This page has been fully proofread once and needs a second look.

४२८

मध्यमव्यायोगे

<page>
<verse lang="sa">
तरुण ! तरुणानुरूपकान्ते !

नियमपराध्ययनप्रसक्तबुद्धे ! ।

कथमिव गजराजदन्तभग्न-

स्तरुरिव यास्यसि पुष्पितो विनाशम् ॥ २४ ॥

[i. 24. -

</verse>

<speaker>
घटोत्कचः -</speaker> चिरायते खलु ब्राह्मणबटुः । अतिक्रामति मातुराहार-

कालः । किंनु खलु करिष्ये । भवतु दृष्टम् । भो ब्राह्मण ! आहूयतां

तव पुत्रः ।

<speaker>
वृद्ध: -</speaker> आः अतिराक्षसं खलु ते वचनम् ।

<speaker>
घटोत्कचः-</speaker>कथं रुष्यति । मर्षयतु भवान्मर्षयतु । अयं मे प्रकृति -

दोषः । अथ किंनामा तव पुत्रः ।

१२

<speaker>
वृद्ध: - </speaker>एतदपि न शक्यं श्रोतुम् ।

<speaker>
घटोत्कचः -</speaker> युक्तं भोः ! । ब्राह्मणकुमार ! किंनामा ते भ्राता ।

<speaker>
प्रथमः-</speaker> तपस्वी मध्यमः ।

<speaker>
घटोत्कचः -</speaker> मध्यम इति सदृशमस्य । अहमेवाह्वयामि । भो मध्यम !

मध्यम ! शीघ्रमागच्छ ।

<stage>
(ततः प्रविति भीमसेनः । )

</stage>

भीमः कस्यायं स्वरः ।

खगशतविरुते विरौति तारं

द्रुमगहने दृढसंकटे वनेऽस्मिन् ।

जनयति च मनोज्वरं स्वरोऽयं

बहुसदृशो हि धनंजयस्वरस्य<ref>१</ref> ॥ २५ ॥

<speaker>
घटोत्कचः - </speaker>चिरायते खलु ब्राह्मणबटुः । अतिक्रामति मातुराहार

कालः । किं नु खलु करिष्ये । भवतु दृष्टम् । उच्चैः शब्दापयामि ।

भो मध्यम ! शीघ्रमागच्छ ।

<footnote mark="
. " lang="sa">धनंजयस्य शब्दः ।

</footnote>
</page>