This page has not been fully proofread.

४२८
 
मध्यमव्यायोगे
 
तरुण ! तरुणानुरूपकान्ते !
नियमपराध्ययनप्रसक्तबुद्धे ! ।
 
कथमिव गजराजदन्तभग्न-
 
स्तरुरिव यास्यसि पुष्पितो विनाशम् ॥ २४ ॥
 
[i. 24. -
 
घटोत्कचः - चिरायते खलु ब्राह्मणबटुः । अतिक्रामति मातुराहार-
कालः । किंनु खलु करिष्ये । भवतु दृष्टम् । भो ब्राह्मण ! आहूयतां
३ तव पुत्रः ।
 
वृद्ध: - आः अतिराक्षसं खलु ते वचनम् ।
 
घटोत्कचः-कथं रुष्यति । मर्षयतु भवान्मर्षयतु । अयं मे प्रकृति -
६ दोषः । अथ किंनामा तव पुत्रः ।
 
१२
 
वृद्ध: - एतदपि न शक्यं श्रोतुम् ।
 
घटोत्कचः - युक्तं भोः ! । ब्राह्मणकुमार ! किंनामा ते भ्राता ।
९ प्रथमः- तपस्वी मध्यमः ।
 
घटोत्कचः - मध्यम इति सदृशमस्य । अहमेवाह्वयामि । भो मध्यम !
मध्यम ! शीघ्रमागच्छ ।
 
(ततः प्रविति भीमसेनः । )
 
भीमः कस्यायं स्वरः ।
 
खगशतविरुते विरौति तारं
 
द्रुमगहने दृढसंकटे वनेऽस्मिन् ।
 
जनयति च मनोज्वरं स्वरोऽयं
 
बहुसदृशो हि धनंजयस्वरस्य ॥ २५ ॥
 
घटोत्कचः - चिरायते खलु ब्राह्मणबटुः । अतिक्रामति मातुराहार
कालः । किं नु खलु करिष्ये । भवतु दृष्टम् । उच्चैः शब्दापयामि ।
३ भो मध्यम ! शीघ्रमागच्छ ।
 
१. धनंजयस्य शब्दः ।