This page has not been fully proofread.

―i.36.]
 
प्रथमोऽङ्कः ।
 
सजलजलद्गात्रः पद्मपत्रायताक्षो
मृगपतिगतिलीलो राक्षसः प्रोग्रदंष्ट्रः ।
जगति विगतशङ्कस्त्वद्विधानां समक्षं
 
४३१
 
ससुतपरिजनं भो ! हन्तुकामोऽभ्युपैति ॥ ३२ ॥
 
भीमः - एवम् । अनेन ब्राह्मणजनस्य मार्गविन्नः कृतः । भवतु
निग्रहिष्यामि तावदेनम् । भोः पुरुष ! तिष्ठ तिष्ठ ।
 
३ घटोत्कचः - एष स्थितोऽस्मि ।
 
भीमः - किमर्थं ब्राह्मणजनमे पराध्यसि ।
 
पुत्रनक्षत्रकीर्णस्य पत्नीकान्तप्रभस्य च ।
 
वृद्धस्य विप्रचन्द्रस्य भवान् राहुरिवोत्थितः ॥ ३३॥
 
घटोत्कचः - अथ किम् । राहुरेव ।
 
भीमः - आः,
 
निवृत्तव्यवहारोऽयं सदारस्तनयैः सह ।
 
सर्वापराधेऽवध्यत्वान्मुच्यतां द्विजसत्तमः ॥ ३४ ॥
 
घटोत्कचः-न मुच्यते ।
 
भीमः - ( आत्मगतम्) भोः ! कस्य पुत्रेणानेन भवितव्यम् ।
भ्रातॄणां मम सर्वेषां कोऽयं भोः ! गुणतस्करः ।
तालशौण्डीर्यं सौभद्रस्य स्मराम्यहम् ॥ ३५ ॥
 
( प्रकाशम् ) भोः पुरुष ! मुच्यताम् ।
घटोत्कचः-न मुच्यते ।
 
मुच्यतामिति विस्रब्धं ब्रवीति यदि मे पिता ।
न मुच्यते तथा ह्येष गृहीतो मातुराज्ञया ॥ ३६ ॥
 
१. पर ( रा ) स्यसि ।
 
११