2026-01-21 14:25:15 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<verse lang="sa">तरुण ! तरुणानुरूपकान्ते !
नियमपराध्ययनप्रसक्तबुद्धे ! ।
कथमिव गजराजदन्तभग्न-
स्तरुरिव यास्यसि पुष्पितो विनाशम् ॥ २४ ॥</verse>

<speaker>घटोत्कचः -</speaker> चिरायते खलु ब्राह्मणबटुः । अतिक्रामति मातुराहार-
कालः । किंनु खलु करिष्ये । भवतु दृष्टम् । भो ब्राह्मण ! आहूयतां
तव पुत्रः ।

<speaker>वृद्ध: -</speaker> आः अतिराक्षसं खलु ते वचनम् ।

<speaker>घटोत्कचः-</speaker>कथं रुष्यति । मर्षयतु भवान्मर्षयतु । अयं मे प्रकृति-
दोषः । अथ किंनामा तव पुत्रः ।

<speaker>वृद्ध: - </speaker>एतदपि न शक्यं श्रोतुम् ।

<speaker>घटोत्कचः -</speaker> युक्तं भोः ! । ब्राह्मणकुमार ! किंनामा ते भ्राता ।

<speaker>प्रथमः-</speaker> तपस्वी मध्यमः ।

<speaker>घटोत्कचः -</speaker> मध्यम इति सदृशमस्य । अहमेवाह्वयामि । भो मध्यम !
मध्यम ! शीघ्रमागच्छ ।

<stage>(ततः प्रविति भीमसेनः । )</stage>

भीमः कस्यायं स्वरः ।

<pverse lang="sa">खगशतविरुते विरौति तारं
द्रुमगहने दृढसंकटे वनेऽस्मिन् ।
जनयति च मनोज्वरं स्वरोऽयं
बहुसदृशो हि धनंजयस्वरस्य<ref>१</ref> ॥ २५ ॥</pverse>

<speaker>घटोत्कचः - </speaker>चिरायते खलु ब्राह्मणबटुः । अतिक्रामति मातुराहार
कालः । किं नु खलु करिष्ये । भवतु दृष्टम् । उच्चैः शब्दापयामि ।
भो मध्यम ! शीघ्रमागच्छ ।

<footnote mark="१" lang="sa">धनंजयस्य शब्दः ।</footnote>
</page>
<verse lang="sa">तरुण ! तरुणानुरूपकान्ते !
नियमपराध्ययनप्रसक्तबुद्धे ! ।
कथमिव गजराजदन्तभग्न-
स्तरुरिव यास्यसि पुष्पितो विनाशम् ॥ २४ ॥</verse>

<speaker>घटोत्कचः -</speaker> चिरायते खलु ब्राह्मणबटुः । अतिक्रामति मातुराहार-
कालः । किंनु खलु करिष्ये । भवतु दृष्टम् । भो ब्राह्मण ! आहूयतां
तव पुत्रः ।

<speaker>वृद्ध: -</speaker> आः अतिराक्षसं खलु ते वचनम् ।

<speaker>घटोत्कचः-</speaker>कथं रुष्यति । मर्षयतु भवान्मर्षयतु । अयं मे प्रकृति-
दोषः । अथ किंनामा तव पुत्रः ।

<speaker>वृद्ध: - </speaker>एतदपि न शक्यं श्रोतुम् ।

<speaker>घटोत्कचः -</speaker> युक्तं भोः ! । ब्राह्मणकुमार ! किंनामा ते भ्राता ।

<speaker>प्रथमः-</speaker> तपस्वी मध्यमः ।

<speaker>घटोत्कचः -</speaker> मध्यम इति सदृशमस्य । अहमेवाह्वयामि । भो मध्यम !
मध्यम ! शीघ्रमागच्छ ।

<stage>(ततः प्रविति भीमसेनः । )</stage>

भीमः कस्यायं स्वरः ।

द्रुमगहने दृढसंकटे वनेऽस्मिन् ।
जनयति च मनोज्वरं स्वरोऽयं
बहुसदृशो हि धनंजयस्वरस्य<ref>१</ref> ॥ २५ ॥</