This page has been fully proofread once and needs a second look.

-i. 42.3]

<page>

<speaker>
भीमः -</speaker> मया ।

<speaker>
घटोत्कचः -</speaker> किं त्वया ।

<speaker>
भीमः -</speaker> अथ किम् ।

प्रथमोऽङ्कः ।

४३३

<speaker>
घटोत्कचः -</speaker> तेन हि भवानेवागच्छतु ।

१२

<speaker>
भीमः -</speaker> एवमतिबलवीर्यान्नानुगच्छामि । यदि ते शक्तिरस्ति बला-

त्कारेण मां नय ।

<speaker>
घटोत्कचः -</speaker> किं मां प्रत्यभिजानीते भवान् ।

१५

<speaker>
भीम: -</speaker> मत्पुत्र इति जाने ।

घटोत्कचः-कथं कथं तव पुत्रोऽहम् ।

<speaker>
भीमः-</speaker> कथं रुध्ष्यति । मर्पयतु भवान् । सर्वाः प्रजाः क्षत्रियाणां
१८

पुत्रशब्देनाभिधीयन्ते । अत एवं मयाभिहितम् ।

<speaker>
घटोत्कचः -</speaker> भीतानामायुधं गृहीतम् ।

<speaker>
भीम:-

</speaker>

<verse lang="sa">
शपामि सत्येन भयं न जाने ज्ञातुं तदिच्छामि भवत्समीपे ।

किं रूपमेतद्वद् भद्र तस्य गुणागुणज्ञः सदृशं प्रपत्म्स्ये ॥ ४१ ॥
</verse>

<speaker>
घटोत्कचः-</speaker> ते भयमुपदिशामि । गृह्यतामायुधम् ।

<speaker>
भीम: -</speaker> आयुधमिति, गृहीतमेतन् ।

त् ।

<speaker>
घटोत्कचः -</speaker> कथमिव ।

<verse lang="sa"><speaker>
भीम:-

</speaker>
काञ्चनस्तम्भसदृशो रिपूणां निग्रहे रतः ।

अयं तु दक्षिणो बाहुरायुधं स<ref>२</ref>हजं मम ॥ ४२ ॥

</verse>

<speaker>
घटोत्कचः -</speaker> इदमुपपन्नं पितुर्मे भीमसेनस्य ।

<speaker>
भीमः -</speaker> अथ कोऽयं भीमो नाम ।

<footnote mark="
. " lang="sa">अतिवीर्यबलं । </footnote>
<footnote mark="
. ">सदृशं ।

१३

</footnote>
</page>