This page has not been fully proofread.

४३०
 
भीम:-अपिच,
 
वृद्धः-
 
मध्यमव्यायोगे
 
[ i. 28.'—
 
मध्यमः पञ्चभूतानां पार्थिवानां च मध्यमः ।
भये च मध्यमो लोके सर्वकार्येषु मध्यमः ॥ २९ ॥
 
मध्यमस्त्विति संप्रोक्ते नूनं पाण्डवमध्यमः ।
अस्मान्मोक्तुमिहायातो दर्पान्मृत्योरिवोत्थितः ॥ ३० ॥
( प्रविश्य )
 
मध्यमः-
 
अभ्यामाचम्य पद्मिन्यां पर लोकेषु दुर्लभम् ।
आत्मनैवात्मनो दत्तं पद्मपत्रोज्ज्वलं जलम् ॥ ३१ ॥
 
( उपगम्य ) भोः पुरुष ! प्राप्तोऽस्मि ।
 
घटोत्कचः - भवानि दानिं खल्वसि मध्यमः । मध्यम ! इत इतः ।
३ वृद्धः–( भीमसेनमुपगम्य ) भो मध्यम ! परित्रायस्व ब्राह्मणकुलम् ।
भीमः - न भेतव्यम् न भेतव्यम् । मध्यमोऽहमभिवादये ।
वृद्ध: - वायुरिव दीर्घायुर्भव ।
 
६ भीमः - अनुगृहीतोऽस्मि । कुतो भयमार्यस्य ।
 
वृद्धः-श्रूयताम् । अहं खलु कुरुराजेन युधिष्ठिरेणाधिष्ठितपूर्वे
कुरुजाङ्गले यूपग्रामवास्तव्यो माठरसगोत्रश्च कल्पशाखाध्वर्युः
९ केशवदासो नाम ब्राह्मणः । तस्य ममोत्तरस्यां दिशि उद्यामकग्राम-
वासी मातुलः कौशिकसगोत्रो यज्ञबन्धुर्नामास्ति । तस्य पुत्रोपनय-
नार्थं सकलोऽस्मि प्रस्थितः ।
 
१२ भीमः - अरिष्टोऽस्तु पन्थाः । ततस्ततः ।
वृद्धः- ततो मामेष हि-
 
१. भवे । २. प्राप्तवान् इदानीं खल्वसि ।
 
१०