This page has been fully proofread once and needs a second look.

―i.36.]

प्रथमोऽङ्कः ।

<page>
<verse lang="sa">
सजलजलद्गात्रः पद्मपत्रायताक्षो

मृगपतिगतिलीलो राक्षसः प्रोग्रदंष्ट्रः ।

जगति विगतशङ्कस्त्वद्विधानां समक्षं

४३१

ससुतपरिजनं भो ! हन्तुकामोऽभ्युपैति ॥ ३२ ॥

</verse>

<speaker>
भीमः -</speaker> एवम् । अनेन ब्राह्मणजनस्य मार्गविन्घ्नः कृतः । भवतु

निग्रहिष्यामि तावदेनम् । भोः पुरुष ! तिष्ठ तिष्ठ ।

<speaker>
घटोत्कचः -</speaker> एष स्थितोऽस्मि ।

<speaker>
भीमः -</speaker> किमर्थं ब्राह्मणजनमे म१पराध्यसि ।

<verse lang="sa">
पुत्रनक्षत्रकीर्णस्य पत्नीकान्तप्रभस्य च ।

वृद्धस्य विप्रचन्द्रस्य भवान् राहुरिवोत्थितः ॥ ३३॥

</verse>

<speaker>
घटोत्कचः - </speaker>अथ किम् । राहुरेव ।

<speaker>
भीमः -</speaker> आः,

निवृत्तव्यवहारोऽयं सदारस्तनयैः सह ।

सर्वापराधेऽवध्यत्वान्मुच्यतां द्विजसत्तमः ॥ ३४ ॥

<speaker>
घटोत्कचः-</speaker>न मुच्यते ।

<speaker>
भीमः - </speaker> <stage>( आत्मगतम्)</stage> भोः ! कस्य पुत्रेणानेन भवितव्यम् ।

<verse>
भ्रातॄणां मम सर्वेषां कोऽयं भोः ! गुणतस्करः ।
ता

दृष्ट्वैतद्बा
लशौण्डीर्यं सौभद्रस्य स्मराम्यहम् ॥ ३५ ॥

</verse>

<stage>
( प्रकाशम् )</stage> भोः पुरुष ! मुच्यताम् ।

<speaker>
घटोत्कचः-</speaker>न मुच्यते ।

<verse lang="sa">
मुच्यतामिति विस्रब्धं ब्रवीति यदि मे पिता ।

न मुच्यते तथा ह्येष गृहीतो मातुराज्ञया ॥ ३६ ॥

</verse>
<footnote mark="
. " lang="sa">पर ( रा ) स्यसि ।

११

</footnote>
</page>