This page has not been fully proofread.

―i. 48. ]
 
प्रथमोऽङ्कः ।
 
व्यपनय बलदर्पं दृष्टसारोऽसि वीर !
 
नहि मम परिखेदो विद्यते बाहुयुद्धे ॥ ४६ ॥
 
४३५
 
घटोत्कचः - कथमनेनापि न शक्यते हन्तुम् । किं नु खलु करिष्ये ।
भवतु, दृष्टम् । अस्ति मातृप्रसादलब्धो मायापाशः । तेन बध्वैनं
३ नेष्यामि । कुतः खल्वापः । भो गिरे ! आपस्तावत् । हन्त स्रवति ।
( आचम्य मन्त्रं जपति । ) भोः पुरुष !
 
मायापाशेन बद्धत्वं विवशोऽनुगमिष्यसि ।
 
राजसे रज्ज्जुभिर्बद्धः शक्रध्वज इवोत्सवे ॥ ४७ ॥
( इति मायया बध्नाति । )
 
भीमः - कथं मायापाशेन बद्धोऽस्मि । किमिदानीं करिष्ये । भवतु
३ दृष्टम् । अस्ति मे महेश्वरप्रसादालब्धो मायापाशमोक्षो मन्त्रः ।
तं पामि । कुतः खल्वापः । भो ब्राह्मणकुमार ! आनय कमण्डलु-
 
गता आपः ।
 
६ वृद्धः - इमा आपः ।
 
( भीमः आदायाचम्य मन्त्रं जप्त्वा मायामपनयति । )
 
घटोत्कचः - अये पतितः पाशः । किमिदानीं करिष्ये । भवतु, दृष्टम् ।
९ भोः पुरुष ! पूर्वसमयं स्मर ।
 
भीमः - समयमिति । एष स्मरामि । गच्छाग्रतः । ( उभौ परिक्रामतः । )
वृद्धः – पुत्रकाः किं कुर्मः । अयं गच्छति वृकोदरः ।
 
आक्रम्य राक्षसमिमं ज्वलदुग्ररूप-
 
मुग्रेण बाहुबलवीर्यगुणेन युक्तम् ।
 
एष प्रयाति शनकैरवधूय शीघ्र-
 
मासारवर्षमिव गोवृषभस्सलीलम् ॥ ४८ ॥
 
१. न गमिष्यसि ।
 
१५