This page has not been fully proofread.

४.३२
 
मध्यमव्यायोगे
 
[ i.36.
 
भीमः - ( आत्मगतम् ) कथं मातुराज्ञेति । अहो गुरुशुश्रूपुः खल्वयं
 
तपस्वी ।
 
माता कि मनुष्याणां दैवतानां च दैवतम् ।
 
मातुराज्ञां पुरस्कृत्य वयमेतां दशां गताः ॥ ३७ ॥
 
( प्रकाशम्) भो: पुरुप ! प्रष्टव्यं खलु तावदस्ति
 
घटोत्कचः - ब्रूहि ब्रूहि, शीघ्रम् ।
 
३ भीमः - का नाम भवतो माता ।
 
घटोत्कचः - श्रूयतां, हिडिम्बा नाम राक्षसी,
 
कौरव्यकुलदीपेन पाण्डवेन महात्मना ।
 
सनाथा या महाभागा पूर्णेन द्यौरिवेन्दुना ॥ ३८ ॥
भीमः-( सहर्पमात्मगतम् ) एवं हिडिम्बायाः पुत्रोऽयम् । सदृशो ह्यस्य
गर्वः ।
 
रूपं सत्त्वं बलं चैव पितृभिः सदृशं बहु ।
 
प्रजासु वीतकारुण्यं मनश्चैवास्य कीदृशम् ॥ ३९ ॥
 
( प्रकाशम् ) भोः पुरुष ! गुच्यताम् ।
 
घटोत्कचः- न मुच्यते ।
 
३ भीमः - भो ब्राह्मण ! गृह्यतां तव पुत्रः । वयमेनमनुगमिष्यामः ।
द्वितीय:- - मा मा भवानेवम् ।
 

 
त्यक्ताः प्रागेव मे प्राणाः गुरुप्राणेष्वपेक्षया ।
 
युवा रूपगुणोपेतो भवांस्तिष्ठतु भूतले ॥ ४० ॥
 
भीमः - आर्य ! मा मैत्रम् । क्षत्रियकुलोत्पन्नोऽहम् । पूज्यतमाः खलु
ब्राह्मणाः । तम्माच्छरीरेण ब्राह्मणशरीरं विनिमातुमिच्छामि ।
 
घटोत्कचः - एवं क्षत्रियोऽयं, तेनास्य दर्पः । भवतु, इममेव हत्वा
ष्यामि । अथ केनायं वारितः ।
 
१. ०रिवात्मना ।
 
१२