This page has been fully proofread once and needs a second look.

४.३२

मध्यमव्यायोगे

[ i.36.

<page>

<speaker>
भीमः - </speaker> <stage>( आत्मगतम् )</stage> कथं मातुराज्ञेति । अहो गुरुशुश्रूपुःषः खल्वयं

तपस्वी ।

<verse lang="sa">
माता कि मनुष्याणां दैवतानां च दैवतम् ।

मातुराज्ञां पुरस्कृत्य वयमेतां दशां गताः ॥ ३७ ॥

</verse>

<stage>
( प्रकाशम्) </stage>भो: पुरुप ! प्रष्टव्यं खलु तावदस्ति

<speaker>
घटोत्कचः -</speaker> ब्रूहि ब्रूहि, शीघ्रम् ।

<speaker>
भीमः - </speaker>का नाम भवतो माता ।

<speaker>
घटोत्कचः -</speaker> श्रूयतां, हिडिम्बा नाम राक्षसी,

कौरव्यकुलदीपेन पाण्डवेन महात्मना ।

सनाथा या महाभागा पूर्णेन द्यौरिवे<ref>१</ref>न्दुना ॥ ३८ ॥

<speaker>
भीमः-</speaker><stage>( सहर्मात्मगतम् )</stage> एवं हिडिम्बायाः पुत्रोऽयम् । सदृशो ह्यस्य

गर्वः ।

<verse lang="sa">
रूपं सत्त्वं बलं चैव पितृभिः सदृशं बहु ।

प्रजासु वीतकारुण्यं मनश्चैवास्य कीदृशम् ॥ ३९ ॥

</verse>

<stage>
( प्रकाशम् )</stage> भोः पुरुष ! गुच्यताम् ।

<speaker>
घटोत्कचः-</speaker> न मुच्यते ।

<speaker>
भीमः -</speaker> भो ब्राह्मण ! गृह्यतां तव पुत्रः । वयमेनमनुगमिष्यामः ।

<speaker>
द्वितीय:- -</speaker> मा मा भवानेवम् ।

<verse lang="sa">
त्यक्ताः प्रागेव मे प्राणाः गुरुप्राणेष्वपेक्षया ।

युवा रूपगुणोपेतो भवांस्तिष्ठतु भूतले ॥ ४० ॥

</verse>

<speaker>
भीमः -</speaker> आर्य ! मा मैत्रम् । क्षत्रियकुलोत्पन्नोऽहम् । पूज्यतमाः खलु

ब्राह्मणाः । तम्स्माच्छरीरेण ब्राह्मणशरीरं विनिमातुमिच्छामि ।

<speaker>
घटोत्कचः -</speaker> एवं क्षत्रियोऽयं, तेनास्य दर्पः । भवतु, इममेव हत्वा

ने
ष्यामि । अथ केनायं वारितः ।

<footnote mark="
. " lang="sa">०रिवात्मना ।

१२

</footnote>
</page>