2026-01-21 14:06:21 by akprasad
This page has been fully proofread once and needs a second look.
मध्यमव्यायोगे
<verse lang="sa">विश्वकर्ता शिवः कृष्णः शक्रः शक्तिधरो यमः ।
एतेषु कथ्यतां भद्र केन ते सदृशः पिता ॥ ४३ ॥
<p lang="sa"><speaker>घटोत्कचः–</speaker>सर्वैः ।
<p lang="sa"><speaker>भीमः - </speaker>धिगनृतमेतत् ।
[i. 43.-
३
<p lang="sa"><speaker> घटोत्कचः -</speaker>कथं कथमनृतमित्याह । क्षिपसि मे गुरुम् । भवत्वि
स्थूलं वृक्षमुत्पाट्य प्रहरामि । <stage>( उत्पाट्य प्रहरति । )</stage> कथमनेनापि न
शक्यते हन्तुम् । किं नु खलु करिष्ये । भवतु, दृष्टम् । एतद्द्विरि-
६
कूटमुत्पाट्य प्रहरामि ।
<verse n="44a" lang="sa">शैलकूटं मयाक्षिप्तं प्राणानादाय यास्यति ।
<p lang="sa"><speaker>भीम:-
<verse n="44b" lang="sa">रुष्टोऽपि कुञ्जरो वन्यो न व्याघ्रं धर्षयेद्वने ॥ ४४ ॥
<p lang="sa"><speaker>घटोत्कचः - </speaker><stage>(प्रहृत्य)</stage> कथमनेनापि न शक्यते हन्तुम् । किंनु खलु
करिष्ये । भवतु दृष्टम् ।
<p lang="sa">नन्वहं भीमसेनस्य पुत्रः पौत्रो नभस्वतः ।
तिष्ठेदानीं सुसन्नद्धो नियुद्धे नास्ति मत्समः ॥ ४५ ॥
<p><stage>( इत्युभौ नियुद्धं कुरुत: । )
<p lang="sa">घटोत्कचः - <stage>( भीमसेनं बद्धा )
<p lang="sa">व्रजसि कथमिह त्वं वीर्यमुल्लङ्घ्य बाह्
र्गज इव दृढपाशैः पीडितो मद्भुजाभ्याम् ।
<p lang="sa"><speaker>भीम:-</speaker><stage>( आत्मगतम् )</stage> कथं गृहीतोऽस्म्यनेन । भोः सुयोधन! वर्धते
ते शत्रुपक्षः । कृतरक्षो भव । <stage>( प्रकाशम् ) </stage>भोः पुरुष ! अवहितो
३
भव ।
<p lang="sa"><speaker>घटोत्कचः -</speaker> अवहितोऽस्मि ।
<p lang="sa"><speaker>भीम: -
१४
</page>