुग्रेण बाहुबलवीर्यगुणेन युक्तम् ।

एष प्रयाति शनकैरवधूय शीघ्र-

मासारवर्षमिव गोवृषभस्सलीलम् ॥ ४८ ॥

</verse>
<footnote mark="
. " lang="sa">न गमिष्यसि ।

१५

</footnote>
</page>