2026-01-21 14:25:46 by akprasad
This page has been fully proofread once and needs a second look.
<page>

<speaker>भीमः -</speaker> <stage>( आत्मगतम् )</stage> कथं मातुराज्ञेति । अहो गुरुशुश्रूषः खल्वयं
तपस्वी ।

<verse lang="sa">माता किल मनुष्याणां दैवतानां च दैवतम् ।
मातुराज्ञां पुरस्कृत्य वयमेतां दशां गताः ॥ ३७ ॥</verse>

<stage>( प्रकाशम्) </stage>भो: पुरुप ! प्रष्टव्यं खलु तावदस्ति

<speaker>घटोत्कचः -</speaker> ब्रूहि ब्रूहि, शीघ्रम् ।

<speaker>भीमः - </speaker>का नाम भवतो माता ।

<speaker>घटोत्कचः -</speaker> श्रूयतां, हिडिम्बा नाम राक्षसी,

<pverse lang="sa">कौरव्यकुलदीपेन पाण्डवेन महात्मना ।
सनाथा या महाभागा पूर्णेन द्यौरिवे<ref>१</ref>न्दुना ॥ ३८ ॥</pverse>

<speaker>भीमः-</speaker><stage>( सहर्षमात्मगतम् )</stage> एवं हिडिम्बायाः पुत्रोऽयम् । सदृशो ह्यस्य
गर्वः ।

<verse lang="sa">रूपं सत्त्वं बलं चैव पितृभिः सदृशं बहु ।
प्रजासु वीतकारुण्यं मनश्चैवास्य कीदृशम् ॥ ३९ ॥</verse>

<stage>( प्रकाशम् )</stage> भोः पुरुष ! गुच्यताम् ।

<speaker>घटोत्कचः-</speaker> न मुच्यते ।

<speaker>भीमः -</speaker> भो ब्राह्मण ! गृह्यतां तव पुत्रः । वयमेनमनुगमिष्यामः ।

<speaker>द्वितीय:-</speaker> मा मा भवानेवम् ।

<verse lang="sa">त्यक्ताः प्रागेव मे प्राणाः गुरुप्राणेष्वपेक्षया ।
युवा रूपगुणोपेतो भवांस्तिष्ठतु भूतले ॥ ४० ॥</verse>

<speaker>भीमः -</speaker> आर्य ! मा मैवम् । क्षत्रियकुलोत्पन्नोऽहम् । पूज्यतमाः खलु
ब्राह्मणाः । तस्माच्छरीरेण ब्राह्मणशरीरं विनिमातुमिच्छामि ।

<speaker>घटोत्कचः -</speaker> एवं क्षत्रियोऽयं, तेनास्य दर्पः । भवतु, इममेव हत्वा
नेष्यामि । अथ केनायं वारितः ।

<footnote mark="१" lang="sa">०रिवात्मना ।</footnote>
</page>

<speaker>भीमः -</speaker> <stage>( आत्मगतम् )</stage> कथं मातुराज्ञेति । अहो गुरुशुश्रूषः खल्वयं
तपस्वी ।

<verse lang="sa">माता किल मनुष्याणां दैवतानां च दैवतम् ।
मातुराज्ञां पुरस्कृत्य वयमेतां दशां गताः ॥ ३७ ॥</verse>

<stage>( प्रकाशम्) </stage>भो: पुरुप ! प्रष्टव्यं खलु तावदस्ति

<speaker>घटोत्कचः -</speaker> ब्रूहि ब्रूहि, शीघ्रम् ।

<speaker>भीमः - </speaker>का नाम भवतो माता ।

<speaker>घटोत्कचः -</speaker> श्रूयतां, हिडिम्बा नाम राक्षसी,

सनाथा या महाभागा पूर्णेन द्यौरिवे<ref>१</ref>न्दुना ॥ ३८ ॥</