2025-12-29 10:00:51 by ambuda-bot
This page has not been fully proofread.
४३४
मध्यमव्यायोगे
विश्वकर्ता शिवः कृष्णः शक्रः शक्तिधरो यमः ।
एतेषु कथ्यतां भद्र केन ते सदृशः पिता ॥ ४३ ॥
घटोत्कचः–सर्वैः ।
भीमः - धिगनृतमेतत् ।
[i. 43.-
३ घटोत्कचः -कथं कथमनृतमित्याह । क्षिपसि मे गुरुम् । भवत्वि
स्थूलं वृक्षमुत्पाट्य प्रहरामि । ( उत्पाट्य प्रहरति । ) कथमनेनापि न
शक्यते हन्तुम् । किं नु खलु करिष्ये । भवतु, दृष्टम् । एतद्द्विरि-
६ कूटमुत्पाट्य प्रहरामि ।
शैलकूटं मयाक्षिप्तं प्राणानादाय यास्यति ।
भीम:-
रुष्टोऽपि कुञ्जरो वन्यो न व्याघ्रं धर्षयेद्वने ॥ ४४ ॥
घटोत्कचः - (प्रहृत्य) कथमनेनापि न शक्यते हन्तुम् । किंनु खलु
करिष्ये । भवतु दृष्टम् ।
नन्वहं भीमसेनस्य पुत्रः पौत्रो नभस्वतः ।
तिष्ठेदानीं सुसन्नद्धो नियुद्धे नास्ति मत्समः ॥ ४५ ॥
( इत्युभौ नियुद्धं कुरुत: । )
घटोत्कचः - ( भीमसेनं बद्धा )
व्रजसि कथमिह त्वं वीर्यमुल्लङ्घ्य बाह्रो -
र्गज इव दृढपाशैः पीडितो मद्भुजाभ्याम् ।
भीम:-( आत्मगतम् ) कथं गृहीतोऽस्म्यनेन । भोः सुयोधन! वर्धते
ते शत्रुपक्षः । कृतरक्षो भव । ( प्रकाशम् ) भोः पुरुष ! अवहितो
३ भव ।
घटोत्कचः - अवहितोऽस्मि ।
भीम: - ( नियुद्धबन्धमवधूय )
१४