This page has been fully proofread once and needs a second look.

<page>

<speaker>भीम:-</speaker>अपिच,

<verse lang="sa">मध्यमः पञ्चभूतानां पार्थिवानां च मध्यमः ।
भ<ref>१</ref>ये च मध्यमो लोके सर्वकार्येषु मध्यमः ॥ २९ ॥</verse>
<verse><speaker>वृद्धः-
</speaker>मध्यमस्त्विति संप्रोक्ते नूनं पाण्डवमध्यमः ।
अस्मान्मोक्तुमिहायातो दर्पान्मृत्योरिवोत्थितः ॥ ३० ॥</verse>

<stage>( प्रविश्य )</stage>

<verse lang="sa"><speaker>मध्यमः-
</speaker>अभ्यामाचम्य पद्मिन्यां परलोकेषु दुर्लभम् ।
आत्मनैवात्मनो दत्तं पद्मपत्रोज्ज्वलं जलम् ॥ ३१ ॥</verse>

<speakertage>( उपगम्य )</speaker> </stage>भोः पुरुष ! प्राप्तोऽस्मि ।

<speaker>घटोत्कचः -</speaker> भवानि<ref>२</ref>दानिं खल्वसि मध्यमः । मध्यम ! इत इतः ।

<speaker>वृद्धः–</speaker><stage>( भीमसेनमुपगम्य ) </stage>भो मध्यम ! परित्रायस्व ब्राह्मणकुलम् ।

<speaker>भीमः - </speaker>न भेतव्यम् न भेतव्यम् । मध्यमोऽहमभिवादये ।

<speaker>वृद्ध: -</speaker> वायुरिव दीर्घायुर्भव ।

<speaker>भीमः - </speaker>अनुगृहीतोऽस्मि । कुतो भयमार्यस्य ।

<speaker>वृद्धः-</speaker>श्रूयताम् । अहं खलु कुरुराजेन युधिष्ठिरेणाधिष्ठितपूर्वे
कुरुजाङ्गले यूपग्रामवास्तव्यो माठरसगोत्रश्च कल्पशाखाध्वर्युः
केशवदासो नाम ब्राह्मणः । तस्य ममोत्तरस्यां दिशि उद्यामकग्राम-
वासी मातुलः कौशिकसगोत्रो यज्ञबन्धुर्नामास्ति । तस्य पुत्रोपनय-
नार्थं सकलोऽस्मि प्रस्थितः ।

<speaker>भीमः -</speaker> अरिष्टोऽस्तु पन्थाः । ततस्ततः ।

<speaker>वृद्धः-</speaker> ततो मामेष हि-

<footnote mark="१" lang="sa">भवे ।</footnote>
<footnote mark="२">प्राप्तवान् इदानीं खल्वसि ।</footnote>
</page>