2026-01-21 13:52:57 by akprasad
This page has been fully proofread once and needs a second look.
<p lang="sa">भीम:-अपिच,
वृद्धः-
मध्यमव्यायोगे
[ i. 28.'—
<verse lang="sa">मध्यमः पञ्चभूतानां पार्थिवानां च मध्यमः ।
भ<ref>१</ref>ये च मध्यमो लोके सर्वकार्येषु मध्यमः ॥ २९ ॥
<p><speaker>वृद्धः-
</speaker>मध्यमस्त्विति संप्रोक्ते नूनं पाण्डवमध्यमः ।
अस्मान्मोक्तुमिहायातो दर्पान्मृत्योरिवोत्थितः ॥ ३० ॥
<p><stage>( प्रविश्य )
<p lang="sa"><speaker>मध्यमः-
</speaker>अभ्यामाचम्य पद्मिन्यां पर
आत्मनैवात्मनो दत्तं पद्मपत्रोज्ज्वलं जलम् ॥ ३१ ॥
<p lang="sa"><speaker>( उपगम्य )</speaker> भोः पुरुष ! प्राप्तोऽस्मि ।
<p lang="sa"><speaker>घटोत्कचः -</speaker> भवानि
३
<p>वृद्धः–<stage>( भीमसेनमुपगम्य ) </stage>भो मध्यम ! परित्रायस्व ब्राह्मणकुलम् ।
<p><speaker>भीमः - </speaker>न भेतव्यम् न भेतव्यम् । मध्यमोऽहमभिवादये ।
<p><speaker>वृद्ध: -</speaker> वायुरिव दीर्घायुर्भव ।
६
<p lang="sa"><speaker>भीमः - </speaker>अनुगृहीतोऽस्मि । कुतो भयमार्यस्य ।
<p lang="sa"><speaker>वृद्धः-</speaker>श्रूयताम् । अहं खलु कुरुराजेन युधिष्ठिरेणाधिष्ठितपूर्वे
कुरुजाङ्गले यूपग्रामवास्तव्यो माठरसगोत्रश्च कल्पशाखाध्वर्युः
९
केशवदासो नाम ब्राह्मणः । तस्य ममोत्तरस्यां दिशि उद्यामकग्राम-
वासी मातुलः कौशिकसगोत्रो यज्ञबन्धुर्नामास्ति । तस्य पुत्रोपनय-
नार्थं सकलोऽस्मि प्रस्थितः ।
१२
<p lang="sa"><speaker>भीमः -</speaker> अरिष्टोऽस्तु पन्थाः । ततस्ततः ।
<p><speaker>वृद्धः-</speaker> ततो मामेष हि-
<footnote mark="१
<footnote mark="२
१०
</page>