2026-01-21 14:25:38 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<verse lang="sa">सजलजलदगात्रः पद्मपत्रायताक्षो
मृगपतिगतिलीलो राक्षसः प्रोग्रदंष्ट्रः ।
जगति विगतशङ्कस्त्वद्विधानां समक्षं
ससुतपरिजनं भो ! हन्तुकामोऽभ्युपैति ॥ ३२ ॥</verse>

<speaker>भीमः -</speaker> एवम् । अनेन ब्राह्मणजनस्य मार्गविघ्नः कृतः । भवतु
निग्रहिष्यामि तावदेनम् । भोः पुरुष ! तिष्ठ तिष्ठ ।

<speaker>घटोत्कचः -</speaker> एष स्थितोऽस्मि ।

<speaker>भीमः -</speaker> किमर्थं ब्राह्मणजनम१पराध्यसि ।

<verse lang="sa">पुत्रनक्षत्रकीर्णस्य पत्नीकान्तप्रभस्य च ।
वृद्धस्य विप्रचन्द्रस्य भवान् राहुरिवोत्थितः ॥ ३३॥</verse>

<speaker>घटोत्कचः - </speaker>अथ किम् । राहुरेव ।

<speaker>भीमः -</speaker> आः,

<pverse lang="sa">निवृत्तव्यवहारोऽयं सदारस्तनयैः सह ।
सर्वापराधेऽवध्यत्वान्मुच्यतां द्विजसत्तमः ॥ ३४ ॥</pverse>

<speaker>घटोत्कचः-</speaker>न मुच्यते ।

<speaker>भीमः -</speaker> <stage>( आत्मगतम्)</stage> भोः ! कस्य पुत्रेणानेन भवितव्यम् ।

<verse>भ्रातॄणां मम सर्वेषां कोऽयं भोः ! गुणतस्करः ।
दृष्ट्वैतद्बालशौण्डीर्यं सौभद्रस्य स्मराम्यहम् ॥ ३५ ॥</verse>

<stage>( प्रकाशम् )</stage> भोः पुरुष ! मुच्यताम् ।

<speaker>घटोत्कचः-</speaker>न मुच्यते ।

<verse lang="sa">मुच्यतामिति विस्रब्धं ब्रवीति यदि मे पिता ।
न मुच्यते तथा ह्येष गृहीतो मातुराज्ञया ॥ ३६ ॥</verse>
<footnote mark="१" lang="sa">पर ( रा ) स्यसि ।</footnote>
</page>
<verse lang="sa">सजलजलदगात्रः पद्मपत्रायताक्षो
मृगपतिगतिलीलो राक्षसः प्रोग्रदंष्ट्रः ।
जगति विगतशङ्कस्त्वद्विधानां समक्षं
ससुतपरिजनं भो ! हन्तुकामोऽभ्युपैति ॥ ३२ ॥</verse>

<speaker>भीमः -</speaker> एवम् । अनेन ब्राह्मणजनस्य मार्गविघ्नः कृतः । भवतु
निग्रहिष्यामि तावदेनम् । भोः पुरुष ! तिष्ठ तिष्ठ ।

<speaker>घटोत्कचः -</speaker> एष स्थितोऽस्मि ।

<speaker>भीमः -</speaker> किमर्थं ब्राह्मणजनम१पराध्यसि ।

<verse lang="sa">पुत्रनक्षत्रकीर्णस्य पत्नीकान्तप्रभस्य च ।
वृद्धस्य विप्रचन्द्रस्य भवान् राहुरिवोत्थितः ॥ ३३॥</verse>

<speaker>घटोत्कचः - </speaker>अथ किम् । राहुरेव ।

<speaker>भीमः -</speaker> आः,

सर्वापराधेऽवध्यत्वान्मुच्यतां द्विजसत्तमः ॥ ३४ ॥</