This page has been fully proofread once and needs a second look.

<page>

<speaker>प्रथमः- </speaker>भोस्तात ! ब्रवीमि खलु तावत्किंचित् ।

<speaker>वृद्धः - </speaker>ब्रूहि ब्रूहि शीघ्रम् ।

<speaker>प्रथमः-</speaker>

<pverse lang="sa">मम प्राणैर्गुरुप्राणानिच्छामि परिरक्षितुम् ।
रक्षणार्थं कुलस्यास्य मोक्तुमर्हति मां भवान् ॥ १६ ॥</pverse>

<speaker>द्वितीयः - </speaker>आर्य ! मा मैवम् ।

<pverse lang="sa">ज्येष्ठः श्रेष्ठः कुले लोके पितॄणां च सुसंप्रियः ।
ततोऽहमेव यास्यामि गुरुवृत्तिमनुस्मरन् ॥ १७ ॥</pverse>

<speaker>तृतीयः - </speaker>आर्यौ ! मा मैवम् ।

<verse lang="sa">ज्येष्ठो भ्राता पितृसमः कथितो ब्रह्मवादिभिः।
ततोऽहं कर्तुमस्म्यर्हो गुरूणां प्राणरक्षणम् ॥ १८ ॥</verse>

<speaker>प्रथमः- </speaker>वत्स ! मा मैवम् ।

<pverse lang="sa">आपदं हि पिता प्राप्तो ज्येष्ठपुत्रेण ता<ref>२</ref>र्यते ।
ततोऽहमेव यास्यामि गुरूणां प्राणरक्षणात् ॥ १९ ॥</pverse>

<speaker>वृद्धः -</speaker> ज्येष्ठमिष्टतमं न शक्नोमि परित्यक्तुम् ।

<speaker>ब्राह्मणी -</speaker>जह अय्यो ज्येष्ठमिच्छदि तह अहं पि कणिट्ठमिच्छामि ।
<chaya>[ यथार्यो ज्येष्ठमिच्छति तथाहमपि कनिष्ठमिच्छामि । ]</chaya>

<speaker>द्वितीयः -</speaker> पित्रोरनिष्टः कस्येदानीं प्रियः ।

<speaker>घटोत्कचः - </speaker>अहं प्रीतोऽस्मि । शीघ्रमागच्छ ।

<verse lang="sa"><speaker>द्वितीयः- </speaker>धन्योऽस्मि यद् गुरुप्राणाः स्वैः प्राणैः परिरक्षिताः ।
बन्धुस्नेहाद्धि महतः का<ref>३</ref>यस्नेहस्तु दुर्लभः ॥ २० ॥</verse>

<speaker>घटोत्कचः-</speaker> अहो स्वजनवात्सल्यमस्य ब्राह्मणबटोः ।

<speaker>द्वितीयः -</speaker> भोस्तात ! अभिवादये ।

<footnote mark="१" lang="sa">'मनुस्मर ।</footnote>
<footnote mark="२">धार्यते ।</footnote>
<footnote mark="३">कालस्नेहस्तु ।</footnote>
</page>