2025-12-29 10:00:50 by ambuda-bot
This page has not been fully proofread.
४२६
मध्यमव्यायोगे
प्रथमः- भोस्तात ! ब्रवीमि खलु तावत्किंचित् ।
९ वृद्धः - ब्रूहि ब्रूहि शीघ्रम् ।
प्रथमः
11
[i. 15.8_
मम प्राणैर्गुरुप्राणानिच्छामि परिरक्षितुम् ।
रक्षणार्थं कुलस्यास्य मोक्तुमर्हति मां भवान् ॥ १६॥
द्वितीयः - आर्य ! मा मैवम् ।
ज्येष्ठः श्रेष्ठः कुले लोके पितॄणां च सुसंप्रियः ।
ततोऽहमेव यास्यामि गुरुवृत्तिमनुस्मरन् ॥ १७ ॥
तृतीयः - आय ! मा मैवम् ।
ज्येष्ठो भ्राता पितृसमः कथितो ब्रह्मवादिभिः।
ततोऽहं कर्तुमभ्यर्हो गुरूणां प्राणरक्षणम् ॥ १८ ॥
प्रथमः- वत्स ! मा मैवम् ।
आपदं हि पिता प्राप्तो ज्येष्ठपुत्रेण तार्यते ।
ततोऽहमेव याम्यामि गुरूणां प्राणरक्षणात् ॥ १९ ॥
वृद्धः - ज्येष्ठमिष्टतमं न शक्नोमि परित्यक्तुम् ।
ब्राह्मणी -जह अय्यो ज्येष्ठमिच्छदि तह अहं पि कणिटुमिच्छामि ।
३ [ यथार्थी ज्येष्टमिच्छति तथाहमपि कनिष्ठमिच्छामि । ]
द्वितीयः - पित्रोरनिष्टः कस्येदानीं प्रियः ।
घटोत्कचः - अहं प्रीतोऽस्मि । शीघ्रमागच्छ ।
द्वितीयः- धन्योऽस्मि यद् गुरुप्राणाः स्वैः प्राणैः परिरक्षिताः ।
बन्धुस्नेहाद्धि महतः काँयस्नेहस्तु दुर्लभः ॥ २० ॥
घटोत्कचः- अहो स्वजनवात्सल्यमस्य ब्राह्मणबटोः ।
द्वितीयः - भोस्तात ! अभिवादये ।
१. 'मनुस्मर । २. धार्यते । ३. कालस्नेहस्तु ।