2025-12-29 10:00:51 by ambuda-bot
This page has not been fully proofread.
-i. 42.3]
भीमः - मया ।
९ घटोत्कचः - किं त्वया ।
भीमः - अथ किम् ।
प्रथमोऽङ्कः ।
४३३
घटोत्कचः - तेन हि भवानेवागच्छतु ।
१२ भीमः - एवमतिबलवीर्यान्नानुगच्छामि । यदि ते शक्तिरस्ति बला-
त्कारेण मां नय ।
घटोत्कचः - किं मां प्रत्यभिजानीते भवान् ।
१५ भीम: - मत्पुत्र इति जाने ।
घटोत्कचः-कथं कथं तव पुत्रोऽहम् ।
भीमः कथं रुध्यति । मर्पयतु भवान् । सर्वाः प्रजाः क्षत्रियाणां
१८ पुत्रशब्देनाभिधीयन्ते । अत एवं मयाभिहितम् ।
घटोत्कचः - भीतानामायुधं गृहीतम् ।
भीम:-
शपामि सत्येन भयं न जाने ज्ञातुं तदिच्छामि भवत्समीपे ।
किं रूपमेतद्वद् भद्र तस्य गुणागुणज्ञः सदृशं प्रपत्म्ये ॥ ४१ ॥
घटोत्कचः- एप ते भयमुपदिशामि । गृह्यतामायुधम् ।
भीम: - आयुधमिति, गृहीतमेतन् ।
३ घटोत्कचः - कथमिव ।
भीम:-
काञ्चनस्तम्भसदृशो रिपूणां निग्रहे रतः ।
अयं तु दक्षिणो बाहुरायुधं सहजं मम ॥ ४२ ॥
घटोत्कचः - इदमुपपन्नं पितुर्मे भीमसेनस्य ।
भीमः - अथ कोऽयं भीमो नाम ।
१. अतिवीर्यबलं । २. सदृशं ।
१३