This page has been fully proofread once and needs a second look.

४२६

मध्यमव्यायोगे

<page>

<speaker>
प्रथमः- </speaker>भोस्तात ! ब्रवीमि खलु तावत्किंचित् ।

<speaker>
वृद्धः - </speaker>ब्रूहि ब्रूहि शीघ्रम् ।

<speaker>
प्रथमः

11

[i. 15.8_

-</speaker>

मम प्राणैर्गुरुप्राणानिच्छामि परिरक्षितुम् ।

रक्षणार्थं कुलस्यास्य मोक्तुमर्हति मां भवान् ॥ १६॥

<speaker>
द्वितीयः - </speaker>आर्य ! मा मैवम् ।

ज्येष्ठः श्रेष्ठः कुले लोके पितॄणां च सुसंप्रियः ।

ततोऽहमेव यास्यामि गुरुवृत्तिमनुस्मरन् ॥ १७ ॥

<speaker>
तृतीयः - </speaker>र्यौ ! मा मैवम् ।

<verse lang="sa">
ज्येष्ठो भ्राता पितृसमः कथितो ब्रह्मवादिभिः।

ततोऽहं कर्तुमभ्स्म्यर्हो गुरूणां प्राणरक्षणम् ॥ १८ ॥

</verse>

<speaker>
प्रथमः- </speaker>वत्स ! मा मैवम् ।

आपदं हि पिता प्राप्तो ज्येष्ठपुत्रेण ता<ref>२</ref>र्यते ।

ततोऽहमेव याम्स्यामि गुरूणां प्राणरक्षणात् ॥ १९ ॥

<speaker>
वृद्धः -</speaker> ज्येष्ठमिष्टतमं न शक्नोमि परित्यक्तुम् ।

<speaker>
ब्राह्मणी -</speaker>जह अय्यो ज्येष्ठमिच्छदि तह अहं पि कणिटुट्ठमिच्छामि ।

<chaya>
[ यथार्थीयो ज्येष्मिच्छति तथाहमपि कनिष्ठमिच्छामि । ]
</chaya>

<speaker>
द्वितीयः -</speaker> पित्रोरनिष्टः कस्येदानीं प्रियः ।

<speaker>
घटोत्कचः - </speaker>अहं प्रीतोऽस्मि । शीघ्रमागच्छ ।

<verse lang="sa"><speaker>
द्वितीयः- </speaker>धन्योऽस्मि यद् गुरुप्राणाः स्वैः प्राणैः परिरक्षिताः ।

बन्धुस्नेहाद्धि महतः काँका<ref>३</ref>यस्नेहस्तु दुर्लभः ॥ २० ॥

</verse>

<speaker>
घटोत्कचः-</speaker> अहो स्वजनवात्सल्यमस्य ब्राह्मणबटोः ।

<speaker>
द्वितीयः -</speaker> भोस्तात ! अभिवादये ।

<footnote mark="
. '" lang="sa">'मनुस्मर । </footnote>
<footnote mark="
. ">धार्यते । </footnote>
<footnote mark="
. ">कालस्नेहस्तु ।

</footnote>
</page>